SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १६१ ॥ 'तम्हत्ति' तस्मात्स्वातंत्र्यविमुक्तादप्रमादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदा| युषामेव चारित्रपरिणामः स्यादिति दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८ ॥ ननु ? यदि छन्दोनिरोधेन मुक्तिस्तर्ह्यन्तकाले एवायं क्रियतामित्याशङ्कानिरासार्थमाह मूलम् - स पुवमेवं न लभेज पच्छा, एसोवमा सासयवाइआणं ॥ विसीअई सिढि आउअम्मि, कालोवणीए सरिरस्स भए ॥ ९ ॥ व्याख्या - स इति यत्तदोर्नित्याभिसम्बन्धात् यः पूर्वमप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं 'पुवमेवंति' एवं शब्दस्य उपमार्थत्वात् पूर्वमिव अन्त्यकालात् प्रागिव न लभेत न प्राप्नुयात् पश्चादन्त्यकालेपि, किञ्च 'एसोवमत्ति' एषोपमा इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि न तु जलबुद्बुदसमानायुषामन्येषां तथा चायमुत्तरकालेपि छन्दोनिरोधमनानुवन् विषीदति, कथमहमकृतधर्मकर्मा परत्र नरकादिवेदना अनुभविष्यामीति वैक्लव्यमनुभवति, शिथिले आत्मप्रदेशान्मुञ्चत्यायुषि कालेन मृत्युना उपनीते ढौकिते शरीरस्य भेदे सर्वशादात् पृथग्भावे तस्मादादित एव प्रमादः परिहर्तव्य इति सूत्रार्थः ॥ ९ ॥ कथं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याह चतुर्थमध्ययनम् (४) ॥ १६१ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy