SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (२) ॥११७॥ पञ्चशती च ताम् ॥ प्रभुस्तस्मै ददौ शिष्य-तयामुख्यं विधाय तम् ॥९॥ सोऽन्यदा खामिनं नत्वा, पप्रच्छेति कृताञ्जलिः ॥ सतन्त्रोऽहं विभोऽन्यत्र, विहरामि त्वदाज्ञया ॥१०॥ लाभाभावात्प्रभुस्तस्मै, न ददौ किञ्चिदुत्तरम् ॥ अनिषिद्धं बनुमत-मिति मेने तदा स तु ॥ ११ ॥ निरगाच्च प्रभोः पार्था-द्विहर्तुं सपरिच्छदंः ॥ क्रमाच पुर्या श्रावस्त्यां, विहरन्नन्यदाऽगमत् ॥ १२ ॥ तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य कर्हिचित् ॥ अन्तप्रान्ताशनैर्दाघ-ज्वरः प्रादुरभून्महान् ॥१३॥ उपविष्टतया स्थातु-मक्षमः स ततो यतीन् ॥ इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ! |॥१४॥ ततः संस्तारकं कर्तु, प्रवृतान् जतिनो निजान् ॥ संस्तारकः कृतो नो वे-त्यपृच्छत्स मुहुर्मुहुः॥१५॥ संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते ॥ तैरित्युक्ते परिभ्रष्ट-सम्यक्त्वः स व्यचिन्तयत् ॥ १६ ॥'क्रियमाणं कृतमिति', जिनोक्तं सूनृतं कथम् ? ॥ संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः!॥ १७ ॥ तदध्यक्षविरुद्धत्वा-त्तन्न सङ्गतिमङ्गति ॥ विमृश्येत्यखिलान्साधू-नाहूयैवमभाषत ॥ १८ ॥ 'क्रियमाणैः कृतमिति', श्रीमहावीरभाषितम् ॥ मिथ्याध्यक्षविरुद्धत्वा-च्छैत्यं हुतभुजो यथा ! ॥ १९॥ न चाध्यक्षविरुद्धत्वं, तस्यासिद्धं भवेत्वचित् ॥ संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः ॥२०॥ निष्पद्यते क्षणव्यूहैर्यत्कार्यमपरापरैः ॥ तत्कथं कृतमित्याद्य-समयेऽपि निगद्यते ॥ २१॥ प्रारम्भेऽपि कृतं चेत्स्या-त्तदाऽन्यत्र क्षणबजे ॥ कृतस्यैव विधानेना-नवस्था स्थादनाहता! २२ ॥ सत्यप्येवं मन्यते चे-क्रियमाणं कृतं तदा ॥ घटादेरुपलम्भोऽस्तु, प्रारम्भक्षण एव हि ॥ २३॥ 'कृत ॥११७॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy