SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मुलुकवत् ॥ ३२ ॥ आदाय में स्मादुपसर्गाचे- दद्यमोक्षो भवेन्मम ॥ तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः !॥ २८ ॥ इत्थं निगद्य साकाराऽनशनं प्रतिपद्य च ॥ स्मरन् पञ्च नमस्कारान् , कायोत्सर्ग चकार सः॥ २९ ॥ सद्यः सुदर्शनाभ्यर्ण-मायासीदर्जुनोऽप्यथ ॥ नाशकत्तमुपद्रोतुं, किन्तु धर्मप्रभावतः ॥ ३० ॥ ततस्तं परितोऽभ्राम्य-दलवानर्जुनोऽधिकम् ॥ शशाक शशकं सिंह-मिव नाक्रमितुं पुनः ॥ ३१ ॥ भ्रामं भ्राममविश्राम, यक्षः श्रान्तोऽभवत्ततः॥ न तु तं द्रष्टुमैशिष्ट, दुई-18 याऽर्कमुलूकवत् ॥३२॥ आदाय मुद्दरं मुक्त्वा-ऽर्जुनं यक्षोऽगमत्ततः॥ अपि देवबलाद्धर्म-बलमेव विशिष्यते ! ॥ ३३ ॥ मुक्तस्तेनार्जुनः पृथ्व्यां, पपात च्छिन्नशाखिवत् ॥ उत्तस्थौ च क्षणादङ्ग, मोटयन् गतनिद्रवत् ॥ ३४ ॥ किमकार्ष ? क स्थितोऽस्मि ?, का दशा मम विद्यते ! ॥ इति स ज्ञातवान्नैव, निद्रावस्थानुभूतवत् ॥ ३५ ॥ प्राक्षीत्खखरूपं, कृतोत्सर्ग सुदर्शनम् ॥ उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ॥ ३६ ॥ सर्व तत्पूर्ववृत्तान्तं, तस्मै सम्यग् जगाद च ॥ तच्छ्रुत्वा जातनिर्वेदो-ऽर्जुनश्चिन्तितवानिति ॥ ३७॥ अहो ! अज्ञानिना घोरं, कर्मेदं नरक प्रदम् ! ॥ मया कृतमिति ध्यायन् , सोऽपृच्छदिति तं पुनः ॥ ३८ ॥ किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुददर्शन ! ॥ सोऽभ्यधाच्छ्रीमहावीरं, वन्दनार्थं व्रजाम्यहम् ॥ ३९ ॥ तच्छ्रुत्वेत्यर्जुनोऽवादी-इन्दितुं परमेश्वरम् ॥ अह-18 मप्यागमिष्यामि, त्वया सह महामते!॥४०॥ ततस्तेन समं हृष्टः, श्रीमहावीरसन्निधौ ॥ अगात्सुदर्शनः खामिदर्शनोत्सुकदर्शनः ॥४१॥ श्रीवर्द्धमानतीर्थेश-पादपद्मौ प्रणम्य तौ ॥ सम्यकू शुश्रुवतुर्धर्म-देशनां क्लेशनाशिनीम्
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy