________________
“अथद्वितीयमध्ययनम्”
॥ अर्हम् ॥ व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च स्वस्थावस्थैः परीषहार्त्तेश्च विधेय एव, अथ के नामैते परीपहाः ? इति जिज्ञासायां तत्स्वरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य परषहाध्ययन स्येदमादिसूत्रम् -
मूलम् -सुअं मे आउसं तेणं भगवया एवमरकायं, इह खलु बावीसं परीसहा, समणेणं भगवया महावीरेणं कासवेणं पवेइआ, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआ परिवयंतो पुट्ठो ण विहणेज्जा ॥ व्याख्या - श्रुतमाकर्णितं मे मया आयुष्मन्निति शिष्यामंत्रणं, इदञ्च सुधर्मस्वामी जम्बूखामिनं प्रत्याह, तेन जगत्रयप्रतीतेन भगवताऽष्टमहाप्रातिहार्यादिसमग्रैश्वर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितं किमाख्यातमित्याह, 'इह खलुत्ति' अन खलुशब्दस्य एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविं| शतिः परीषहाः सन्तीति गम्यते, यदिवा 'आउसंतेणंति' मया इत्यस्य विशेषणं कार्य, ततश्च आवसता आगमोक्त - मर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावज्जीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च -
*%* 4 4 4 4