SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ चतुर्दशमध्ययनम् ॐ व्याख्या-जातिजरामृत्युभयाभिभूतौ बहिः संसाराद्विहारः स्थानं बहिर्विहारः स चार्थान्मोक्ष एव, तस्मिन्नभि- निविष्टं बद्धाग्रहं चित्तं ययोस्तौ तथा, संसारश्चक्रमिव संसारचक्रं, तस्यविमोक्षणार्थ त्यागार्थं दृष्ट्वा साधूनिति शेषः । तावनन्तरोक्तौ कामगुणे कामगुणविषये विरक्तौ ॥ ४ ॥ 'पिअपुत्तगत्ति' प्रियौ वल्लभौ पुत्रावेव पुत्रको, प्रियौ च तौ पुत्रको च प्रियपुत्रको द्वावपि माहनस्य द्विजस्य खकर्मशीलस्य यजनाद्यनुष्ठानरतस्य पुरोहितस्य शान्तिकर्तुः 'सा |तुत्ति' स्मृत्वा पौराणिकी चिरन्तनीं तत्रेति सन्निवेशे जातिं जन्म जातिस्मरणं प्राप्येत्यर्थः ॥ तथा सुचीर्ण निदाना-18 दिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे विरक्ताविति योग इति सूत्रद्वयार्थः ॥५॥ ततस्तौ यदकार्टी तदाह मूलम् ते कामभोगेसु असजमाणा, माणुस्सएसुं जे आवि दिवा । मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ॥६॥ व्याख्या-तौ पुरोहितसुतौ कामभोगेषु 'असज्जमाणत्ति' असजन्तौ सङ्गमकुर्वन्तौ मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकांक्षिणी अभिजातश्रद्धौ उत्पन्नतत्त्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं 'उदाहुत्ति' उदाहरतां उक्तवन्ताविति सूत्राक्षरार्थः ॥ ६॥ भावार्थस्त्वेषां सूत्राणां कथानकादवसेयस्तत्सम्प्रदायश्चायं, तथाहि SHAAE.
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy