SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२५७॥ ६ मूलम् जहा से तिमिरविद्धंसे, उत्तिहँते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सुए ॥२४॥ एकादशम| व्याख्या- यथा स तिमिरविध्वंसस्तम स्तोमविनाशकः उत्तिष्ठन्नद्रच्छन् दिवाकरः सूर्यः, स हि ऊर्द्ध नभोभा-2 ध्ययनम् गमाक्रामन् भृशं तेजसितां भजते न त्ववतरन्नित्येवं विशिष्यते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा महसा, एवं | (११) भवति बहुश्रुतः । सोपि हि अज्ञानधान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा गा २४-२६ ज्वलन्निव भवतीति सूत्रार्थः ॥ २४॥ मूलम्-जहा से उडुवइ चंदे, नक्खत्तपरिवारिए। पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए॥२५॥ __ व्याख्या-यथा स पौर्णमास्याः पूर्णिमायाः उडुपतिनक्षत्राधिपश्चन्द्रो नक्षत्रैरश्चिन्यादिभिरुपलक्षणत्वाग्रहतारकाभिश्च परिवारितः, पतिरपि कश्चिदेकाक्येव स्यान्मृगपतिवदिति उडुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, प्रतिपूर्णः सकलकलाकलितः, एवं भवति बहुश्रुतः । सोपि नक्षत्रकल्पानां साधूनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ॥ २५॥ मूलम्-जहा से सामाइआणं, कोटागारे सुरक्खिए।नाणाधनपडिपुण्णे, एवं भवइ बहुस्सुए॥२६॥ ॥२५७॥ 5 व्याख्या-यथा स 'सामाइआणंति' समाज समूहं समवयन्तीति सामाजिकाः समूहवृत्तयो लोकास्तेषां कोष्ठा गारो धान्याश्रयः सुष्ठ प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितश्चौरमूषकादिभ्य इति सुरक्षितः, नाना अनेकप्रका
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy