SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ त्रयोदशम। ध्ययनम् तचरित्रम् |२१५.२२७ *KAASAIRAAKASHI तदहि वरधनो! त्वं, कुत्रास्ति ब्रह्मदत्त इति ? ॥ २१५॥ विश्वस्य तस्य विश्वां, त्वद्वाती सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः, पाश्चात्यं वृत्तमित्यूचे ॥ २१६ ॥ दग्धे तदा जतुगृहे, दीघेः प्रातदेंदशे शबमेकम् ॥ तां सत्रगा| सुरंगां, तुरगपदानि च पुरस्तस्याः॥२१७॥ नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै ॥ प्रत्याशमश्ववाहैरान् , युष्मन्निग्रहकृते प्रैषीत् ॥ २१८ ॥ नष्टो धनुरिति जननी, तवाक्षिपत् श्वपचपाटके दीर्घः ॥ सा नरकावास इवा-नुभवति तत्र व्यथाः प्रचराः॥ २१९॥ तेनोदन्तेनोच्चै-दुःखोपरिजायमानदुःखातः ॥ उद्धत्ते व्यसनाब्धेजननीं काम्पील्यनगरमगाम् ॥ २२० ॥ तत्र च कपालिरूपं, कृत्वाटं श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोत्रवं चैवम् ॥ २२१ ॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन मैत्रीमकार्षमारक्षकेण समम् ॥ २२२ ॥ कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रतीसुतसुहृत्ते ॥ इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ॥ २२३ ॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ॥ तद्भक्षणेन साजनि, निश्चेष्टा काष्ठमूर्तिरिव ॥ २२४ ॥ आरक्षकोथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः॥ तां संस्कत्तुं प्रैषी-भृत्यानथ तेपि तत्रागुः ॥ २२५ ॥ सम्प्रति संस्कारेऽस्याः, कृते महान् भाव्युपद्रवो भवताम् ॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्मीताः ॥ २२६ ।। आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्याः ॥ कुणपेन लक्षणवता, मंत्रमहं साधया-| म्येकम् ॥ २२७ ॥ तत्प्रतिपन्नेन समं, तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवन-गुरुमण्डलमालिखं
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy