SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन में मिति गृह्णाति भक्तपानं 'मासस्स उत्ति' मासस्यैव मासक्षपणस्यैवान्ते इति गम्यं, पार्यते पर्यन्तः क्रियते निय- द्वादशम मस्यानेनेति पारणं, तदेव पारणकं, भोजनमित्यर्थः, तस्मिन्महात्मेति सूत्रार्थः ॥३५॥ तदा च तत्र यदभुत्तदाह-- ध्ययनम् ॥२७१॥ (१२) मूलम्-तहि गंधोदयपुप्फवासं, दिवा तहिं वसुहारा य बुट्टा। 13 गा ३६-३७ पहयाओ दुंदुहीओ सुरेहिं, आगासे अहो दाणं च घुटं ॥ ३६ ॥ व्याख्या-'तहिति' तत्र यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्ष वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुनपुंसकलिङ्गत्वात् । दिव्या | श्रेष्ठा 'तहिति' तत्र वसु द्रव्यं तस्य धारा सततनिपातजनितासंततिर्वसुधारा, सा च वृष्टा पातिता सुरैरिति इहापि योज्यते । तथा प्रहता दुन्दुभयो देवानकाः सुरैः। तथा तैरेवाकाशे अहो ! इत्याश्चर्ये कोन्यः किलैवं दानं दातुं शक्तः ? इत्यहोदानं च घुष्टं संशब्दितमिति सूत्रार्थः ॥ ३६ ॥ तच प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुःमूलम्-सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई। ॥२७१॥ सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इड्डि महाणुभागा ॥ ३७॥ व्याख्या-'सक्खं खुत्ति' खुशब्दोऽवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषो माहात्म्यं तपोविशेषः, न ALSACRICALARAKAR
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy