SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ * [धिपतिबालकाः ॥ क्रीडाप्रकारैर्विविधैः, क्रीडयाञ्चक्रुरन्व हम् ॥३॥ [युग्मम् ] तश्च दृष्ट्वा लाल्यमानमुत्कोपः कोऽपि तर्णकः ॥ विमुक्तं गोदुहा मात्रा, गोपितं न पपौ पयः ॥ ४ ॥ लिहती तं ततः स्नेहा-द्धेनुः पप्रच्छ वत्सकम् ॥ कुतो हेतोरिदं दुग्धं, न पिबस्यद्य नन्दन! ॥५॥ सोऽवादीद्भोजन रम्यैः, सर्वेऽस्मत्खामिनन्दनाः ॥ उरभ्रं पोषयन्येनं, लालयन्ति च पुत्रवत् ॥६॥ मन्दभाग्याय मह्यं तु, न काले पाययन्त्यपः ॥ न च यच्छन्ति पूर्णानि, शुष्काण्यपि तृणान्यहो !॥ ७॥ पति भेदेन तन्मात-मनो मे दूयते । न्यहम् ॥ ६ ॥ तच्छुत्वा गोर्जगी वत्स !, किमत्रार्थे विपी-15 दसि ? ॥ उरभ्रपोषणं ह्येत-दातुरार्पणसन्निभम् ॥ ९॥ रोगिणाऽभ्यर्थ्यमानं हि, निश्चितासन्नमृत्युना ॥ यथा पथ्यमपथ्यं वा, सर्व तस्मै प्रदीयते ॥ १० ॥ ज्ञेयं वत्स! तथैवेद-मुरभ्रस्यापि पोषणम् ॥ लप्स्यते नियतं मृत्यु-मागतेऽ- | भ्यागते ह्यसौ ॥ ११ ॥ शुष्कस्तोकतृणावाप्ति-रप्यसौ शोभना ततः ॥ उपद्रवविनिर्मुक्तैः, सुचिरं जीव्यते यया । ॥ १२॥ जनन्येत्युदितःप्रेम्णा, तर्णकः स्तन्यमापिबत् ॥ प्राघूर्णकाः समाजग्मु-स्तत्वामिसदनेऽन्यदा ॥ १३॥ तमुरनं ततो हत्वा, गृहेशस्तानभोजयत् ॥ निघ्नन्ति हि परान् स्वल्पा-यापि स्वार्थाय निर्दयाः!॥ १४॥ तञ्च |दृष्ट्वा हन्यमान-ममानं भीतमानसः ॥ नापान्मातुः पयः साय-मायातायाः स तर्णकः ॥ १५॥ दुग्धापाननिदानं च, पृष्टो मात्राऽब्रवीदिति ॥ मातरद्य कुतोप्यत्रा-ऽऽययुः प्राघूर्णका घनाः॥१६॥ ततो व्यात्ताननः कृष्ट-जिह्वाग्रो RARARAPASAKASASA
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy