SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ द्राज-पाटिकाकपटाद्वहिः॥३०॥ तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः ॥ रात्रिदृष्टानुमानेन, प्रत्यभिज्ञात-| वान् द्रुतम् ॥ ३१॥ दध्यौ च निशि वाजीव, यो जवेन ब्रजन्नभूत् ॥ स एवायं दिने खञ्ज, इव व्याजेन चेष्टते ! ॥३२॥ सवेश्मनि ततो गत्वा-ऽभिज्ञानाख्यानपूर्वकम् ॥ तमाकारयितुं मापः, प्राहिणोनिजसेवकान् ॥ ३३॥ तैराहूतः स चौरोपि, मनस्येवममन्यत ॥न हतः स नरो नून-मुत्तालेन मया निशि!॥ ३४ ॥ सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः ॥ मां हि प्रत्यभिजानीया-जानिः कथमन्यथा ? ॥ ३५॥ इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः॥ तञ्चोपाविविशद्भपो, महाबुद्धिमहासने ॥३६॥ आलापयन् सुधाकल्पै-स्तञ्चालापैः सगौरवम् ॥ इत्यूचे पार्थिवो मां, दीयतां भगिनी निजा ॥३७॥ दृष्ट्वा मे भगिनीं नान्यो, निरगान्महादहिः ॥ तत्स एवायमित्यन्त-निश्चिकाय स तस्करः ॥ ३८॥ खसा मे गृह्यतां खामि-नित्यूचे च धराधवम् ॥ नृपोपि चाररूपाढ्या-मुपयेमे तदैव ताम् ॥ ३९॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः ॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ ४० ॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः ॥ तं बहुमानयद्भूयो-ऽप्यन्यदानाययद्धनम् || ॥४१॥ एवं पुनः पुनः कुवे-स्तद्वित्तं सकलं नृपः ॥ आनाययद्विदग्धा हि, कार्य बुद्ध्यैव कुर्वते ! ॥४२॥ कियन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ॥ इत्यन्यदा तत्वसार- मप्राक्षीच क्षमाप्रभुः ॥४३॥ धनमेतावदेवाभूद-स्वेत्युक्ते तया च राट्र ॥ लेख्यकस्यानुसारेण,तत्पौराणामदापयत् ॥४४॥ मण्डिकञ्च प्रचण्डाज्ञो, विडम्ब्य निविडं
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy