SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ॥२१७॥ उत्तराध्ययन । अन्यदा च नमिं राज्ये, न्यस्य पद्मरथो नृपः ॥ वैराग्यागतमादाय, क्रमात्प्राप परम्पदम् ॥ १८१ ॥ ततो नमिनृपो नवमाध्य यनम् (९) राज्यं, न्यायेनापालयत्तथा ॥ अन्यायशब्दो व्यर्थीभू-द्वाच्याभावाद्यथा भुवि ॥ १८२ ॥ नमिचइतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् ॥ तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ॥ १८३ ॥ राज्ये | रित्रम् न्यस्य ततश्चन्द्र-यशसं सचिवादयः॥ द्वयोः सोदरयोदेहे, समं सञ्चस्करुस्तयोः ॥ १८४ ॥ ततश्चन्द्रयशा भूपो, १८१-१९४ नीतिवल्लीपयोधरः ॥ पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ॥ १८५ ॥ अन्यदा च नमे राज्ञो, राज्यसारः सित| द्विपः ॥ उन्मूल्यालानमुन्मत्तो-ऽचलद्विन्ध्याचलम्प्रति ॥ १८६ ॥ सुदर्शनपुरोपान्ते, व्रजन्तं तश्च दन्तिनम् ॥ अप-13 श्यंश्चन्द्रयशसो, वाह्यालीस्थस्य सेवकाः ॥ १८७ ॥ श्वेतद्विपोयं यातीति, ते नृपाय न्यवेदयन् ॥ भूपोपि तं चिरात्खिन्नं, पुरे प्रावीविशन्निजे ॥ १८८ ॥ तत्रस्थं कुअरं तञ्च, ज्ञात्वा चरनरैनमिः ॥ तन्मार्गणाय तत्रैकं, प्रेषीत्सन्देशहारकम् ॥ १८९ ॥ सोपि गत्वावदचन्द्र-यशसं धृतसौष्ठवः॥ वक्ति त्वां मन्मुखेनेति, राजन्नमिमहीपतिः॥१९॥ गृहीतोस्ति त्वया श्वेत-हस्ती यः स तु मामकः ॥ तदेनं प्रेषयः सद्यो, नान्यदीयं हि सुस्थिरम् ॥ १९१ ॥ ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः ॥ मार्गितानि हि रत्नानि, दीयन्ते न हि केनचित् ॥ १९२ ॥ भवन्ति न च कस्यापि, नाम्ना तान्यङ्कितानि भोः!॥ ग्राह्याणि किन्तु बलिभि-वीरभोग्या हि भूरियम् ॥ १९३॥ तां चन्द्रयशसो वाचं, दूतो गत्वाऽवदन्नमेः ॥ कोपाटोपात्ततः सोपि, यात्रानकमवादयत् ॥ १९४ ॥ प्रत्यवन्तीन् प्रतस्थे च, মেক-ভেসে-ৰে ৰেকৰ ॥२ ७ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy