________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥१४७॥
यतः !॥२९॥ कुमारोऽपि वचस्तस्य, तत्तथा प्रत्यपद्यत ॥ ततस्तं सार्धमादाय, निजं धाम जगाम सः॥३०॥ भ्रातृव्योऽयं ममायात, इति पत्न्यै जगाद च ॥ जननीमिव तां भक्त्या, कुमारोप्यनमत्ततः॥३१॥ ततः सा नपयित्वा तं, भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ॥ ३२॥ इदं मदीयं तुरग-सदनस्यन्दनादिकम् ॥ खकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च ॥ ३३॥ ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोभवत् ॥ ३४ ॥ विनयामृतवान् लोक-कैरवाणि प्रमोदयन् ॥ सोग्रहीदल्पकालेन, चन्द्रवत्सकलाः कलाः ॥ ३५॥ मा विस्मरन्त्विमा भूरि-भाग्यैर्लब्धा ममेति सः॥ कलापरिश्रमं चक्रे, गृहोद्यानगतोन्वहम् ! ॥ ३६॥ तस्योद्यानस्य पार्थे च, चारुवातायनाञ्चितम् ॥ अभूद्विशालमुत्तुङ्ग, श्रेष्ठस्य श्रेष्ठिनो गृहम् ॥ ३७ ॥ तत्र चासीत्सुता तस्य, नाम्ना मदनमंजरी ॥ सर्वधूगर्वसर्वख-सर्वकषवपुलता ॥ ३८ ॥ सा च नित्यं | गवाक्षस्था, तं ददर्श नृपाङ्गजम् ॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥ ३९ ॥राजाङ्गजस्तु नो सम्यक, तां मृगाक्षीमुदक्षत ॥ विद्याग्रहणलोभेन, गुरोराशङ्कया तथा ॥४०॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ॥४१॥ तदा त्वगडदत्तस्तां, सविशेषं निरीक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ॥ ४२ ॥ सम्पूर्णचन्द्रवदनां, विनिद्राम्भोजलोचनाम् ॥ वर्णकुम्भाभवक्षोजा, पल्लवाताम्रपाणिकाम् ॥ ४३ ॥ प्रादुर्भूतैर्वहिर्मूर्ते-रनुरागलवैरिव ॥ किङ्केल्लिपल्लवैश्छन्नां, मूर्तामिव वनश्रियम् ॥ ४४ ॥ लिप्तां
॥१४७॥