Page #1
--------------------------------------------------------------------------
________________
नमोनमः श्रीगुरुप्रेमसूरये श्रीहेमविजयगणिविरचितं
विजयप्रशस्तिमहाकाव्यम्
श्रीगुणविजयगणिविरचित - विजय प्रदीपिकाव्यटीकासहितम् ।
प्रकाशक
श्री जिनशासन आराधना ट्रस्ट ७. त्रीजो भोइवाडो भूलेश्वर मुंबई- २.
वि. स. २०४५
मूल्य स्व. १००/
वीर सं. २५१५
Page #2
--------------------------------------------------------------------------
________________
नमो नमः श्री गुरुप्रेमसूरये श्री हेमविजयगणिविरचितं
विजयप्रशस्तिमहाकाव्यम्
गुणविजयगणिविरचितविजय प्रदीपिकारव्य टीका सहितम् ।
श्री
प्रकाशक
श्री जिनशासन आराधना ट्रस्ट ७, त्रीजो भोइवाडो भूलेश्वर मुंबई नं. २.
-
वि. स. २०४५ वीर सं. २५१५ मूल्य रू. १००/
Page #3
--------------------------------------------------------------------------
________________
પ્રાપ્તિસ્થાન
(૧) પ્રકાશક (૨) શ્રી જિનશાસન આરાધના ટ્રસ્ટ Clo દિપક અરવીંદલાલ ગાંધી ઘીકાંટા, વડફળીયા રાવપુરા વડોદરા ૩૯૦ ૦૦૧ (૩) મૂળીબેન અંબાલાલ રતનચંદ જૈન ધર્મશાળા સ્ટેશન રોડ, વિરમગામ (૪) શ્રી જિનશાસન આરાધના ટ્રસ્ટ Clo સુમતિલાલ ઉત્તમલાલ મારફતિયા મહેતાનો પાડો,ગોળ શેરી, પાટણ,
લાભ લેનાર શ્રી લાલબાગ ટ્વે યૂ જૈન સંઘ, સી.પી. ટેક મુંબઈ ૪
ભાવભરી અનુમોદના
વિજય પ્રશસ્તિ” નામના આ ગ્રંથના પ્રકાશનનો સંપૂર્ણ લાભ, પૂજ્યપાદ વર્ધમાન તપોનિધિ આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન પ.પૂ સમતાસાગર પન્યાસજી શ્રી પદ્યવિજયજી ગણિવરશ્રીના શિષ્યરત્ન આચાર્યદેવ શ્રીમદ્ વિજય હેમચંદ્રસૂરિ મ.સા. ના ઉપદેશથી શ્રી લાલબાગ જૈન શ્વે. મૂ. સંધે (પાંજરાપોળ સી.પી. સેંક, મુંબઈ નં-૪) જ્ઞાનનીધિમાંથી લીધો છે. આની અમે ભૂરી ભૂરી અનુમોદના કરીએ છીએ.
શ્રી જિન શાસન આરાધના ટ્રસ્ટ
Page #4
--------------------------------------------------------------------------
________________
પ્રકાશકીય શ્રી હેમવિજયગણિ વિરચિત વિજયપ્રશસ્તિ નામના આ મહાકાવ્યને તેની વિજયપ્રદિપીકા” નામની ટીકા સહિત સહર્ષ પ્રકાશિત કરીએ છીએ. ટીકાના રચયિતા છે ગુણવિજયજી ગણિ. એટલું જ નહી એકવીશ સર્ગાત્મક પ્રસ્તુત મહાકાવ્યના સોલસર્ગના નિર્માણ કર્યા પછી ગ્રંથકાર સ્વર્ગવાસ પામતા બાકીના પાંચ સર્ગ પણ તેમણે જ રચ્યા છે. આ ગ્રંથમાં પૂજ્યપાદ જગદ્ગર હીરસૂરિના પટ્ટાલંકાર શ્રુતસિંધુ તપાગચ્છાલંકાર આચાર્યવિ શ્રીમદ્ વિજય સેનસૂરિ મહારાજાનું જીવનચરિત્ર છે. તપાગચ્છના આ મહાન આચાર્ય થયા તેમણે પણ અકબર બાદશાહને અનેક રીતે ઉપદેશો આપી જીવદયા વગેરેમાં સ્થિર કર્યો હતો. જીવનમાં અનેક જિનમંદિરોના જીર્ણોદ્ધાર, પ્રતિમાઓ, ધૃતસાહિત્યના નિર્માણાદિ કાર્યો દ્વારા મહાન શાસનપ્રભાવના કરી હતી. પૂજ્યશ્રીની નિશ્રામાં આઠ ઉપાધ્યાયો અઢીસો પંડીત ગીતાથ તથા બે હજાર મુનિઓ હતા. ટીકા સહિત ચરિત્રનું પ્રમાણ દશ હજાર શ્લોક જેટલું છે. ટીકાની પૂર્ણાહુતિ સંવત ૧૬૮૮માં થયેલ છે આનું પ્રકાશન વિક્રમ સંવત ૧૯૬૭માં પંડિત હરગોવિંદ તથા બેચરદાસે સંશોધન કરી, વારાણસીના શ્રેષ્ઠીવર્ય શ્રી હર્ષચંદ્ર ભૂરાભાઈએ પ્રકાશિત કરેલું છે. બંને પંડિતો તથા હર્ષચંદ્ર પ્રત્યે અમે કૃતજ્ઞતાના ભાવને પ્રદર્શિત કરીએ છીએ. સાત ક્ષેત્રોની ભક્તિ કરવા માટે પૂજ્ય મુનિરાજ શ્રી હેમચંદ્ર વિજયજી (હાલ પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય હેમચંદ્રસૂરિ) મસા. ની પ્રેરણાથી સંવત ૨૦૩૪ના આસો સુદ દશમ વિજય દશમીના શુભ દિવસે શ્રી જિનશાસન આરાધના ટ્રસ્ટની સ્થાપના કરવામાં આવી છે. ટ્રસ્ટ દ્વારા અનેક જિનમંદિરોના નિર્માણ, જીર્ણોદ્ધાર ઉપાશ્રયોના નિર્માણ દીક્ષાર્થીઓના બહુમાન. શાનદાન તથા મૃતભક્તિના કાર્યો થયા છે હાલ પણ તે તે શાસન-સેવાના કાર્યો થઈ રહ્યા છે.
Page #5
--------------------------------------------------------------------------
________________
શ્રુતભક્તિના કાર્યમાં મજબુત હાથવણાટના કાગળ પર શાસ્ત્રલેખનનું કાર્ય પણ ત્રીશ લહીયાઓ દ્વારા હાલ થઇ રહ્યું છે. લગભગ એક હજાર પ્રતો લખાઇ ગઇ છે. ઉપરાંતમાં લગભગ સાઠ ગ્રંથો મુદ્રિત કરી પ્રકાશિત કર્યા છે. આ સાઠ ગ્રંથોની લગભગ ૨૫ હજાર નકલો ભારત ભરના જ્ઞાનભંડારોમાં પહોંચી ગઇ છે. હજી હજારો ગ્રંથો લખાવી તથા, સેંકડો ગ્રંથો પ્રકાશિત કરી શ્રુતરક્ષા કરવાની અમારી ભાવના છે.
પૂજ્યપાદ સંયમચક્રવર્તી સુવિશાલગચ્છ નિર્માતા, વાત્સલ્યવારિધિ સિદ્ધાંત મહોદધિ સ્વ. આચાર્ય દેવ શ્રીમદ્ વિજય પ્રેમસૂરીશ્વરજી મહારાજાની દિવ્યા. પૂજ્યપાદ ન્યાય વિશારદ, ઉગ્રતપસ્વી પ્રવચન પ્રભાવક આચાર્યદેવ શ્રીમદ્ વિજયભુવનભાનુસૂરીશ્વરજી મહારાજાના શુભ આશીર્વાદ,સમતાસાગર પરિષહ સહન ધીર સ્વ. પંન્યાસજી પદ્મવિજયજી ગણિવરશ્રીના શિષ્યરત્ન પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય હેમચંદ્રસૂરીશ્વરજી મહાસજાની પ્રેરણા.સાથે સકલ સંઘનો સહકાર એ જ અમારું મોટું બળ છે અને આ બળના પ્રભાવે અમારી શ્રુતરક્ષાની ભાવના સફળ થાય. એજ અમારી શાસનદેવને પ્રાર્થના છે.
લી. શ્રી જિનશાસન આરાધના ટ્રસ્ટ ટ્રસ્ટીઓ
૧. ચંદ્રકુમાર બાબુભાઈ જરીવાલા ૩. નવિનચંદ્ર ભગવાનદાસ શાહ
૨. લલિતભાઇ રતનચંદ કોઠારી ૪. પુંડરીકભાઈ અંબાલાલ શાહ
Page #6
--------------------------------------------------------------------------
________________
प्रस्तावना ।
एतस्य विजयप्रशस्तिनान्नो महाकाव्यस्य विनिर्मातॄणां कविमतल्लिकानां श्रीहेमविजयगणीनां सत्तासमयः सप्तदशशताब्दीरूपः, इति तैरेव स्वविरचितेषु प्रन्थेषूपनिबद्धैस्तैस्तैरुल्लेखैः सुस्पष्टं निष्टङ्कयते, तथाहि श्रीपार्श्वनाथचरितमहाकाव्ये
" तस्याऽणुके निखिलशिष्य भुजिष्यरेखा यस्मिन् समस्ति गणितेव विशारदेन्दोः । श्रीपार्श्वनाथचरितं रचयाञ्चकार
हर्षेण हेमविजयः शिवलक्ष्मिकाङ्क्षी ॥ इक्-कृशानु-रस-सोममितेऽब्दे शक्रमन्त्रिणि दिने द्वयसंज्ञे । हस्त च बहुलेतरपक्षे फाल्गुनस्य चरितं न्यरचीदम्” ॥ श्री ऋषभशतकप्रन्थेऽपि -
“श्रीहीरहीरविजयव्रतिराजपट्टपद्मांशुमद्विजयसेनमुनीन्द्रराज्ये ।
श्रीस्तम्भतीर्थनगरे रस-बाण-भूप
वर्षे समाप्तिमगमच्छतकं सदर्थम् " ॥
श्रीकथारत्नाकरे च
“अहिमनगरद्वङ्गे वर्षेऽश्वे -पु-रसा ऽवनौ ।
मूलमार्तण्डसंयोगे चतुर्दश्यां शुचौ शुचेः " ॥
एभिः श्रीहेमविजयगणिभिः पार्श्वनाथमहाकाव्यम्, कथारलाकर, अन्योक्तिमुक्तामहोदधिः कीर्तिकल्लोलिनी, स्तुतित्रिदशतरङ्गिणी, सूक्तरत्नावली, कस्तूरीप्रकरः, सद्भावशतकम्, विजयस्तुतयः, इत्यादयबहवो विद्वत्तापरिपूर्णा प्रन्था विनिर्ममिरे, येषामन्यथाऽनुपपद्यमानतया ग्रन्थकर्तॄणां विशिष्टक्षयोपशमाविर्भूतो नैसर्गिकः, अन्यान्यविषयप्रन्यसन्दर्भविलोकनसहकृतश्च संस्कृतः प्रतिभाप्रकर्षो निःसंदिग्धमनुमीयते
Page #7
--------------------------------------------------------------------------
________________
( २ ) विदग्धैः । संवादमापादयन्ति चैतत् तेषां स्वगुरुग्रातृत्वं ख्यापयन्तः श्रीगुणविजयगणयोऽप्यस्या (विजयप्रशस्तेः) एव टीकायाः प्रशस्तौ पद्यान्येतान्युपनिबध्नन्तः. "भयो बृहद्गुरोः शिष्यो गुरोध गुरुसोदरः ।
श्रीहेमविजयोऽभिज्ञो जज्ञे कविषु कुञ्जरः ॥ ४७ ॥ श्रीहेमसुकवेस्तस्य हेमसूरेरिवाऽभवत् । वाग्लालित्यं तथा देवे गुरौ भक्तिश्च भूयसी ॥ ४८ ।। यदीया कविताकान्ता न केषां कौतुकावहा ? । विनाऽपि हि रजो यस्माद् यशःसुतमसूत या ॥ ४९ ॥ तेन श्रीविजयसेनसूरेः सर्वज्ञचित्तहृत् । स्वर्गकल्लोलिनीतुल्या कीर्तिकल्लोलिनी कृता ॥ ५० ॥ भन्येऽपि स्तुतित्रिदशतरङ्गिण्यादयो घनाः । रचयाचक्रिरे ग्रन्थाः स्तोत्राणि शतशः पुनः ॥ ५१ ॥ चतुर्विशत्यहतां च विजयस्तुतयः पुनः।। बाल्येऽप्यबालधीगम्यं श्रीपार्श्वचरितं महत् ॥ ५२ ॥ सद्भावशतकं चापि कस्तूरीप्रकरः पुनः। सूक्तरवावलिश्चाप्यन्योक्तिमुक्तामहोदधिः ॥ ५३ ॥ चक्रे वक्रेतरो येन कथारखाकरः स्फुरन् । व्याख्यापीयूषलुब्धानां विबुधानां मनो हरन् ॥ ५४ ॥ इत्यादिग्रन्थविधौ सौधे कलसाधिरोपणसवर्णम् । .
विजयप्रशस्तिकाव्यं तेन कृतं विजयसेनगुरोः" ॥५५ ॥ एतस्य विजयप्रशस्तिग्रन्थस्य षोडशसर्गीनिर्माणानन्तरं वक्रगतिना दैवेन दैवीं स्थितिमुपलम्भिताः कविपुङ्गवाः, इति तत्सब्रह्मचारिशिष्यैविज्ञप्रवरैः श्रीगुणविजयगणिभिस्तदनुरूपं सर्गपञ्चकमवशिष्टं प्रणीय अन्योऽयं सम्पूर्णतया समर्थितः । महाकाव्यत्वेन सांसर्गिककाठिन्यस्य चैतस्य ग्रन्थस्य सुखावबोधाय तैरेव (श्रीगुणविजयगणिमिः ) विजयप्रदीपिकानाम्नी सरला टीकाऽप्यकारि । अस्याष्टीकाया विरचनाकाल; टीकाकृद्भिः, टीकाप्रशस्तिप्रान्तेऽनेन पद्येनैवमुपनिबढ़ः
Page #8
--------------------------------------------------------------------------
________________
( ३ )
"विजयप्रशस्तिकाव्यप्रकाशिका विजयदीपिका टीका । विदधे विक्रमनृपतेर्वर्षे वसु-वसु- नृप १६८८ प्रमिते टीकाविनिर्मितिस्थलान्यपि तत्प्रशस्तौ ग्रन्थकृद्भिरेकेन श्लोकेन
॥ ६२ ॥
विनिर्दिष्टानि, स चायम्
"प्रारब्धेादुर्गे बही विदधे च योधपुरदुर्गे ।
श्रीमालेsपि च कियती श्रीरोहिण्यां च पूर्णेयम् " ॥ ६४ ॥ एतयोश्च मूलकार - टीकाकारयोः कविप्रवरयोरत्यासन्नसंबन्धित्वेन समानमेव गुरुपारम्पर्यम्, तच्च
"पूर्व तपागणेऽभूवन् मुनिसुन्दरसूरयः ।
39 ॥ ३० ॥
तेषां राज्ये विरेजुः श्रीलक्ष्मीभद्राभिधा बुधाः इत्यादिभिः पद्यैः, टीकाकाराः प्रशस्तौ विस्तरेण प्रत्यपीपदन्, इति तत एव विदाङ्कुर्वन्तु विद्वांसः ।
अधिकृतं चात्र ग्रन्थे महामहिम्नां चातुर्वैद्य महोदधीनां श्रीहीरविजयसूरि-श्रीविजयसेनसूरिश्रीविजयदेवसूरीश्वराणामैतिहासिकं सर्व वृत्तान्तम् । सम्यग् निर्वर्णितं च कविपुरन्दरै रससुधाधाराऽविघातीनि, सुसंबद्धपद्धतिमलङ्कुर्वन्ति नानालङ्कारालङ्कृतानि पद्यान्युपन्यस्यद्भिर्विविधवस्तुवर्णनेन महाकाव्यानुरूपस्वरूपम् । प्राग्दत्तया विषयानुक्र
""
१ एते सूरयः श्रीजिनस्तोत्ररत्नकोश - उपदेशरत्नाकर - अध्यात्मकल्पद्रुम - गुर्वावल्यादीन् बहून प्रन्थान् व्यररचन्, सहस्रावधानित्वेन च परां प्रसिद्धिमासादितवन्तः ।
२ एभिरेव श्रीरत्नशेखरसूरीणां श्राद्धप्रतिक्रमणसूत्रवृत्तिः संशोधिता, इति श्रीरत्नशेखरसूरय एव वैक्रमे षडङ्कविश्वमिते वर्षे रचितायां तस्यामुल्लिखन्ति“चातुर्वैद्योदधिभिर्दधिभिर्दधिशुद्धपरमपरभागम् ।
साऽशोध्यत प्रयत्नाल्लक्ष्मीभद्राह्वविबुधेन्द्रैः ” ॥
श्रीप्रतिष्ठा सोमगणयोऽपि निजे सोमसौभाग्यकाव्ये तेषां विषये नामग्राहमेवं बदन्ति
लक्ष्मीभद्रबुधः.
. विदुरहृत्पद्मप्रबोधांशुमान् ।
..............
Page #9
--------------------------------------------------------------------------
________________
( ? )
किया च सुज्ञैः सुज्ञानमेतत्, इत्यलमत्र बहुना वक्तव्येनास्माकम् । एतन्मुद्रणसमये यानि हस्तादर्शपुस्तकान्युपयोजितानि तानि, तदुपलम्भकमहाशयानां धन्यवादपुरस्सरं नामानि चात्रोल्लिख्यन्ते१ पन्यास श्रीसिद्धिविजयानां पुस्तकमेकं नवीनं नातिशुद्धं च ।
२ मुनिराज श्रीहंसविजयानां
३ वाराणसेययतिवर्यश्रीनेमिचन्द्राणां
'प्राचीनं प्रायः शुद्धं च । ४ श्रेष्ठिवर्यहीराचन्द्रात्मजवाडीलालद्वारा झवेरीवाडापार्श्वनाथाख्यभाण्डा'गारस्य प्राचीनमशुद्धं च ।
तदेवं पुस्तकचतुष्काधारेण शोधितमुद्रितेऽत्र पुस्तकेऽस्मत्प्रमादसहकृतानि, अक्षरयोजकदोषनिबन्धनानि वा यानि स्खलनानि जातानि भवेयुः, सौहार्दावदातहृदयाः सहृदयाः कृपया तानि विशोधयन्तु - इति प्रार्थयेतेहरगोबिन्द - बेरदासौ ।
""
25
""
""
―
Page #10
--------------------------------------------------------------------------
________________
विजयप्रशस्तिकाव्यस्य विषयानुक्रमः।
अथ प्रथमः सर्गः। पहम्. पशिः विषयः।
१ २१ मङ्गलारम्भः। १५ ६ अभिधेयाभिधानम् । १६ १८ श्रीविजयसेनसूरिजन्मभूप्रदेशमेदपाटदेशवर्णनम् । २५ १९ तत्र नारदपुरीवर्णनम् । २७ १ तत्र जेषलशैलवर्णनम् । ३७ ६ नारदपुरीवासिगुरुपितुः कमाभिधश्रेष्ठिनो वर्णनम् ।
४४ १९ गुरुमातृवर्णनम् । . ५१ ६ युगपद् गुरुमातृपितृवर्णनम् ।
५७ २४ प्रथमसर्गसमाप्तिः ।
अथ द्वितीयः सर्गः। ५४ ३ कमाख्यश्रेष्ठिपन्या गर्भधारणम् । ५९ ५ स्वमदृष्टसिंहवर्णनम् । ६२ २ भर्तारं प्रति स्वमकथनम् । ६५ ८ कोडिमदेवीदोहदवर्णनम् । ६७ ८ तेषां भर्ना पूरणम् । ६७ १९ कमाख्यस्य प्रियां प्रति प्रभः। ६८ १२ पत्न्युत्तरकथनम् । ६९ ९ प्रियावचनानन्तरं श्रेष्ठिचिन्तनवर्णनम् । ७१ १० दोहदव्यथाऽनन्तरावस्थावर्णनम् ।
८ गुरुजन्मसंवत्सरमासतिपिलनादिनिरूपणम् ।
११ तत्र जन्मकुण्डलीचक्रम् । . ७६ ८ सुतजन्मोत्सववर्णनम्। ८४ ७ सुतस्य जयसिंहति नामकरणम् । ८५ ३ जयसिंहकुमारीयवालचापल्यपुष्टितुष्टिचेष्टापांशुक्रीडादिवर्णनम् । ९५ २५ पाठनादिप्रस्तावे महोत्सवनिरूपणम् ।
Page #11
--------------------------------------------------------------------------
________________
पृष्ठम् पतिः. विषयः।
९९ २४ कुमारस्य वर्णनम् । १.१ १३ कुमारस्य लेखशालाप्रवेशपाठादिवर्णनम् । १०१ २२ शासनदेवताऽर्चनवर्णनम् । . १०२ ७ पुत्रपाठकस्य सत्कारवर्णनम् । १०२ १८ तस्यां लेखशालायां भणतां शिशूनां सत्कारः। १०४ १ अध्यापकगृहात् पठित्वाऽऽत्मगृहं निवृत्ते सुते समागतेऽध्यापक
सन्तोषकरणम्। १०४ १८ गुरुपितुर्वैराग्योत्पाददीक्षाऽऽदिवर्णनम्। ११० १ कथञ्चित् पत्नीकृतानुमतिं लब्ध्वा स्तम्भतीर्थ जगाम । १११ ४ तत्र विजयदानसूरिसकाशात् १६११ वर्षे दीक्षां जग्राह । ११३ २३ ततो जयसिंहो मातुलगृहे वृद्धि प्राप । ११४ १५ द्वितीयसर्गसमाप्तिः।
अथ तृतीयः सर्गः। १११ १९ महावीरस्वामिन आरभ्य वज्रसूरिपर्यन्तवर्णनम् । १२३ ८ वज्रसेनसूरेर्नागेन्द्रचन्द्रनिर्वृतिविद्याधरादीनामवदातवर्णनम् । १२५ ८ चतुर्वपि कुकेषु चन्द्रकुलस्य मुख्यत्ववर्णनम् । १२७. १६ तपागच्छवर्णनम् । १३० १७ आनन्दविमलसूरिवर्णनम् । १३७ २४ श्रीविजयदानसूरिस्तुतिचरितादिवर्णनम् । १५१ २३ तृतीयसर्गसमाप्तिः।
अथ चतुर्थः सर्गः। १५२ ५ श्रीविजयदानसूरिपधरस्य श्रीहीरविजयसूरेरवदातवर्णनम् । १५२ १२ तत्र गूर्जरदेशवर्णनम् । १५४ १२ तत्र प्राडादनपुरवर्णनम् । १५९ १८ गुरुजनकपरिचयः। १६१ ६ गुल्मातृवर्णनम् । १६५ २१ पुत्रजन्मोत्सवधर्जनम्। १७४. २३ तस्य प्राले काले दीक्षामहोत्सववर्णनम् । १० १९ श्रीविजयदानसूरिनिकटे प्रवज्यां गृहीतवान् ।
Page #12
--------------------------------------------------------------------------
________________
पृष्ठम् पतिः विषयः । १७८ १९ स हीरहर्षाहुः सर्व जैनशानं पपाठ । १८० ८ गुरोरादेशात् शैवं शाकं पठितुकामो धर्मसागरगणिप्रभृतिभिः,
___सह दक्षिणदिशं गन्तुं विजहार । १८१६ देवगिरौ समस्तं शैवशास्त्रमधीत्य गूर्जरत्रामागात् । १८१ २० निजगुरून् मरुस्थलीनान्नि देशे मत्वा तत्र जगाम । १८२ २ तत्र देशे नारदपुरीं प्राप्य गुरुवन्दनं चकार । १८३ १२ शिष्यं पूर्णकलं मत्वा गुरुणा तस्मै पण्डित इति पदवी दत्ता। १८५ ६ ततस्तस्मै हारहर्षाय सङ्घाग्रहादुपाध्यायपदवी प्रदत्ता । १८९ २ अथ सीरोहीनगरे विजयदानसूरयस्तस्मै भाचार्यपदं ददुः। १९० ८ सीरोहीनगरतो विहरन्तस्ते विजयदानसूरिपादाः श्रीहीरविजय
सूरिं पत्तने चतुर्मासीकरणायाऽऽदिश्य सूरतिबन्दिरं प्रापुः । १९१ १० चतुर्थसर्गसमाप्तिः ।
१९५
अथ पञ्चमः सर्गः। १९२ ४ अथ मातुलगृहे स्थितो जयसिंहो मातरं प्रति स्वतपश्चरणेच्छां
प्रकटीचकार। २४ ततो वारणमुखेन तं प्रति मातुर्वचनम् ।
तां प्रति पुनः पुत्रस्योत्तरम् । २०० __ ५ अथ सा सूरतिबन्दिरं गत्वा तत्र स्थितेभ्यो विजयदानसूरिभ्यः
सपुत्रा चारित्रेच्छां प्रकटीचकार । २०२ १५ श्रीविजयदानसूरिणा स शिशुः परीक्ष्य दीक्षायै परिगृहीतः । २१२ १४ अथ जयसिंहकुमारस्य दीक्षामहोत्सववर्णनम् । २२१ १२ तयोर्जननीजन्ययोर्निष्क्रमणमहोत्सवे नागरस्त्रीविचेष्टितवर्णनम् । २२६ १२ श्रीविजयदानसूरयस्तं जयसिंह समातृकं दीक्षयामासुः । २२८ १८ पञ्चमसर्गसमाप्तिः।।
अथ षष्ठः सर्गः। २३० । अथ विजयदानसूरयो जयविमलं हीरविजयसूरिसविधे प्रैषयत् । २४१ १६ श्रीविजयदानसूरिनिर्वाणस्वरूपम् । २४१ १६ अथ विजयदानसूरयो वटपल्लिपुरी प्रापुः । २५३ १२ तत्र १६२९ वर्षे वैशाखशुक्लद्वादश्यां स्वर्ग जगाम ।
Page #13
--------------------------------------------------------------------------
________________
पृष्ठम् पतिः विषयः। २४३ २२ ततः सकलः सञ्चस्तत्स्मरणहते स्तूपं व्यवत्त । २४४ १८ अथ हीरविजयसूरिसाम्राज्यवर्णनम् । २४९ २२ अथ क्रमागतसूरिमन्त्राराधनाय डीसानगरं प्रति जगाम । २५० ८ जयसिंहगणौ व्याख्यानादिनिजकृत्यमारोप्य तत्र गतः । २५१ १९ मन्त्राराधनेन प्रकटितः सुरो जयसिंह पट्टधरं विधातुं जगौ। २५५ २३ षष्ठसर्गसमाप्तिः ।
अथ सप्तमः सर्गः। २५६४ ते सूरयो जयसिंहेन सह विहरन्ति म। २५८ १ ततस्तस्य शास्त्राध्ययनम् । २६४ १८ ते श्रीस्तम्भतीर्थ समागताः । २६५ ४ तत्र पूनीश्राविकाश्रियो व्ययैरहत्प्रतिष्ठा कारयामास ।
३ तत्र संघाग्रहात् जयसिंहाय पण्डितपदं ते ददुः। २३ अथ तेऽहम्मदावादसमीपवर्तिनि शाखापुरे चातुर्मासिकी स्थिति
२६७ २६८
२६९ ७ अथैकदा श्रीसूरिमन्त्राधिपतिः सुरः स्वमे प्रकटीभूय श्रीजय- .
सिंहाय पदप्रदानार्थे पुनः प्रोत्साहयामास गुरुम् ।
सवाग्रहादहम्मदावादपुरप्रवेशमकार्षुः । २३ आचार्यपदोत्सववर्णनम् । । २८० ११ पदस्थापनाकारिश्रेष्ठिमूलाऽभिधस्य वर्णनं,
तनिर्मितोत्सवस्य च वर्णनम् ।। २८४ १७ गुरोः पदस्थापनावर्षमासतिथिलमादिनिर्णयः । २८५ ७ ग्रहस्थित्या कुण्डलिकादर्शनम्। २८६ २४ सूरीन्द्रहीरविजयैरस्याऽऽचार्यस्य विजयसेन इति नाम चके। २९५ २० सप्तमसर्गसमाप्तिः ।
अथाष्टमः सर्गः। २९७ , सुशिष्यदत्ताचार्यपदप्रभावात् विहरत्सु गुरुषु गूर्जरे लुम्पाकमता
धिकारी मेघजीनामा निजमतं मुमुक्षुरभवत् । २९९ ३ अकबरे राज्यं शासति महम्मदावादं गुरवः प्रायः । २९९ ११ अय लुम्पाकमतं विमुच्य मेघजीः सूरीननंसीत् ।
Page #14
--------------------------------------------------------------------------
________________
पहम् पशिः. विषयः। ३०१ १० भय वन्दनोत्सववर्णनम् । . ३०५ ३ तत आचार्यों गणसारणावारणादिरूपां गच्छानुज्ञामवाप्यातित
रां बभौ। ३११ ८ अथ गुरोरनुज्ञया विहरन्तश्चम्पानेरदुर्ग प्राप्य तत्र जयवन्त
नाना श्रेष्ठिना प्रतिष्ठामकारयन् । ३११ १७ ततो विहरन्तः सूरतिवन्दिरं प्रापुस्तत्र चतुर्मासी च चक्रुः । ३१५ १३ तत्र श्रीभूषणनाना दिगम्बरेशेन वादे संजाते सूरयो जयं लेभिरे । ३१० १७ भथ प्रावृषि पत्तनं नाम द्रङ्गमाप । ३१८ ३ इतश्च श्रीहीरविजयसूरिर्गन्धारपुरे तस्थौ । ३२१ ११ अष्टमसर्गसमाप्तिः।
अथ नवमः सर्गः । ३२१ १७ पातिशाहिश्रीमदकब्बरवर्णनम् । ३२८ ६ तेन पातिशाहिना परीक्षितेषु पाखण्डिषु अतिमेतखाननामा
तत्सविधे हीरविजयसूरिमस्तोत् । ३२९ १७ सपातिशाहिर्गुरुं गूर्जरस्थितं ज्ञात्वा फुरमानसंज्ञकं पत्रं गुरुसविधे
प्रेषयामास तदाह्रानार्थम् । ३३१ ६ सूरयो नरेशस्य सादरमाह्वानं श्रुत्वा क्रमात् फतेहपुरागमनं व्यधुः। ३३८ ११ तयोः संलापवर्णनम् । ३४२ २० फतेहपुरे कतिचिहिनान्युषित्वा आगराऽऽख्यनगरे गत्वा चतुर्मा
सी म्यधुः। ३४४ . अथ कुशावर्तदेशस्थशौर्यपुरनेमेर्यात्रां विधाय पुनस्तत्रागत्य श्री
चिन्तामणिपार्श्वप्रतिष्ठां कृतवान् । ३४॥ २० अथ पुनः फतेहपरे।
अथ पुनः फतेहपुरे समागतं सूरि निशम्य सम्राट् मिलनायो.. सुकोऽभूत् । ३४६ १४ गुरोगिराध्य बुद्धो नृपेन्द्रः, ततो गुरुस्तेन समस्तजीवाभयदायि
स्वाखिलमण्डलेषु फुरमाणमलीलिखत्, दृढपारात् पक्षिणो
गुप्तिगृहाच बन्दिनोऽमूमुचत्।। ३४७ ९ नृपो गुरवे फतेहपुरसिकरीसमीपस्थं डाबरं सरोविशेष प्राभृती
कृत्य यावजीवं झषादीनां हननं वारयामास, ततो गुरुर्विजहार । १५. २० नवमसर्गसमाप्तिः
Page #15
--------------------------------------------------------------------------
________________
पृष्ठम् पशिः . विषयः ।
अथ दशमः सर्गः। ३५१ ४ इतश्चानूचानमुल्योऽथ श्रीविजयसेनसूरिः पत्तनादन्यत्र गूर्ज
रत्राभुवि व्यहार्षः। ३५१ १५ मथ कदाचित् पत्तनं पुनराययुः। ३५२ ७ तत्र खरतरैः सह विवादः समजनि, सूरेविजयश्चाभूत् । । ३५३ ४ अथ नृपाधिकारिणो वत्साभिधस्याश्रयं गृहीत्वाऽहम्मदावादे
___ पुनः खरतरैर्विवादः कृतः, तत्रापि तेषां विजयोऽभूत् । ३७० ८ अथैकदा खानखानानृपेण सहास्य धर्मचर्चाऽभूत् , यस्मात् सो.
ऽतीव मुदमाप। ३७१ १७ इतश्चेलादुर्गे स्थिराऽख्यः श्रेष्ठी बभूव, रूपाईसंज्ञा तस्य गेहिनी च। ३७३ ६ गुरुजन्मवर्षमासग्रहादिकथनम् । ३७४ १८ पुत्रे समुत्पन्ने पितृभ्यां तस्य वासति नाम चक्रे। ३७५ १६ अथ स्थिराख्ये पितरि स्वर्ग गते सति वासाकः कुमारो निज
जननी प्रति निजदीक्षाजिघृक्षां प्रकटीचकार । ३७७ ६. श्रुत्वैवं माताऽपि तेन सह स्वकीयमपि दीक्षाग्रहणाभिलाषं प्रकटी
चकार, ततोऽहम्मदावादे तो श्रीविजयसेनसूरिपार्श्वमीयतुः । ३७९ १५ श्रीविजयसेनस्तं साम्बं दीक्षयामास। ३८. ३ तस्य शिष्यस्य विद्याविजयेति नाम गुरुश्चक्रे । ३८१ ९ राजनगरेऽहिवदेऽभिधानभृता श्राद्ध्या जिनबिम्बस्थापनां विदधे। ३८१ २० गन्धारवास्तव्य इन्द्रजीश्रावकोऽहम्मदावादे समागतं सूरिं प्रार्थ
यामास । ३८४ १६ स्तम्भतीर्थवर्णनम् । ३८६ २२ दशमसर्गसमाप्तिः ।
अथैकादशः सर्गः। ३८७ ६ मेवातदेशानुग्रसेनपुर-फतेपुर-अभिरामावादोग्रसेनपुरेषु चतुर्मा
सकचतुष्टयं विधाय नागपुरालङ्कृतं सलक्ष्मीकसपादलक्षं देशं
सूरयः समभ्याययुः, तत्र च चतुर्मासी चक्रुः । ३९० १४ अथ ततो विहरन्तो विजयसेनसूरयः सीरोहीनगर्यो सङ्गतान्
हीरविजयसूरीननंसीत् । ३९. ६ तत्र पुयो द्वौ पुष्पदन्ताविवाभाताम् ।
Page #16
--------------------------------------------------------------------------
________________
पृष्ठम् पङ्क्तिः.
विषयः ।
१९३
१७ श्रीहीरसूरेराज्ञामवाप्य विजयसेनसूरिस्ततः स्तम्भतीर्थं विजहार । ३९४ ४ गन्धारपुरीयमाणवर्णनम् ।
३९४ २३
२९५ १
तत्पुत्रस्य समराभिधस्य तत्पुत्रस्य चार्जुनस्य वर्णनम् । तत्पुत्रस्य भीमाभिधस्य च वर्णनम् । तत्पुत्रस्य जसिआभिधस्य वर्णनम् ।
२९५ ६
३९५ १४ तत्पुत्रयो राजियावाजियाभिधयोर्वर्णनम् ।
३९६
१७
( ७ )
४००
४०५
४०८
४१३
५१४ ४
गन्धारपुरे श्रीसूरिसिंहश्चतुर्मासकं चक्रे ।
४१४
१२
ततो विहरन् श्रीहीरसूरेः समीपं प्रापत् ।
४१५ ३
अथ तौ राजधन्याहृपुरं चतुर्मासीमधितष्ठिवांसौ ।
४१५ १७ अथैकदा राजधन्यपुरे तस्थुषां सूरीणां लाहोरपुरादकब्बरः फुर
४२०
१३
३
५
२
वजियाख्यस्य मेघजीनामा सुतोऽभवत्, अथ वजियाराजियाभिधानौ खम्भाइतबन्दिरं प्रापतुः, तत्र प्रतिष्ठां कारयामासतुः । ततः प्रतिष्ठोत्सववर्णनम् ।
४३०
४३०
माणं प्रेषिवान् ।
४१६ ४ तल्लिखितोदन्तनिरूपणम् ।
४१६ १३
तेन भवद्भिः किं कर्तव्यम् ?, इति निरूपणम् ।
४१८ ६ फुरमाणसमाचारमाकर्ण्य निजशिष्यं पातिशाहमिलनायाऽऽज्ञा
श्रीपार्श्वस्य चिन्तामणिरिति नाम चक्रे ।
चिन्तामणिचैत्यस्य तद्गतभूमिगृहस्य च वर्णनम् । चैत्यप्रस्तावनासमर्थनम् ।
पयामास ।
१६ एकादशसर्गसमाप्तिः ।
अथ द्वादशः सर्गः ।
४२१
५
अथ श्रीविजयसेनसूरिर्लाभपुरं प्रति प्रतस्थे । २४ ग्राम्यादविकशकुनवर्णनम् ।
४२१
४२८
५
अथ पचनपुरं प्राप्तः सूरिशिष्यसूरिः ।
४२८ २१ अर्बुदाचलं ततः प्राप ।
४२९
६
श्रीदेवपाटकस्थानाचलदुर्गादिभूमिषु विहरन् सन् शिवपुरीं नाम
पुरीं प्रापत् ।
७
तत्रस्थसुरत्राणः सीरोहीनान्नीं पुरीं संभूप्य तत्सूरेः संमुखमागात् । १३ तन्नगरीवर्णनम्, तत्र च शीरोहीनगर्यामविशत् ।
Page #17
--------------------------------------------------------------------------
________________
पृष्ठम् पतिः विषयः।। १३१ १६ कियन्ति दिनानि तत्र स्थित्वा प्रस्थाय च ततो राणकपुरं प्राप
क्रमानारदपुरीमलाकार। ४३२ १९ कतिचिदिनानि तन्त्र स्थित्वा ततो विजहार । ४३३ २ गुरूणां वर्णनम् , ते मेदिनीपुरं प्रापुः ।। ४३४ १२ ततो मेदिनीपुरतो विहरन् वैराटं नगरं ययौ । ४३५ १० ततो महिमं नगरं जगाम । ४३६ १६ ततो विहरन् क्रमाद् लोधिभाणापुरमगमत् ।
१ तत्राकब्बरनृपस्य शेखसंज्ञकमन्त्रिणः सहजः फयजीनामाऽऽगत्य
गुरुणा सह समगस्त । ४३७ १० तदाग्रहात् गुरोः शिष्यः श्रीनन्दिविजयाख्योऽष्टावधानानि
प्रादर्शयत् । ४३८ ३ अथ फयजीनामा चमत्कृतः शाहेः पुरतः श्रीहीरविजयसूरिशिष्य
स्य श्रीविजयसेनसूरेोधिआणापुरप्राप्तस्य प्रशंसां चकार । नन्दिविजयादिसाधनश्रवणेन शाहिः सूरिमाह्वयत् , सूरिश श्री.
शाहिमहलमलञ्चकार । ४४० २ तत्र भानुचन्द्रोपाध्यायाः श्रीविजयसेनसूरिपाः समभ्येयुः,
महता संभारेण सहोऽपि स्मैति । ४४१ ३ अथ लाहोरपुरस्याभ्यर्णवर्तिनं गझसंज्ञकं पुरं गुरुरगात् ।। ४४१ १३ भानुचन्द्राणां वचोभिर्गुरूनागतान् ज्ञात्वा श्रीशाहिर्मुमुदे। ४४१ १८ नृपश्च गुरोविनेयानष्टावधानादिकं द्रष्टुमाकारयामास । ४४३ ५ गुरुणा प्रेषितानां नन्दिविजयविनेयानां कौशलं रष्ट्वाऽऽ
श्चर्यभृत् शाहि शं मुमुदे । १२ ज्येष्ठमासस्य द्वादश्यां तिथौ शुक्ले पक्षे गुरुलाहोरपुरं प्राविशत् । १९ ततः सूरेराहूतये शाहिर्जनान् प्राहिणोत्, ततो गुरुरपि सबहुमा
नमुपेयिवान् । ४४९ १७ अथ शाहिना कुशलप्रमे कृते गुरूणामुत्तरम् ।
अथाष्टावधानदिदृक्षोः सभायाः श्रीनन्दिविजयोऽष्टावधानं दर्श
यामास । १५५ २३ प्रसन्नः शाहिस्तस्मै खुशफहमेति विरुदं ददौ। ४५६ १८ अथोपाश्रयमागते सूरौ, केनचिद् द्विजन्मना प्रत्यमाणि-यद् जैना.
न मन्यन्ते जगत्कर्तारमीश्वरम् , ये च जगन्मूलं परमेश्वरं न मन्यन्ते तेषां पन्थाः वृथा, मत एतेषां दर्शनमपि लाभदायिन ।
Page #18
--------------------------------------------------------------------------
________________
हम् पतिः विषयः। ४५९ ८ तच्छ्रुत्वा कुपितं शाहिं प्रति ईश्वरसमर्थनकरणं सूरेः । ४६५ १८ ततः किश्चित् पिशुनवचःप्रपञ्चप्रचारप्रतिबन्धकयुक्तया गुरो
भाषणम्।
. सामान्यतः परमेश्वरस्य सरूपं निरूप्य विशेषतस्तदाह । ४६९ ५ कर्मक्षयोत्यपातकांशात्यन्ताभावव्यञ्जकैकादशातिशयनिरूपणम् । ४७० ११ अथाहतः सुरकृतातिशयनिरूपणपूर्वकं परमेश्वरगौरवनिरूप
पम् । ४७५ १२ इति परमार्थयुक्तयुक्त्या परमात्मस्वरूपं निरूप्य शाहेः पुरस्तादु
पसंहारवचनम् । ४७५ २१ द्विधाऽस्ति परमेश्वर इति प्रथमभेदभाव्यभवस्थपरमेश्वरस्वरूपं
प्रकाश्य शाहेः पुरतो द्वितीयभेदभावनीयनिरूपणम् । ४७६ १७ असत्पलापिभिर्धिक्कारो लब्धः, उदीच्यां यशस्तम्भो निचख्ने तैः। ४७९ १९ तत्र स्थितानां यानि सुकृतानि जातानि सेषां निरूपणम् । ४८० १३ धर्मप्रवृत्तितः प्रीतिचेतस्कत्वफलोपदर्शनम् । ४८० २० भाषणस्वरूपम्।। __ ५ षड्भाषणसूचकस्वरूपं फुरमानमनूचाननाम्नैव सर्वत्र नृपः प्राहि
___णोत् , व्यानशे च तत्वत्रं सकलामिलाम् । ४८२ १६ इत्यादिबहुलाभे जाते सूरिस्तचतुर्मासकम् , तदनन्तरं च चतुमा
सकं तत्रैव चक्रे, तेन शाहेहृदये दया दिदीपे। ४४४ १४ द्वादशसर्गसमाप्तिः।
अथ त्रयोदशः सर्गः। ४४४ १९ इतश्च श्रीहरिविजयः पत्तननगरे चतुर्मासी कृत्वा शत्रुजययात्रायै
- उत्सुक आसीत् । १४५ १७ अथ शत्रुञ्जयवर्णनम् । ४४८ १० ततः सूरिः शत्रुञ्जयतलहट्टिकां प्राप्य तमधिरुरोह । ४८९ २५ ततो यस्कृतवान् सूरिस्तनिरूपणम् । ४९० २ ततस्ततो विजहार। ४९. १० विहृत्व उन्नताख्यद्रले गत्वा तत्रैव चतुर्मासीद्वयीं चके । ४९२ २० प्रयोदशसर्गसमाप्तिः ।
Page #19
--------------------------------------------------------------------------
________________
पतिः. विषयः।
अथ चतुर्दशः सर्गः। - १९३ ५ यस्मिन् समये वपुरपाटवात् श्रीहीरविजयसूरयश्चतुर्मासी कर्तु
कामा आसन् तदवसरे श्रीविजयसेनसूरिः शाहेराग्रहाद् नन्दि
बिजयं तत्रैव विमुच्य ततो विजहार। १९५ १८ महिमनगरं प्राप्तस्य गुरोः श्रीहीरविजयसूरेर्वपुष्पीडासमाचार
बोधको लेख इयाय । १९५ ३ ततः सत्वरं स ततभचाल । १९५ १२ ततो गुरुवर्णनम् । १९६ ६ ततः स पत्तनमाससाद ।
१० तत्र कियद्दिनानि तस्थौ। ४९७ २० अत्रान्तरे यजातं तत्कथनम् । ४९८ १६ श्रीहीरविजयो दुरन्तां रुजं समधिगम्य शिष्यान् श्रावकान् प्र.
त्युपदिदेश। ४९९ १० उपदेशस्वरूपनिरूपणम् । ५०० ११ भवद्भिरहमिव विजयसेनोऽपि माननीय इत्यादिदेशनां दिदेश । ५०६ ६ श्रीहीरविजयसूरयो देहं तत्यजुः। ५०९ १ तत्तनोः संस्कारकरणकथनम् । ५०९ १७ उमतपुराद् वृत्तान्तमेतत् पत्तनपुरे प्राप्य विजयसेनसूरि जङ्ग
__ मालोकनतो दीपशिखेव विच्छायरुचिर्बभूव । ५१० २३ अथाचार्यधुर्यस्य विषादोद्गारवचनानि । ५२२ २३ विषादविरहविलापवचास्युपदर्य सौस्थ्यवचननिदर्शनम् । ५२६ ३ अथ सूरिराजराज्यवर्णनम् । ५५३ २४ चतुर्दशसर्गसमाप्तिः। .
..... अथ पञ्चदशः सर्गः।
५३४ ४ सूरेः पत्तनाद् विहारवर्णनम् ।। ५३५ , स्तम्भतीर्य गत्वा चतुर्मासीकरणम् । ५३. १ ततो विहरन् अहम्मदावादमियाय। ४२ २ तत्र मोटकसंशकश्रावधानन्ययेन जिनविमामतिक्षिपदा
Page #20
--------------------------------------------------------------------------
________________
पृष्ठम् पङ्क्तिः.
५४२
५४३ ५
५४५
५४५
५४७
विषयः ।
२० भोटकाख्यश्राद्धकृतप्रतिष्ठादिने सूरिभिः पं. लब्धिसागरा वाचका
विदधिरे ।
अथ वचाऽभिधजवहरिणा सूरिः प्रतिष्ठामतिष्ठिपत् । १६ पञ्चदशसर्गसमाप्तिः ।
५५९
२०
५४८ २०
५४९ १७
५५८ १४
५५९ २
११
५७७
५७८
२१
५६०
५६१ ५
५६३ १७
( ११ )
अथ सूरिकृतपार्श्वस्तुतिः ।
अत्याग्रहात् सङ्घस्य सूरिराट् सिकन्दरपुरे चतुर्मासकं चक्रे । तत्र सिकन्दरपुरे लहुआख्यश्राद्धधनैः श्रीसूरिसिंहः श्रीशान्तेः प्रतिष्ठां व्यधात् ।
तस्मिन्नेव दिने विज्ञनन्दिविजये वाचकीयं पदं सूरीन्द्रोविद्याविजये गणौ स्वशिष्ये सूरिपदयोग्ये पण्डितपदं च प्रददौ । ९ सूरिस्ततो लाटापल्लिपुरीं प्रति प्रतस्थे ।
५६५ २२
अथ षोडशः सर्गः ।
अथ सूरिः कालूपुरं प्रापत् ।
तत्र पुरा केनापि भूमध्ये विनिहितं श्रीचिन्तामणिपार्श्वबिम्बमाकर्ण्य शस्तस्त्रमशकुनैर्गुरोः सत्यत्वेन प्रतीतिः, तस्य प्रादुर्भावश्च । तं पार्श्व सिकन्दरपुरे सङ्गोऽतिष्ठिपत् ।
तत्र ध्यानकृते सूरिस्तस्थौ, ध्यानावस्थावर्णनं च ।
ततः प्रकटीभूतेन यक्षराजेन विद्याविजयाय पण्डिताय स्वपदं देयमिति सूरिर्निर्दिष्टः ।
अथ लाटापलिनाम्नः पुरात् सूरिः प्राचीचलत्, तत इलदुर्ग प्राप्य गूर्जरत्रासंमुखं चलितस्ततो गूर्जरं पावयन् सौराष्ठदेशं प्राप । ५६६ २१ अथ सङ्घयुतः शत्रुञ्जययात्रां विधित्सुरुन्नतनामधेयं नगरं प्राप्तः । तत्र कियद् दिनं स्थित्वा पुनः शत्रुञ्जयं प्रति प्रतस्थे । ९ श्री पालीटामाऽऽख्यात् पुरात् श्रीस्तम्भतीर्थं प्रति ययैौ ।
६६७ १७ ५६९
५६९ २४
अथ गुरोः संमुखोत्सवकथनम् ।
५७२
२२ षोडशसर्गसमाप्तिः ।
अथ सप्तदशः सर्गः ।
१० श्रीमल्लसाधुवर्णनम् ।
१७ गुरुपट्टधरमहोत्सवाय प्रेषिताभिः कुङ्कुमपत्रिकाभिः श्रीस्तम्भ
af लोकः समाजगाम ।
Page #21
--------------------------------------------------------------------------
________________
( १२ ) पृष्ठम् पतिः विषयः । ५८. ९ अथ पदोस्सवे नगरवर्णनम् । ५८४ १५ श्रीमल्लसाधुसत्कगृहमण्डपादिवर्णनम् । ५८९ १९ अथ सूरयो वाचकपञ्चकसपादशतमितपण्डितयुता मल्लसाधुगृह
माजग्मुः। ५९३ १२ सुखावबोधाय सूरिपदकुण्डलिकास्थापनम् । ५९७ ८ अथ तस्योत्सवे मेघविजयेभ्य उपाध्यायपदं प्रदत्तम् । ५९७ १५ अथ तत्पट्टोत्सवानन्तरं कीकाभिधठक्कुरस्य गृहेऽहत्यतिष्ठां यके,
विजयराजविबुधाय उपाध्यायपदं च दत्तवान् । ५९८ ७ अथ तत्र चतुर्मासीं कृत्वा अणहिल्लपाटकनगरमाजगाम । ५९८ १६ अथ गुरुर्विजयदेवसूरये स्वगच्छानुज्ञां दित्सुरमवत् । ५९९ १२ ५०-सहसवीरनाम श्रादकृत्यवर्णनम् । ६.२ ६ ततोऽणहिल्लपाटकपुरात् शङ्खधरपुरे समेत्य लुम्पाकमतमुन्मुच्य
शिष्यत्वमुपगते नयविजयनान्नि उपाध्यायपदं प्रदात् । ६०३ १ अय ततो विहरन् अहम्मदावादमियाय । १०४ १४ सप्तदशसर्गसमाप्तिः।
अथाष्टादशः सर्गः। ६०५ २१ अथाहम्मदावादवासी पुण्यपालो नाम श्राद्धःप्रतिष्ठा कर्तुमैहत,
तद्माता ठक्करश्राद्धः शम्भवस्वामिनः खाख्यया विम्बमति
ष्ठिपत् । १०६ १० अथ पुण्यपालः शीतलनाथविम्बं स्वनाम्नाकारयत्, नाकराभिधो
- म्राता शम्भवनाथबिम्बं विधापयामास । १०७ १८ अय वजियाभिधः पार्थस्य मूर्ति निरमापयत् ।। - ६.९ ३ चतुर्मासीमहम्मदाबादेऽकार्षीत् , गुरोर्वचनमाकर्ण्य सिद्धजीना
मा प्रतिष्ठामकारयत् । ११. २३ श्रीपालनामा जवहरी तदुपदेशात् पार्श्वबिम्बमकारयत् । १२ ३ इहावसरे श्रीस्तम्भतीर्थवासी सोनीतेजपालनामा नाभेयप्रति
मामचीकरत् , श्रीपत्तनद्रगनिवासी तेजःपालोऽपि तत्प्रति
___ मामचीकरत् । 1 . वाचंयमपुजवानां वाचाऽर्बुदाचलयात्रा चिकीर्षुः सहाधिपीभूप
बराल, पथि प्रतिश्राद्धगृहमेकां महिमुन्दिकां प्रयच्छन् सीरोहि
Page #22
--------------------------------------------------------------------------
________________
पृष्ठम् पतिः विषयः।
कानगरे राणपुरे च धनानि वितरन् यात्रां विधाय निजं पुरं
समागत्य महतीं प्रभावनां चक्रे। .. ६१७ ३ अथ ततः प्रस्थाय सूरिः श्रीराजधन्यपुरं प्राप । ६१७ १५ ततो राजधन्यीयनृपेण महोत्सवेन सूरेनगरप्रवेशोत्सवश्वके । ६२१ ३ पाहडखाननामा गुरुसेवार्थं समीपमागच्छत् । ६२१ १३ तदनन्तरं ते सूरयोऽपि तत्र चतुर्मासी वितेनुः। ६२७ ७ डीसाख्यनगराभ्यर्णवर्तिनि रामसणस्थाने भुवो मध्यात् निःस.
तायाः श्रीऋषभदेवप्रतिमायास्तत्रैव स्थापितायाः . नमस्कृते
राजधन्यपुरीयसवः सूरिणा सह प्राप। ६२९ १ यात्रां विधाय स सूरिः ससङ्घः पुनरपि राजधन्यपुरं समाजगाम । ६३० ८ अष्टादशसर्गसमाप्तिः ।
अथैकोनविंशः सर्गः। ६३० १२ अथ गुरुवाचा बुद्धाः श्राद्धाः प्रतिष्ठां कर्तुमैच्छन् , प्रतिष्ठावर्णनं च। १३४ ३ अय संघाग्रहात् कियन्त्यहानि तत्र स्थित्वा वटपल्लिपुरं जगाम,
तत्र स्तूपद्वयं विभाति । १३५ ५ तत्र श्रीविजयदानसूरिश्रीहीरविजयाचार्ययोनिर्वाणकल्याणकपा.
वितेहि सहः संभूय भूयांसि महांसि तनोति । ६३५: २३ अथ श्रीविजयसेनसूरिः श्रीहीरभट्टारकपादानां पादौ स्तौति स्मा ६४. . ९ ततः पत्तनराजधानी जगाम सूरिः। ६४२ १६ पूर्व श्रीहीरविजयसूरीश्वरदीक्षितऋषिमेघजीकस्य प्रशिष्यो मुनि
मेघराजः निजं लुम्पाकमतमुख्यतां परित्यज्य श्रीविजयसेन
सूरिं तवरणसवितुकामो धवन्दे। . ६४३, १० सूरिस्तं दीक्षितवान् । १४४ १४ पत्तनाम्यर्णवर्तिनः कुमरगिरेः समः कुमरगिरौ चतुर्मासी विधार्नु
विज्ञपयामास । १४४२३ भय सहामहात् ते तत्र चतुर्मासी.चक्रुः । ५४६८ कुमरागिरि गुरवोऽधिजग्मुः। :६५९.९ पत्तनपत्तनस्थः सहो ननाम तम् । १५. २० भय शपरं पुरं ते समाजग्मुः।
Page #23
--------------------------------------------------------------------------
________________
पृष्ठम् पहि:.
- ६५१ १६
६५२ १०
६५३ ११
६५६ ७
६५६ १८
६५७
६६४
६६६
६६७
६५७
२२ १९
६५८
६५९ ११
६५९ २२
६६१ १
६६२ १
६६३ १५
६६४ ४ द्वीपबन्दिरस्थसंघाग्रहात् सुराष्ट्रदेश गन्तुं स्वपट्टधारिणा विजयदे
श्रीस्तम्भतीर्थ प्रविवेश ।
तत्र प्रतिष्ठां कृत्वा श्रीधाम्म्यकव्वरपुरे चतुर्मासीं चक्रुः ।
ततो गन्धारनगरं जगाम ।
१८ एकोनविंशसर्गसमाप्तिः ।
( १४ )
विषयः ।
ततो वलितः सङ्घाग्रहात् पचनपत्तनमलचक्रे ।
ततः श्रीस्तम्भतीर्थे प्रतस्थे ।
१०
वेन सह व्यहार्षीत् ।
२२ ततः शत्रुञ्जयं प्राप्य यात्रां कृत्वा कियद्दिनीं स्थित्वा सङ्घाग्रहाद् अनूचानं श्रीविजयदेवसूरिं गूर्जरत्राविहारायाऽऽदिश्य स्वयमूनाख्यं द्वङ्गं प्रतस्थे ।
६६७
१५ ६६७ २०
६६८ १
६६८ 99
अथ विंशः सर्गः ।
गन्धारनगरे चतुर्मासीं गुरुश्चक्रे । चतुर्मासीप्रान्ते प्रतिष्ठां चकार । सङ्घस्याग्रहात् सूरतिबन्दिरं गुरुरीयिवान् । तत्रत्योऽखिलः सङ्घो गुरुं प्रत्युज्जगाम । गत्वा च तत्रार्हत्प्रतिष्ठा कारिता । अत्याग्रहग्रहात् तत्र वर्षासु आसामास । अथ तस्माद् विहरन् स्तम्भतीर्थं प्राप ।
१६ श्रीहीरसूरेः स्तूपं त्रिः परीय पादुकायुगलीं च नत्वा उन्नतं ( ऊनाख्यं ) द्वङ्गं प्राविशत् ।
६६८ २०
तत्र मेघनामा वणिग्वरः, तस्य पत्नी लाडिकीनाम्नी च, ताभ्यां उन्नतद्रङ्गे प्रतिष्ठां विदधे ।
द्वितीयां प्रतिष्ठाम्, अमूलांनाम्न्या श्राद्ध्या निर्मापितां चक्रे । तृतीयां च कालाभिधेन श्रेष्ठिना कारयामास ।
अथ सङ्ग्रहठात् तत्र गुरुवतुर्मासीं चक्रे ।
पारणके ततो विहरन् क्रमात् समुद्रप्रान्तस्यदेवपत्तनपत्तनं
प्रापत् ।
तत्रामरदत्त-विष्ण-लालजीसमाऽऽल्यास्त्रयो वणिजो गुरुभिस्तिस्रः प्रतिष्ठाः कारयामासुः ।
Page #24
--------------------------------------------------------------------------
________________
( १५ )
पृष्ठम् पतिः. विषयः । ६६९ ७ ततश्चलन् द्वीपबन्दिरपार्श्वस्थं श्रीदेवकुलपाटकमभ्यागात्। ६६९ १३ तत्रैकां प्रतिष्ठां हीरजीश्रावकोकसि, द्वितीयां शोभांश्राद्ध्याः
सदनेऽकरोत् । ६७० २१ कपीतानकलासादिपादरीसहितस्वकाजीविराजितस्य फरङ्गीसमु
दायस्याग्रहात् श्रीनन्दिविजयाहुवाचकं गुरुः प्राहिणोत् ।। ६७१ ८ तत्कलारजितैः फरङ्गिमुख्यैः सत्कृतो विनेयो गुरुं प्रतीयाय । ६७१ १४ अथ सूरिः सङ्घलोकेन सह जीर्णदुर्ग प्रति श्रीनेमिनाथया
त्रार्थ प्रतस्थे। ६७२ १७ अथ सङ्घन साधै सरिर्जीर्णदुर्ग प्राप।
१ तत्र खुरमनामको राजा करोऽपि गुरोर्भाग्यात् शान्ततामगात् । ६७३ ८ तेन सत्कृतो गुरू रैवतनामानं गिरिमारुरोह । ६७३ १३ गूर्जरत्राऽधीशश्रीसिद्धराजजयसिंहदेवमहामन्त्रीश्वरसजनश्रेष्टिका.
रिते पृथ्वीजयनानि चैत्ये नेमिस्वामिबिम्बमपश्यत् सूरिः । ६७४ १३ उत्तीर्य च तस्माद्रेिः कियन्ति दिवसानि जीर्णदुर्गे स्थित्वा गुरुः
श्रीदेवपत्तनपुरं जगाम। ६७५ ८ विंशसर्गसमाप्तिः।
अथैकविंशः सर्गः। ६७५ १२ सापहात् देवपत्तनपुरे चतुर्मासी चकार । ६७५ १६ ततस्ततो विहरन् समुद्रपुलिने चलन् देउलवाडाख्यं नगरं
प्रापत् । ६७. १५ कपीतानकाजीकलासपाद्रीयप्रमुखाग्रहात् सरिपबन्दिरमभ्यागात्। ६७४ ३ फरक्रियहितं मचुआळं वाहनमारुह्य प्रस्थाय तत उत्तीर्य च द्वीपं .
समाविशत् । ६८० ६ तुष्टः फरङ्गीदने बहूनि दिनानि स्थित्वा धर्मप्रभावनां कृत्वा
ऽचलत् । १८ . ततो द्वीपवासिना सधेन प्रार्थितश्चतुर्मासी देवकुलपाटके चकार । १८० १८ अय नवानगरनृपतिराउलजामजीप्रधानैः श्रावकैर्विज्ञप्तो गुरु
मचाल । ४६३ ततः सौराष्ट्रदेशं. पावयन् नवानगरसत्कहलारदेशसीमस्थं भाण
बडनाममामं ययौ।
Page #25
--------------------------------------------------------------------------
________________
( १६ ) पृष्ठम् पतिः विषयः। ६१ १३ ततो नवानगरामध्यगात् । ६८२ १३ तत्र निर्विघ्नं चतुर्मासकं निरमापयत् , तत्र जामनामा नृपो.
ऽपि दर्शनायाऽऽगात् । , अथ गूर्जरस्थानां श्रीअनूचानानां सर्वेषां सचानां चाग्रहेण
प्रस्थाय शङ्केश्वरं पुरं प्राप। ६८३ १९ तं शक्षेवरं प्रणम्य अहम्मदावादपुरं प्रति प्रतस्थे । २८३ २४ ततो राजनगरे (अहम्मदावादे ) गुरुरागात् ।। ६८४ १८ तत्र सङ्घमध्ये द्वादशवार्षिको यो विरोध मासीत्, स तवचसै
वाभज्यत । ६८५ ५ तत्र चतुर्मासी कृत्वा प्रतिष्ठानां चतुष्टयं चकार । ६८६ १० श्रीगुरुपट्टधरश्रीमदाचार्यधुरन्धरश्रीविजयदेवाहयस्य वर्णनम् । ६८७ ४ गुरोः राज्येऽष्टौ उपाध्याया आसन् , तथा तत्स्थापिताः शतशः
पण्डिताः सन्ति स्म। ६८५ १८ अथ तेषां पण्डितानां वर्णनम् । ६९० ७ गुरूपदेशात् शत्रुञ्जय-तारा-श्रीविद्यानगर-राणपुर-आरासण
पुर-पत्तनादिनगर-शङ्खधरपुरेषु जीर्णोद्धारा अनेकशः संजाताः। , ६९० २४ अथ गुरुमूर्तिवर्णनम् । ६९२ ६ ततो गुणशंसा, तत आशीर्वादनिर्देशः । ६९५ १३ एकविंशसर्गसमाप्तिः, अन्यसमातिश्च ।
इति विजयप्रशस्तिकाव्यस्य विषयसूची समाप्ता ।
Page #26
--------------------------------------------------------------------------
________________
નો નમ: શ્રી ગુરુપ્રેમયે विजयप्रशस्तिः ।
विजयप्रदीपिकाऽऽख्यया व्याख्यया सहिता ।
जयमः सर्गः ।
स्वस्तिश्रीनाभिभूर्भूयाद् भूयसे श्रेयसे सताम् । तनयां जनयाञ्चक्रे यो ब्राह्मीं ब्रह्मचारिणीम् ॥ १ ॥ सिद्धये सोऽस्तु सिद्धार्थः श्रीसिद्धार्थजनिर्जिनः । अजडाऽपि यदीया वाग् विश्वपङ्कापहाऽद्भुतम् ॥ २ ॥ हंसः पक्ष्यपि दक्षोऽभूद् विवेके क्षीरनीरयोः । यत्सङ्गरङ्गतः साऽस्तु शारदा वरदा मम ॥ ३ ॥ नमः श्रीगुरवे तस्मै भुवनाम्भोजभानवे । यत्प्रसादादहं प्रापं विवर्णोऽपि सवर्णताम् ॥ ४ ॥ वं गुरुं गुरुताऽगारमनगारवरं स्तुमः । भवेन सह यः स्नेहं न चक्रे ब्रह्मचार्यपि ॥ ५ ॥ श्रीषमवीरवाज्यायसुरीगुरून् प्रणयतः प्रणम्येति । विजयप्रशस्तित्तिर्विधीयते शिष्टतुष्टिकृते ॥ ६ ॥ इहान्वमुखेनैव सर्वे व्याख्यायते मया । नामूलं लिख्यते किञ्चिमानपेक्षितमुच्यते ॥ ७ ॥
इह हि चतुरर्णवर्णितार्णवमेखलामण्डलाखण्डलनाहि
Page #27
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । . श्रीमदकब्बरप्रमुखक्ष्मापालमालामौलिमौलिमणिगणज्योतिर्जलासारस्नपितपादानां, श्रीमत्तपागणगगनाङ्गणसमुद्भासनसहस्रपादानां, निस्सीमसौम्यतासदनवदनप्रभामाग्भारपराभूतपीयूषपादाना, सकलभट्टारकभट्टारकभट्टारक-श्रीहीरविजयसूरि-पादानां; प्रकटपट्टपदुलक्ष्मीललनाललाटस्थलीभासनभासुरमणयः, संख्याविषयातीतानूचानवितानवतंसायमानयुगप्रधानसमानातिजातसन्तानोपमानभट्टारक-श्रीविजयसेनमूरि-शर्वरीमणयः संपति विजयन्ते । तेषां च सर्वतः संप्रासामितमहोदयेन महामहिमातिशयेन समुल्लासितान्तःकरणस्तद्गणगृहाङ्गणमोद्दीपप्रदीपानुकारिश्रीमदाचार्यहर्यक्षरूप-श्रीगौतम-सुधर्मस्वामि-प्रतिरूपतपागच्छभूप-श्री विजयदानमूरिवर-वितीर्णविशारदपदधारिनिर्जरनिर्झरिणीनिर्यनिरर्गलनिर्मलजलप्रवाहपटलपक्षालितकैलासगिरिगौरतागर्वसर्वऋषयशःपुञ्जनगन्मनोहारिनिरतिचारपश्चाचारविचारचारुसामाचारीसंचारिभूर्भुवःस्वस्त्रयीविदितसुविहितपरम्परामादुर्भुतप्रभूत - महामुनीश्वरसब्रह्मचारिनिष्पारसंसारपारावारपतज्जन्तुजातपो - तायमाननिरभिमानज्ञानगुणगर्भितक्रियाजाग्रज्जाङ्गुलीप्रबलब - लेन विषमतरविषयविषधरविषतिरस्कारिपण्डितपदमाप्तिमभृतियावज्जीवितव्यद्रव्यसप्तकातिरिक्ताहारविकृतिपञ्चके रसोत्पन्नषस्तुपरिहारिनित्यैकमक्तकशुष्कशाकमासिकोपवासषद्कप्रमुखानेकप्रत्याख्यानकारिसर्वान्तर्वाणिश्रेणिशिरोमणिपण्डित-श्रीकमलविजयगणि-चरणारविन्दमकरन्देन्दिन्दिरः, कालिदासादिकविकीर्तिलुण्टाककाव्यकलाकलापकेसरिकिशोरकक्रीडनकन्दरः, प
Page #28
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। ण्डितश्रीहेमविजयगणिसंबकः कविपुरन्दरः; श्रीगुरुगुरुतरभक्तिव्यक्तिमरूपकं, श्रीहीरविजयसूरिप्रभृतिभट्टारकत्रिकावदातकदम्बकनिरूपकं, श्रीरघुवंशदेशीयतया विजयवंशापरपर्यायधारक, विश्वविश्वावलयवर्तिचतुरचेतश्चमत्कारकारकं, विजयप्रशस्तिनामकं काव्यं कर्तुमुपचक्रमे । क्रमेण च षोडशे सर्गे पूरिते सति स वर्गमधिजग्मिवान् । अथ च निजकाव्यविद्याविद्यागुरोस्तस्य पितृव्यगुरोरुत्तमर्णत्वमिच्छता मया मुग्धधियाऽप्यतनसर्गपश्चकरचनेनैकविंशतिसर्गात्मकं तत्संपूर्ण निर्माय निर्मायमौलिरनसुविहितसूरिसमानभोरवयुवराज-श्रीविजयदेवमूरीन्द्र-चन्द्रोपदेशेन भाविनामल्पमेधसां विषमार्थसार्थप्रकाशकत्वेनोपकारकारिका, विजयमदीपिकाऽभिधानधारिका तट्टीका प्रकटीक्रियते । तत्र प्रतिकाव्यमलङ्काराणां भूयस्त्वेन सर्वात्मना ते ग्रन्थगौरवभयान्मया न वित्रियन्ते, ततस्तेऽलङ्कारमहोदधिप्रमुखालङ्कारग्रन्थेभ्योऽवगन्तव्याः। तथा सर्वत्र लिङ्कादिनिर्णयो लिङ्गानुशासनादेरवसेयः, अत्र तु कुत्रचिद् विशेषभूतस्य तस्य प्रतिपादनात् । छन्दोभेदस्तु प्रतिसगै मादुर्भावयिष्यते; कुत्रचिमोक्तश्चेत्तदा विशेपविद्भिश्छन्दश्चूडामणिप्रभृतेः स्वयमेव सोऽभ्यूख इति तात्पर्यम्।। ___ अब अन्यारम्भे अन्यकारः शिष्टसमयपरिपालनाय प्रत्यूहव्यूहमनमनायच समुचितेष्टदेवताऽऽदिनमस्कारलक्षणं मा समाचरन् प्रथमं पचमाह
श्रेयांसि वः सृजतु नाभिभवो महेशः
सत्योपलक्षितपुरः पुरुषोत्तमः सः।
Page #29
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
सर्वज्ञरागकृदवाप्तरसेशसङ्गा
गङ्गेव गौरजनि यस्य मनोज्ञवर्णा ॥ १ ॥ सः नाभः सप्तमकुलकराद् भवो जन्म यस्य स नाभिभवों वृषभः पुरुषोत्तमोऽर्हन् वो युष्माकं 'श्रेयस्तु मङ्गले धर्मशस्तयोः' इत्यनेकार्थत्वात् श्रेयांसि मङ्गलानि, पुण्यानि वा; प्रशस्तानि वस्तूनि वा सृजतु करोतु इति क्रियाकारकसंपर्कः । नाभिभवः किंलक्षणः, महांश्चासावीशश्चेति महेशो महास्वामीत्यर्थः। पुनः किं० सत्योपलक्षितपुरः सत्येन सम्यग्धर्मेण उपलक्षितमलंकृतं 'पुरं शरीरे नगरे गृह-' इतिश्रीहेमचन्द्राचार्यवर्यवचनात् पुरं शरीरं यस्य सः। यत्तदोर्नित्यं सहचारित्वात् स क इत्याकाड्क्षायामाह-सर्वज्ञेति। यस्य गौः वाग् गलेचाऽजान जातेत्यन्वयः। अथ गोगङ्गायाश्च विशेषणद्वारा समानधर्मताऽभिधीयते-गौः गङ्गा च किं० सर्वेषां ज्ञानां पण्डितानां रागकारिणी, पक्षे सर्वज्ञो महादेवस्तस्य रागकारिणी। तेन हि गङ्गा मूर्द्धनि धृतेतिभुतेः। पुनगौशा च किं० रसानां शृङ्गारादीनां ईशः स्वामी रसेशः शान्तनामा रसः तेन तस्य वाऽवाप्तः प्राप्तः सङ्गो यस्या यया वा सा। गकापक्षे रसानां जलानां ईशो रसेशः समुद्रस्तेन तस्य वाऽवाप्तः सङ्गो यस्या यया वा सा। अथवा रसायाः पृथिव्या ईशो रसेशोOद्भरतो राजा तेनावाप्तः सङ्गो यस्याः सा । यतो भरतस्य भगवतः पुत्रत्वेन श्रावकत्वेन च भगवद्गवां सङ्गः संगच्छत एवेति । गङ्गापक्षेऽपि दिग्विजयं कुर्वाणेन तेन नवनिधानाविर्भावावसरे शरदा सहस्रं यावन्नवनवैभॊगैर्गङ्गा मुक्तति तेन सह गङ्गायाः समः
Page #30
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। सङ्गतिमातीति निर्गलितार्यः। पुनः किं० मनोज्ञा वर्णा अक्षराणि यस्यां सा।अथवा मनोज्ञा हृदयामा वर्णा गुणा यस्यांसा ‘पञ्च त्रिंशच वाग्गुणाः' इति श्रीहेमाचार्योक्तेः । तथा गङ्गापक्षे मनोज्ञो रम्यो वर्णो धवलत्वलक्षणो यस्याः सा! अथवा मनोझा वर्णो यशो यस्याइति । यदनेकार्थः 'वर्णोऽक्षरे गुणे यशसि' इति । अत्रच प्रथमकाव्यपूर्वार्दै लौकिका अपित्रयो देवाः स्मृता बोधितव्याः। तथाहि-नाभिभव इति ब्रह्मा, महेश इति महादेवः, पुरुषोत्तम इति विष्णुः। अथ प्रथितार्थत्रिकेणैकेन विशेषणेन क्रमेण त्रीनपि स्पष्टं विशिनाष्टि-सत्येति । ब्रह्मपक्षे, तपोलोकात्परो लोकः सत्यो नाम लोकः स च ब्रह्मस्थानापराभिधानस्तत्र उपलक्षितं प्रतीतं पुरं गृहं यस्य स इति । महेशपक्षे, सत्या पार्वत्या उपलक्षितं पुरं शरीरं यस्य स इति । विष्णुपक्षे, भीमो भीमसेन इतिन्यायात् सत्या सत्यभामाऽभिधामयमा पट्टराज्ञी तयोपलक्षितं पुरं गृहं यस्य स इति ।
अत्रादौ श्रेयःशब्दप्रयोगो मङ्गलवाचकः । यदुक्तं पूर्वमहाकविभिः'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्याः स्युर्लिपितो गणतोऽपि च ॥१॥ इति दिक। __तथाऽत्र सर्मे वसन्ततिलकाख्यं छन्दः । तल्लमणश्चदम् 'उक्ता वसन्ततिलका तभजा जगौ गः' काश्यपस्तु सिंहोद्धताऽभिधानामेनामभ्यपादिति मथमपद्यायः॥१॥
Page #31
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । शान्तिर्निशान्तमणितां तनुतां विभुर्वः
शान्त्यै समस्ततमसां स मनोनिशान्ते । योऽत्रोपभोग्यजनि जन्मनि सार्वभौम
सार्वश्रियोः शिव इवाद्रिसुताधुनद्योः ॥२॥ स शान्तिविभुः षोडशो जिनो वो युष्माकं मनोनिशान्ते हृदयमन्दिरे निशान्तमणितां गृहमणितां तनुतां दीपभावं दधाविति भावः । कस्यै, शान्त्यै शमनाय । केषां, समस्ततमसां सर्वपापानाम् । दीपो हि तमसामन्धकाराणामुपशान्त्यै गृहे भवतीति भगवानपि तथा भवत्विति तत्त्वम् । यत्तदोर्नित्याभिसंवन्धान्स क इत्याशङ्कायामाह-योऽत्रेति । यो भगवान् अत्र जन्मनि इहावतारे सार्वभौमसार्वत्रियोश्चक्रधरतीर्थकरलक्ष्म्योः उपभोगी भोक्ताऽजनि जातवानित्यन्वयः। क इव कयोरिति दृष्टान्तघटनामाटीकते-शिव इव । महेश्वरो यथा अद्रिसुताधुनद्योः पार्वतीमन्दाकिन्योरिति भावार्थः ॥२॥ नेमिः श्रियं दिशतु दर्पकदर्पसर्प
सर्पासुहृत्स सुहृदां हरिवंशरत्नम् । यस्मिन् जगज्जयदजन्मनि जन्मतोऽपि
सद् ब्रह्मचारिण शिवातनयत्वमासीत् ॥ ३ ॥ स नेमिररिष्टनोमिनामा दाविंशस्तीर्यवरः सुहृदां सुमनसा 'श्रीलक्ष्म्याम्' इत्याधनेकार्यवचनात् श्रियं लक्ष्मी, मति, वाणी, शोमा, त्रिवर्गसंपत्ति वा दिशतु इत्यन्वयः । स कि० दर्पकेति ।
Page #32
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। दर्पकः कन्दर्पस्तस्य यो दर्पोऽहङ्कारः स एव सर्पः पवनाशनस्तत्र सर्पासुहृद् गरुडः। सर्पारातिः सर्पकुलमिव भगवान् कामं जिगायेति भावार्थः। पुनः किं० हरीति । हरि म राजा तस्य यो वंशोऽन्वयस्तत्र रत्नमिव रत्नं तस्योद्योतकत्वात् , विभूपकत्वाद्वा, अथवा 'रनं स्वजातिश्रेष्ठ स्यात्' इति श्रीहेमाचार्यवचनात् सर्वेष्वपि हरिवंश्येषु यदुषु श्रेष्ठ इति दिक। स क इत्याह-यस्मिन् शिवातनयत्वं 'सत् सत्ये' इति वचनात् सत् सत्यमासीत् । शिवातनये हि भगवति शिवातनयत्वं सत्यमेवास्तीति तत्कयनं सिद्धसाधनादनर्थकमिति चेत् । न । उच्यते। अत्र हि शब्दच्छलत्वाच्छिवातनयत्वं कार्तिकेयत्वमित्यर्थः। तत्कथं यथार्थमिति हेतुभूतविशेषणद्वारेणाहयस्मिन् कि० ब्रह्मचारिणि शीलव्रतशालिनि । कुतो जन्मतोऽपि 'आजन्मकामविजयी' इतिपुराणवचनादाबाल्यादपि ब्रह्मचारित्वाच्छ्विातनयत्वं युक्तमेव । कार्तिकेयस्यापि लोके ब्रह्मचारित्वेन कविरूढ्या प्रतीतत्वाच्छिवातनयत्वमप्यस्तीति भावः। पुनः किं लक्षणे, जगदिति । जगतां लोकानां स्वर्गमर्त्यपाताललक्षणानां जयदं जन्मोत्पत्तिर्यस्य तस्मिन्निति । भगवजन्मकल्याणके हि सर्वत्र सर्वेषां सुखाद्वैतभवनात् सर्वदाऽनिष्टत्वेन पारमार्थिकरिपोर्दुःखस्य जयो भवतीति जगजयदजन्मत्वं युक्तमेवेति । कार्तिकेयपक्षेऽपि धर्मधर्मिणोरभेदाज्जगतां जगवर्तिनामधिकाराद्देवानां जयदायि जन्मावतारो यस्येति । इह श्रूयते हि पुरा सर्वेऽपि सुराः संभूय स्वयम्भुवं तारकासुरसंहाराय सेनान्यं याचितवन्तस्ततस्तद्वरमहिम्ना लब्धजन्मनः स्वामिनः साहाय्यात् तेषां तारकध्वंसेन जयो जात
Page #33
--------------------------------------------------------------------------
________________
विजयपशवाम् । इति । ततो विशेषणयोक्तधर्मेण यः स्वामी स्वामिनः समानो बभूवेति भावार्यः ॥३॥ रत्नेषु सप्तसु शिरःस्थफणस्थितेषु
संक्रान्तमूर्तिरशुभद् युगपत्प्रभुर्यः। संकल्पयोनिदहनार्थमिवाष्टमूर्ति- र्जातःस वः सृजतु सम्पदमाश्वसेनिः॥४॥ .
अश्वसेनस्य राज्ञः अपत्यमाश्वसनिः 'अत इन्।६।१॥३१॥ इति सूत्रेण सिदः । स पार्थनामा त्रयोविंशस्तीर्थक वः सम्पद पुत्रकलत्रमित्रजीवितयौवनधनधान्यरूपारोग्यादिसमृद्धि सृजतु इत्यन्वयः । स क इत्याह-रत्नेष्विति । यः प्रभुर्युगपत्समकालं सप्तसु रवेषु संक्रान्तमूर्तिः प्रतिविम्बिततनुः अशुभत् शुशुभे।रमेषु कि० शिरस्थाः शीर्षस्थिता ये फणास्तेषु स्थिते स्वधिरःस्थफणामणीषु प्रतिबिम्बासम्भवात् इह प्रणतस्य धरणिपतेरिति शेषो द्रष्टव्यः; तथाच सप्तसु फणरवेषु प्रतिबिम्बिताः सप्त मूर्तयोऽष्टमय भगवानिति भगवतोऽष्टमूर्चित्वं जातम् । स चाष्टमूर्तिलोंकेमहेन्चरोऽतोऽध कविराशइते- साल्पयोनेः कन्दर्पस्य दहनायाष्टमूर्तिमहादेवो जाव इवेत्युत्भेक्ष्यते। तेन हि सरोदय इति भुतेरित्यर्थः॥४॥ मात्रोढयोर्डिंजनृपप्रिययोः पिचण्ड
वासोहवं निखिलविनविनाशनेन । द्वैमातुरत्वमकरोदिह सूनृतं य
स्तं वीरमहुतसनीडमपीडमीडे ॥ ५॥
Page #34
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। ते वीरं वर्दमानाभिधानं. चरमतीर्थकरपीडे स्तुवे । ईडे इत्यत्रास्मदर्याविनाभाव्युत्तमपुरुषेकवचनप्रयोगसामर्थ्यादहमित्यध्याहार्यम् । एवमग्रतोऽन्यत्रापि यथास्थानमवगन्तव्यम्। वीरं किं. अद्भुतं जघन्यतोऽपि कोटिसंख्यसुरासुरैः परिवृत्तत्वादाचर्यकारि सनीडं समीपं यस्य तम् । शेष सुगमम् । तं कमित्याह-मात्रोरिति। यो द्वैमातुरत्वं इह जगति सूनृतमकरोत् सत्यमकार्षीत्। केन, निखिलविघ्नविनाशनेन समस्तान्तरायहरणेन । द्वयोर्मात्रोरपत्यं द्वैमातुरः, सच गणेशः तस्य भावस्तत्त्वम् । तदेव भगवतोऽपि विशेषणद्वारा व्यनक्ति । द्वैमातुरत्वं किं० पिचण्डवासोद्भवं जठरावस्थानजम् । कयोयोर्मात्रोः, देवानन्दात्रिशलाख्ययोः । यदाहुः श्रीभद्रबाहुस्वामिपादाः- 'दुई वरमहिलाणं गन्भे वसिऊण गन्भसुकुमालोत्ति' इत्याद्युक्तेर्भगवान् द्वैमातुर इति । मात्रोः किंलक्षणयोः, द्विजो ग्रामणोऽर्थाद् ऋषभदचः, नृपो राजाऽर्थात् सिद्धार्यः, तयोः प्रिययोर्भार्ययोः । अनेन भगवन्मात्रोब्रह्मक्षत्रियलक्षणा जातिः सूचितेति। ततो द्वैमातुरत्वाद् , विनध्वंसकत्वाच गणेशतुल्यता भगवतो चीरस्येति रहस्यम् ॥ ५॥ पूष्णः प्रमेव कमलोन्नतिकृत्प्रहृष्ट
सञ्चहक् सपदि हन्तितमां प्रसन्ना । जाड्यं यदहियुगली विमलीकृताशा
सा भारती सृजतु कुन्दनिभा रती ॥६॥
सा मारती सरस्ववी मे मन रतीः सजतुः अधिका
Page #35
--------------------------------------------------------------------------
________________
विजक्यास्त्याम् । रात्मस्तुतकाव्यकरणे मां दृढरागं करोत्वित्यन्वयभावार्थः । सा किं०कुन्दनिभा षवलवर्णत्वात् । अत एव विमलीकृता निर्मलीकृता, धवलीकृता वा आशा दिशो यया सा | सा का, यदंड्रियुगली यत्पादद्वयी प्रसभा सती जाड्यं मूर्खत्वं हन्तितमाम्, अतिशयेन हिनस्तीत्यर्थः। केव, पूष्णः सूर्यस्य प्रभेव । यथा सूर्यप्रभा जाड्यं शीतत्वं हन्ति तथेति शेषः । अथांड्रियुगलीपूषमभयोरन्योन्यं समानधर्मतां विशेषणयेनाह-कमलेति । कमलाया लक्ष्म्या उनतिरुदयः, तत्कारिणी । पुनः किं० प्रहृष्टा प्रकर्षेण हर्ष प्राप्ता, सञ्चक्रस्य पण्डितमण्डलस्य दृग् दृष्टिर्मतिर्वा यस्यायोति सा। सूर्यप्रभापक्षे तु, कमलानां पङ्कजानां उबतिः समृदिरिति । पुनः किं० सतां विद्यमानानां, प्रशस्तानां वा चक्राणां चक्रवाकाख्यपक्षिणां हग् यस्या इति, सा । क्षेष सुबोधम् ॥ ६॥
शीतयुतेरिव निशीथवती ममानु
गामिन्यभूप्रतिभया सममृद्धिरिद्धा । यन्नाममन्त्रमनघं स्मरतोऽस्मरात
तं खं गुरुं मतिगुरुं ज्ञगुरुं स्तुवेऽहम् ॥७॥ तं खं गुरुं निजं धर्माचार्यम् , अहं स्तुवे । गुरुं किं० स्मरेण कामेन आः पीडितः स्मराः, न स्मरातः अस्मरार्चस्तम् , आवाल्यतोऽपि ब्रह्मचारित्वादिति । पुनः कि०मत्या मनीषया गुरुं सुरमरिम् । पुनः किं० ज्ञेषु पण्डितेषु श्रुतपर्यायादिना गुरुं गरीयांसम् । एतेन समस्तपण्डितमुख्यत्वमसूचीति तात्पर्यम्। तं क
Page #36
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। मित्याकाहासोदामं यच्छन्दमाह- यन्नामेति । यस्य गुरोर्नाम मन्त्रं यत्राममन्त्र स्मरतचिन्तयतो मम, प्रतिमया सह शानोपसम्पदा समं, ऋदिःचरणकरणक्रियारूपा चारितोपसम्पत्, अनुगामिनी अभूत् सहचारिणी बभूवेत्यर्थः । ऋद्धिः किं. इदा दीतिमती। यन्नाममन्त्रं किं न विद्यते अघं दुःखं, व्यसनं, पापं वायस्मिनित्यनघम् । अथवा, अनघः स्याद्गतपापे मनोरे निर्मलेअपि च' इत्यनेकार्थत्वादनपं मनोगम् , इत्यखण्डमेव विशेषणम्। केव कस्येत्याह-श्रीतेति । यथा शीतयुतेः शशाइस्य निशीयवती निवेति दृष्टान्तः ॥७॥
शीघ्रङ्गमेषु-जवनैः पवनैः कठोर__ काष्ठोद्रवः पयसि पोत इवानुकूलैः। यैराहतो ध्रुवमधीरपि सत्सभासु ___ माहात्म्यमेति मयि ते सुजनाः प्रसन्नाः ॥८॥
ते सुजना उत्तमपुरुषा मयि ग्रन्थकर्तरि प्रसत्राः सन्तुष्टिभाजो भवन्त्वित्यन्वयः। ते के इत्याह-यैरिति । यैः सुजनैराहतोऽङ्गीकृतोऽधीरपि निर्बुदिरपि पुमान् सत्सभासु विद्वद्रोष्ठीषु माहात्म्यं एति, महत्त्वं गच्छति । क इव कैरिति दृष्टान्तं योजयात पोत इव प्रवहणमिव अनुकूलैः पवनैर्वायुभिः । क, पयसि अम्भसि पयोनिधेरित्यध्याहार्यम् । पोतः कि० कठोरकाष्ठोद्भवः कठिनदारनिष्पमः। पवनैः किं० शीघ्रमेषु त्वरितगामिषु सर्वपदार्येषु जबनर्जवाधिकैः। अथवा शीघ्रामा ये इषवो वाणाः तदनवनैः
Page #37
--------------------------------------------------------------------------
________________
विजयमशस्त्याम् । वेगवद्भिरिति । अव यथा हि किल काष्ठरूपोऽपि पोतोऽनुकूलपवनप्रयोगप्रभावादीप्सितपदेशमापकत्वेन प्रतिष्ठा प्रामोति, तथा मादृशोऽपि मूर्खः सज्जनस्वीकारात्समीहितग्रन्थग्रथनसमर्थनेन सुपीभिः श्लाघ्यत इति तात्पर्यम् ॥ ८॥ ये तर्ककर्कशधिया धिषणाऽनुरूपाः
साहित्यशास्त्रमणिभिर्मकराकरा ये । सल्लक्षणेक्षणविचक्षणचक्षुषो ये
ते मां खमजमिव पद्मकराः करन्तु ॥ ९ ॥ सर्काः तर्कग्रन्थाः, तर्कभाषा-सप्तपदा -चरदराजीप्रमाणमञ्जरी-प्रशस्तपादभाष्य-कणादरहस्यादयः शशधर-पणिकण्ठ-कुसुमाञ्जलि-किरणावलि चर्द्धमान-तत्वचिन्तामणिपर्यन्ताः शैवप्रमाणशास्त्राणि, अथवा षड्दर्शनसमुच्चयसूत्रवृत्ति स्याद्वादमञ्जरी-रत्नाकरावतारिका न्यायावतार-प्रमाणमीमांसादयः स्याद्वादरत्नाकरा-चेकान्तजयपताका-सम्मतिपर्यन्ता जैनप्रमाणग्रन्थाः,, तेषु कर्कशा कठिना तदन्तर्भेदकत्वेन कुशाग्रवत्तीक्ष्णा या धीस्तया धिषणानुरूपा बृहस्पतितुल्या इति। अनेन ये महातार्किकाः; तथा साहित्यं च एकार्थानेकार्थायनेकनामकोशकाव्यप्रकाशकाव्यत्रयीकाव्यपश्चकचम्पूछन्दोऽनुशासनकाव्यानुशासनालिङ्गानु - शासनप्रभृतिक, तद्धेतुकानि यानि शास्त्राणि तान्येव मणयो रवानि तेषां मकराकराः समुद्राः तदाधारत्वात् । तदेतेन ये महाकवय इति । तथा सन्ति विद्यमानानि यानि लक्षणानि
Page #38
--------------------------------------------------------------------------
________________
प्रथमः सर्गः।
१३ सारखतपक्रियादीनि श्रीसिद्धहेमाभिधानशब्दानुशासनपर्यन्तानि महाव्याकरणानि, तेषां यदीक्षणं सम्यगर्थसार्थावलोकनं तत्र विचक्षणं निपुणं चक्षुरिव चक्षुर्मतिर्येषां ते । तदेतेन लक्षणदक्षा ये महावैयाकरणा इति । अत्र हि भिन्नाधिकरणत्वेन प्रतिपदं यच्छब्दोपादानमदुष्ट, प्रत्युत तस्योपयोगित्वादेवेत्यवधेयम् । अथ ते त्रयोऽपि मां ग्रन्थकर्तारं खं करन्तु अङ्गीकुर्वन्तु, इतिभावः । अत्र च दृष्टान्तं प्रकटयति-अजमिव पअकराः, पद्ममिव पद्मपाणयः । सूर्या इति शेषः॥ ९ ॥
उल्लासिनं निजद्दशा सुदृशां सभायां
वारामधीशमिव चन्द्रिकयेव चन्द्रः । .... पुण्यात्मनां जडमपि प्रकरोति शक्तिः
सानुग्रहा भवतु सा मयि निर्गुणेऽपि ॥१०॥ अत्र यच्छब्दोऽध्याहियते । तेन या पुण्यात्मनां महात्मनां शक्तिस्सामर्थ्य जडमपि मूर्खमपि पुरुषं उल्लासिनं प्रकरोति। कया, निजदृशा 'दृग् द्रष्टदर्शनध्यक्षिण' इति श्रीहेमाचार्यवचनात् निजदृशा स्वदर्शनेन स्वस्वरूपाविर्भावलक्षणेन । क, सभायां पर्षदि। केषां, सुदृशां सम्यग्दृशाम् , अर्थात् पण्डितानामिति । उक्तमेवार्थ दृष्टान्तेन दृढयति-यथा चन्द्रः चन्द्रिकया ज्योत्स्नया वारामधीशं समुद्रं तथेत्युपसंहारः। सा पुण्यवच्छक्तिनिर्गुणेऽपि मयि ग्रन्थकृति. सानुग्रहा भवतु अनुग्रहपरा भवत्विति भावः ॥१०॥ प्राप्य प्रसत्तिमृषभाद्यसमाहतां वाग्
देव्या गुरोश्च विदुषां च सशक्तिमित्थम् ।
Page #39
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । श्रीमत्तपागणनभोऽङ्गणभास्कराणां ___ भक्त्या भणामि गुणमाप्तगिरां गुरूणाम् ॥११॥
ऋषभादयोऽसमा निरुपमा ये अन्तिस्तीयङ्कराः। अथवा असमा विषमा अर्थात् पञ्च, ऋषभादयो वीरान्ता अर्हन्तस्तेषांकषभावसमाईताम् । पुनः, वाग्देवी सरस्वती तस्या वाग्देव्याः।पुनः, निजगुरोः स्वधर्माचार्यस्य । पुनः,विदुषाम्-अपरेषामपि पण्डितानामिति। सशक्तिं पुण्यवच्छक्तियुक्तां प्रसत्ति प्रसादं प्राप्य अधिगमगोचरीचरीकृत्य। कथम्, इत्यमित्यमुना प्रकारेण । तत एषामईदादीनां प्रसत्तिं प्राप्यत्यनेन सर्वशुभोदर्कसम्पर्कशालिनी निखिलमत्यूहव्यूहोपशान्तिनिरूपिता । अथैतेन काव्यदशकेनाईदादिनमस्कारपुरस्कारलक्षणं मलं, एतत्पद्यपूर्वार्दैन प्रकटीकृत्य, क्त्वाभत्ययस्य चोत्तरक्रियासापेक्षत्वात् पश्चिमार्दैन चिकीर्षितमभिधेयं प्रतिजानीते।गुरूणांगुणम्, अग्रे वक्ष्यमाणलक्षणं, भणामिवच्मि। यद्यपि गुणानां प्राचुर्येणेकत्वं नोपपद्यते तथापि जातावकवचनमित्युक्तत्वात् सौभाग्यस्य प्राधान्यख्यापकत्वाश्चात्रैकत्वमदुष्टमेवेति । गुरूणां किं० श्रीमान् सश्रीको यस्तपागणस्तदेव व्योमात्रणं तत्र भास्कराः तदुयोतकत्वात् तेषाम्। तया आता हिताहितमाप्तिपरिहारोपदेशिनी गीर्येषां तेषाम् । अथवा आप्तस्तीर्थकृत्तद्वन शुद्धमार्गप्ररूपकत्वेन गीर्येषां तेषामिति ।। ___ अयैतेनाभीष्टदेवतानमस्काररूपमालाचरणपूर्वकं शास्त्रस्याभिधेयं, तेन सह प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धआभ्यधायि । प्रयोजनं च शिप्यमशिष्यावबोधजननं, तेन
Page #40
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। च परोपकारद्वारेण क्रमेण सकलदुःखक्षयान्मोसमाप्तिश्चेत्यात्मसामर्थ्यादाक्षिप्यते । नहि कष्टकशाखामर्दनवत् , काकदन्तपरीभावच निष्फला प्रवृत्तिर्मन्दस्यापि भवति किंपुनः सकसावसरसावधानधीजुषां प्रेमाचक्षुषामिति दिक् ॥११॥ अय काव्ययीद्वारेण विस्तरेण विशिष्याभिधेयमभिधत्तेये श्रीअकब्बरधराधिपचित्तपद्म
तिग्मत्विषां महिममीनमहोदधीनाम् । राजन्ति हीरविजयव्रतिपुङ्गवानां
पट्टे तटे सुरधुनेरिव राजहंसाः ॥१२॥ सौभाग्यभाग्यवरवैभवविश्रुताना___मोजखिनां विजयसेनमुनीश्वराणाम् । तेषामशेषसुखकृद् विजयप्रशस्तिसंज्ञं मनोज्ञरचनं रचयामि काव्यम् ॥१३॥
. (युग्मम् ) तेषां विजयसेनमुनीश्वराणां विजयप्रचस्तिसंबं पुनर्ग्रन्थकृत्लोक्तविजयवंशापरनामकं काव्यं रचयामि फरोमीत्यन्वयः । किं० मनोजरचनं साधुसन्दर्भम् । अथवा क्रियाविशेषणामिदम् । तेषां किं० सौभाग्यं 'सुभगाओ सव्वजणइटो' इत्यादिप्रवचनवचनाजगज्जनवल्लभत्वम् । अथवा
'सद्गमनसनिरीक्षणसजल्पनमिति वदन्ति लावण्यम् । ईश्वरता सुखरता सुन्दरता चेति सौभाग्यम् ॥१॥
Page #41
--------------------------------------------------------------------------
________________
विजयणास्त्याम्।
इत्यादिलौकिको ईश्वरत्वसुखरत्वसुन्दरत्वलक्षणं सोभाग्यम् तथा भाग्यं भागधेयम् ; तया वरवैभवः प्रधानज्ञानविज्ञानविनयादिसम्पचिरूपस्तैर्विश्रुतानां प्रतीतानाम् । पुनः किं० 'ओजो दीप्तो प्रकाशे बलेऽपि इत्यनेकार्यत्वात् ओजस्विनांदीप्तिमतां, तपस्तेजाराजित्वात् । अथवा प्रकाशवतां,सर्वसर्वज्ञशासनप्रकाशकत्वात्। अथवा बलवता, परवादिन्दजेतृत्वात् । तेषां केषामित्याह-ये श्रीति । श्रिया सार्वभौमस्पर्द्धिन्या चतुराचमूरूपया लक्ष्म्या युक्तः श्रीअकब्बरः अग्रे वक्ष्यमाणलक्षणः स धराधिपो राजा तश्चित्तपद्मे तन्मनोऽम्भोजे तिग्मत्विषः सूर्यास्तदुल्लासहेतुत्वाचेषाम् । तथा महिममीनमहोदधयः माहात्म्यमत्स्यमहासमुद्रास्तेषां परममहिमपात्राणामिति, हीरविजयव्रतिपुलवानां पट्टे ये राजन्ति गच्छाधिपत्यभानः शोभन्ते इति । कयं, सुरधुनेः गङ्गायाः तटे कूले राजहंसा मराला इवेति दृष्टान्तघटना । उणादिसिद्धो धुनीवनदीवाचको धुनिशब्दोऽप्यस्तीति ध्येयम् ॥१२॥१३॥
अथ ग्रन्थकारः श्रीविजयसेनसूरिहत्तमामूलचूलं व्याचिख्यासुरादितस्तदुत्पत्तिभूमिभदेशे मेदपाटदेशं द्वादशभिर्वर्णसति । तयाहि
कर्णाटलाटघनघाटविराटमुख्य
देशेषु मुल्यमुकुटः खलु मेदपाटः। . . अस्ति प्रशस्ततमशस्तसमस्तक्स्तु_ विस्तारवानुडुषु चन्द्र इवातिचारुः ॥१४॥
Page #42
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ।
१७
कर्णाट-लाट- घनघाट-विराटाः देशविशेषाः। अत्र मुख्यशब्दात् अन्येष्वपि सौराष्ट्र- महाराष्ट्र- गौड - चौड - चीन - महाचीन-वत्समत्स्य- कच्छ - काशि - कोशल - कुरु - मरुप्रभृतिषु देशेषु, मुख्यमुकुटः प्रधानमौलिः, यदनेकार्थ :- 'मुख्यं प्रमुखे प्रधाने च' इति । मेदपाटो नाना देशः, अस्तीति वर्त्तते । कीदृशः, प्रशस्तत। " मानि अतिप्रशस्यानि, शस्तानि माङ्गल्यरूपाणि, समस्तानि सर्वाणि, वस्तूनि, यानि पुरतो वक्ष्यमाणलक्षणानि, तषां विस्तारस्तद्वाम् । अत्र दृष्टान्तं स्पष्टयति- उडुषु नक्षत्रेषु, इवेति यथा, चन्द्रः शीतांशुः । स च देशश्व किं०, अतिचारुः अतिशयेन रम्य इति ॥ १४ ॥
गाः प्रेक्ष्य यत्र नितमाममृतं धरन्तीः प्रोच्चैः परस्परमिति प्रवदन्ति लोकाः । कृच्छ्रं पयोधिमथनेन सतीष्विमासु
देवैर्व्यधाय्यमृतलब्धिधिया मुधा तत् ॥१५॥
यत्रेति मेदपाटदेशे इति सर्वत्राग्रतोऽपि प्रयोज्यम् । गाः सुरभीः, प्रेक्ष्य दृष्ट्वा, लोकाः, परस्परम् अन्योन्यम्, इति, प्रवदन्ति इत्यन्वयः । गाः किंकुर्वन्तीः, धरन्तीः विभ्रतीः । किं० अमृतं गोरसं, शब्दच्छलात् सुधामपि । इतीति किमित्याशङ्कानिरासाय माह- कृच्छ्रमिति । इमासु गोषु, सतीषु विद्यमानासु, देवैः सुरैः, अमृतलब्धिधिया पीयूषप्राप्तिबुद्धया, पयोघिमथनेन कृच्छ्रं व्यशयि । यद् इत्यध्याहार्यम् । श्रूयते हि
३
Page #43
--------------------------------------------------------------------------
________________
१८ विजयानस्त्याम् । त्रयस्त्रिंशत्कोटीमिता अमर्त्या अमर्त्यपर्वतमन्थानकेन पायोनिधि मध्यमानास्तेन नानारनैरर्चिता अपि भीमतमविषेण भापिता अपि पीयूषमाप्तिमन्तरा न विराममीयुः । किश्च । एतदर्थानुवादप्रतिपादकं माघमहाकाव्यकाव्यं यथा"रत्रैर्महान्धेस्तुतुपुर्न देवा न भेजिरे भीमविषेण भीतिम् ।। सुधां विना न प्रययुर्विरामं नानिश्चितार्या विरमन्ति धीराः"॥१॥
इत्याधुक्तत्वाद, अमृताप्तये यत्कष्टं सुरैश्चक्रे तन्मधा, निरर्थकमितिभावार्यः। गवां द्वारेणैव तदर्यसिदेरिति हृदयम् । मुषा इत्यव्ययम् ॥१५॥
यत्रोच्चचम्पकतमालरसालसाल
हिन्तालतालकुलकाननकाश्यपीषु । क्रीडाऽर्थमास्थितमसंस्थितमुत्सुपर्व
वृन्दं न नन्दनधरासु करोति कामम् ॥१६॥ उच्चा उन्नताः, चम्पका हेमपुष्पकाः, तमालाः तापिच्छाः, रसाला इक्षवः, सहकारा वा, यदाहुः श्रीहेमाचार्यचरणाः-'रसाल इक्षौ चूते च' इति । साला सर्जतरवः, हिन्ताला वृक्षविशेषाः, तालाः तृणराजाः। तेषां यानि कुलकाननानि गृहवनानि । अथवा, तेषां वृक्षाणां कुलं समूहो येषु तानि, काननानि विपिनानि। तेषां काश्यपीषु तद्भुमिषु । क्रीडार्थमास्थितं केलिकृते स्थितम् , सुपर्ववन्दं सुरसार्थः, नन्दनधरासु शक्रोधानावनीषु, कामम् अभिछापम् न करोसि। क्रीडार्थ गन्तुंनोत्कण्ठत इत्यर्थः। सर्पववृन्द कीह
Page #44
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। शं, संस्थिता विपना, तदितरातु असंस्थिता, अर्थात् जाग्रती मुद् यस्य यत्र वा इति तत् । अथवैतत् क्रियाविशेषणम् । तदेतेन यत्र मेदपाटदेशे वनादिरामणीयकं नन्दनवनादपि अधिकमिति सूचयाञ्चकार ग्रन्थकारः ॥१६॥
वर्णादिधन्यधनधातुखनीनिरीक्ष्य
यत्राविपत्तिपदवीः पदमुन्नतीनाम् । नो रोहणाचलसुधाश्यचलाचलासु
गन्तुं करोति ननु कोऽपि मनाग्मनः खम् ॥१७॥
-
स्वर्ण काञ्चनमादिर्येषां रजतादीनां ते स्वर्णादयः, धन्याना भाग्यवतां, धनभूता धन्यधनाः, धन्यधनाच ते धातवश्व धन्यधनधातवः, स्वर्णादयश्च ते धन्यधनधातवश्च स्वर्णादिधन्यधनधातवः । तेषां स्वर्णादिधन्यधनधातूनाम् । उपलक्षणत्वाच रवादीनामपिः खनीः आकरान् , निरीक्ष्य दृष्ट्वा, रोहणाचलः रवशैलः, सुधाश्यचलश्च काश्चनशैलः; तयोः अचलासु भूमिषु । गन्तुम् , कोऽपि; पुमानिति गम्यम् । स्वं मनो निजं हृदयम् । मनागपि ईषदपि, न करोति । इत्यनेन यत्र देशे रोहणाचलसुवर्णाचलाभ्यामपि रवस्वर्णादिधातूनामाधिक्यमसूचीत्याशयः ॥१७॥
सद्विभ्रमैरभिमता बिसतन्तुहारा
चक्रस्तनाः कमलकोमलपाणिपादाः ।
Page #45
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् ।
यत्र श्रियं दधति नित्यरसाः सरस्यः
साक्षात् सरोरुहदृशः कलहंसयानाः ॥१८॥
यस्मिन् देशे. सरस्यः सरोवराणि, श्रियं दधति, शोभन्ते इत्यन्वयः। किंलक्षणाः; सन्तो विद्यमानाः, श्रेष्ठा वा, कलहंस-कोक-चकोर-मोर-सारस-सारा-शुक-चञ्चरीक चापखञ्जनादया ये, वयः पक्षिणःः तेषां भ्रमा भ्रमणानि, अर्थात् क्रीडनानिः तैः, अभिमताः प्रियाः। पुनः किं० बिसतन्तब एव हारा मुक्तादामानि यासां ताः । पुनः० चक्राः चक्रवाका एव स्तना यासां ताः। पुनः० कमलानि एव कोमलाः, पाणयो हस्ताः, पादाः चरणा यासां ताः । पुनः नित्यं रसो जलं, स्वादो वा यासु ताः। पुनः० सरोरुहाण्येव शो यासां ताः । अथवा सरोरुहाणां दृग् दर्शनं यासु ताः। पुनः० कलहंसानां कादम्बानां, यानं गमनं यासु ताः । इत्येकोऽर्थः । __ अथ द्वितीयोऽर्य:- तत्र सरोरुहटश इति स्त्रियः, साक्षात् प्रत्यक्षाः, इवत्यध्याहार्यम् । खियः किंलक्षणाः, सन्तः श्रेष्ठा विभ्रमा ध्रुवां विकाराः, तैरभिमताः । पुनः० विसतन्तुतुल्याः, लम्बमानत्वात् , शुभ्रत्वाद्-वा; झरा यासां ताः । पुनः० चक्राविव स्तनौ यासां ताः । पुनः० कमलवन कोमलाः पाणयः पादाश्च यासां ताः। पुनः नित्यं रसः शृङ्गारलक्षणो यासु ताः । पुनः० कलहंसवद् यानं गमनं यासां ताः। एतेन यत्र देशे सरसा, स्त्रीणां च सावर्ण्य वर्णितमिति निर्गलितार्थः ॥१८॥
Page #46
--------------------------------------------------------------------------
________________
प्रथमः सर्गः।
२१ कृटोत्कटः प्रकटभूधुरि चित्रकूटः
प्रोत्तुङ्गशृङ्गकुटकुम्भलमेरुरन्यः । हौ यत्र नीवृति गुरू च गिरी विभातः
प्रोच्चौ कुचाविव धराहरिणीक्षणायाः ॥१९॥ च पुनः, यत्र नीति देशे, द्वौ गिरी, गुरू महान्तो, विभातः शोभेते. इत्यन्वयः । द्वौ को इत्याशङ्कायां प्राह- धुरि आदो, चित्रकूटः । कीदृशः, कूटैः शृङ्गः उत्कट उद्भट इति कूटोत्कटः । पुनः किं०, प्रकटाः प्रसिद्धाः, भुवो भूमयो गृहाणि, अर्थात् देवादीनां स्थानानि यत्र सः। तथा, अन्यो द्वितीयोऽपि, प्रोत्तुङ्गशकाणां प्रकामोन्नतशिखराणां कुटो निलयः स चासो कुम्भलमेरुश्च इति कर्मधारयः । अयोत्प्रेक्ष्यते-प्रोचौ प्रकामोच्ची, कुचाविव किं स्तनौ । कस्याः, धराहरिणीक्षणायाः मेदिनीमृगीलोचनायाः। इत्यनेन मेदपाटे भूयसां लघुशैलानां सद्भावेऽपि, चित्रकूटकुम्भलमेरुनान्नोईयोर्धरित्रीधरयोर्मुख्यता उक्ता इति शेषः ॥१९॥
यत्राङ्गनाजनगृहप्रभुनिम्नगासु
रम्भासुधाशनविमानसुरेशगङ्गाः । संचक्रमुस्तदतिरागकृदङ्गसङ्ग
रूपढिवैभवपयस्सुखमेति यस्मात् ॥२०॥ यस्मिन् देशे. अनाजनगृहप्रभुनिन्नगासु प्रमदालोकर्व
Page #47
--------------------------------------------------------------------------
________________
२२
ला
विजयप्रशस्त्याम् । उमस्वामिसरित्सु, रम्भासुधाशनविमानसुरेशगङ्गाः देवागना-देवदेवयान-देवराज-देवनद्यः, संचक्रमुः परस्परमिलिता इति भावः । कथमवगतमिति चेत् । उच्यते। यस्मात् कारणात् । तद्वदतिरागकृन्ति रम्भादिदिव्यवस्तूनि इव भृशं रागकारीणि यानि अङ्गस
रूपर्द्धिवैभवपयांसि शरीरपरीरम्भसौन्दर्यसम्पत्तिसाम्राज्यसलिलानि, तेषां यत्, सुखं शर्म। तत्, एति समभ्येति । तदुपजीविनां, ताभ्यश्चेति गम्यमिति ॥२०॥ सन्त्युल्लसत्सुमनसः सकलाः समाजाः,
लोके च यत्र निखिलेऽपि वृषानुरागाः । यत्रर्षयश्च सततं लसदक्षमालाः - यः स्वर्गलोक इव भाति तदत्र देशः ॥२१॥
यत्र देशे सकलाः समाजाः समाः सन्ति । कीदृशाः, उल्लसन्तः सुमनसः पण्डिता येषु । खर्गपक्षे तु, सुमनसो देवा येषु इति । च पुनः, यत्र देशे, निखिलेऽपि समस्तेऽपि, लोके वृषानुरागाः धर्मरागाः। पक्षे, वृषा शक्रः तदनुरागाः। तथा च पुनः, यत्र ऋषयो मुनयः, नित्यं, लसदक्षमालाः लसन्त्यः शोभमाना अक्षमाला अक्षसूत्राणि येषां ते । पक्षे, लसन्ती अक्षमाला अरुन्धती वशिष्टर्षियोषिद् येष्विति । तस्माद, अत्र भुवि यो देशो मेदपाटः स्वर्गलोक इव भातीति भावार्थः ॥२१॥ . सीसोदियाऽन्वयिनृपे सति यत्र दस्यु
दण्डोहवं नहि भयं भवति प्रजासु ।
Page #48
--------------------------------------------------------------------------
________________
प्रथमः सर्गः।
२३ अस्वप्नवर्त्मनि तपत्यधिपे प्रभाणां
किं शीतसन्तमसभूर्भुवि दुःखदाहः ॥२२॥ सीसोदियावंशीये नृपेऽधिकारात् श्रीउदयसिंहाभिधानके श्रीराणके राजति सति, यत्र मेदपाटे, प्रजासु लोकेषु, दस्युदण्डोद्भवं तस्करकरसम्भवम् , भयं न भवतीत्यन्वयः । अत्र च दृष्टान्तं योजयति- अस्वमवर्त्मनि गगने, प्रमाणामधिपे गगनध्वजे, इव यथा, तपति सति, शीतसन्तमसभूः तुपारतमोभवः, दुःखदाहः । किमित्याशङ्कते कविः । किं भवति, अपि तु न इत्यर्यः ॥२२॥
वखादिधातुकरमाकरमाकराणा
माकर्ण्य यत्र विषये विषयेषु मुख्ये । श्रीरोहणो धरणिभृद् भृशमित्यहृष्यद्
यट्टङ्ककोटिखननादसुखं न मेऽथ ॥२३॥
'वसु स्वर्णे रने धने' इत्यनेकार्थत्वात् , वस्वादयः स्वर्णादयो ये धातवः । अथवा, वस्वादयो रबादयः पदा
र्थाः स्वर्णादयो धातवश्व इति द्वन्द्वः । तान् करोतीति वस्वादिधातुकरस्तम्, 'आकरो निकरे खनौ च' इत्यनेकार्यत्वात् , आकराणां खनीनाम् , आकरं निकरम् , यत्र विषये, यस्मिन् मेदमाटदेशे । कि०, विषयेषु देशेषु मुख्ये, आकर्ण्य श्रुत्वा,
राहणो धगणभूद रोहणनामा सिरिः इत्यहष्यत् इष्यति स्म,
Page #49
--------------------------------------------------------------------------
________________
२४
विजयमस्त्याम् । इतीति किम् , यद् यस्मात्कारणात् टङ्ककोटिखननात् अथ मे मम असुखं न भावीति भावः ॥२३॥
यत्रोत्तमाचरणजीवितवित्तिविद्या____ व्यापारवंशवसवो निवसन्ति लोकाः। . ... कर्तुं पुनः कृतयुगं कृतनिश्चयेन
बीजं न्यधायि विधिनेव तदंशपुंसाम् ॥२४॥ यस्मिन् देशे लोका निवसन्ति इत्यन्वयः । किं०, उत्तमाचरणजीवितवित्तिविद्याव्यापारवंशवसवः । अत्र उत्तमशब्दस्य प्रत्येकं प्रयोगः । तेन उत्तमानि उत्कृष्टानि आचरणजीवितवित्तिविद्याव्यापारवंशवसूनि चरित्रायुर्विचारज्ञानव्यवहारकुलधनानि येषां ते । पश्चिमानोत्प्रेक्षते कविः-पुनः कृतयुगं कर्तु, कृतनिश्चयेन निर्मितपतिझेन, विधिना धात्रा, तदंशपुंसां कृतयुगांशधारिणां पुरुषाणां, बीजम् उत्पत्तिनिमित्तम् , न्यधायि स्थापितमिति । शेषं सुगमम् ॥२४॥ स्वैरं भ्रमन्नमरवमनि वीक्षणीयं
क्षोणीतलं विविधविस्मयमीक्षमाणः । एति स्म धर्मभृति नीवृति नारदर्षि
स्तत्रैकदा कलहकौतुककेलिकन्दः ॥२५॥ स्वैरं यथेच्छम् , अपरवमनि नभसि, भ्रमन् विचरन्, क्षोणीतलं भूमण्डलम् । कि०, विविधविस्मयं रिचित्रविस्मयं.
Page #50
--------------------------------------------------------------------------
________________
प्रथवः सर्गः। नानाऽद्भुतमयत्वात् । अत एव वक्षिणीयं विलोकनीयम् , ईक्षमाणो मृगयमाणः, धर्मभृति पुण्यवति, तत्र नीति देशे, नारदर्षि रदनामा मुनिः, एकदा कदाचित् , एति स्म अभ्यागादिति । किं० कलह एव कौतुकमुत्सवस्तस्य केलेर्नर्मणः कन्द इव कन्दः, मूलमित्यर्थः ॥२५॥
एकत्र तत्र पृथिवीं प्रविलोक्य पृथ्वी ___ सोऽवीवसन्नगरमृद्धिमयं स्वनाम्ना । मुव्यत्र नारदपुरीति पुरी गरीयः
श्रीस्तैलबिन्दुरिव पाथसि पप्रथे सा ॥२६॥ एकत्रेति एकस्मिन् प्रदेशे, तत्रेति तस्मिन् मेदपाटे देशे, पृथ्वी विशालाम्, पृथिवीं भूमिम् , विलोक्य निभाल्य, स नारदमुनिः, स्वनाना निजसंज्ञया, नगरं, अवीवसत् अगासयत् । तदेवाह- अत्र तेनेत्यध्याहार्यम् । वेन कारणेन अब भुवि भूमौ, सा पुरी नारदपुरीति नान्ना, पप्रवे ख्याति प्राप । सा किं० गरीयसी महीयसी श्रीः शोभा सम्पद् वा यन सा । तैलविन्दुर्यथा पाथास पानीये, इति दृष्टान्तः ॥२६॥
अब तां नगरीमेकोनविंशत्या वृत्तैर्वर्णयति । तथाहि
प्रद्युम्नसंज्ञमधुजित्तनुजेन यत्रा__ भ्यर्णावनिप्रशिखरे जिननेमिचैत्यम् ।
Page #51
--------------------------------------------------------------------------
________________
२६
विजयप्रशस्त्याम् ।
निर्मापितं पथि दृशोस्तदुपैति रम्य
मद्यापि च स्फुरति तन्महिमा महीयान् ॥ २७॥
प्रद्युम्नसंज्ञेन मधुजित्तनुजेन श्रीकृष्णविष्णुपुत्रेण, यत्र यस्यां नगर्याम्, अभ्यर्णावनिधशिखरे पार्श्ववर्त्तिपर्वतशृङ्गे, जिननेमिचत्यं नेमिनाथजिनौकः, निर्मापितं कारितमस्तीति । तच्चैत्यम्, अथ यावत् । रम्यं मनोहरम्, नेत्रयोर्नयनयोः, पथि मार्गे, उपैति । च पुनः, तन्महिमा किं० महीयान् अतिमहान्, स्फुरति कलावपि देदीप्यत इति ||२७||
"
नव्याञ्जनद्युतिपदं प्रतिमां च तत्र चैत्ये न्यधाद्भगवतः स हृदीव तं स्वे । साऽद्यापि दैवतलतेव हितार्थहेतुः
साक्षाच्छिवासुत इवैत्यतुलं प्रभावम् ॥ २८ ॥
नव्यं स्तवनाई अथवा नव्यं नवीनं यदञ्जनं कज्जलं तद्वद् या तिस्तस्याः पदमास्पदं, प्रतिमां, तत्र प्रासादे, भगवतो नेमेः, न्यधात् स्थापयामास । स प्रद्युम्नः कुमारः । इवोत्प्रेक्ष्यतेः तं भगवन्तमेवः स्वे हृदि निजे मनसि । यतो भगवतो भगवन्मूर्त्तेश्व नान्तरमिति । एनमेवार्थ समर्थयन् पश्चिमार्द्धं प्राह — सेति । सा प्रतिमाऽरिष्टनेमिस्वामिमूर्त्तिः, अद्याप्यधुनाऽपि दैवतलवेव कल्पबल्लिवत्. हितार्थहेतुः कामितकार्यकारिणी, साक्षात् प्रत्यक्षः, शिवासुत इव श्रीनेमिरिव, अतुलं निरुपमम्, प्रभावं माहात्म्यम्, एति प्रानातीति ॥ २८ ॥
Page #52
--------------------------------------------------------------------------
________________
प्रथमः सर्गः।
२७ उत्तुङ्गशृङ्गसुभगः पुरि यत्र घत्ते
शोभा समीपभुवि जेषलसंज्ञशैलः। मूर्खाग्ररुद्धविबुधाध्वनि यत्र याम्यो
दग्वर्त्मनाऽटति रवी रथभङ्गभीरुः ॥२९॥
यत्र पुरि यस्यां नगर्या, जेपलसंज्ञऔलो जेपलनामा गिरिः, शोभां धत्ते शोभते इति । किं० उत्तुमानि उच्चानि, यानि शृङ्गाणि शिखराणि तैः सुभगो मनोज्ञः । एतद्विशेषणमेव समर्थयवि-मूर्दागः शृङ्गः रुदो विबुधाध्वा आकाशो येन तत्र, यत्र जेपलगिरौ, रविः सूर्यः, अटति याति । केन, याम्योदग्वफ्ना दक्षिणोत्तराध्वना । विशेषणद्वारा तहेतुमाहरयभो भीरुः चकितः इत्यनेन जेषलगिरौ मा मम रयभको भवत्विति धिया सूर्यो दक्षिणायनेनोत्तरायणेन च व्रजतीति विस्तरार्थः ॥२९॥ पूर्ण सुपर्वपटलैरतिरम्यनाना
रम्भास्पदं वृषविनोदवरं महाढ्यम् । . वासद्वयं समतमं प्रथमद्वितीय
देवौकसोरिव विराजति यत्र पुर्याम् ॥३०॥
यत्र पुर्या, वासय, विराजतीत्यन्वयः । प्रथमद्वितीयदेवीकसोः सौधर्मेशानयोःस्वर्लोकयोरिव । अयोभयमपि समानधर्मविशेषणदारेण विधिनाष्टि-वासदयं किं० पूर्ण पूरितम् । कैः, सुपर्व
Page #53
--------------------------------------------------------------------------
________________
२८
विजयपत्रस्त्याम् । पटले, शोभनानि पर्वाणि उत्सवाः तेषां पटलैः वृन्दै पो सुपर्वाणो देवास्तेषां पटलैरिति । पुनः किं० अतिरम्या भृशं मनोज्ञा नाना विविधा ये आरम्भा व्यापारास्तेषामास्पदम्, पक्षे अतिरम्या या नाना रम्भा देववध्वस्तासामास्पदम्। पुनः किं० वृषस्य धर्मस्य, विनोदेन विलासेन, वरम् ; पक्षे वृष्णः शक्रस्येति । शेषं सुगमम् । पुनः किं० महान्त आढ्या इभ्या यत्र तत् । पक्षे महेः तेजोभिराढ्यम् । तत्र नित्यायोतसद्भावादिति भावः ॥३०॥ माणिक्यमौक्तिकमहामणिमुख्यनाना
वस्तुप्रशस्ततमहट्टविराजमानाम् । भूयोदिगागतबहुव्यवहारिवर्या
यां कुत्रिकापणमिव प्रवदन्ति लोकाः ॥३१॥ यां नगरी, कुत्रिकापणमिव, लोकाः प्रवदन्तीत्यन्वयः । यां कि० माणिक्यानि वैडूर्यादीनि मौक्तिकानि मुक्ताफलानि, महामणयः चन्द्रकान्ताद्याः, तन्मुख्यैः तत्पमुखैः, नानावस्तुभिः, प्रशस्ततमा ये हट्टास्तैः विराजमानाम् । पुनः किं० भूयो दिग्भ्य आगता ये बहवो व्यवहारिणो व्यापारिणस्तैः वर्याम् । अनेन परदेशायातार्थिनां कल्पितार्थप्रापकत्वात् कुत्रिकापणोपमेति ॥३१॥ दृक्शैत्यचैत्यशिखरस्थमहाध्वजानां
छायाः क्षितौ प्रतिपदं पुरि यत्र भान्ति ।
Page #54
--------------------------------------------------------------------------
________________
प्रथमः सर्मः।
२९ नित्यं नवाञ्जननिभाः फणिनः किमन्तः
क्ष्म स्थायिनिध्यवनसूत्रितसुप्रयत्नाः ॥३२॥
यत्र पुरि पुर्याम् , प्रतिपदंपादन्यासं प्रति पदे २ इति यावत् । दृशां चक्षुषां, शैत्यं शीतलत्वं, येभ्यस्तानि चैत्यानि तेषां यानि शिखराणि, तत्रस्था ये महान्तो ध्वजाः केतवस्तेषां छायाः, भान्ति शोभन्ते इति । उत्प्रेक्षामाह-क्ष्माया अन्तः अन्तःक्ष्म, तत्र स्थायिनो ये निधयस्तेषामवने रक्षणे मूत्रितसुप्रयना निर्मितातियत्नाः, फणिनो भुजङ्गाः किमिवेति । किं. नवाञ्जननिभाः सद्यस्ककज्जलतुल्याः। अनेन श्यामत्वमचि छायायामिति ॥३२॥ यच्चैत्यपङ्क्तिमतिचारुमुदीक्ष्य विश्व
कर्मा स्वकर्मकुशलत्वमल निनिन्द । स्वौकसां सदनवृन्दमदो यथेच्छं.
हा! कुर्वतोऽप्यजनि मे न बुधत्वमीदृक् ॥३३॥ पञ्चैत्यपङ्क्ति यनगरस्थविहारराजीम् । कीदृशीम्, अतिचारु भृशं चार्वीम्, उदीक्ष्य दृष्ट्वा, विश्वकर्मा सुरसूत्रधारः, स्वकर्मकुशलत्वं निजकार्यकौशलम् , अलमत्यर्थ, निनिन्द निन्दयाश्चक्रे । तदेवोत्तरार्द्धद्वारेणाह-स्वर्गीकसांदेवानां, सदनवृन्दं गृहव्यूहम् , अदः प्रत्यक्षं, कुर्वतोऽपि मम ईदृग यनगरचैत्यपङ्क्तितुल्यं बुधत्वं नैपुण्यं नाजनि न जातमिति । हेति खेदवाचकोऽव्ययः ॥३३॥
Page #55
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । यच्चैत्यसन्ततिमुदारतरप्रपञ्चा
निर्वर्ण्य विस्मयवती सृजतां दृशं स्वाम् । नन्दीश्वरत्रिदशवेश्मसुराद्रिमुख्य___प्रासाददर्शनरुचिः शिथिलीबभूव ॥३४॥ .
यच्चैत्यसन्ततिं यनगरवर्तिनी प्रासादपङ्क्तिम् । कीदृशीम् , उदारतरः प्रपञ्चो विस्तारो यस्यास्ताम् , निर्वर्ण्य दृष्ट्वा, विस्मयवतीम् अद्भुतधारिणीम् , स्वां दृशं निजां चक्षुषं, सृजतां कुर्वतां; द्रष्ट्रणामिति यावत् । नन्दीश्वरोऽष्टमद्वीपः, त्रिदशवेश्म स्वर्गः, सुराद्रिर्मेरुस्तत्पमुखाणां ये प्रासादाः देवगृहाणि, तदर्शनरुचिः तद्विलोकनस्पृहा, शिथिलीबभूव श्लथतां गतेत्यर्थः ॥३४॥
चैत्यानि यत्र पुरि लोकदृशां वितीर्ण
शैत्यानि वीक्ष्य परिपावितपाटकानि । तच्छिल्पिनां सकलपेशलकौशलेन
प्रीतो विनेयगतिमिच्छति विश्वकर्मा ॥३५॥ यत्र चैत्यानि । किं० लोकशां वितीर्णशैत्यानि । पुनः किं० परिपाविताः भृशं पविलिताः पाटकाः यस्तानि वीक्ष्य तच्छिल्पिनां तत्कर्तृणां, सकलं निखिलम् , पुनः पेशलं रम्य, यत्कौशलं दक्षत्वं, तेन पीतो दृष्टो, विश्वकर्मा त्वष्टा, विनेयगति शिष्यावस्थाम् , इच्छति वाञ्छतीत्यर्थः॥३५॥
यत्राशु गन्तुमनसामभिसारिकाणां
वर्त्म व्यनक्ति पतिधाम्न्युदयेऽब्जबन्धोः ।
Page #56
--------------------------------------------------------------------------
________________
प्रथमः समः। आमोदिनीषु पतयालुषडंहिपङ्क्ति
र्धम्मिल्लतः पतितपुष्पपरम्परासु ॥३६॥ यस्यां पुर्याम् , अब्जबन्धोः सूर्यस्योदये जायमाने सति, पतिधाम्नि स्वभरीभवने, आशु शीघ्रं, गन्तुं मनो यासां ताः; निजगृहं गन्तुकामा या अभिसारिकाः कामक्रीडाकृते स्वेष्टापरपुरुषसङ्केतकारिकाः। यदाहुः पूर्वाचार्यपादाः
"हित्वा लज्जाभये श्लिष्टा मदेन मदनेन वा ।
याऽभिसारयते कान्तं सा भवेदभिसारिका "॥१॥ अनारोऽपि यथा
"मदनाकुलिताऽतिनिखपा कृतभूषा निशि गूढचारिणी । सुरताय परालये व्रजेत् कवयस्तामभिसारिकां विदुः" ॥२॥ इत्युक्तलक्षणानामभिसारिकाणाम् ; व्यभिचारिणीनां स्त्रीणामिति यावत् । पम्मिल्लतः संयतकेशकलापतः, पतिता याः पुष्पपरम्पराः प्रसूनश्रेण्यस्तासु । किं० आमोदिनीषु, 'आमोदो गन्धहर्षयोः' इत्यनेकार्यत्वाद् गन्धवतीषु हर्षवतीषु चेति। पतयालुपडहिपङ्क्तिः पतनशीला भृङ्गालि, वर्त्म मार्ग, न्यनक्ति प्रकटयति; लोकानां ज्ञापयतीति गम्यम् ॥३६॥
राकासु शुभ्रतरभूरिमहेभ्यसौध
वीथीं व्यनक्ति पुरि यत्र महोज्ज्वलासु । प्रोद्यत्प्रभापटलपेशलमूर्तिजाल
जालोच्छलच्छविगृहं गृहरत्नवृन्दम् ॥३७॥
Page #57
--------------------------------------------------------------------------
________________
विजयप्रशस्त्वाम् । यस्यां पुरि, राकासु पूर्णिमासु। किं० महेस्तनोभिः उज्ज्वलासु गांगमुः शुभ्रतरभूरिमहभ्यसाधवीथीं धवलतमबहुमहेश्वरगृहणि, गृहरनन्दं दीपकसमूहो, व्यनक्ति विवेकवतीं करो. ति । गृहरनन्दं किं० प्रोद्यत्प्रभाणां चञ्चगुचीनां, पटलस्तेन पेशला मृत्तिर्यस्य तत् । पुनः किं० जालानां गवाक्षाणां यजालं चक्रवालस्तत्र उच्छलन्ती या छविः शोभा तस्या गृहमाधार इति । अत्र पूर्णिमासु हि सर्वत्र प्रसृमरकौमुदीसमुद्योतेन धरातले धवलताऽतभावात् प्रभ्रष्टकोकिलकलहंसकस्तूरीकपूरपारीसरीसुरभीप्रभृतिपदार्थविवेकासु तथाविधधवलगृहाणां तजालकगतदीपरूपन्यक्तचिव विवेकः क्रियते तत्तेजसोऽतिभास्वरत्वादिति तात्पर्यम् ॥३७॥ श्यामासु यत्र नगरे कुलटा भ्रमन्त्यः
श्यामासु नीलवसनाभरणाभिरामाः । स्वं सूचयन्ति सुझणत्कृतिनूपुराणां
प्रोत्सर्पिभिर्ध्वनिभिरेव मनोजतूर्यैः ॥३८॥
यत्र नगरे, नारदपुरीनाग्नि,श्यामासु श्यामासु कृष्णासु निशासु, कुलटाः स्वैरिण्यः स्त्रियो, भ्रमन्त्यः । पुनः कीदृश्यः, नीलानि, वसनाभरणानि वस्त्रभूषणानि, तैरभिरामा रम्याः; स्वमात्मा नं, सूचयन्ति ज्ञापयन्ति । कैरित्याह-सुष्टु शोभना झणत्कृतयो अङ्कारा येषां तानि, नूपुराणि मञ्जीराणि, तेषां प्रोत्सपिभिः प्रसरणशीलः, ध्वनिभिर्नादरेव । अत्र एवकारोऽन्ययोगव्य
Page #58
--------------------------------------------------------------------------
________________
अक्क सर्गः। चच्छेदकः । तेन, नान्यैः प्रकारिति । कि० मनोजस्य स्मरस्य तूर्वाधैः । तत्सद्भावे हि तस्योज्जागरूकत्वात् ॥३८॥ कामानिकामतमदानपरां नराणां .
श्रेणिं निरीक्ष्य पुरि यत्र समृद्धिभाजि । छायाजुषामपि मदं खमहीरुहाणा
__ मौदार्यजातममुचन्नमराः समस्तम् ॥३९॥ - समृद्धिमाजि सम्पतिशालिन्यां, यत्र पुरि यस्यां नगर्या, कामात् अभिलाषात् , निकामतमेऽतिशायिनि, दाने वितरणे, परां तत्परां, नराणां श्रणिं, निरीक्ष्य वीक्ष्य, 'छाया शोभायामनातपे च' इति वचनादातपाभाववता शब्दच्छलाच्छोभाजुषामपि, स्वमहीरुहाणां कल्पद्रुमाणां मदं दर्पम् । किं० औदार्यात् उदारत्वात् , जातं सम्भूतम् , अमराः सुराः, अमुचन् त्वजन्ति स्मेति । शेष स्पष्टम् ॥३९॥ यत्रातिमात्रपृथुपुष्करिणीषु नित्य
मामान्ति मजनसृजां सुशां मुखानि ।। तत्पालिपादपचयस्थवयःस्थवृन्द
नेत्रद्विरेफललनाय किमम्बुजानि ? ॥४०॥ पत्र यस्यां नगर्याम् ,अतिमात्रमतिमर्याद,पृथ्व्यो विस्तीर्णाः, याः पुष्करिण्यो वाप्या, तासु अतिमात्रपृथुपुष्करिणीषु, मज्जनसजो मानकृतां, सुदृशां स्त्रीणां, मुखानि, आभान्ति बोभन्ते इति । किमित्युत्प्रेक्ष्यते- तासां पुष्करिणीना, पालिस्सेतुः,
Page #59
--------------------------------------------------------------------------
________________
३४
विजयप्रशस्त्याम् ।
तत्र यः पादपचयस्तरुनिकरः, तत्रस्था ये वयःस्था युवानः; क्रीडार्थमागता इति गम्यम् । तेषां यद् हृन्दं तस्य, नेत्र द्विरेफललनाय लोचनालिखेलनाय, किमम्बुजानि कमलानीत्यर्थः ॥ ४०॥
यत्रावलोक्य कनकोत्करमर्कतकै रात्नं प्रभापटलपेशलमुच्चयं च ।
अखनभूमिभृति रोहणभूधरे च
प्रावेति सत्यमभिधानममानि लोकैः ॥४१॥
यत्र यस्यां पुरि, कनकोत्करं काश्चननिचयम् । किं० अर्क: सूर्यस्तस्य तर्कः उपहासो यस्मात्तम् ; भृशमाभास्वरत्वात् । च पुनः, राममुच्चयं मणिगणम्, किं० प्रभापटलेन ज्योतिर्जालेन, पेशलं रुचिरम्, अवलोक्य निभाल्य, अस्वमभूमिभृति मेरौ, रोहणभूघरे च रोहणनाम्नि गिरौ, लोकैर्ग्रावेति अभिधानं नाम, सत्यं सूनृतम्, अमानि मेने । ग्रावा पर्वतः पाषाणचेति वचनच्छलात् पाषाण एवेति, यतो हेमरत्नरूपस्य तत्सारभूतस्यात्र सद्भावादिति भावार्थः ॥४१॥
वीथीषु यत्र मृगशावदृशो व्रजन्त्यः पीनस्तनत्रुटितमध्यगुणप्रचारम् । नैवाविदन् पतितमप्यवनौ स्वहारं
लीलास्मितद्युतिषु सूत्रितमौक्तिकाशाः ॥४२॥
यत्र नगर्यो, मृगशावदृशः सारङ्गदारकलोचनाः, वीथीषु
Page #60
--------------------------------------------------------------------------
________________
प्रथमः सर्गः।
३५ वर्त्मसु, व्रजन्त्यः, अवनौ भूमौ, पतितमपि स्वहारं, नाविदन् न जानन्ति स्म । पतनहेतुमेव विशेषणद्वारेणाह-पीनस्तनेति । अत्र भावप्रधानो निर्देशस्तेन पीनस्तनत्वेन त्रुटितश्छिनो, मध्यगुमस्यान्तःस्थिततन्तोः, प्रचारश्वारो यस्य तम् । त्रियः किं० लीलास्मितद्युतिषु केलिहास्यकान्तिपु, मूत्रिता कृता, मौक्तिकानां मुक्ताफलानां, परस्परप्रथितहाररूपाणां, आशा स्पृहा, याभिस्ता। हास्यं हि धवलमिति पूर्वकवयस्तेनेह हारोपमानमुपपद्यमानमित्याकृतम् ॥४२॥ वर्षोष्णशीतसमये खपितीव यत्र
वक्रभुवामुरसि सूर्यकदर्पहर्ता । यत्पाणिना प्रहत एव तदीयतल्प
स्थाने विमुञ्चति स संलयमंसलांसः ॥४३॥ वर्षोष्णीवानां जलदग्रीष्महिमानां, यः समयः कालस्तत्र वर्षोष्णशीवसमये, यत्र पुर्या, बमुवां योषिताम्, उरास वक्षसि, सूर्यकर्पा कन्दर्पः, खपितीव किं ते । तत्र हेतुमाह- वतो हेतोस्तदीयतत्वस्थाने हृदये पाणिना महत एव इस्तेनापि स्पृष्टे सति स कन्दर्पः, संलयं निद्रा, विमुशति जागीवः। स कि० असलो पुष्टौ अंसौ स्कन्धौ यस्य सः, स्कन्धोधुरतयोतिष्ठतीति तत्त्वम् ॥४३॥ पुण्योदयादिव सदोदयनागराणां
योषामिषेण पुरि यस वसन्ति देव्यः ।
Page #61
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । आलोकिता अपि मनाक् स्मृतिमागताश्च कुर्वन्ति याः सुमनसां मनसां विनोदम्॥४४॥
यत्र पुरि, सदोदया नित्योबतयो, ये नागराः पौराः, तेषां पुण्योदयाद् भाग्योदयात् । किं० योषामिषेण, कामिनीकैतवेन, देव्यो देवानाः, वसन्ति दिव्यभावमेव व्यञ्जयन्ति । मनागिति ईषद्वाचकोऽव्ययः स तु प्रत्येकं प्रयोज्यस्तेन या योषाः, मनाक आलोकिता दृष्टा अपि, च पुनः, मनाक् स्मृतिमागताः स्मृता अपि, सुमनसां पण्डितानां देवानां च, मनसां विनोदं कुर्वन्ति । देवाना हि देवानां मनो विनोदयन्त्येव । यदापम्-“दोकप्पकायसेवी दादो दोफरिसरुवसद्देहि । चउरोमणेणुवरिमा" इत्यादिवीतरागागमवचनादयमर्थः समयः ॥४४॥
यत्र स्थितिः प्रतिगृहं पुरुषोत्तमस्य ___ सर्वत्र तद् वसति पुतयुताऽब्धिपुती । किं चित्रमत्र यदरं नगरं विभाति
नित्यं समृद्धमतिकामविलासभृञ्च ॥४५॥
यत्र पुर्या, प्रतिगृहं प्रतिमन्दिरं, पुरुषोत्तमस्योत्तमपुरुषस्य श्रीपतेश्च, स्थितिरवस्थानमस्ति । तत्तस्माद्धेतोः पुरुषोत्तमावाससद्भावात् पुत्रयुता सकन्दर्पा अब्धिपुत्री लक्ष्मीर्वसति । तद्धेतुकमर्थमाह-किं चित्रमद्भुतमत्रार्थे । कत्याह-यनगरं अरमतिशयेन, श्रीनिवासात्समृद्धम् । च पुनः, अतिकामविलासभृत् अतिशयेन
Page #62
--------------------------------------------------------------------------
________________
।
प्रथमः सर्गः। स्मरविनोदशालीति । अत्र पुरुषोत्तमपदेन धर्मः सूचितः । अर्थकामौ तु व्यक्तावेवेति पुरुषार्थत्रयावस्थितिः सूचितेति रहस्यम् ।।४५॥
अथ नारदपुरीनगरीवर्णनादनन्तरं तनिवासिनं गुरुपितरं कमाभिधानश्रेष्ठिनं त्रयोदशभिर्वृत्तैर्वर्णयति । तथाहितस्यां पुरि प्रचुरपुण्यमना मनस्वि
मुख्यः सुसौख्यसदनं सदनन्तबुद्धिः। जज्ञेऽहदंहिकमलालिसमः कमाख्यः
श्रेष्ठी सुदर्शन इवामलशीललीलः ॥४६॥ तस्यां पुरि नारदपुरीपुर्या, कमाख्यः श्रेष्ठी जले। कीदृशः, प्रचुरपुण्यमनाःप्रचुरे भूयसि पुण्ये धर्मे, अथवा प्रचुरं भूरि पुण्यं पवित्रं मनो यस्य सः । पुनः कि. मनखिनः सहृदयास्तेषु मुख्यः। पुनः किं० सुसौख्यसदनं शोभनसुखगृहम् । पुनः किं. 'सदियमाने सत्वे च प्रशस्तार्चितसाधुषु' इत्यनेकार्यवचनात् सती विद्यमाना सत्या या प्रशस्ता वाचिंता वा साध्वी वा अनन्ता निरवधिबुद्धिर्यस्य सः।पुनः किं० अईन्तो देवाधिदेवाः, तेषामहिकमले चरणनलिने, अलिसमो भ्रमरतुल्यः। पुनः किं० सुदर्शनो नाम यो जगदतिशायिब्रह्मव्रतवान् महान् श्रेष्ठी तद्वदमला निर्मला, शीललीला ब्रह्मकेलियस्य सः । अत्रान्तिमविशेषणयेन तस्मिन् श्रेष्ठिनि शुद्धसम्यक्त्वशीलशालित्वमसूचीति तत्त्वम् ॥४६॥
Page #63
--------------------------------------------------------------------------
________________
विजयनस्त्याम् । सार्थार्थिसार्थकृतकीर्तिसुघोषधोषा
वंशे वतंससमताऽजनि यस्य लोके । तेजस्विनी शशिसहासुतसौम्यसूरि
शुक्रासितादिषु वेरिव मुख्यता खे ॥४७॥ सह अर्थेनार्यात्तद्वंशीयवितीर्णधनेन वर्त्तन्ते ये ते सार्थास्ते चार्थिसार्या मार्गणगणास्तैः कृतो निर्मितः कीर्तिसुघोषो यस्यासौ धोपाख्यो वंशश्चेति कर्मधारयस्तत्र सार्यार्थिसार्थकृतकीतिसुघोषधोपावंशे, वतंससमता शेखरतुल्यता, यस्य कमाख्यश्रेष्ठिनः, अजनि जाता । अत्र दृष्टान्तोपन्यासः- यथा खे गगने, रवः सूर्यस्य, मुख्यता जातेति । कीदृशी, तेजस्विनी महोमयी । केष्वित्याह-शशी चन्द्रः, सहाभूमिस्तत्सुतो भौमः, सौम्यो बुधः, सरिवृहस्पतिः, शुक्रो भार्गवः, असितः शनैश्चरस्तदादिषु । अत्रादिशब्दादपरंऽपि राहुकेतुप्रभृतयो ग्रहा ग्राह्यास्तेन सर्वेष्वपि ग्रहेषु यया सूर्यस्य तया घोषावंशे सर्वव्यवहारिषु कमाख्यश्रेष्ठिनो मुख्यतेति तात्पर्यम् ॥४७॥
अर्थः सदर्थसुकृतार्थमुपाय॑मानः
कामोऽप्यकाममनसैव निषेव्यमाणः । यस्मिन्निमावपि भवप्रभवौ पुमर्थों
नैपुण्यपुण्यतमपुण्यमयावभूताम् ॥४८॥ ___अर्थो धनरूपः पुरुषार्थः स च किं क्रियमाण इत्याहसदर्यसुकृतार्थ सन् विद्यमानो योऽर्थो मोक्षलक्षण प्रयोजनं
Page #64
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। यस्मिस्तच सुकृतं पुण्यं चेति कर्मधारयस्तदर्थ तस्मै उपायमानः स्वीक्रियमाण इति । पुनः, कामोऽपि कन्दर्परूपः पुरुषार्थः। सोऽपि किं क्रियमाण इत्याह- अकाममनसा निःस्पृहचेतसा, निषेव्यमाणो बोभुज्यमानः। इमौ द्वावपि, पुरुषार्थों, भवप्रभवावपि संसारहेतू अपि, यस्मिन् श्रेष्ठिनि, नैपुण्येन चातुर्येण, पुण्यतमम् अतिपावनं यत् पुण्यं धर्मः, तन्मयावभूताधर्मप्रधानौ जावावित्यर्थः॥४८॥
भूयोधनाधिपतिता घनदातृता च
हे अप्यरी स्थिरमिमे मिलिते यदस्मिन् । मित्रे इवातुलबले लसतः सलीलं
यस्याम्यधायि जगता तदफल्गु पुण्यम्॥४९॥ भूयसां बहूनां, धनानां अधिपतिः खामी, भूयोधनाधिपतिस्तस्य मावस्तत्ता । च पुनः, घनदातृता प्रचुरदानित्वम् , इमे हे बहुधनित्वबहुदानित्वे 'दाता दरिद्रः कृपणो धनाढ्यः' इत्यादिलोकोक्तेः प्रायेणैकवाऽनवस्थानात् । अरी इवाऽरी शत्रुभूतावपि, यद् यस्मादेतोरस्मिन् श्रेष्ठिनि, स्थिरं यथा स्याचया मिलिते सक्ते, मिले इव, लसतः क्रीडत इत्यन्वयः। द्वे किं० ईप्सितार्यसाधकत्वेनातुलं निष्पतिमं बलं स्थाम ययोस्ते । तस्माकारणाद् यस्य श्रेष्ठिनः, जगता लोकेन, अफल्गु सारं, पुण्यमभ्यधायि प्रोचे ॥४९॥ दानेंऽशुमत्सुत इवातिमहत्त्वमाने
शीले च पावकिरिवापयशःप्रमीले ।
Page #65
--------------------------------------------------------------------------
________________
विजयमवस्त्याम् । प्राज्यां प्रसिद्धिमतिशायि च वल्लमत्वं
यः प्राप पापविमुखः परदर्शनेऽपि ॥५०॥ । दाने वितरणे, अंशुमत्सुत इवेत्यत्र 'कर्णश्चम्पाधिपोजराद् रापासूतार्कतनयः' इत्युक्तेः कर्ण इव । दाने कि० अत्यधिक महत्त्वं गौरवं मानं च पूजा यस्मात्तत्र । च पुनः, शीले ब्रह्मचर्ये, पावकस्याऽनेरपत्यम् अत इ॥६।१॥३१॥इति सूत्रेण सिदः पावकिः कार्तिकेय इव । शीले किं० अपयशसोऽवर्णस्य प्रमीला लक्षणया मुद्रणं यस्मादिति तत्र । प्राज्यामुत्कृष्टां, प्रसिद्धिं च पुनरतिशायि अधिकं वल्लभत्वं च, यः श्रेष्ठी परदर्शनेऽपि,पाप अवाप्तवान् । यः किं० पापाद्विमुखः पापपराङ्मुख इति । अनेन यः श्रेष्ठी दानेन कर्णवत्ख्याति शीलेन च कार्तिकेयवत्सौभाग्यं समाससादेति भावः ॥५०॥ भक्तिजिनेषु यतिषु प्रणतिः सुपात्र
दाने रतिर्हृदयवाक्तनुशुद्धिबीजम् । यस्थाजनिष्ट सहजैव गुणत्रयीय
मिन्दोरिवार्जुनजगत्प्रियवृत्तभावः ॥५१॥ जिनेषु देवेषु मक्तिः, पुनर्यतिषु साधुषु प्रणतिः, पुनः सुपात्रदाने रतिः । कीदृशी, हृदयवाक्तनूनां मनोवचनकायानां शुदेजिं निदानम् । इयं गुणत्रयी यस्य श्रेष्ठिनः सहजैव सार्द ममुत्पबैव, अजनिष्ट जन्मतोऽपि जातेत्यर्थः । अत्र दृष्टान्तं स्पष्टयति- इन्दोरिव चन्द्रस्येव, अर्जुनभावः शुचिमा जगाषियमानो
Page #66
--------------------------------------------------------------------------
________________
नवमः सर्गः । -
४१
विश्ववल्लभता, हृद्यभावो वृचता चेति गुणत्रयी चन्द्रस्येव यस्य श्रेष्ठिनो, गुणत्रयी जातेत्यर्थः ॥ ५१ ॥
औदार्यधैर्यशुभशौर्यमुखा असंख्याः
सर्वे गुणाः प्रविविशुः सममेव यस्मिन् ।
जद्दूष्णरश्मिहिमरश्मिसुतायतुल्यकुल्याप्रवाहनिवहा इव वारिराशौ ॥५२॥
औदार्य दानिता, धैर्य बीरता, शुभशौर्ये श्रेयः शूरता, तन्सुखाः सर्वे गुणाः। किं० असङ्ख्याः संख्यारहिता अप्रमाणा इति । सममेव युगपदेव, यस्मिन् श्रेष्ठिनि प्रविविशुः विशन्ति स्म । के कस्मिन्भिवेत्याकाङ्क्षायां दृष्टान्तमाह – जहोः सगरचक्रधरसूनोः, उष्णरश्मेः सूर्यस्य, हिमरश्मेन्द्रस्य, सुताः पुत्र्यः, क्रमेण गङ्गायमुनानर्मदास्तदादीनाम्, अतुल्यकुल्यानां महानदीनां, मवाहनिवहा ओघसङ्घा इव, यथा वारिराशौ समुद्रे ॥ ५२ ॥
येन श्रियेश्वरसुहृद्धिषणो घिया च तुल्योऽपि नो सुभगतां बिभराम्बभूव । एक: कुबेर इति वित्तिमुपागतो यदोषाकरौकसि महत्वमुपैति चाऽन्यः ॥५३॥
बेन श्रेष्ठिना, श्रिया लक्ष्म्या, ईश्वरसुहृद् धनदः, घिया बुद्धधा च विषणो बृहस्पतिः, तुल्योऽपि, सुभगतां सौभाग्यं, नो बिभराम्बभूव न बभारेति । तत्र हेतुमाह- यदिति ।
Page #67
--------------------------------------------------------------------------
________________
५२ विनमयस्त्वाम् । समादेतो, एको पनदः कृष्ठित्वात् कबेरः इत्सितकरीर इति वित्ति ख्यातिम् , उपागतः प्राप्त इति दोषदुष्टः । अन्यो दितीयो विषणः, सोऽपि, दोषाकरस्य चन्द्रस्यौकसि रहे कुलीरे, महचम् उपैति । 'कर्कस्थो गुरुरुचः' इतिवचनात् । अयमपि शब्दच्छलात् दोषाकराश्रये दोषाणां आकरे खानिभूते, आश्रये गृहे, माहात्म्यभृत्वादोषदक्षित इति ।। ५३ ॥
उत्पत्तिसंस्थितिविनाशमयत्रिपद्या
__ पूताऽहंदुक्तिरभजद्धृदि यस्य वासम् । . ओधैस्त्रिभिस्त्रिजगतां शुचितां सृजन्ती
जहोः सुतेव शिरसि स्मरसूदनस्य ॥५४॥ उत्पत्तिरुत्पादः, संस्थितिध्रौव्यम् , विनाशो विगमः, तन्मयी या त्रिपदी । यदागमः- 'उप्पण्णेति वा विगमेति वा धुवेति वा' इत्यादिप्रवचनप्रणीतया त्रिपघा, पूता पवित्रा, अईदुक्तिभगवद्वाणी, यदि यस्य हृदये, वासमभजन , दृष्टान्तमाइ-ओघैः प्रवाहैः । किं० विभित्रैलोक्यवर्तित्वात् त्रिजगतां, शुचितां नैमल्यं, सृजन्ती । यथा जहोः सुता मन्दाकिनी, स्मरसूदनस्य महादेवस्य, शिरसि शीर्षे, वासं भजतीत्यर्थः ॥५४॥ गृह्णाति काचशकलं कुलमर्चिषां को
मुक्त्वा मणिं हदि विदन्निति किं महात्मा । • सार्वज्ञमंह्रियमलं विमलं विहाय . नोसंलयेऽप्यपरदेवमसावनंसीत् ॥५५॥
Page #68
--------------------------------------------------------------------------
________________
५३
का
प्रथमः सर्गः। अर्चिषां ज्योतिषां, कुलं धाम, माणिं रवं, मुक्त्वा त्यक्त्वा, काचस्य, शकलं खण्ड, को गृहाति । किमित्युत्सेक्ष्यते-हदि मनास, इति विदन् मानगोचरीकुर्वन् , असौ श्रेष्ठी, सार्वज्ञ वैतरागं, अहियमलं पादयं, किं० विमलं विगतमलं, विहाय हित्वा, अपरदेवं भूदेववासुदेवमहादेवादिकं, लियेऽपि स्वापेऽपि, नानसीब नेमे ॥ ५५॥
क्षान्त्यादिधर्मनिधिषु श्रमणेषु येन
चित्तं न्यधायि मुदिरेषु शिखण्डिनेव । शुश्रूषकः शमवतामयमित्यवाप
तयः प्रसिद्धिमतुलां श्रुतिशर्ममूलम् ॥५६॥ शान्तिः क्षमा, आदौ धुरि, यत्र स धर्मो अर्थाघतिधर्मो दशविधः।
यदुक्तं नियुक्तिकृता श्रीभद्रबाहुगणभृता'खेती य महर्वजर्व मुची तवे सञ्जमे अ बोधव्वे । संघ सेयिं आकिंचंणं च में च जइधम्मो ॥१॥
इत्याबागमोक्तस्य यातिधर्मस्य, निषयो निधानभूताः, क्षान्त्यादिधर्माधारा इत्ययः तेषु श्रमणेषु साधुतु, येन श्रेष्ठिना, चितं मानसं, न्यायि स्थापितमिति । केप्टिव केनेत्याहमुदिरेणु मेषेषु, यया शिखण्डिना मयूरेणेति । तदिति तस्माद्धतोः, अयं भादः, शमवतां शुभषक इति प्रसिदि श्रमणोपासकोति ख्यातिमवाप पासवान् । कीडीं, मुत्योः कर्णयोः, शर्मामूलं सुखकारणम् ।। ५६॥
Page #69
--------------------------------------------------------------------------
________________
४४
विजयमशस्त्याम् ।
देवे गुरौ भगवदुक्तिषु तत्त्वरूपा श्रद्धा यदीयहृदि मुक्तिवशाऽऽप्तिदूती । प्रोच्चैः प्रकाशमकरोदनघं घनश्रीः स्नेहाढ्यदीपकलिकेव गृहान्तराले ॥५७॥
देवे देवाधिदेवे, गुरौ सुविहितसाधौ, भगवदुक्तिषु जिना - गमेषु, तत्त्वरूपा यथार्थाऽवबोधरूपा, श्रद्धा श्रद्धानं सम्यक्त्वमित्यर्थः । यदाहुः श्रीहेमचन्द्रसूरीन्द्राः -
'या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मषीः शुद्धा सम्यक्त्वमिदमुच्यते ' ॥ १ ॥
इत्यादिशास्त्रोक्तस्वरूपसम्यग्देवगुरुधर्मास्तिक्यलक्षणा श्रद्धा; किं० मुक्तिवशा सिद्धिवधूस्तत्प्राप्तौ दूती संदेशहारिका, तन्मेलापककारित्वात् ; यदीयहृदि यस्य श्रेष्ठिनो मनसि, प्रकाशसुद्द्द्योतमकरोत् कुरुते स्म । कथं, अनघं मनोज्ञं निष्पापं निर्मलम्, यथा स्यात् तथेति क्रियाविशेषणम् । अत्र दृष्टान्तमुद्भावयति — यथा स्नेहाढ्या दीपकलिका, गृहान्तराले वासमध्ये, प्रकाशं कुरुत इत्यादि ॥ ५७ ॥
अथ गुरोः पितुर्वर्णनानन्तरं मातरं दशभिर्वृत्तैर्वर्णयति । तथाहि
विष्णोः पयोधिदुहितेव पुलोमजेव
वास्तोष्पतेः रतिरिवासमसायकस्य ।
Page #70
--------------------------------------------------------------------------
________________
अवमः सर्गः। तस्यातिसत्यजनि कोडिमदेव्यहार्य
माधुर्यधाम गृहिणी गृहमेव मूर्तम् ॥५८॥ विष्णोर्नारायणस्य, पयोधिदुहिता लक्ष्मीर्यथा, पुनः वास्तोष्पतेः शक्रस्य, पुलोमजा यथा शची; पुनः असमसायकस्य पश्चबाणस्य, यथा रतिः, तथा तस्य कमाख्यश्रेष्ठिनः, कोडिमदेवीति नान्नी गृहिणी, जाता । कीदृशी, अतिसती अधिक श्रेष्ठा, अथवा अतिक्रान्ता स्त्रीगुणैः सती पार्वती यया सा अतिसती । पुनः किं० अहार्य हमशक्यं यन्माधुर्य मनोज्ञत्वं, तस्य घाम स्थानम् । पुनः किं० मूर्त मूर्तिमद् गृहमेवेति निश्चये।।५८।।
मन्त्रं मृगध्वजमृगौ विजितौ ययाऽऽस्य___ दृग्भ्यां दिवि प्रकुरुतः किमु तत्तुलाऽऽप्त्यै । नो चेन्नभश्वरवनेचरयोरियं कै
कत्र स्थितिर्गगनवल्लिरिवात्यनीं ॥१९॥
यया कोडिमदेव्या, आस्यग्भ्यां वदननयनाभ्यां, विजितौ मृगध्वजमृगौ शशाङ्कसारङ्गी, तयोरास्यदृशोस्तुलाऽऽप्त्यै तुल्यतापापणाय, दिवि आकाशे, किमु मन्त्रं रहस्यालोचनं, प्रकुरुत इति । अमुमेवार्थ समर्थयति-नोचेदिति, नैवं चेद् यदि तदा, नभयरवनेचरयोः खेचरभूचरयोयोरियमेकत्र स्थितिः, का कीदृशी, गगनवल्लिरिव व्योमलतावत् , अत्यनहीं भृशमनुपपधमाना ॥ ५९ ॥
Page #71
--------------------------------------------------------------------------
________________
विजयमयस्त्वाम् । .. यस्याः सुखातिशयिना ध्वनिना निरस्ता
नूनं वनावनिमगुः कलकण्ठकान्ताः । नो चत्कुतः खरचमत्कृतविष्टपाना
मासामिहासुखविधायि वनप्रियत्वम् ॥६॥ - यस्याः श्रेष्ठिन्याः, सुखस्यातिशय आधिक्यं यस्माचेन सुखातिशयिना, ध्वनिना नादेन, निरस्ताः ध्वस्ताः, कलकण्ठकान्ताः कोकिलाः, बनाऽवनिमगुः काननकाश्यपी जग्मुरित्यन्वयः । चेद् यदि इति न, तदा सरचमत्कृतविष्टपानाम्, अपीत्यध्याहार्यम् , तेन नादमीणितजगतामपि, आसां कोकिलानां, वनभियत्वं अरण्यवल्लमत्वं, कुतः कीटनं, असुखविधायि दुःखदायीतिशेषः ॥ ६० ॥ चक्राङ्कुशध्वजसरोजमुखाङ्किते य
त्पादद्वये दशनखा अरुणाः स्म भान्ति । लग्नाः समं किमु दिगब्जदृशां ललाट
पट्टात्प्रणत्यवसरे वरधीरपुण्ड्राः ॥६१॥ चक्रं रयाम् , अस्कृशः सृणिः, ध्वजः केतुः, सरोज वा. रिजम्, तत्ममुखैचिरिक्तेि भूषिते, यत्पादद्वये यस्यावरणयुगले, दशनखाः, किं० अरुणा रक्ता, भान्ति स्पेत्यन्वयः । किस इत्याबायां उत्प्रेक्ष्यवे-दिगन्जयां काष्ठाकामिनीना, मणत्यवसरे नविक्षने, ललाटपट्टा मालफलकाद, बरषीरस्य कमनीयकुरू कुमस्य, पुण्डास्तिलकाः,लगाः समं युगपदिति । बोलेगा
Page #72
--------------------------------------------------------------------------
________________
जयमः सर्गः ।
४७
स्वेनास्याः पुत्रो दशदिग्जनपूज्यो भावीति जनन्या अपि दशदिक्प्रणामः प्रमाणतामईतीतिभावार्थः ॥ ६१ ॥
पीनत्ववित्तमतिशायि निरीक्ष्य यस्यावक्षोजयोः ऋशिमभाक् कटिरीयेव । स्तब्धात्मनामसिततुण्डभृतां विभूति
मालोक्य कस्य भुवि न प्रभवत्यसूया ? ॥६२॥
यस्याः वक्षोजयोः स्तनयोः, पीनत्ववित्तं पुष्टताधनं, किं० अतिशायि अधिकं, निरीक्ष्य, कटिर्मध्यदेशः इवोत्प्रेक्ष्यते — ईया मत्सरेणेव, क्रशिमभाक् तनुत्ववानजनि । एनमेवार्थ समर्थयति — स्तब्धात्मनाम् अनम्राणाम्, पुनः किं० असिततुण्डभृतां श्याममुखधारिणां विभूर्ति सम्पत्तिं दृष्ट्वा, भुवि पृथिव्यां, कस्य, असूया, न प्रभवति न स्यात्, अपि तु सर्वस्यापि स्पादेवेति ॥ ६२ ॥
9
दोषाकरत्वपरिमुक्तममुक्तवृत्तं
कृत्वा यदाननमुदंशु मुधा सुधांशुम् । वेधा विदन्निव मषीं मिषतः शशस्य
चिक्षेप साक्षरसभातिलकस्तदन्तः ॥ ६३॥
दोषाणां आकरो दोषाकरस्तस्य भावस्तस्वं तेन परिमुक्तं दोषाकरत्वपरिमुक्तं, पुनः किं० अमुक्तमनुज्झितं वृत्तं वर्तुलत्वं शीलं वा येन तत् अमुक्तवृत्तं पुनः किं० उदंशु अतिकान्ति, इति विशेषणत्रिकविशिष्टं यदाननं यस्या मुखं कृत्वा निर्माय,
4
Page #73
--------------------------------------------------------------------------
________________
विजवास्त्वाम् । सुषांशु चन्द्र, दोषां रात्रि करोतीति दोषाकरस्तचेन, कदाचिन्मुक्तवृत्तत्वेन च, मुषा विदन् मिथ्या जानन्, बेषा स्रष्टा, तदन्तश्चन्द्रान्तः, शशमिषाद , मषी मसि, चिक्षेप लिपति स्मेवेत्युत्मेक्षा । वेघाः किं० सासराणां पण्डितानां, समासु तिलको विशेषकः । यतः सारं रक्षितवानसारं तु मण्या विलुप्तवानिति ॥ ६३ ॥
दुःसाध्यसाध्वसमुदन्वति वाडवाने
राहोर्विहायसि गृहे च बलेरहीनाम् । ध्यात्वा सुखैकसदनं वदनं यदीयं
जिह्वामिषादनिमिषाशनमागतं किम् ? ॥६॥ उदन्नति समुद्र, बाडवाडवानलस्य, पुनर्विहायसि आकामे, राहोः सैहिकेयस्य, च पुनर्चलेगुहे पाताले, अहीनां भुज
मानामितिः विषु स्थानेषु, दुस्साध्यं यत्साध्वसं दुर्निवारं भयं, ध्यात्वा चिन्तयित्वा । किमियोत्सेक्ष्यते- यदीयं बदनं यस्या मुखं, किं० सुखैकसदनं सौल्यैकभवनं, अनेन निर्भयत्वमसूचीति; यदनं, निर्भयंशावा, निहामिपासनाकैतवाद , अनिमिपावनम् अस्तं, आगत प्राप्तामिति ॥ ६४ ॥
खाङ्गनाः स्फुटमपत्रपिताः कलासु
कौशल्यमध्वनि दृशोः प्रविधाय यस्याः । अध्येतुमिच्छव इवातिशयं कलाना
मद्यापि नोजहति ताः खलुलेखशालाम् ॥१५॥
Page #74
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। यस्याः, कलासु, कौशल्यम्, शोरध्वनि नेत्रयोः पथि, पविषाय कृत्वा विलोक्येत्ययः, स्वर्गाङ्गनाः अप्सरसः, स्फुटमिति क्रियाविशेषणम्, अन्यतः समुत्पन्ना लज्जा अपत्रपाच्यते, तेन कोडिमदेवीसम्बन्धिकलाकलापादपत्रपिता हीणास्सत्य इवामेष्यते-कलानामतिशयं तदभ्यधिकं कलाऽभ्यासम्, अध्येतुमिच्छवः पठितुकामाः, खल्विति वितर्के, लेखशालां शब्दच्छलाल्लेखशाला पाठशाला देवलोकं च, अद्यापि नो जहति न त्यजन्तीति ॥६५॥ यस्या मुखांहिरुचिरत्वविधानचेता
धाता ध्रुवं शशिसरोजरमा समादात् । अश्रीकतापदमभूत्प्रथमः सलक्ष्म
रन्ध्रो व्यधाद् यदितरच्च वने निवासम् ॥६६॥ __यस्याः श्रष्ठिन्याः, मुखाइयोर्वदनचरणयोः, रुचिरत्वविपाने रम्यत्वापादने, चेतो मनो, यस्य सः; मुखाहिरुचिरत्वविधानचेताः, पाता बेघाः, ध्रुवं निश्चितं, शशिसरोजरमां चन्द्रपचपचां, समादादादत्ते स्म । पश्चिमार्दैन तदेव व्यनक्तियदिति । यदेतोः, प्रथमः चन्द्रः, अश्रीकताया अमनोजतायाः, पदमास्पदमभूत् बभूव । कि० सह लक्ष्मलक्षणेन रन्ध्रेण च्छिद्रेण, वर्तते यः सः च पुनरितरत् पर्व, वने जले, शब्दच्छलाद वनेsरन्ये, निवास, व्यषात् कुरुते स्मेति तात्पर्यायः॥ ६६ ॥ रम्भा सुरौकसि रता कमला च लोला
गौरी शिवा त्रिपथगा पुनरुग्रनेत्रा ।
Page #75
--------------------------------------------------------------------------
________________
विनयातस्त्वाम् । गोत्रच्छिदि प्रणयकृच्छ पुलोमपुत्री
नित्यं तुलेत्यनघया न यया सहासाम् ॥६॥ रम्भाऽप्सरोविशेषः किं० सुरोकसि रता सुराया मदिरायाः, ओको गृहं, तत्र, पक्षे सुरोकः स्वर्गलोकस्तत्र रता रक्ताः प पुनः कमला श्रीः, 'लोला तु रसनाश्रियोः' इति वचनाल्लोलेति नामान्तरम् पक्षे लोला चश्चलेति चापल्यदूषणक्षितेति, पुनः गोरी पार्वती, शिवा शृगाली; पक्षे शिवेति तमामान्तरम् । पुनः त्रिपथगा गङ्गाः किं० उग्रनेत्रा करदृष्टिः; पक्षे उग्रो महादेवः सः 'नेत्रं वस्ने मयो गुणे । मूलाक्षिनेषु' इत्यनेकार्यत्वात् नेत्रं नेता, यस्याः सा । च पुनः पुलोमपुत्री शची; किं० गोत्रच्छिदि कुलध्वंसिनिः पक्षे गोत्रच्छिदि पुरन्दरे, प्रणयकृत् स्नेहकारिणीति | इति हेतोर्यया कोडिमदेव्याः किं० अनघया निर्दोषया, . सह साई, पूर्वशब्दश्लेषोक्तदोषदूषितत्वात्, आसां रम्मादीना, तुला समानता, न स्यादिति शेषं स्पष्टम् ॥ ६ ॥
शश्वत् समुद्रसुतयेव सनातनः श्री
कम्रः कमाभिध उदारमना महेन्यः । पल्या तया सह स कोडिममुख्यदेव्या
सांसारिकीमनुबभूव विलासलक्ष्मीम् ॥६८॥ शश्वमित्यं, समुद्रसुतया लक्ष्म्या, इव यया, सनातनो नारायणः, तथा श्रिया सम्पत्त्या, शोभया वा, कम्रो मनोनः पक्षे श्रीकम्रः श्रीकान्त इति, कमाभिषो महेभ्य: किं. उदारमना
Page #76
--------------------------------------------------------------------------
________________
अवमः सर्गः। उदारचेताः, तया पल्या भार्यया; किं० कोटिममुख्यदेव्या कोडिमदेव्येत्ययः; सह सार्द, सांसारिकी संसारसम्बन्धिनी, विलासलक्ष्मी कामभोगादिसामग्रीसंपदम्, अनुषभूवेत्यनुभवति स्मेत्ययः॥६८॥ भयावशिष्टैर्टनैर्गुरोर्मातापितरौ द्वावपि युगपदर्णयति । तथाहि
भिन्नौ तथैकहृदयौ सदृशोपवेशो। त्थानौ सदृवितरणौ विषयाग्रवृत्ती । कान्ताकुचाविव समानसिचावुदारौ
तौ दम्पती सुखमफल्गु मिथोऽन्वभूताम् ॥६९॥ दम्पती कमाकोडिमदेवीनामको; किं० मिनी पृथगभूतो शरीरेणेति: तयेति पुनर]; किं० एकहदयौ एकं हृदयं परसरमनोऽनुयायितया ययोस्तौ; पक्षे एकं हृदयं आधारभूतं ययोस्तोः पुनः किं० सहने उचिते, उपवेशोत्याने प्रतीते ययोस्तो पो सह तुल्ये उपवेशोत्याने पतनोदमने ययोस्तोः पुनः किं० सरग वितरणं दानं ययोस्तौ पक्षेऽपि तुल्यं विशेषणमिदम्। पुनः किं० विषये देशेऽधिकारान्मेदपाटे, अप्रा श्रेष्ठा, वृत्तिः प्रवृ. पिर्ययोस्तो पो विषयेषु कामभोगादिषु, अग्राधिका, वृत्चिर्ययोस्तौ पुनः कि० समानं मूल्यादिना तुल्यं, सिक् चेल, ययोस्तोपक्षेत्रपि विशेषणमिदं तुल्यम् तेन कान्ताकुचाविव बीस्वनाविव, तो रमवी मामिर्चारी, सुख विषयात्मक, मियोऽन्योन्यमत्वभूत्वं लाते स्मेवः ॥ १९॥
Page #77
--------------------------------------------------------------------------
________________
विजयपत्रस्त्याम् । तुल्योपकाररसिकौ च सदृगूचिस्थौ
छायायुताववितथप्रथितप्रभावौ । तौ दम्पती घनतमानि तमांसि पुष्प
दन्ताविव द्रुतमहर्निशमभ्यभूताम् ॥७॥ भूपालगोपालखपाकवराकवणिविप्रवेश्यावेश्मादिषु नि. विशेषतया तुल्ये समाने. उपकार प्रकाशाडादलक्षणे, रसिको तुल्योपकाररसिकौ दम्पतीपक्षे द्वयोरप्यतिशायिकारुण्यपरतया, तुल्ये परस्परं समाने, उपकार लोकोपकारकरणादौ, रसिको पुनः किं० सदृगूचिस्या जगद्गतध्वान्तध्वंसित्वन, सदृक् सहशी, यारचिर्युतिः, तत्र स्थिताः दम्पतीपक्ष सदृशी रुचिर्दानादिधर्मकर्मस्पृहा, तत्र स्थिताः पुनः किं० छायायुतो 'छायाऽर्कयोषित्यनातपे कान्ती शोभायां च' इत्यनेकार्थत्वात् तरणिपक्षे छाया सूर्यभार्या; चन्द्र- . पक्षे च छायाऽनातपः कान्तिर्वा शोभा वा तया युतौ कलितोः दम्पतीपक्षे छायावद् युतौ मिलितोः यथा छाया छायावन्तमाश्रित्येव तिष्ठति तथा तावप्यन्योन्यमाश्रितो, कोऽयः स्वस्वशरीरच्छायावद् युतो, परस्परं नित्यावियुक्तावित्यर्थः; पुनः किं० अवितयो यथार्यः, प्रयितश्च चराचरजगत्मतीतः, सूर्याचन्द्रमसोः पसे प्रमावस्तेजः; दम्पतीपक्षे प्रभावः शक्तिः, सांसारिकधार्मिकक्रियानिर्वाहरूपा ययोरित्युभयत्रापि यथासम्भवं योज्यम् । ती अवितयथितप्रभावी, तौ दम्पती भार्यापती, पुष्पदन्ताविव सूर्याचन्द्रमसाविव, घनतमानि निविडतराणि, तमांसि पापानि, अन्धकाराणि च अभ्यभूतां निराकुरुतः स्मेत्यर्थः ।। ७० ।।
Page #78
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ।
सर्वज्ञदेवयतिगुर्वतिचारुचित्तभक्ती विरक्तिगुणशीलसलीलसक्ती । तौ दम्पती कृतिकृती सुकृतानि दीनोद्धारादिकानि सुदृशौ सदृशान्यकाम् ॥ ७१ ॥
सर्वज्ञोऽर्हन् यो देवः, यतिश्चारित्रीयो गुरुः, तयोः सर्वज्ञदेवयतिगुर्वोः, अतिचारुः अतिशयेन चार्वी, चित्तभक्तिर्ययोस्तौ, सर्वज्ञदेवयतिगुर्वतिचारुचित्तभक्तीः पुनः किं० विरक्तिर्वैराग्यं, तल्लक्षणो गुणो यस्मिंस्तच्च शीलमाचारी, ब्रह्म वा, तत्र सलीला सक्तिः सको, ययोः ताः तौ दम्पती कोडिमदेवीकमाख्यौः पुनः किं० कृतिनां कोविदानां, कृतिः क्रियाऽर्थाद्धार्मिकी क्रिया वर्तते ययोस्तौ कृतिकृती, सुकृतानि पुण्यानि, किं० दीनोद्धारादिकानि; पुनः किं० सदृशानि तुल्यानि; अकाष्ट कुरुतः स्मेति । अत्र पूर्वार्द्धे देवगुरुरागित्वमुक्तम्, पश्चिमार्द्धे तु धर्मरागित्वमिति तत्त्वत्रयीधारित्वं सूचितं तदेवाग्रेतनविशेषणेन दृढयति — पुनः तौ किं० सुदृशौ सम्यगृहशाविति भावः ॥ ७१ ॥
मत्वा गृहिष्वनुदिनं निरपत्यताऽऽख्यं दुःखं दुरुद्धृतिकशल्यमिवान्तरस्थम् । तौ दम्पती भिषजमार्हतमामयनं
५३
धर्म तदुद्धृतिधिया भजतः स्म भूरि ॥७२॥
अनुदिनं प्रतिदिवसं गृहिषु गृहस्थेषु, निरपत्यताऽऽख्यं निःसन्ततिनामकं, दुःखं, अन्तरस्थं शरीरमध्यस्थितं, दुःखेन उद्धृतिरु
Page #79
--------------------------------------------------------------------------
________________
५४
बिजयमशस्त्वाम् ।
द्वारो यस्य तत् दुरुद्धृतिकं तच शल्यं चेति कर्मधारयस्तेनान्तःस्थशल्यमिवानपत्यतादुःखं, मत्वा ज्ञात्वा तदुद्धृतिधिया तस्य दुःखशल्यस्योद्धारबुद्धया, तौ दम्पती, आईतं सार्वज्ञं धर्मः किं० भिषगिव वैद्य इव भिषक् तं भिषजं; किं० आमयनं द्रव्यभावरूपरोगहरं, भजतः स्म निषेवाते स्म । तथाऽत्रायमाशयः - पूर्व प्रमाद्धर्मावपि तदानीं तु सन्तानार्थिनौ सन्तौ तौ मिथ्यात्वादि हित्वा विशेषेण धर्मरूपमेव वैद्यं श्रयतः स्मेत्येतदर्यसमयेनसूचाचणं भूरीति क्रियाविशेषणम् ॥ ७२ ॥
भूच्छायमन्धितमहीव सहस्ररश्मि
दुःखं सुपात्रनिहितो विभवो निहन्ति । ध्यात्वेति चारुरुचि चेतसि दम्पती तौ
क्षेत्रेषु सप्तसु सदा वपतः स्म वित्तम् ॥७३॥
सहस्ररश्मिः सूर्य इव, भ्रूच्छायं ध्वान्तं किं० अन्धिता जगतस्तमोग्रस्तत्वेन अन्धीकृता मही मेदिनी येन तदन्धितमहि; तथा सुपात्रेषु निहितः स्थापितो, विभवो, दुःखमशर्म, निहन्ति इति चेतसि मनास, किं० चार्वी मोक्षाभिलाषित्वात् 'रुक् शोभा किरणेच्छासु' इत्यनेकार्यवचनात् रुक् इच्छार्थात् स्पृहा यस्मिंस्तस्मिमारुरुचि चेतास, मत्वा ज्ञात्वा, तौ दम्पती जायापती, सप्तसु जिनभवनादिषु क्षेत्रेषु, विचं, वपतः स्मेति ॥ ७३ ॥
दीपप्रभा फणिदृशेव सुशीलवृच्या निष्पुत्रताऽऽदिकमघं विनिहन्यते यत् ।
Page #80
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ।
तौ दम्पती गृहिजनोचितमत्यजिझं ब्रह्मेति साधु दधतुर्धृतिमत्प्रधानौं ||७४ ||
५५.
इव यथा, फणिदृशा सर्पदृष्टया दीपप्रभा प्रदीपज्योतिः, तथा सुशीलवृत्या शोभनब्रह्मचर्याचरणेन, निष्पुत्रतादिकं निरपत्यतामसुखं, अघं दुःखं, विनिहन्यते । इति हेतोस्तौ दम्पती, गृहिजनस्यागारिण उचितं योग्यं पुनरतिशयेन, अजिह्मं सरलं, ब्रह्म शीलं दधतुः । तौ पुनः किं० धृतिमत्सु सन्तोषशालिषु धैर्यवत्सु वा, प्रधानौ प्रकृष्टौ साध्विति च क्रियाविशेषणम् ॥ ७४ ॥
"
शम्बेन शैलशिरसामिव पूर्वजन्मदुष्कर्मणां भवति सत्तपसैव नाशः । तत्सर्वथा हितसमीहितदानदक्षे तद्दम्पतीहृदभवत् कृतयत्नमत्र ॥७५॥
शैलशिरसां गिरिशृङ्गाणामिव यथा, शम्बेन बज्रेण, तथा पूर्वजन्मनां यानि दुष्कर्माणि तेषां पूर्वजन्मदुष्कर्मणां सत्तपसैब, नाशो भवति ; तस्मात्कारणात् तद्दम्पतीहृत् तयोर्भार्यापत्योर्मनः, अत्राऽस्मिन् तपास, कृतयत्नं प्रयत्नवत् अभवज्जातम् ; तपास किं० हितं पथ्यं च यत् समीहितं कामितं, तस्य हितसमीहितस्य यद्दानं तत्र दक्षे निपुणे ॥ ७५ ॥ एधांसि वह्निरिव भानुरिवान्धकारान् पूर्वार्जितानि दुरितानि निहन्ति भाव: ।
"
Page #81
--------------------------------------------------------------------------
________________
विजयपशस्त्याम् । पत्नी पतिश्च मुदितो स्वमनोरथद्र
मेघे मनस्तदिह नित्यमिमौ न्यधत्ताम् ॥७६|| इव यथा, वहिरमिः, एधांसि इन्धनानिः पुनर्यथा भानुः मयः. अन्धकारान् : तथा पूर्वार्जितानि प्राचीनानि, दुरितानि पातकानि. भावो निहन्ति । तदिति तस्मात्कारणात् , इमा पत्नी पतिश्चः किं मुदितो सन्ती, इह भावे, सुकृततुर्यभेदे; किं. खमनारयगुः स्वाभिलाषभूरुहस्तत्र मेघे जलदे, तवृद्धिविधानत्वात् मनो हृदयं, न्यधत्तां स्थापयामासतुरित्यन्यत्सुबोधम् ॥७६॥
तुहिनरुचिभृद्भूभृत्पुत्र्योरिवार्त्तिविहीनयोनिखिलविषयोल्लासश्रीमन्महोदधिमानयोः । ___ सततयुतयोर्जायापत्योस्तयोर्भजमानयोः समयसुभगान् भोगान् कालः कलेव कियानभूत् ॥७७॥
तुहिनरुचिं हिमरुचिं विभाति तुहिनरुचिभृन्महादेवः, भूमत्पुत्री पार्वती, तयोरिव किं० अतिः पीडा, तया विहीनयोः रहितयोः पुनः किं. निखिलोऽखिलो यो विषयोल्लासः का. मभोगसुखोत्कर्षः, स एव श्रीमान् यो महोदधिमहार्णवस्तत्र मीनयोर्मत्स्ययोस्तनिममत्वात् । पुनः किं० सततयुतयोनित्यावियुक्तयोः, तयोर्जायापत्योर्दम्पत्योः कोडिमदेवीकमाख्ययोः पुनः कि० कुर्वाणयोर्भजमानयोनिषेवमाणयोः, कान् , भोगान् पञ्चविधान् विषयान्; किं० समयेनाऽवसरणाऽर्थादर्मार्थाऽविरोधिना विषयसेवायोग्येन कालेन, सुभगान्मनोहान्, समयसुभगान्
Page #82
--------------------------------------------------------------------------
________________
५७
नवमः सर्गः ।
कालः किं०, कियानित्यनिर्दिष्टममाणः, केव, कलेव पञ्चदशलवप्रमितवेलव, अभूद्बभूव । अनेन सर्वसुखाधिक्यमसुसुचत्सूत्रकृत् ।
इह च मङ्गलरूपतया प्रथमसर्गस्यान्तिमे काव्येऽपि श्रीशब्दप्रयोगः । तदुक्तं च प्राचीनानेकच्छेकै:- 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते श्रोतारोऽध्येतारव कुशलिनः कुशलाच भवन्तीति' । तथेदं हरिणीनामकं वृत्तम्' रसयुगहयेन्सीं म्रौ स्लौगो यदा हरिणी तदा', इति लक्षणमतिपादनात् । ननु सर्गान्ते वृत्तपरावृत्तिः किमबलम्बनेति चेत् । उच्यते- 'सर्गैरनतिविस्तीर्णैः श्रव्यवत्तैः सुसन्धिभिः । सर्वत्र भिनसर्गान्तैरुपेतं लोकरञ्जकम् ' ।। १ ।। इत्याद्यनेक पुराणमहाकविवचनालम्बनति तवम् ।। ७७ ॥
,
इति भट्टारककोटीत्यादेरारभ्य प्रथमः सर्ग इति यावत् सर्व सुगमम् । नवरं विजयमशस्तिनान्नि महाकाव्य इत्यत्र महाकाव्यत्वं चास्य काव्यस्य, सर्गबन्धात्मकत्वात्, पुरनृपकुमारमन्त्रिप्रभृतिवर्ण्यवस्तूनां वर्णनाथ: यदुक्तम्- 'सर्गबन्धो महाकाव्यमिति' । 'पुरनृपकुमारमन्त्रिप्रयाणरणदूतभवनवनगिरयः ।
एते यत्र कवीन्द्रैर्वर्ण्यन्ते तन्महाकाव्यम् ' ॥ १ ॥ इत्याद्युक्तत्वाचेति ध्येयम् ।
इतिसुविहितसभा सार्वभौमसमानसकलपण्डितमण्डलीमालिमौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितश्रीविद्याविजयगणिविनेयाणुवाचकश्रीगुणविजयगणिविरचितायां विजयप्रदीपिकाऽभिधानधारिकायां श्रीविजयत्रशस्तिमहाकाव्यटीकायां प्रथमः सर्गोऽर्थतः समर्पितः ।
Page #83
--------------------------------------------------------------------------
________________
अथ द्वितीयः सर्गः ।
तंत्रेदमाद्यं पद्यम्—
अथान्यदा श्रीपरमेष्ठिनाममन्त्रस्मृतिप्रीतमना अनाधिः ।
बभार सा श्रेष्ठिकमाभिघस्य
पत्नी निधानं वसुधेव गर्भम् ॥ १ ॥
अथेत्यानन्तर्ये, मङ्गलायें चः अन्यदा एकस्मिन् दिने,श्रीपरमेष्ठिनाममन्त्रस्मृतिप्रीतमनाः श्रिया चतुस्त्रिंशदतिशयादिलक्ष्म्योपेताः परमेष्ठिनः श्रीपरमेष्ठिनस्ते चार्हत्सिद्धाचार्योपाध्यायसाधुलक्षणाः पञ्च तेषां यो नाममन्त्रोऽर्थात् पञ्चपरमेष्ठिनमस्काररूपस्तस्य; अथवा श्रिया सहिताः परमेष्ठिनः श्रीपरमेष्ठिनोऽर्हन्त एव, श्रीतृषभदेवादिमाः श्रीमहावीरान्तिमाचतुर्विंशतिस्तीर्थकुरास्तेषां ओं वृषभाय नमः, ओं श्रीमहावीरवर्द्धमानखामिने नम इत्येवंरूपी यो नाममन्त्रस्तस्य स्मृतेः स्मरणात्, मीतं दृष्टं, मनो यस्याः साः पुनः किं०, अनाधिः नास्ति आधिर्मानसी व्यथा यस्याः सा, बभारेति विभर्ति स्मः सा श्रेष्ठिकमाभिधस्य पत्नी कोडिमदेवी गर्भं दोहदलक्षणम् । दृष्टान्तो यथा, बसुधा मही, निधानमित्यर्थः ।। १ ।।
अल सर्वे उपजातिच्छन्दस्तलक्षणं वेदम्
Page #84
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः। 'स्यादिन्द्रवजा यदि तौ जगौ गः, उपेन्द्रवजा जतजास्ततो गां।
अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ता' ।।१।। इत्यादि पुरतोऽपि प्रयोज्यम् ।।
अथ काव्यत्रयेण क्दा तया स्वमदृष्टं सिंह वर्णयतिस्तम्बरमत्रासनिदाननाद
क्षुब्धाखिलक्षोणितलं सहेलम् । सोयोतविद्युद्द्युतिजित्वराक्षि
द्वयीकमद्वैततरोवरोरुम् ॥ २ ॥ गुञ्जातुले तालुनि पद्मपत्र
मित्रं रसज्ञाऽङ्कुरमादधानम् । व्याचाननं काननकुञ्जराज
रौद्र रसं मूर्त्तमिवोग्रमूर्तिम् ॥ ३ ॥ वक्रीकृतातुच्छसुपुच्छगुच्छं
स्वप्रान्तरस्वप्नमनोविनोदम् । निश्शकमकाभरणीभवन्तं तदैव सा केसरिणं ददर्श ॥ ४ ॥
(त्रिभिर्विशेषकम् ). सदैव- गर्भापानसमय एष, सा कोडिमदेवी, केसरिणं सिंह, ददर्ष न्यलोकयत् । कीनं, स्तम्मेरमा हस्तिनस्तेषां; पासनिदानं भयहेतुर्यो नादः वेडालक्षणस्तेन. क्षुषं. लोभितं, अखिलं सबस्त्र, शोषितसं भूवलयं, येन यमादा तम्,
Page #85
--------------------------------------------------------------------------
________________
विनवासस्वाम् । पुनः कि०, सहेल लीलावन्तम् , पुनः कि०, सोदद्योताउयोतवती या विद्युत् तस्या युतिज्योतिस्तजित्वरी तजंत्री अतिदयी नेत्रयुगली यस्य तं सोद्योतविद्युद्युतिजित्वरातिदयीक पुनः कि०, अतमदितीयं तरो बलं ययोम्ते बरे श्रेष्ठे ऊरू यस्य तं अदैततरोबरोरुम् ॥२॥ पुनः सिंहं रि.कुर्वाणम् , आदधानं बिभ्राणं; किं० रसज्ञाऽङ्करं जिहामरोहम्:क, तालुनि कीदृशे, गुञ्जायास्तुला औपम्यं यस्मिंस्तस्मिन् गुञ्जातुले; रसहाऽङ्करं किं०, पद्यपत्रमित्रं कमलदलसोदरम्; पुनः कि०, व्या विदारितं, आननं मुखं येन तं, व्याचाननम् । पुनः कि०, काननकुञ्जरा क्लगहरेश्वरम् : पुनः किं०, उग्रमूर्ति घोराकारम् । अत एवोत्के. क्ष्यते- रौद्रं रसं सप्तमं रस,मत मूर्तिमन्तमिवेति । अत्रोत्सेक्षामुखेन सिंहस्य वही क्रूरता दर्शिता; पुण्यवन्माता तु सर्वस्वी सौम्यमेव पश्यतीति चेत् । सत्यम । परं पशाननस्यात्र वास्तव वर्णकविधानाददुष्टतेति निष्टानीयम् ॥ ३ ॥ पुनः कि. सिं बक्रीकृतोऽतुच्छोऽनल्पः सुपुच्छगुच्छो येन तं वकीकृतातुच्छ पुच्छगुच्छम्। कदा सिंहं ददर्जेत्याह- स्वमान्तः स्वापारस्थायाम् । पुनः सिंहं कि०, असमानां देवानां मनोविनोदो यस्मात्तम् । पुनः कि०, निश्श निर्भय अववा निश्श वा स्यातयेति क्रियाविशेषणमिति । भराभरणीभवन्तम् उत्सासकिनमिति रचनपार्वः॥४॥ विनाशयन्तं तिमिरद्विपाषान
रष्ट्राऽविटा हरिमुल्लसन्तम् ।
Page #86
--------------------------------------------------------------------------
________________
द्विवीयः सर्गः ।
आमोदिनी वक्त्रवितीर्णमुद्रां निद्रां जहौ वारिजिनीव साऽथ ॥ ५ ॥
9
तिमिरोपमाः अत्यन्तश्यामाः ये द्विपौघा गजन्रजास्तान् ; पक्षे तिमिररूपा ये द्विपौघास्तान् तिमिरद्विपौघान् ध्वान्तगजबजान् विनाशयन्तं घ्नन्तं हरिं सिंहं सूर्य च दृष्ट्वा, आमोदिनी हर्षवती, गन्धवती च; सा, वारिजिनीव पद्मिनीव, निद्रां जहौ त्यजति स्म । निद्रां किं०, वक्ले सुखे, वितीर्णा दत्ता, मुद्रा यया तामिति । अत्र वारिजिनी हि सूर्ये दृष्ट्वा निद्रां जहात्येवेति श्लेषमुखेन स्पष्ट एव दृष्टान्तः ॥ ५ ॥
स्वप्नः शुभः प्रातरवश्यमुच्चैरार्याय पूज्याय निवेदनीयः ।
आर्यश्च पूज्यश्च पतिव्रतानां
भत्तैव विस्मेरविलोचनानाम् ॥ ६ ॥
६१
1
मातः प्रभाते, स्वमः किं०, शुभः श्रेयान् अवश्यं निश्चयेन, आर्याय सज्जनाय किं०, पूज्याय महनीयायार्थाद् गुरुजनाय, निवेदनीयो निरूप्यः । स च आर्यः पूज्यथ, पतिव्रतानां, विस्मेरविलोचनानां सतीनां स्त्रीणां भचैव पतिरेवेति
तात्पर्यार्थः ॥ ६ ॥
मत्वेति सा कोडिमदेव्युदार
मनाः सना धर्मघना वनाशा ।
Page #87
--------------------------------------------------------------------------
________________
विजयस्ता । तं वनमखमगुरूपमाय पत्यै प्रभाते निजगाद सघः ॥ ७ ॥
. (अर्यतो युग्ममिदम् ) इतीति पूर्वोक्तमर्य, मत्वा मात्वा, सा कोरिमदेवी कीची, पदारमना स्फारचेताः; पुनः कि०, धर्मधना पुण्यविभवा, कथं, सना निरन्तरं, पुनः किं०, घना बहपः आशाः सहाः पुत्रप्रसूतिलालनपालनादिलक्षमा यस्याः सा, अथवा अघस्य पापस्य नाशो यस्याः सा, तं स्वमं, पत्यै माणनाथाय कीरचाय, अस्वमगुरूपमाय वृहस्पतितुल्याय, बुदचत्यध्याछियते, निजगादेति बदति स्मेपर्यः ॥ ७ ॥
प्राप्तत्रिलोकीप्रमुतामिवाट___ सिद्धिप्रसिहोदयिनीमिर्वनाम् । मेने पतिः स प्रणयप्रसन्नः
