SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन चतुर्थमध्ययनम् (४) यामिन्याः प्रथमे यामे, रहस्तां दूतिकां प्रति ॥ प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ॥ १७५ ॥ सेनां 18 प्रस्थाप्य नृपभू- रथेनैकेन तिष्ठति ॥ कृते मदनमंजर्या-स्तत्तामानय सत्वरम् ॥ १७६ ॥ ततो गत्वा तया क्षिप्रं, ॥१५२॥ प्रोक्ता मदनमंजरी ॥ पार्थे भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सलीयुता ॥ १७७ ॥ सोपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः ॥ स्यन्दनेध्यारोपयत्ता-महो सर्वपाः स्त्रियः ! ॥ १७८ ॥ सोथ प्रेर्य हयान् पुर्या, निर्यातोऽनीकमागतः ॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥ १७९॥ गच्छन् प्रयाणैरच्छिन्न-देशमुलंध्य भूभृतः ॥ कुमारः पादपाकीणों, प्रापदेकां महाटवीम् ॥ १८० ॥ प्रमद्वरान्नरान् गर्जा-रवैर्जागरयन्निव ॥ धारासारभुवं सिञ्च-स्तदा चागाद्घनागमः ॥ १८१॥ ऋतौ तत्रापि रात्पुत्रः, पित्रोः सङ्गन्तुमुद्यतः॥न तस्थौ क्वापि चक्राङ्ग, इव मानसमन्तरा ॥ १८२ ॥ तत्रारण्ये व्रजत्तस्य, सैन्यं च बहु भिल्लवान् ॥ रुरोध कोपि भिल्लेशः, स्रोतोगमिवाचलः ॥ १८३ ॥ तद्भिलैः प्रबलैभिन्नं, कुमारस्याबलं बलम् ॥ दिशोदिशं ननाश द्राग, मेघवृन्दमिवानिलैः ॥ १८४ ॥ सैन्ये नष्टेपि| सुलसा-सुतः प्राज्यपराक्रमः ॥ युक्तो मदनमंजर्या, रथेनैकेन तस्थिवान् ॥ १८५ ॥ युध्यमानश्च तद्भिल-बलं प्रबलमप्यलम् ॥ स शरैररुपदुद्राव, ध्वान्तमंशुरियांशुभिः ॥ १८६ ॥ ततो नष्टं निजानीकं, दृष्ट्वा भिलप्रभुःखयम् ॥ युद्धा- याढौकत क्रोध-दष्टोष्ठो निष्ठुरं ब्रुवन् ॥ १८७ ॥ घोराघातनिर्घोषै-स्वासयन्तौ वनेचरान् ॥ पृषक्तैः सततोन्मुक्तैः, कुर्वाणी व्योम्नि मण्डपम् ॥ १८८ ॥ अन्योन्यमुक्तनाराच-घर्षणोत्पन्नवह्निना ॥ अनभ्रं विधुदुद्योतं, दर्शयन्तौ मुहु ROGRECORRUSSRUSSIOSSEX ॥१५२॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy