SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन अचेलस्य चाऽप्रतिबद्धविहारिणः शीतादिभिः पीड्यमानस्याऽरतिरपि स्यादिति तत्परीषहमाह द्वितीयमध्यमूलम्-गामाणुगामं रीअंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ १४ ॥ यनम् (२) ॥ ३९॥ | व्याख्या-ग्रामश्च जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः 'रीअंतंति' रीयमाणं विहरन्तं अनगारं मुनिं अकिञ्चनं निष्परिग्रह, अरतिः संयमविषया अधृतिः अनुप्रविशेन्मनसि लब्धास्पदा भवेत् , तं अरतिरूपं तितिक्षेत सहेत परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमाहमूलम्-अरइं पिट्टओ किच्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ॥१५॥ | व्याख्या-अरतिं पृष्ठतः कृत्वा धर्मविघ्नहेतुरियमिति तिरस्कृत्य विरतो निवृत्तो हिंसादेः, आत्मा रक्षितो दुर्गति-12 हेतोरपध्यानादेरनेनेत्यात्मरक्षितः, धर्मे श्रुतधर्मादौ आरमते रतिमान् स्यादिति धर्मारामः, निरारम्भोऽसक्रियाभ्यो निवृत्तः, उपशान्तः क्रोधाद्युपशमवान् मुनिश्चरेत् , संयम परिपालयेन पुनरुत्पन्नारतिरपि व्रतं त्यक्तुकामः स्यादिति सूत्रार्थः ॥ १५॥ कथानकचात्र तथाहिBI जितशत्रुरभूद्भपः, पुरेऽचलपुरे पुरा ॥ तत्सुतो युवराडू दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ॥ १॥ विहरन्तोऽन्यदा ॥३९॥ तेन, युवराजर्षिणा समम् ॥ पुण्यप्रथा रथाचायों- स्तगरानगरी ययुः ॥२॥ तेषां खाध्यायशिष्यास्तु, विश्वविख्यातकीर्तयः॥ आर्यराधाभिधाचार्या, उज्जयिन्यां तदाऽभवन् ॥३॥ तच्छिष्याः केप्यवन्तीत-स्तगरानगरी
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy