SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ SISUSULUHISHOSHOG अत्युग्रञ्च तपस्तत्वा, षड्भिर्मासैः सुरोऽभवत् ॥ २६ ॥ इतश्चानेकवृक्षौघ-पतत्कुसुमसङ्गमात् ॥ षण्मास्या सा सुरा 8 कुण्ड-स्थिता पक्करसाऽभवत् ॥ २७ ॥ तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन् वने ॥ तत्र यातस्तृषाक्रान्तः, पपौ तां मदिरां मुदा ॥ २८ ॥ मुदितस्तेन मधेन, भृत्वा पार्थस्थितां दृतिम् ॥ ददौ शाम्बाय तत्पीत्वा, तुष्टः शा*म्बोऽपि तं जगौ ॥ २९ ॥ प्राप्तं हृद्यमिदं मद्य-मद्य कुत्र ? त्वया सखे ! ॥ कादम्बरीकन्दराया-मवापमिति सोऽ प्यवक् ॥ ३०॥ कुमारैः सह दुर्दान्त-स्ततः शाम्बोऽपरेऽहनि ॥ गुहां कादम्बरीं गत्वा, मुदितस्तां सुरां पपौ॥३१॥ बहोः कालादधिगता, यावत्तृप्ति निपीय ताम् ॥ उन्मत्ता गिरिमारोहन् , क्रीडन्तस्ते कुमारकाः ॥ ३२ ॥ तत्र द्वैपा-3 टू यनं ध्यान-स्थितमातापनापरम् ॥ वीक्ष्येति ते मिथःप्रोचु-मद्योन्मादवशंवदाः! ॥ ३३ ॥ अयं हि नेमिना प्रोक्तो ऽस्मत्पुरीकुलनाशकः!॥ तद्धन्यतां हतो ह्येष, कथं हन्ता पुरीकुले ! ॥ ३४ ॥ वदन्त इति ते सर्वे, चपेटायष्टिमु|ष्टिभिः ॥ निजघ्नुः पादघातैश्च, द्वैपायनमुनिं मुहुः॥ ३५॥ इत्थं हत्वा मृतप्राय, विधाय धरणीतले ॥ पातयित्वा |च ते जग्मुः, कुमारा द्वारकापुरीम् ॥ ३६॥ तद्विज्ञाय चरैर्विष्णु-विषण्णो ध्यातवानिति ॥ अहो ! एषां कुमाराणां मनर्थकृत् ! ॥ ३७ ॥ अथैषां प्राणभूताना, किं करोमीति चिन्तयन् ? ॥ द्वैपायनमनुनेतुं, तत्रागात्सबलो हरिः!॥ ३८॥ तचापश्यत्परिव्राजं, कोपारुणविलोचनम् ॥ ततस्तत्कोपशान्त्यर्थ- मभ्यधादिति माधवः ॥ ३९॥ भो महातापस ! क्रोधः, परत्रात्र च दुःखदः ॥ नैवातः कापि कुप्यन्ति, महासत्त्वा दमेरताः ॥ ४०॥ मद्योन्मादा-15
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy