SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २४७ ॥ ३ ६ १२ व्याख्या - धर्म प्रस्तावात्सर्वज्ञोक्तं, अपिर्भिन्नक्रमः, दुर्वाक्यालङ्कारे, ततः 'सद्दहंतयत्ति' श्रद्दधतोपि कर्तुमभिलपतोपि दुर्लभकाः कायेन अङ्गेन स्पर्शकाः कर्त्तारः, हेतुमाह - इह जगति कामगुणेषु शब्दादिषु मूर्च्छिता गृद्धा जन्तव इति शेषः, प्रायेण हि रोगिणामपथ्यमिवाहितकारिणोप्यनुकूला विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ॥ २० ॥ किञ्च सति देहसामर्थ्य धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रपट्केनाह मूलम् - परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सोअबले अ हायइ, समयं गोअम मा पमाय ए २१ व्याख्या -- परिजीर्यति सर्वप्रकारैर्वयोहानिमनुभवति ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प्यमिति शरीरकं । केशाः पाण्डुरकाः, पूर्व जनमनोनयनहारिणोत्यन्तं श्यामा अपि भूत्वा साम्प्रतं वयः परिणामात् शुक्ला भवन्ति ते तव पुनस्ते शब्दोपादानं भिन्नवाक्यत्वाददुष्टं । तथा 'से इति' तत् यत् पूर्वमभूत् श्रोत्रबलं कर्णबलं दूरादपि शब्दोपादानरूपं, चः समुच्चये, हीयते जरातः स्वयमपैति । अतः शारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् २१ मूलम् - परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से चक्खुब ले अ हायई, समयं गोअम मा पमायए २२ | मूलम् - परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से घाणबले अ हायई, समयं गोअम मा पमायए २३ दशमाध्ययनम् (१०) गा २१-२३ ॥ २४७ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy