SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ त्रयोदशमध्ययनम् गा२३-२४ ३ ASHRAICRORECRUARCAREERS * वा पिता वा भ्राता वा काले तस्मिन् जीवितान्तरूपे, अंशं प्रक्रमाजीवितस्य भागं धारयन्ति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ खजनसर्वखं हरति खधनदानात्वजनैस्तद्रक्ष्यते, नैवं खजीवितांशदानेन तज्जीवितं धार्यते इति भावः, ॥ २२ ॥ न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह मूलम् न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा । ___इक्को सयं पच्चणु होइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३ ॥ व्याख्या-न तस्य मृत्युना नीयमानस्य दुःखं शारीरं मानसं वा विभजन्ते विभागीकुर्वन्ति जातयो दरवर्तिनः खजनाः, न मित्रवर्गाः सुहृत्समूहाः, न सुताः पुत्राः, न बान्धवा निकटवर्तिनः खजनाः, किन्तु एकः खयं प्रत्यनुभवति वेदयते दुःखं, किमिति ? यतः कर्तारमेव अनुयाति कर्म ॥२३॥ इत्थमशरणभावनामुक्त्वा एकत्वभावनामाह मूलम्-चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धण्ण धन्नं च सवं । सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४ ॥ __ व्याख्या-त्यक्त्वा द्विपदं च भार्यादि, चतुष्पदं च हस्त्यादि, क्षेत्रमिभुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं च शाल्यादि सर्व, खकर्मैवात्मनो द्वितीयं यस्य स खकर्मात्मद्वितीयः, अवशोऽवतंत्रः, प्रयाति परमन्यं भवं जन्म सुन्दरं वर्गादिकं, पापकं वा नरकादिकं खकृतकर्मानुरूपमिति भावः ॥२४॥ अथ जीवत्यक्तशरीरस्य का वा”त्याह १२
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy