SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ काराद्याकांक्षी । अत एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं ? यतोऽलोलुपः, न सरसौदनादिलाम्पट्यवान् । एवं विधोऽपि सरसाहारभोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत | आह-रसेषु मधुरादिषु नाऽनुगृद्ध्येत् नाभिकांक्षां कुर्यात् । तथा नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सक्रियमा४ाणान् प्रेक्ष्य किमहमेषां मध्ये न प्रबजितः ! किं मया स्तोकटोकपूज्या बहुजनपरिभवनीयाः श्वेतभिक्षवः कक्षी-12 कृताः ! इति नाऽनुतापं कुर्यात् , 'पण्णवंति' प्रज्ञावान् हेयोपादेयविवेचननिपुणवुद्धिमान् । अनेन सत्कारकारिणि तोपं,न्यक्कारकारिणि रोषञ्चाकुर्वताऽसौ परीषहोऽध्यासीतव्य इत्युक्तं भवतीति सूत्रार्थः॥३९॥ उदाहरणश्चात्र, तथाहि वभूव मथुरापुर्या-निन्द्रदत्तपुरोहितः ॥ गवाक्षस्थोऽन्यदाऽद्राक्षी- त्स वजन्तमधो मुनिम् ॥ १॥ साधोरस्य है. शिरस्यचिं, मुञ्चन्नस्मीति चिन्तयन् ॥ यतेस्तस्योपरि द्वेषात् , स स्वपादमलम्बयत् ॥२॥ पुरोहितेन तेनैवं, न्यक्कारे विहितेऽपि सः॥ मनसाऽपि मुनि वा-कुप्यच्छान्तरसोदधिः!॥३॥ तच्च प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तातवानिति॥ ज्ञात्वैवाऽसौ दुरात्मास्य-व्यधान्मूर्ध्नि मुनेः क्रमम् ॥ ४ ॥ तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः ॥ अवश्यं छेद-13 नीयोऽङ्गि-मयोपायेन केनचित् ॥५॥ ध्यात्वेति तस्य छिद्राणि, मार्गयन्नप्यनाम्नवन् ॥ सोऽथ श्रेष्ठी पुरः सूरः खां प्रतिज्ञामभाषत ॥ ६॥ गुरुर्जगाद सत्कार-न्यकारी हि महर्षिभिः ॥ हर्षखेदावकुर्वद्भिः, सद्यावेव महामते ! G॥७॥ प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थं निर्मिता त्वया ? ॥ तदाकर्ण्य जगी श्रेष्ठी, तथ्यमेतन्मुनिप्रभो! ॥८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy