________________
उ० २६
भुजङ्गमाह्वान - श्रीरोऽभूवं महाबलः ॥ १३१ ॥ इह श्मशाने भूम्यन्तः सदनं मम विद्यते ॥ तत्रास्ति मे वसा, 'वीरमती' संज्ञा कुमारिका ॥ १३२ ॥ अभिज्ञानाय तदासं, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ॥ १३३ ॥ मद्भूमिवेश्मनो द्वारे, तया चोद्घाटिते सति ॥ तामुदुह्याखिलं द्रव्य - माददीथा मदर्जितम् ॥ १३४ ॥ पश्चात्तु ससुखं तत्र तिष्ठेरन्यत्र वा प्रजेः ॥ तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥ १३५ ॥ तस्मिन्मृते तु तत्खङ्गं, लात्वा गत्वा वटान्तिके ॥ शब्दिता तेन सम्भ्रांता, सा द्वारमुदघाटयत् ॥ १३६ ॥ तां च दृष्ट्वा जगन्नेत्र - कैरवाकरकौमुदीम् ॥ इयं हि स्मरसर्वस्व - मिति दध्यौ नृपात्मजः ॥ १३७ ॥ सौम्य ! कस्त्वं किमर्थ वा - ऽऽ यासीरिति तया च सः ॥ पृष्टोऽवादीद्यथा वृत्तं ततः सान्तरदूयत ॥ ॥ १३८ ॥ कृतावहित्था प्रोचे च खामिन्नेहि गृहान्तरे ॥ वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥ १३९ ॥ अथ नाथस्त्वमेवास्य, भूघनस्य धनस्य च ॥ इत्युदी - र्याथ धूर्ता सा, वासवेश्मोदघाटयत् ॥ १४० ॥ तल्पं च प्रगुणीकृत्य, स्माह विश्रम्यतामिह ॥ अहं तु त्वत्कृते कान्त !, गोशीद्रवमानये ॥ १४१ ॥ तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः ॥ तस्यां बहिर्गतायां च चेतसीति व्यचि - न्तयत् ॥ १४२ ॥ न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषतस्तु नारीणा - मरीणां च विचक्षणैः ॥ १४३ ॥ स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेज्जनम् ॥ इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥ १४४ ॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय तस्थौ सुन्दरनन्दनः ॥ १४५ ॥ बहिर्हन्तुमशक्यो यः,