SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्यामि. तं वरं वसुधावरम् ॥ ३८ ॥ तत इन्द्रपुराधीश-स्येन्द्रदत्तस्य भूभुजः॥ कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ॥ ३९॥ जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् ॥ युक्तां वृद्धैः कुलामात्यै-श्चतुरङ्गचमूवृताम् ॥ ४०॥ युग्मम् ] क्रमादिन्द्रपुरे साऽगा-दिन्द्रदत्तनृपोऽपि ताम् ॥ पुरे प्रावीविशत्तुष्ट-चेता गुरुभिरुत्सवैः ॥४१॥ दध्यौ चाऽशेषभूपेभ्यः, कृतपुण्योऽस्मि नन्वहम् ॥ यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति !॥ ४२ ॥ ध्यायन्निति प्रतिज्ञां च, तस्यास्तामवधारयन् ॥ अकारयन्नपो भव्यं, स्वयंवरणमण्डपम् ॥ ४३॥ काञ्चनस्तम्भसंलग्न-चञ्चन्मा|णिक्यतोरणे ॥ मौक्तिकखस्तिकश्रेणी-दन्तुरीभूतभूतले ॥४४॥ सुगन्धिपञ्चवर्णाढ्य-पुष्पप्रकरपूजिते ॥ विचित्रोलोचरचना-चित्रीयितजगत्रये ॥४५॥ अकाण्डोद्भूतसन्ध्याभ्र-पटलभ्रान्तिकारिभिः ॥ अभ्रंलिहः पञ्चवर्णेः, केतुलक्षैविभूषिते ॥ ४६ ॥ तस्मिंश्च मण्डपे शक्रा-स्थानमण्डपसन्निभे ॥ इन्द्रदत्तो नृपः स्तम्भ-मेकमुच्चैरतिष्ठिपत् ॥४७॥ [ चतुर्भिः कलापकम् ] चत्वारि सृष्ट्या चत्वारि, संहृत्या चातिवेगतः ॥ भ्राम्यन्ति लोहचक्राणि, स्तम्भोद्धच न्यवीविशत् ॥४८॥ तेषां चोपरि राधेति-प्रसिद्धां शालभञ्जिकाम् ॥ अस्थापयदधस्ताच, तैलसम्पूर्ण कुण्डिकाम् ॥४९॥ कुण्डीतैलस्थचक्रादि-प्रतिबिम्बानुसारतः॥ राधाया वामनयनं, वेध्यं तत्र च साधकैः ॥५०॥ ततः स भूपः। सानन्दं, द्वाविंशत्या सुतैः समम् ॥ पुराबहिःस्थे तत्रागा-मण्डपे सपरिच्छदः ॥५१॥ सुरेन्द्रदत्तसचिव-स्तत्रागासचिवोऽपि सः॥ पौराश्च कोटिशस्तत्रा-ऽऽययुः कौतुकमीक्षितुम् ॥ ५२ ॥ सर्वालङ्कारसुभगा, लक्ष्मीरिव वपुष्मती॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy