SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ * नवमाध्यकनम् RICHAR मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३ ॥ मूलम्-जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एगं जिणिज अप्पाणं, एस से परमो जओ॥३४॥ व्याख्या-यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि संग्रामे दुर्जये जयेदभिभवेत् , स चेदेकं जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एपोनन्तरोक्तः 'से इति' तस्स जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जयत्वमुक्तम् ॥ ३४ ॥ ततश्चमूलम्-अप्पाणमेव जुज्झा हि, किं ते जुज्झेण बज्झओ। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥ व्याख्या-'अप्पाणमवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यख, किं ? न किञ्चिदित्यर्थः, ते तव युद्धेन बाह्यत इति बाह्यपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मानं 'जइत्तत्ति' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्राप्नोति ॥ ३५ ॥ कथमात्मन्येव जिते सुखावाप्तिरित्याहमूलम्-पंचिंदिआणि कोहं, माणं मायं तहेव लोभं च । दुजयं चेव अप्पाणं, सबमप्पे जिए जिअं॥३६॥ | व्याख्या–पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च 'दुज्जयं चेवत्ति' दुर्जयं इति विशेषणं । सर्वत्र सम्बध्यते, चः समुच्चये, एवः पूतों, अतति गच्छति अनेकान्यध्यवसायान्तराणीति आत्मा मनः, नपुंसकनि
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy