SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ गच्छास्मन्निकेतनम् ॥२१॥ मूलदेवोऽवदत्कुब्जे!, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशा-| लिनाम् ॥ २२॥ यदुक्तं-“या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि| |दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ २३ ॥” तेनेत्युक्ताऽपि सा चाटु-शतैरावय॑ तं भृशम् ॥ सनिर्वन्धं करे धृत्वा-ऽचीचलन्निलयं प्रति ॥ २४ ॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् ॥ कलायाः कौशलाविद्या-प्रयोगाच व्यधादृजुम् ॥ २५॥ ततस्सविस्मयानन्दा, सा तं प्रावीविशद्हे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ २६ ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्य-2 वीविशत् ॥ २७ ॥ ततस्तया कुजिकया, दर्शयन्त्या निजं वपुः॥प्रोक्ते तचेष्टिते देव-दत्ता देवं विवेद तम् ॥२८॥ वैदग्ध्यगभैरालापैः, कुर्वन् गोष्टी तया समम् ॥ मूलदेवो मनस्तस्याः, खवशं विदधे द्रुतम् ॥ २९ ॥ यतः-"अणु-1 णयकुसलं परिहा-सपेसलं लडहवाणिदुललिअं॥ आलवणंपि हु.च्छेआ-ण कम्मणं किं च मूलीहिं ? ॥३०॥” अथैको । वैणिकस्तत्रा-ऽऽययौ वीणाविशारदः॥ आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥ ३१ ॥ तामाकर्ण्य प्रमुदिता, देवदत्तवमब्रवीत् ॥ साधु साधु त्वया वीणा, वादिता वरवैणिक !॥ ३२॥ स्मित्वाऽथ वामनः प्रोचे-ऽवन्तीलोकोऽखिलोप्यहो ॥ शुभाशुभविभागं द्राग , वेत्ति कामं विचक्षणः ! ॥ ३३ ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ? ॥ ३४ ॥ सोऽवादीकिमपि न्यूनं, वर्तते न भवादृशाम् ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy