SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ *X च दोषायैव, प्रवचनमालिन्यादिदोषसंभवात् , उक्तं हि "मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानि|| द्रियग्रामः, पंडितोऽप्यत्र मुह्यति॥१॥” इति सूत्रार्थः ॥२६॥ कदाचित् स्खलिते च गुरुणा शिक्षितो यत्कुर्यात्तदाह-18 मूलम्-जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ॥२७॥ व्याख्या-यन्मे मां बुद्धा गुरवः अनुशासंति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आहादकेनेत्यर्थः, परुषेण वा । कर्कशेन वचसेति शेषः, मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी सन्मार्गे स्थापयंति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं प्रतिशृणुयात् , विधेयतयाऽङ्गीकुर्यादिति सूत्रार्थः ॥ २७ ॥ ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् ? येनैवमुच्यत इत्याहमूलम्-अणुसासणमोवायं, दुक्कडस्स च चोअणं । हिअं तं मण्णए पण्णो, वेसं होइ असाहुणो॥२८॥ __ व्याख्या-अनुशासनं शिक्षणं'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं प्रेरणं, हा! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्यं, हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्यं द्वेषोत्पादकं तद्भवत्यसाधोरसाधुभावस्य, तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ प्रकटयन्नाहमूलम्-हिअं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ॥ २९॥ SALSARLS ***%* *%*%*%4X
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy