SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ द्वादशमध्ययनम् गा३८-३९ 4-****** दृश्यते जातिविशेषो जातिमाहात्म्यरूपः कोपि खल्पोपि । कुतः? इत्याह-यतः श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्येशी दृश्यमानरूपा ऋद्धिर्देवसान्निध्यलक्षणा संपन्महानुभागा सातिशयमाहात्म्या! जातिविशेषे हि सति द्विजातीनामस्माकमेव देवाः सान्निध्यं विदध्युरिति सूत्रार्थः ॥ ३७ ॥ अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यन्निदमाह मूलम्-किं माहणा जोईसमारभंता, उदएण सोहिं बहिआ विमग्गह । ____ जं मग्गहा बाहिरिअं विसोहिं, न तं सुदिदं कुसला वयंति ॥ ३८॥ व्याख्या--किमिति क्षेपे, ततो न युक्तमिदं हे माहनाः ब्राह्मणाः ! ज्योतिरमिस्तं समारभमाणाः प्रस्तावाद्यागं | कुर्वन्त इत्यर्थः, उदकेन जलेन शोधि विशुद्धिं 'बहिअत्ति' वाह्यां विमार्गयथान्वेषयथ । किमेवमुपदिश्यते ? इत्याहयद्यूयं मार्गयथ बाह्यां स्नानादिबाह्यहेतुजां विशुद्धिं निर्मलतां न तत् सुदृष्टं सुष्ठ प्रेक्षितं कुशलास्तत्त्वविदो बदन्तीति सूत्रार्थः ॥ ३८ ॥ एतदेव स्पष्टयति मूलम्-कुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुसंता । पाणाइं भूआई विहेडयंता, भुजोवि मंदा पकरेह पावं ॥ ३९ ॥ ** *
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy