SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ द्वितीयपलिने पुनः ॥ बभूव भूरिलक्ष्मीकं, खेटस्थामाभिधं पुरम् ॥ ३॥ महागिरिगुरोः शिष्यः, खेटस्थामपरेऽन्यदा ॥ धनगुप्ताभिधः सूरि-श्चतुर्मासीमवास्थितः ॥ ४ ॥ तस्य शिष्यो गङ्गदेवा-चार्यस्तु सपरिच्छदः ॥ तस्थावुल्लुकतीराख्ये, पुरे प्राच्यतटस्थिते ॥५॥ स चान्येयुः शरत्काले, गुरुवन्दनहेतवे ॥ खेटस्थामपुरे गच्छन् , प्रविवेशोल्लुकानदीम् ॥ ६॥ खल्वाटस्य तदा तस्य, शीर्षे सूर्यांशुसङ्गमात् ॥ बभूव तापः पानीय-सङ्गाच्छैत्यं च पादयोः ॥७॥ गङ्गदेवस्ततो दध्या-वेकत्र समये क्रिया ॥ एकैव वेद्यत इति, सूत्रोक्तिर्घटते कथम् ? ॥८॥ शीतमुष्णं च युगप-द्यदहं वेदयेऽधुना ॥ क्रियाद्वयोपयोगः स्या-त्तदैकसमयेऽपि हि ॥९॥ ध्यात्वेति खगुरून्नत्वा, सोऽवादीत्तं निजं मतम् ॥ ततस्ते प्रोचिरे मास्म-वादीतिदयौक्तिकम् ॥१०॥ उपयोगयुगं वत्स!, युगपन्नोपपद्यते ॥ छायातपवदन्योन्यं, विरुद्धं तद्भवेद्यतः॥ ११॥ यदा स्यात्प्राणिनां शीतो-पयोगव्यापृतं मनः ॥ तदा नोष्णोपयोगे त-द्याप्रियेत विरोधतः॥ १२॥ योगपद्याभिमानस्तू-पयोगयुगलस्य यः॥ स तु मानससञ्चार-क्रमस्याऽनुपलक्षणात् ॥ १३॥ मनो हि मौलिपादादा-वुपयुक्तीभवन हि ॥ ज्ञायते सूक्ष्मतात्यन्ता-स्थिरताशीघ्रतादिभिः ॥ १४ ॥ "ततश्च" यथा पाथोरुहदल-शतस्य व्यतिभेदने ॥ प्रतीयमानमप्यस्ति, योगपद्यं न वास्तवम् ॥ १५॥ तथोपयोगयुग्मस्य, योगपद्यं भवाशाम् ॥ प्रतीयमानमपि नो, वास्तवं किं बहूक्तिभिः? ॥१६॥ इति सूरिभिरुक्तः स, तदा तूष्णीकतां दधौ ॥ न त्वहासीद्वासनां तां, श्वपुच्छमिव वक्रताम् ॥ १७॥ असन्मतेन तेनान्यान् , स व्युदना
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy