SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ॥ ५७॥ ॥ १३॥ यदि चात्र भवेद्यक्ष-स्तदासौ मां खसेवकम् ॥ नैवेदानीमुपेक्षेत, पीड्यमानमनाथवत् ॥ १४ ॥ ध्यायन्त- मिति तं ज्ञात्वा, यक्षस्तदनुकम्पया ॥ प्रविवेशाशु तस्याङ्गे-ऽछिदत्तद्वंधनानि च ॥ १५॥ सहस्रपलनिष्पन्नं, गृहीत्वा | लोहमुद्गरम् ॥ तान्नारीसप्तमान् गोष्ठी-पुरुषान् षट् जघान च ॥ १६ ॥ इत्थं प्रतिदिनं नारी-सप्तमान् मानवान् स षट् ॥ जघान सतताभ्यासा-ड्रामं भ्रामं पुराबहिः ॥ १७ ॥ तज्ज्ञात्वा पूर्जनः सर्व-स्तावन्न निरगाबहिः ॥ यावत्तेन हता न स्युः, षट् नारीसप्तमा नराः ॥ १८ ॥ अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् ॥ नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ॥ १९ ॥ तदा तत्पुवास्तव्यः, श्रुत्वा श्रीमजिनागमम् ॥ एवं सुदर्शनः श्रेष्ठी, दध्यौ हर्षोच्छृसत्तनुः ॥ २० ॥ अहो! जगजनाम्भोजप्रबोधननभोमणिम् ॥ श्रीवीरमपि नन्तुं नो, यात्सर्जुनभयाजनः॥२१॥ जिनस्य विश्वत्रितय-त्रायिणो ध्यायिनं जनम् ॥ हन्तुमीष्टे न हीन्द्रोऽपि, तजनोऽयं बिभेति किम् ? ॥ २२ ॥ यद्भाव्यं तद्भवतु वा, खामिनं किन्तु वन्दितुम् ॥ यास्याम्येवेति स ध्यात्वा, निरगानगराबहिः ॥२३॥ अर्जुनोऽपि दधावे द्राग्, वीक्ष्यायान्तं सुदर्शनम् ॥ उल्लालयन् मुद्रं तं, पुष्पकन्दुकलीलया॥२४॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् ॥ वीक्ष्येति व्यमृशद्वयं-स्थैर्य सुदर्शनः ॥ २५ ॥ अयं मुद्गरपाणिमा, हन्तुमायाति मालिकः॥ तदात्मकृत्यं कुर्वेह-मेवं ध्यात्वति सोऽब्रवीत् | ॥ २६ ॥ अर्हत्सिद्धमुनीन् जैनं, धर्म च जगदुत्तमम् ॥ शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ॥ २७ ॥ किञ्चा ॥५७॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy