SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१२५॥ ड्रटान् ॥१७॥ ततोऽवादीद्रोहगुप्तः, कृतं चिन्तनयाऽनया ॥ न हि वादंप्रतिज्ञाया-ऽन्तर्वातुं शक्यतेऽधुना॥१८॥ तृतीयमध्य. मया हि शासनं जैन-मपि मा धर्षयत्वयम्॥ इति वादोऽङ्गीकृतस्त-द्यद्भाव्यं तद्भवत्विह ! ॥ १९॥ ततस्तं वादकरणै- यनम् (३) काग्रं निर्णीय सूरयः॥ परिबाडूजित्वरीः पाठ-सिद्धा विद्या इमा ददुः ॥ २० ॥ केकिनो नकुला ओतु-व्याघ्रसिंहाच कौशिकाः ॥ श्येनाश्च याभिर्जायन्ते, तद्विद्यावाधकाः क्रमात् ॥२१॥ अथ चेदपरं किञ्चि-दुपद्रवकरं भवेत् ॥ रजोहरणमेतत्त्वं, भ्रमयः परितस्तदा ॥ २२ ॥ अनेनैव निहन्याश्च, तदुपद्रवकारकम् ॥ अस्यानुभावाच्छक्रस्या-ऽप्यजय्यस्त्वं भविष्यसि ! ॥२३॥ इत्युक्त्वा मन्त्रयित्वा च, ते रजोहरणं वरम् ॥ ददुस्तस्मै तदादाय, सोप्यगाद्भूपपर्षदि ॥ २४ ॥ किं वेत्ति दुर्विदग्धोऽसौ, परिव्राजकदर्दुरः ॥ पूर्वपक्षस्तदस्यैव, भवत्विति जगाद च ॥ २५॥ एते हि जैना दक्षाः स्यु- दादौ युक्तिपाटवात् ॥ तदेषामेव सिद्धान्तं, गृह्णामीति विचिन्तयन् ॥ ततस्बिदण्डिकोऽवादीत् , द्वौ राशी मम सम्मतौ॥जीवराशिरजीवानां, राशिश्चेति क्रमेण तौ॥२७॥[युग्मम् ] तदाकर्ण्य तदा रोह-21 गुप्त एवं व्यचिन्तयत् ॥ अयं हि मम सिद्धान्ते, प्रविष्टो धूर्तधूर्वहः ॥ २८॥ अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं जनः॥ ज्ञास्यत्यसौ परिव्राजो, मतं स्वीकृतवानिति ॥ २९ ॥ तद्वचः सत्यमप्यस्यो-स्थापनीयं मयाऽधुना ॥ वादे हि तथ्य ध्य- ॥१२५॥ मप्यन्य-बचो हन्येत युक्तिभिः ॥ ३० ॥ ध्यात्वेति सोऽवदद्वादि-न्मावादीरीदृशं वचः ॥ यजीवाजीवनोजीव-रूपं 3 राशित्रयं भवेत् ॥ ३१॥ तत्र जीवा भवस्थाद्या, अजीवाश्च घटादयः ॥ नो जीवास्तु छिन्नगृह-गोधापुच्छादयो * * *
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy