SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ १२ लोकहितं कचिद्गत्वा ॥ ११२ ॥ कुर्यात्कमप्यनर्थ, गतः परत्रायमिति धृताशङ्कः ॥ दीर्घः कृतावहित्थ - स्तमित्यवो - चित्ततो दम्भात् ॥ ११३ ॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनैः, कुरुधर्ममिहैव दानाद्यम् ॥ ११४ ॥ गङ्गातटेथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मंत्री ॥ दीनादीनां दानं ददौ यथाकाममनादेः ॥ ११५ ॥ प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः ॥ द्विक्रोशां च सुरङ्गा-मचीखनज्जतुगृहं यावत् ॥ ११६ ॥ वार्त्ता तां च छन्नं न्यवेदयत् पुष्पचूलभूपतये ॥ सोपि ततो दासेरीं, प्रैषीद्दुहितुः पदे रुचिराम् ॥ ११७ ॥ भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनकमिवाभाति 'रीतिरपि ॥ ११८ ॥ गणिकाप्रेमेव मनो, बाह्यं कृत्वा महोत्सवं चुलनी ॥ तामथ पुरे प्रविष्टां व्यवाहयह्मदत्तेन ॥ ११९ ॥ लोकं विसृज्य तनयं प्रैषीदथ सनुषं जतुगृहे सा ॥ सोपिवधूवरधनुयुग्, विसृष्टतंत्रो ययौ तस्मिन् ॥ १२० ॥ तस्य च गते - र्द्धरात्रे, वार्त्ताभिः सचिवसूनुरचिताभिः ॥ तत्राज्यलयज्ज्वलनं, जतुवेश्मनि निजनरैश्रुलनी ॥ १२१ ॥ दीर्घचुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित - स्तत्सदनं व्यापदनलोपि ॥ १२२ ॥ सम्भ्रान्तोथ कुमारः, किमेतदिति मंत्रिनन्दनमपृच्छत् ॥ सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ॥ १२३ ॥ सत्रं याव - त्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् ॥ तद्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥ १२४ ॥ छन्नमुदन्तममुं मम, १ पित्तलम् । त्रयोदशमध्ययनम् चित्रसम्भूतचरित्रम् |११२-१२४
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy