SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ३०७ इतश्च पितरावार्य - रक्षितस्य समुत्सुकौ ॥ इति प्राहिणुतां भूयः, सन्देशान् बहुभिर्जनैः ॥ ७९ ॥ आगच्छ कुलभानो ! त्वं, वत्सोद्योतं विधेहि नः ॥ त्वद्वियोगाद्यदस्माकं, दर्शरात्रीयते जगत् ॥ ८० ॥ इति सन्देशवचनै- र्यावदागान्न सोमभूः । तावत्ताभ्यां तमाह्वातुं, प्रेषितः फल्गुरक्षितः ॥ ८१ ॥ सोऽप्यागत्य प्रणम्यार्य - रक्षितर्षिमदोऽवदत् ॥ किमेवं खकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽहतम् १ ॥ ८२ ॥ वैराग्याद्वा न ते रागो, यद्यपि खेषु विद्यते ॥ तथापि शोकमग्नांस्तान्, कारुण्येन समुद्धर ॥ ८३ ॥ किञ्चादातुं परिव्रज्या -मुत्सुकाः सन्ति बन्धवः ॥ तत्रागत्य ततस्तेषां, देहि मुक्तिप्रदं व्रतम् ॥ ८४ ॥ अथेति व्याजहारार्य - रक्षितः फल्गुरक्षितम् ॥ यदि सूनृतमेतत्स्यात्, तदा त्वं स्वीकुरु व्रतम् ॥ ८५ ॥ इति तेनोदितः प्राज्ञः सोऽवदद्देहि मे व्रतम् ॥ ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः ॥८६॥ गन्तुं स्माह पुनः फल्गु - रक्षितोऽप्यार्यरक्षितम् ॥ गमनायोत्सुकः सोऽपि, श्रीवत्रं पृष्टवांस्ततः ॥ ८७ ॥ वज्रखामी | ततोऽवादी - द्वत्स ! त्वं पठ मा त्रज || निर्विण्णः सोऽथ यमकै - रित्यपृच्छत्पुनर्गुरून् ॥ ८८ ॥ कियन्मात्रं मयाऽ - धीतं, कियच्छेषं च वर्त्तते ॥ स्वामिन् ! दशमपूर्वस्ये - त्याख्याहि मम साम्प्रतम् ॥ ८९ ॥ ततः स्मित्वाऽवदत्सुरिः, | पूर्वस्य दशमस्य हि ॥ विन्दुमात्रं त्वयाऽऽदायि, शेषं तु जलधेः समम् ॥ ९० ॥ अथार्यरक्षितः स्माह, श्रान्तोऽस्मि ! पठनादहम् ॥ पारं प्राप्तुं तदेतस्य न शक्ष्याम्यम्बुधेरिव ॥ ९१ ॥ गुरुर्जगाद वत्स ! त्वं, सोद्यमोऽसि सुधीरसि ॥ तदस्य पारं त्वरितं, लप्स्यसे किं विषीदसि १ ॥ ९२ ॥ इत्थमुत्साहितोऽध्येतुं प्रवृत्तोऽपि पुनः पुनः ॥ गन्तुं पप्रच्छ
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy