SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३०९॥ | चतुर्दशमध्य यनम् (१४) गा३२-३३ मूलम्-भुत्ता रसा भोइ ! जहाइ णे वओ, न जीविअट्टाए जहामि भोए। लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ॥ ३२॥ व्याख्या-भुक्ताः सेविता रसा उपलक्षणत्वाच्छेषकामगुणाश्च 'भोइत्ति' हे भवति ! ब्राह्मण्या आमंत्रणमेतत् , जहाति त्यजति नोऽस्मान् वयः, प्रक्रमादिष्टक्रियाकरणक्षम, उपलक्षणत्वाज्जीवितं च, ततो यावत्तन्न त्यजति तावत्प्रबजाम इति भावः। दीक्षां हि भवान्तरभाविभोगार्थ गृह्णासि ते चाधुनापि सन्त्येव तत्किं तयेति प्रेरणायामाहनजीवितार्थमसंयमजीवितहेतोः प्रजहामि भोगान् किन्तु लाभमलाभं सुखं चस्य भिन्नक्रमाहुःखं च 'संविक्खमाणोत्ति' समतया ईक्षमाणः, लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन्निति भावः, चरिष्यामि मौनं मुनिभावं, ततो मुक्त्यर्थमेव मे दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२ ॥ यशा प्राह-- मूलम्—मा हु तुमं सोअरिआण संभरे, जुण्णोब हंसो पडिसोअगामी। भुंजाहि भोगाइं मए समाणं, दुक्खं खु भिक्खायरिआ विहारो॥ ३३॥ व्याख्या-मा निषेधे, हुर्वाक्यालङ्कारे, त्वं सौदर्याणां भ्रातृणामुपलक्षणत्वाच्छेपखजनानां भोगानां च 'संभरेत्ति' स्मार्षीः 'जुण्णोच हंसोत्ति' जीर्णो हंस इव प्रतिश्रोतोगामी सन् , अयं भावः-यथासौ नदीस्रोतसि प्रतिकूलगमन २१
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy