SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ६ १२ मूलम् - एअम निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंद इणमब्बवी ॥ २५ ॥ मूलम् - संसयं खलु सो कुणइ, जो मग्गे कुणइ घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुविज्ज सासयं ॥ २६॥ व्याख्या - संशयं सन्देहं खलु निश्चये स कुरुते यथा कदाचिन्मे गमनं न भवेदपीति यो मार्गे कुरुते गृहं गमननिश्चये हि तत्करणायोगात् । ननु गमननिश्चये कुतो मार्गे गृहं न क्रियते ? इत्याह-यत्रैव वाञ्छितप्रदेशे गन्तुमिच्छेतू 'तत्थेति' सावधारणत्वाद्वाक्यस्य तत्रैव कुर्वीत स्वस्यात्मना आश्रयः स्वाश्रयस्तं, ततोऽयमर्थः - इदं तावदिहावस्थानं मार्गावस्थानप्रायं तदिह गृहादि न क्रियते, यत्तु जिगमिषितमस्माभिर्मुक्तिपदं तदाश्रयविधाने च प्रवृत्ता एव वयमिति सिद्धसाधनमेतदपीति सूत्रार्थः ॥ २६ ॥ मूलम् -- एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ २७ ॥ मूलम् - आमोसे लोमहारे अ, गंठिभेए अ तक्करे । नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ ! २८ व्याख्या - आसमन्तात् मुष्णन्तीत्यामोपाश्चौरास्तान्, लोमहारा ये निर्दयतया स्वविघातशङ्कया च जन्तून् हत्वैव सर्वस्वं हरन्ति तांश्च, ग्रन्थिभेदा ये घुघुरककर्तिकादिना ग्रन्थि भिन्दन्ति तांश्थ, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! अनेन च यो न्यायी नृपः स चौरादीन्निगृह्णाति, न्यायी नृपश्च त्वमिति सूचितमिति सूत्रार्थः ॥ २८ ॥ नवमाध्ययनम् गा२५-२८
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy