SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ *शावं, जग्राह गलकन्दले ॥ सोऽर्भकोऽपि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ॥ २७ ॥ अस्यामटव्यां भीमायां, विभ्य चौराद्युपद्रवात् ॥ पृथ्वीकायिकसंज्ञोऽह-मस्मि त्वां शरणं श्रितः ॥ २८ ॥ अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च | शाश्वती ॥ यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! ॥ २९ ॥ बालं मां दीनतां प्राप्त, पाहि पाहि प्रभो! ततः। तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ! ॥ ३०॥ यतः-" विहलं जो अवलंबइ, आवइपडिअंच जो समुद्धरइ ॥ सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ॥३१॥” इत्याधुक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् ॥ यावन्मोटयितुं लग्न-स्तावच्छावः पुनर्जगौ ॥ ३२ ॥ भगवन्नेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् ॥ सूरिजंगाद तद्रूहि, सोप्याख्यत् श्रूयतामिति ॥३३॥ | ग्रामे क्वापि कलालोऽभ-त्स चान्येद्यर्मदं खनन ॥ आक्रान्तः पतता खानि-तटेनेति वचोऽवदत ॥ ३४॥ यत्प्रसादाद्वलिं भिक्षां, ददे ज्ञातींश्च पोषये ॥ साऽप्याऽऽक्रामति भूमिर्मा, तजातं शरणाद्भयम् ! ॥३५॥ यथा ह्याजीविकामुख्य-सौख्यार्थी पृथिवीं श्रितः ॥ वराक कुम्भकारोऽयं, तयैवोपहृतो द्रुतम् ! ॥ ३६ ॥ भगवन्नहमप्येवं, भीतस्त्वां शरणं श्रितः ॥ त्वं च मुष्णासि मां तद्भी-र्ममापि शरणादभूत् ! ॥ ३७॥ तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः ॥ तद्भषणानि जग्राह, निजग्राह च तां शिशुम् ! ॥ ३८॥ तानशेषानलङ्कारा-नक्षिपत्वप्रतिग्रहे ॥ व्रताद्धष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् !॥ ३९॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy