________________
उत्तराध्ययन
॥२१४ ॥
१२
सुलोचने ! ॥ १०० ॥ तदाकर्ण्य सती दध्यौ, विपाकः कर्मणामहो ! ॥ अन्यान्यव्यसनाऽङ्कुर - पूरधात्री भवामि यत् ! ॥ १०१ ॥ विहाय पुत्रसाम्राज्य - परिच्छदधनादिकम् । यत्रातुं निरगा भङ्ग - स्तस्येहाप्युपतिष्ठते ! ॥ १०२ ॥ तत् प्राणिनामपुण्यानां, गरीयानप्युपक्रमः ॥ दुःखायैव भवेत्किं वा, पौरुषं विमुखे विधौ १ ॥ १०३ ॥
यदुक्तं—“छित्त्वा पाशमपास्य कूटरचनां भक्त्वाबलाद्वागुरां ॥ पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ॥
व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः । कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥ १०४ ॥”
सत्यप्येवं मया शीलं, नैव त्याज्यं कथञ्चन ॥ पीडनव्यसनेपीक्षु- र्माधुर्य किं विमुञ्चति ? ॥ १०५ ॥ अयञ्च मद्नोन्मादोन्मत्तो वेत्ति न किञ्चन ॥ तदुपायेन केनायुं, दुर्बोधं बोधयाम्यहम् ॥ १०६ ॥ अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् ॥ स हि प्रशस्यत प्राज्ञ - रशुभे समुपस्थिते ॥ १०७ ॥ ध्यात्वेति साभ्यधाद्दक्ष !, नीत्वा नन्दी - वरेऽद्य माम् ॥ देवान् वन्दय तत्राहं करिष्यामि तव प्रियम् ॥ १०८ ॥ ततः स तां विमानस्थां हृष्टो नन्दीश्वरेऽनयत् ॥ तत्र चाहगृहाः सन्ति, द्वापञ्चाशदनश्वराः ॥ १०९ ॥ दीर्घेषु योजनशतं, तदर्धं पृथुलेषु च ॥ चैत्येषु तेषु
नवमाध्य
यनम् (९) नमिचरित्रम् १०१-१०९
॥२१४ ॥