SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ न्येद्यु- ये भूतगुहाभिधे ॥ सगच्छाः समवासार्षुः श्रीगुप्तायसूरयः ॥ ३ ॥ इतश्चैको भूरिविद्या - बलाढ्यो र्गव - पर्वतः ॥ परिव्राडाययौ तस्यां पुर्यामखिलशास्त्रवित् ॥ ४ ॥ लोहपट्टावद्ध तुन्दो, जम्बूशाखां दधत् करे ॥ पुरे तत्राभ्रमलोकैः, पृष्टश्चैवमुवाच सः ॥ ५ ॥ इदं तुन्दं महाविद्या- सम्भारेणातिभूयसा ॥ स्फुटतीति मया लोह -पकेन निबध्यते ! ॥ ६ ॥ जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते ॥ इति सूचयितुं जम्बू - शाखासौ प्रियते मया ! ॥ ७ ॥ ततो लोकाः 'पोहसाल', इति नाम्ना तमूचिरे ॥ सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ॥ ८ ॥ तव पुर्या भवेत्कोऽपि, यदि वादी तदा मया ॥ वादं कारय नो चेन्मे, जयढक्कां समर्पय ! ॥ ९ ॥ तादृशो वादिनोऽन्यस्या - ऽभावाद्भूमिविभुस्ततः ॥ विमनस्कोऽप्यदात्तस्मै, पटहं जयसुचकम् ॥ १० ॥ परप्रवादाः सर्वेऽपि, शून्या इतकि सोऽप्यथ ॥ उद्घोषयितुमारेभे, डिण्डिमाघातपूर्वकम् ॥ ११ ॥ इतश्च तेषां श्रीगुप्त- सूरीणां भगिनीसुतः ॥ शिष्यश्च रोहगुप्ताख्य- स्तत्रागच्छन् पुरान्तरात् ॥ १२ ॥ परित्राकारितां श्रुत्वोद्घोषणां तामदोवदत् ॥ करिष्ये वादममुना, तन्मावादय तानकम् ! ॥ १३ ॥ उद्घोषणां निषिध्येति गत्वा च गुरुसन्निधौ ॥ परित्राद पटहापोह - वार्ता तेषां जगाद सः ॥ १४ ॥ ततस्तं प्रोचुराचार्या, वत्स ! दुष्ट्टु कृतं त्वया ॥ स हि त्रिदण्डिको भूरि-विद्याढ्यो विद्यते यतः ॥ १५ ॥ स च वादे पराभूतो, विद्याभिः प्रतिवादिनः ॥ करोत्युपद्रवं नाना- विधा| भिर्दाम्भिकाग्रणीः ॥ १६ ॥ वृश्चिकान्पन्नगानाखू - न्मृगशूकरवायसान् ॥ शकुन्तिकाश्च कुरुते स हि विद्याभिरु 54644444
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy