SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ "अथ सप्तमाध्ययनम्” ॥ॐ॥व्याख्यातं षष्ठमध्ययनं साम्प्रतमौर श्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्ब्रन्थत्वं उक्तं तच्च रसगृद्धेः परिहारादेव स्यात्, तत्परिहारस्तु विपक्षे दोषदर्शनात्तच दृष्टान्तोपदर्शनद्वारा स्फुटं स्यादिति | रसगृद्धिदोषदर्शको र भ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धेनायातेऽस्मिन्नध्ययने दृष्टान्तपञ्चकं वाच्यं यदाह निर्युक्तिकृत् -" उरब्भे १ कागिणि २ अंबएअ ३ ववहार ४ सायरे चेव ५ ॥ पंचेए दिट्ठता, ओरब्भीअंमि अज्झयणे ॥ १ ॥” तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम् - मूलम् — जहा एसं समुद्दिस्स, कोइ पोसिज एलयं । ओअणं जवसं दिजा, पोसेज्जावि सयंगणे ॥ १ ॥ " व्याख्या - यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽस्मिन्नागत इत्यादेशः प्राघूर्ण - कस्तं समुद्दिश्य यथाऽसौ समेष्यति समायातश्चैनं भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्षः पोषयेत् एलकमूरणकं, कथमित्याह - ओदनं भुक्तशेषं तद्योग्य शेषान्नोपलक्षणञ्चैतत् यवसं मुद्गमाषादि च दद्यात्तदग्रतो ढौकयेत्, पोषयेत्, पुनर्वचनमस्यादरख्यापनार्थ, अपिः सम्भावने, संभाव्यते हि कोप्येवंविधो गुरुकर्मेति, खकाङ्गणे स्वकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति खकाङ्गण इत्युक्तमिति सूत्रार्थः ॥ १ ॥ ततोऽसौ कीदृशो भवतीत्याह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy