________________
+
KAMANASSACROS
सूनृताऽभवत् ? ॥ १३८ ॥ कृष्णोऽथ सर्ववृत्तान्तं, यथाजातमऽभाषत ॥ ततः शोकाग्निसन्तप्तः, प्रोवाचैवं जरासुतः ! ॥ १३९ ॥ आतिथ्यं भ्रातुरतिथेः, पापेनाऽदः कृतं मया ॥ हा!क गच्छाम्यहं खास्थ्य-मवाप्स्यामि व वा गतः? ॥ १४० ॥ दुर्दशाम्भोधिमग्नस्य, भ्रातुर्भ्रातृहितस्य ते ॥ घातकोऽहं न हि स्थानं, प्राप्स्यामि नरकेष्वपि ! ॥१४१॥ अहं तवैव रक्षाये, वनवासमशिश्रियम् ! ॥ त्वमप्यत्रैव दुर्दैवे-नाऽऽनीतस्तत्करोमि किम् ? ॥१४२॥ भूत्वा श्रीवसुदेवस्य, सुतस्तव च सोदरः॥ किमकार्षमिदं कर्म, श्वपचैरपि गहितम् ! ॥१४३॥ विधे ! विधेहि करुणां, द्रुतं मामपि मारय ॥ नाऽऽस्यं पापस्य पश्येन्मे, भ्रातृहन्तुर्यथा जनः !॥ १४४ ॥ प्रसद्य सद्यो मातमें, देहि मार्ग वसुन्धरे ! ॥ पश्चादपि हि गन्तव्ये, श्वभ्रे याम्यधुनैव यत् ! ॥१४५ ॥ यद्वा नेमिवचः श्रुत्वा-उमरिष्यं चेत्तदैव हि ॥ भ्रातृहत्या महापाप-मलगिष्यत्तदा न मे ! ॥ १४६ ॥ मुकुन्दोऽथ तमित्यूचे, भ्रातः! खेदममुं त्यज ॥ भवितव्यं भवत्येव, किं तत्र परिदेवनैः ॥ १४७॥ तत्कौस्तुभमभिज्ञानं, लात्वा मे याहि पाण्डवान् ॥ वाती ममाखिलां ब्रूया-स्तेषां स्नेहलचेतसाम् ॥ १४८ ॥ द्रौपद्यानयने जात-मपराधं च मद्विरा ॥ त्वं तेषां क्षमयेः सन्तु, ते ते साहाय्यदायिनः ! ॥ १४९॥ यदुष्वेकस्त्वमेवाऽसि, जीवंस्तद्गच्छ सत्वरम् ॥ अन्यथा मद्वधक्रोधा-द्रामस्त्वां मारयिष्यति ! ॥ १५०॥ भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः॥ अगात्कौस्तुभमादाया-ऽऽकृष्य कृष्णक्रमाच्छरम् ॥ १५१॥ गते च तस्मिन् कृष्णोऽपि, शरघातव्यथातुरः॥ उत्तराभिमुखो धीरः, प्रोवाचेति कृताअलिः ॥ १५२ ॥ अर्हत्सिद्धसदाचा