सुस्वप्नमेवं प्रतिपादयन्तीम् ॥ ८॥ माता त्रिलोक्याः खर्गमर्त्यपाताललक्षणायाः मातापिपत्य यवा सो पुनः ०ि, अष्टानां महासिदीनां प्रसिदः प्रतीत उदयो विद्यते अस्यामिति तां, स्थानयेऽपि इवेत्युपमायाम्। स पतिः. कमाख्यश्रेष्ठी, कीरशः, प्रणयेन मेहेन असमः सौम्यामनः, तां पनी, मेने जानाति स्म । ता किं कुर्वती, प्रतिपादयन्तीं वदन्तीं; के, सुस्वमं, हर्षादिकेनेविगम्यम् अयम्, एवामिति पुरो बल्यमाणम् ॥ ८॥
Page #88
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः। अचाहमहत्स्मृतिचारुचिचा
सुप्ता निशि श्रीरिव पद्मतल्पे । सौत्सुक्यमुत्सङ्गमुपेयिवांसं
पचास्पमत्रासमना अपश्यम् ॥ ९॥ मप, निधि रात्री, अहं; किं०, अर्हत्स्मृतिचारुवित्ता परमेष्ठिस्मरणसाधुस्वान्ता, सुप्ता सती, श्रीर्देवीव । यया पबवस्पेज कपलभय्यायां, सौत्सुक्यं सरणरणकं यथा स्यातयेति क्रियाविशेषणम् । उत्समुपेयिवांसं क्रोडमागच्छन्तं, पञ्चास्यं फेसरिणं; अहं कि०, अत्रासमना निर्भयहृदया, अपश्यमित्यालोकितवती ॥९॥
खनादमुष्मादनिलादुदीच्या
दिवाम्बुदी वृष्टिरनिष्टहन्त्री । प्रिये ! भवत्या भविता तनूज
प्रसूतिरानन्दितविश्वविश्वा ॥१०॥ - अपात् भस्मात् हर्यक्षलक्षणात् स्वमात्, उदीच्यात उत्तरादिगभवात्, अनिलाद पवनाद्, यया आम्मुदी राष्टिारिदसम्बन्धिनी वृष्टिर्मेघवर्षणं, तया हे पिये पनि भवत्यास्तव, तनूजप्रसूतिः पुत्रोत्पत्तिर्भविता भविष्यति । विशेषणदयीद्वारा मेघवृष्टिपुत्रोत्पत्योः समानधर्मतामाह-कि०, अनिष्टहन्त्री मनिष्टस्यापियस्य, दुष्कालादेव वारिणी । पुनः कि०, मानन्दितं वि समस्त, विषं जगद्, यया अथवा आनन्दिता विधाविधा
Page #89
--------------------------------------------------------------------------
________________
६४
विजयनशस्त्याम् ।
समस्तपृथिवी, यया सेति । उभयत्रापि यथासम्भवं विशेषण
द्वयी द्रष्टव्येति स्पष्टं शेषम् ॥ १०॥
इत्युक्तियुक्त्या मुदितां पतिस्तां शिखण्डिनीमब्द इव व्यधत्त ।
ततो निजं स्थानमियं विवेश
भोगांव भर्चा सह निर्विवेश ॥११॥
( अर्थतोऽत्रापि युग्मम् ) उक्तप्रकारेण वाक्यव्यतिकरेण,
इत्युक्तियुक्त्याऽनेन
पतिः प्राणेशः, तां प्रेयसीं कोडिमदेवीं, मुदितां व्यवच हर्षवतीमकरोत् । कः कामिवेत्याह- इव यथाऽब्दो मेघः, शिखfueli मयूरीमिति । ततोऽनन्तरं इयं प्रेयसी, निजं स्थानं स्वास्पदं, निवेश प्रविष्टा । च पुनर्भत्र सह भोगान् शब्दादीन् पञ्चविषयान्, निर्विवेश रस्मेतिभावार्थः ॥ ११ ॥
दौर्गत्यदावानलनीरदः सत्
फलाभिरामः सुमनःप्रियात्मा ।
स्वःक्ष्माघरोर्व्यामिव कल्पसालस्तदीयकुक्षौ बवृधेऽथ गर्भः ॥ १२ ॥
अथानन्तरं तदीयकुक्षौ कोडिमदेन्युदरे गर्भो, ववृधे वृद्धिमाससादेत्यन्वयः । कस्यां क इवेत्याह- स्वः क्ष्माघरोर्व्यामिव भूमौ यथा, कल्पसालः कल्पवृक्षः । अथ कल्पसालः गर्भव कीर इत्याह- दौर्गस्पदाबानले दारिद्र्यवनवडौ, नीरदो मेघस्त
Page #90
--------------------------------------------------------------------------
________________
द्वितीयः सनः। मापकत्वादयोरपितुल्यं विशेषणमिदं,दारिद्रयविद्रावणप्रवणत्वादितिः पुनः किं० सत्फलैरमिरामो रम्यः, कल्पसालपक्षे तु फलैः प्रतीतैरिति, पुत्रपक्षे तु, सन्ति शोभनानि फलानि कुटुम्बकमभृतिमाभृतलाभरूपाणि तैरभिराम इतिः पुनः किं. सुमनसा देवानां पण्डितानां च प्रिय आत्मा यस्य स सुमन:मियात्मेति ॥१२॥ भय काव्यकलापकेन कविः कोडिमदेवीदोहदान् वर्णयति
सद्यः प्रदत्ताऽभिमतार्थमर्हत्पादारविन्दद्वयमचर्यामि ।
अनल्पसंकल्पितकल्पवृक्षान् साक्षाजिताक्षाश्रमणान्नमामि ।। १३ ॥ प्रकर्षण दचः प्रदतः अभिमतार्थो वाभिमतपदार्थो येन तद मदचाऽभिमतार्य, अईत्पादारविन्दद्वयं जिनक्रमकमलयमलं, अर्चयामि । पुनः अनल्पसङ्कल्पिते प्रभूतसमीहिते कल्पवृक्षान् , कवं साक्षादिति प्रत्यक्षान् , पुनः किं. जिताक्षान् जितेन्द्रियान्, भमणान् साधून, नमामि नमस्करोमि। इति दोहदयोद्भावः।।१।। • सुधामुधाकारकरी जिनोक्ति तापं हरन्ती प्रमनाः पिबामि ।
दीनार्थिसाघुष्वनुकम्पया च सक्त्या च भक्त्या च ददामि दानम् ॥ १४ ॥ मुषायाकारहरी पीड़ातिरस्कारकारिणी, चिनोतिस
Page #91
--------------------------------------------------------------------------
________________
६६
विजयास्त्वाम् । . अगिरं, किंकुर्वती, हरन्ती, कं तापं पापसन्तापरूपमिति, अहं किं० प्रमना हृष्टमानसा सती, पिबामि । पुनदीना अनाथा वराकादयः, अर्थिनश्च याचका भट्टमाणवकादिकाः, साधवस्तु निग्रन्थास्तेषु यथाक्रमण अनुकम्पया कृपया, पुनः सक्तिरासक्तिः दानाभिष्वङ्गरूपा तया सक्त्या,दातृत्वस्वभावेन न तु पात्रबुद्धयेति, पुनर्भक्त्या अन्तरङ्गप्रीतिसमुद्भूतप्रभूताऽद्भुतभावरूपया, दानं ददामि । इत्यत्रापि दोहदद्वयोद्भावना ॥ १४ ।।
घनाघसङ्घातविघाति सङ्घवात्सल्यमुत्साहिमनास्तनोमि ।
तीर्थेषु तीर्थेषु च जीर्णचत्योद्वारं धनाधारमहं करोमि ॥ १५ ॥ पुनः, सङ्घषु चतुर्विधषु, वात्सल्यं वत्सलत्वं समानधार्मिकाणामशनवसनादिप्रदानरूपं, किं० घनाऽयसङ्घातविघाति निविडपातकमकरापहारि, अहं किं० उत्साहिमनाः उत्साहवन्मनो यस्याः सा सोत्साहमानसा सती, तनोमीति । पुनस्तीयानां मूयस्त्वात् तीर्थेषु तीर्थप्विति न पौनरुक्त्यं जीर्णचैत्यानां पुराणाचहाराणां उद्धारं, किं० धनस्य आधारी निक्षेपस्थानं, यतस्तत्र क्षिप्तं हि वित्तं जन्मान्तरादावपि सुपापं भवतीति धनाधारस्तं धनाधारं, करोमि । इहापि दोहदद्वयं दर्शितामिति ॥ १५ ॥ शत्रुञ्जयोवीधररैवताद्रि
श्रीअर्बुदाद्यादिषु विश्रुतेषु ।
Page #92
--------------------------------------------------------------------------
________________
द्वितीयः समः। तीर्थेषु यात्रामतिमात्रभक्ति
सत्रा स्वभ; ननु सूत्रयामि ॥ १६ ॥ शत्रुञ्जयोर्वीधरः सिद्धशैलः, रैवताद्रिश्च गिरिनारनामा महागिरिः, श्रीअर्बुदादिश्वेत्यादिषु प्रसिद्धेषु तीर्येषु, अहं, किं० अतिमात्रभक्तिः अनर्गलभक्तिमती सती, स्वभा सत्रा स्वकान्तेन सार्द, यात्रामुत्सवं, गमनं वा मूत्रयापि विरचयामि । अत्र तु तीर्थयात्रागमनात्मक एक एव दोहदोऽदर्शीति ॥१६॥ इत्थं शुभादर्कवितर्कमूलं
ये येऽभिलाषा अभवन् स्वपल्याः । ते ते लतास्तोयमुचेव पत्या
प्रचक्रिरे द्राक् सफलाः वशक्त्या ॥१७॥ इत्यमित्येतैर्वर्णिताः, ये ये अभिलाषा मनोरथाः, स्वपल्याः कोडिमदेव्याः, अभवन् बभूवुः; अभिलाषाः कीदृशाः, शुभोदवितकमूलं शुभः श्रेयान् यः उदः उत्तरकालभवं फलं, तस्य 'वितर्कः संशयेहयोः' इत्यनेकार्थत्वात् वितर्क ईहा तस्यामूलं हेतवः, ते ते पत्या स्वामिना, स्वशक्त्या निजसामाद , सफलाः, प्रचक्रिरे कृता इति; यथा तोयमुचा मेघन, लताबल्ल्यः, इति दृष्टान्तः ॥ १७ ॥ तथापि तां म्लानमुखी हिमानी
दग्धामिवाम्भोरुहिणी निरीक्ष्य ।
Page #93
--------------------------------------------------------------------------
________________
विजयशस्लाद। पत्नीमुपांशु प्रणयप्रसन्न
मना अपृच्छत् स वणिग्वरेण्यः ॥ १८ ॥ तथापि, तदोहदपूर्तिकरणेऽपि, तो पनी, हिमान्या महाहिमेन दग्धामम्भोराहणी पद्मिनीमिव,म्लानमुखी विच्छायवदना, निरीक्ष्य, स पणिग्वरेण्यो व्यवहारिवरः, कीदृशः प्रणयेन स्नेहन, प्रसन्नमनाः सन् ,कयं उपांशु विजनेऽन्ययम्' इत्यनेकार्यवचनाद उपाश्वित्येकान्ते,अपृच्छत् प्रभाविषयीकहते स्मेति ॥१८॥ यत् पृष्टवास्तदाहइन्दोः कलाया अहनीव केयं
प्रिये दशा ते दृगशर्ममूलम् । पत्युः पुरस्तादथ सा निदान
ताग्दशायाः कथमप्युवाच ॥१९॥ इव यथा, इन्दोश्चन्द्रस्य, कलायाः षोडशांशरूपाया:, अहान पासरे, तथा हे प्रिये भार्ये, केय ते दशाऽवस्था,कीशी गशममूलं शोधक्षुषोः अशर्ममूलमसुखहेतुर्ममेति गम्यम् । अयेति तत्पृच्छानन्तरं, पत्युः पुरस्ताद्भर्तुरप्रतः, तादृशदशाया निदान कारण, कथमपीति महता निर्बन्धेन, सा कोडिमदेवी, उवाचा. ऽब्रवीत् ॥ १९ ॥
भूमिं भयानामपि कर्णजाहं
गृणामि शार्दलमहं करेण ।
Page #94
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः।
९ अपूर्यमाणः प्रियदोहदोऽयं
दुनोति मां राहुरिवेन्दुमूर्त्तिम् ॥ २० ॥ भयामा भीतीनां, भूमिमपि स्थानमपि, शालं द्वीपिनं, कर्णजाई श्रोत्रमूलं, गृहाम्यहमित्याक्षेपः । अत्र धातोर्दिकर्मकस्वादयं प्रयोगः । अयं दोहदोऽपूर्यमाणो मां दुनोति पीडयति । राहुरिव यया, इन्दुमति मुगाङ्कमण्डलीमति इमान्तः स्पष्ट एवेति ॥२०॥
अथ तद्वचनभुतेरनु भेष्ठी यदचिन्तयत्तदाहगर्भानुभावादशुभाः शुभाश्च
स्युर्दोहदाः स्मेरशामवश्यम् । . लोकोऽपि वक्तीत्यशनेन साकं . नोगारवाता व्यभिचारवन्तः ॥ २१ ॥
गर्मानुभावात् गर्भप्रभावात्, स्मेरशास्त्रीणां शुभा अशुभाश्च दोहदाः, स्युभवन्तीत्यन्वयः । अत्र दोहदशब्दस्य पुनपुंसकलिङ्गत्वात् दोहदा इत्यदुष्टम् । पनमेवार्थ द्रढयति-लोकोऽपि इति वक्ति, किमित्याह यत् अश्शनेन साकं साई, उद्गारवायवो व्यभिचारिणो न स्युः । याग आहारस्ताहग् उद्गार इति अतः ॥ २१॥ स्याहोहदाऽपूर्तिवशाद् वशाया
गर्भस्य वा निश्चयतो विनाशः ।
Page #95
--------------------------------------------------------------------------
________________
विजयशस्त्याम् । श्रेष्ठीति चिन्तामधरन्मनोऽन्तः
. सक्लेशमूलं जलराडिवौर्वम् ॥२२॥ ___ दोहदाऽपूर्तिवशात् , वशाया नार्याः, गर्भस्य भ्रूणस्य वा, निश्चयता, विनाशः, स्याद्भवतीत्यन्वयः । श्रेष्ठी कमाख्यः, इतीति इमां पूर्वार्दोदितां, चिन्ता, मनोऽन्तः, अधरद्धरति स्म । चिन्तां कि० संक्लेशस्य मूलं । दृष्टान्तमाह-जलराट् समुद्रः, इव यथा. और्व वडवानलमिति ॥ २२ ॥
अनेन कोऽप्यद्भुतदोहदेन
कुक्षावमुष्याः सुवृषोऽवतीर्णः । एवं सदैवं वणिजां वतंसं
तमभ्यगान्मुज्जलधिं धुनीव ॥ २३॥ अनेन निरूपितस्वरूपण, अद्भुतदाहदेन आश्चर्यकोईदेन, अमुष्या भार्यायाः, कुक्षी, कोऽपि सुदृषः वृषो बलवतीति । वचनात् सुवृषः शोभनबलवान् , जीवोऽवतीर्णोऽवततार, एवमित्यमुना प्रकारेण, सदैवं भाग्यवन्तं, तं वणिजां वतंसं व्यवहारिणां भेवरम्, मुद् हर्षोऽभ्यगादेति स्म । यथा जलधि समुद्र धुनी नदीति दृष्टान्तः ।। २३ ॥ दुःसाध्यतातिः खलु दोहदस्य
मुच्च प्रताप्यङ्गजलब्धिसिडा। द्राग् व्यानशाते तमिमे अपि
मेरोरिवोर्वी रजनिर्दिनं च ॥२४॥
Page #96
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
७१
खल्बिति बितर्फे निश्वये चेति, तस्योक्तपूर्वस्य दोहदस्य, दुःसाध्यतार्त्तिः दुःखेन साध्यते इति दुःसाध्यं तस्य भावस्तता तस्या आर्त्तिः पीडा, एका त्वियं, अपराः च पुनर्मुद् कीदृशी प्रताप्यङ्गजलब्धिसिद्धा प्रतापी मभाववान् यः अङ्गजः पुत्रस्तस्य लब्धेः प्राप्तेः सिद्धा निष्पन्ना, इमे द्वे अपि तं श्रेष्ठिनं, द्राक् शीघ्रं, व्यानशाते व्याप्नुतः स्म । दृष्टान्तं स्पष्टयति — मेरोरिव यथा, उवीं पृथ्वीं, रजनिर्निशा, दिनं वासरचेत्यर्थः ॥ २४ ॥
प्रपूरिते पुण्यवता प्रियेण तद्दोहदे द्राक् प्रतिभाप्रकर्षात् ।
दिने दिने साऽथ पुपोष रूपश्रियं कलेन्दोरिव शुक्लपक्षे ॥ २५ ॥
पुण्यवता धर्मिणा, प्रियेण प्रेयसा, प्रतिभाप्रकर्षात् प्रज्ञापाटबात्, तदोहदे शार्दूलकर्णजाइग्राहलक्षणे, प्रपूरिते पूर्णांकृते सति, सा दिने दिने रूपश्रियं सौन्दर्यलक्ष्मी पुपोष पुष्णाति स्म 1 दृष्टान्तमाह – इन्दोः कला षोडशोंऽशः, इव शुकपक्षे ॥ २५ ॥
.क्रमादथाऽस्मिन् शुभभाजि गर्भे उपेयुषि श्रीमति वृद्धिमिद्धाम् ।
सौभाग्यभाक् स्फारफलप्रपञ्चा रसालशाखेव बभूव सोच्चैः ॥ २६ ॥
अस्मिन् गर्भे, किं० शुभभाजि कुशालनि, पुनः किं० श्री
Page #97
--------------------------------------------------------------------------
________________
विनयमवस्तार ! . मति शोभाजुषि,दिसुपेयुषि हदिमासादयति सति,सौभाग्यभार सुभगत्वशालिनी,पुनः किं० स्फार उदारः फलमपशो गर्भरूपोऽन्यत्र तु चूतफलविस्तारो यस्याः सा, रसालस्य सहकारस्य शाखा, इव यथा, प्रोक्तविशेषणविशिष्टा सती, सौभाग्यभार भवति, तया सा. कोडिमदेव्यपि, पभूव । उरित्यतिशयार्यबायकोऽव्ययः ॥ २६॥ गर्भानुभावात् वपरिच्छदे सा
सोत्साहवात्सल्यवती बभूव । परागपूरात् सहवासभाजि
द्विरेफवृन्दे नवपद्मिनीव ।। २७ ।। गर्भस्यानुभावः प्रमावस्तस्माद, सा कोडिमदेवी, खपरिच्छदे निजपरिवारे. सोत्साई यद्वात्सल्यमानुकूल्यं तदती पर बत्यन्वयः । दृष्टान्तोऽत्र-रच यथा. परागपूरात् मकरन्दातिशया , सहवासभाजि सहचारिणि, परिकरभूते इति यावत् , द्विरेफरन्दे भृत्वर्गे, नवपपिनी नूतनाम्भोरहिणीत्यर्यः ॥२७॥ लावण्यवर्णाकुरवारिदेऽस्मिन्
गर्ने भृशं स्फातिमिते मृगाक्ष्याः । अस्या अशोभिष्ट शरीरयष्टिः
क्षेत्रस्य धान्येऽम्बधिमेखलेव ॥ २८ ॥ सद्मनसचिरीक्षणसज्जस्पनलक्षणं यहावल्पं वर्णव शरीरवर्गः स एवाहुरः पास्ता गरिदे पनीयवाहे तवृदिशेतुत्वान,
Page #98
--------------------------------------------------------------------------
________________
द्वितीया सनः। अस्मिन् गर्ने, स्फातिमिते दि प्राप्ते सति, मस्या मृगाक्ष्याः कोडिमदेव्याः, शरीरयष्टिस्तनुलता, अशोभिष्ट शुशुभे । यष्टिलतेखुणादिविवरणे । दृष्टान्तो- यया क्षेत्रस्य अस्याद्युत्पत्तिानीमितस्य, अम्बुधिमेखला मही क्षेत्रक्षोणीव, धान्ये स्फातिमिते, बोभते, तयेयमपीति ॥ २८ ॥ यानासनस्ताननिपानगाना
शनाभियानादिषु सा सयना । तं पालयामास सुखेन गर्भ . वैद्योपदिष्टैविधिभिर्विशिष्टैः ॥ २९ ।। . यानं गमनम्, आसनमुपवेशनं, स्नानं प्रतीतं, नितरां पानं पानीयप्रभृतेर्निपानं, गानं :गीतादेः प्रसिद्ध अशनं भोजनं, अभियानं अभिमुखं गमनं, आदिशब्दात् ग्राम्यधर्मसेवन-भूरिभारवाहन-दरतरप्रधावन-प्रपतन-प्रस्खलन-प्रपीडन-हनन-विषमशयन-निरशन:रोदन-वमन-विरेचन प्रेङ्खोलन-इसन-नखच्छेदन-तैलाभ्यञ्जन-गन्धविलेपनममुखशरीरशुभूषापरिग्रहः, एतेषु; सा कोडिमदेवी, सयवा यनवती सती, तं गर्भ, सुखेन, पालया। मास । कैरित्याइ-विधिभिः प्रकारैः, किं. वैद्योपदिष्टैभिषाग्निरूपितैः, पुनः किंविशिष्टैविशिष्टमनोवचनतन्नामानुकूल्यकारिभिरिति ॥ २९ ॥
प्रेक्ष्य प्रसन्नां प्रसवोन्मुखी तो ... परिच्छदेनोल्लसितं मलीलम् । आसन्नभानूदयिनी दिनादा
वैन्द्रीमिवाशां कमलाकरेण ॥ ३० ॥ तां कोरिमदेवीनानी, प्रसवोन्मुखीं आसमयसा, पुनः
Page #99
--------------------------------------------------------------------------
________________
विजयमवस्तार। किं० प्रसमा सौम्याननपर्मा, प्रेक्ष्य, परिच्छदेन परीवारण, उल्लसितं समुल्लासिना बभूवे । सलीलमिति क्रियाविशेषणम् । .अत्र दृष्टान्तं प्रकटयति-आसनः समीपवर्ती भान्दयो यस्याः सा, तो सनिकृष्टसूर्योद्रमा ऐन्द्री आशा पूर्वी दिश, प्रेक्ष्य, दिनादौ प्रभाते, कमलाकरेणेव सरसा, सरसीव्हसम्हेन वा ययेत्यर्थः ॥ ३०॥ अथ काव्यत्रयेण गुरुजन्मसंवत्सरमानतिथिलगायाह
वर्षे युगाकाशरसेन्दुसंख्ये ___ मासे तपस्ये तिथिपूर्णिमायाम् । लमे वृषाल्ये हरिगे हिमांशी
राही तुलायां च शनौ धनुःस्थे ॥ ३१॥ वर्षे संवत्सरे, कीट, युगाकाशरसेन्दुसंख्ये, पुनानि कतत्रेताद्वापरकलिनामकानि चत्वारीति, आकाशं शून्यत्वाद् बिन्दुस्थानीयं, रसास्तितालुककषायाम्लमधुरलवणाख्याःषद्, इन्दुरेकस्तेनैतेषां संख्या यजितस्मिनित्यत्र " अङ्गानां वामतो गतिः" इतिवचनात् पश्चानुपूर्ध्या विन्यस्यमानेष्वेतेष्वङ्केषु विक्रमात् संवत् १६०४ वर्षे इत्यागतं, पुनर्मासे, तपस्ये फाल्गुने, पुनस्तियिपूर्णिमायां तिथौ पूर्णिमाख्ये। अय पश्चिमार्दैनातनकाव्येन च द्वादशभवनविभागेन गुरोर्जन्मग्रहानाह-जन्मकुण्डलिकास्थापना, यथा, लमे, किं० वृषाख्ये द्वितीये लमे वइमाने उदयिनि सति, पुनर्हरिगे सिंहस्थिते, हिमांशौ चन्द्रमसि, लनाचतुर्थे केन्द्रभवने सतीति शेषः, पुनः राही सैंहिकेये, तुलायां समात् षष्ठे भवने गते इति प्रयोज्यं, पुनः शनौ शनैश्चरे, धनुःस्थे समादष्टमभवने स्थिते सतीति ।। ३१ ॥
Page #100
--------------------------------------------------------------------------
________________
द्वितीक सनः। कुम्मस्थयोरशशाङ्कसून्वो
मीनस्थयोर्वाक्पतिदैत्यगुर्वोः। धरातनूजे हरिणाननस्थे
मेषस्थिते चाहिकनानि खेटे ॥३२॥ अर्कशशाइस्न्वोः सूर्यबुषयोः, किं. कुम्भस्थयोः सतोलभादशमे केन्द्रभवने प्रायोरिवि शेषः, पुनः वापतिदैत्यगुर्वोः बृहस्पतिथुक्रयोः, किं० पीनस्थयोः सतोः लगादेकादशे लाभभवने गतयोरिति, पुनः घरातनूजे माले, किं० हरिणाननो मकरस्तत्रस्ये सति लगावमे भवने वर्तिनि, च पुनः, आहिकनानि, खेटे केतुनामके आहे, मेपस्थिते सति द्वादशभवनमामि ।
शु०१०
इति जन्मकुण्डलिकाबहाः ॥ ३२ ॥ - साः शुभैः सप्तदिनैर्युतेषु
यातेषु मासेषु नवखयो सा । पूर्वेव धर्माशुमसूत पद्यो
छासं तनूज महसामिरामम् ॥ ३ ॥
Page #101
--------------------------------------------------------------------------
________________
विजयमशरस्यां ।
सह अर्द्धेन वर्त्तन्ते ये ते सार्द्धास्तैः सार्दैः, सप्तभिर्दिनैयुतेषु नवसु मासेषु, गर्भाधानदिनात् यांतेषु गतेषु सत्सु, सा कोडिमदेवी, तनूजं सुतं, अमृत सूते स्मः दृष्टान्तेन विशिनष्टि-इव यथा, पूर्वा प्राची दिक्, घर्माशुं सूर्य, विशेषणद्वयद्वारा समानध तामाह एकत्र पद्माया लक्ष्म्याः, उल्लासो यस्मात् तं, पक्षे पद्मानां पङ्कजानामिति, पुनः किं० महसा तेजसा, उत्सर्वन च अभिरामम् ॥ ३३ ॥
आकर्ण्य कर्णोत्सवमात्मजन्मजन्मातिशर्माथ महेभ्यमुख्यः । हर्ष स लेभे प्रसभं प्रबह
बर्हीींव गर्जारवमम्बुदस्य ॥ ३४ ॥
>
अथात्मजन्मनः पुत्रस्य, जन्मावतारं कीदृश, कर्णयोः श्रीत्रयोरुत्सवमुत्सवतुल्यं, तदाढादकत्वात्, अत एव पुनः किं० अतिशयेन शर्म यस्मात्तदतिशर्म, आकर्ण्य श्रुत्वा स कमाख्यो, महेभ्यमुख्यः, हर्ष भे किं० प्रसभं प्रवई प्रधानमिति, क्रियाविशेषणद्वयमिदमथवा, अम्बुदस्य मेघस्य, गर्जारवं श्रुत्वा, इव यथा, वहीं मयूरः, इति दृष्टान्तः ॥ ३४ ॥ कमः समोऽभूत् सुतजन्मशंसिजनेषु वर्द्धापनिकां ददानः ।
भागेषु विश्वेषु वसुन्धराया
वारीणि वर्षन्निव वारिवाहः ॥ ३५ ॥ कम इति कमाख्यः श्रेष्ठी, सर्वेष्वपि सुतजन्मशंसिजनेषु पुत्रोत्पत्तिवर्द्धापनिकादायकंषु, वर्द्धापनिकां ददानः सन्तुष्टिदानं सृजन, समस्तुल्यो ऽभूत् नान्तरमकार्षीदिति । दृष्टान्तमाह
185
Page #102
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
इव यथा, वसुन्धराया वसुधाया, विश्वेषु सर्वेषु भागेषु, वारिबाहो मेघो, वारीणि जलानि, वर्षन्नान्तरं कुरुते; तथायमपीत्यर्थः ।। ३५ ।।
धनी धनान्यात्मजजन्महृष्टस्तथा प्रदत्ते स्म स मार्गणेभ्यः ।
पुंरूप एष त्रिदशद्रुमस्तै
ने यथा भूवलयाऽवतीर्णः ॥ ३६ ॥
आत्मजजन्मना पुत्रावतारेण, हृष्टो हर्षितः, स धनी व्यवहारी, मार्गणेभ्यो याचकेभ्यस्तथा, धनानि प्रदत्ते स्म दत्तवान्, यथा तैर्याचकैः, एष श्रेष्ठी, पुंरूपः पुरुषरूपधारी, त्रिशद्रुमः कल्पवृक्षः, मेनेऽमानि ज्ञात इति यावत् । किं० भूवलये मेदिनीमण्डले अवतीर्णो लब्धावतार इति ॥ ३६ ॥ सोऽमुमुचद् गुप्तिगृहे निबद्धा
न्नरान्नृपात्प्राभृतदानतुष्टात् । एतादृशां जन्मनि युक्तमेतत् प्रख्यापयन्नेवमशेषलोकान् ॥ ३७॥
स श्रेष्ठी, गुप्ति कारागारे, निबद्धान्, नरान् मनुष्यान, प्राभृतदानेन सुवर्णमणिमाणिक्यप्रमुखाऽशेषविशेषवस्तुढौकनेन तुष्टये हृष्टस्तस्मात् प्राभृतदानतुष्टात्, नृपात्तदानीं महाराजाधिराजमहाराणश्री उदयसिंहनामकात्, कमनयिताकम ठाकुम्भे कुम्भलमेरौ महादुर्गे स्थायिन इति शेषः, अमृमुचत् मोचयामासेत्यर्थः, एतादृशामेवंविधानां पुरुषाणां जन्मनि जनौ, एतद्युक्तं, एवभिति प्रख्यापयन् झापयन्, अशेषलोकान् सर्वजना - निति ॥ ३७ ॥
Page #103
--------------------------------------------------------------------------
________________
विजयमयस्त्वाम् । उलूलुलीलारवशालिनीनां
सम्बन्धिनीनां वरवर्णिनीनाम् । दुकूलदिव्याम्बरभूषणायैः __ सत्कारकारी स बभूव भूरि ॥ ३८॥
उलूलुमंगलध्वनिस्तल्लक्षणो यो लीलारवः केलिनादस्तेन, शालिनीनां शोभमानाना, सम्बन्धिनीनां खगोत्रीयकुटुम्बिनीना, वरवर्णिनीनां मुख्ययोषिताः दुकूलानि पट्टकूगनि,तान्येव दिव्याम्बराणि वयंवत्राणि भूषणानि च, तिलककुण्डलकणकटकर्कयूरहारार्द्धहारवेयकबाहुरभकमुद्रिकादीनि, तदाधैरन्यैरपि रबकाश्चनधनादिभिः, स श्रेष्ठी, सत्कारकारी सत्क्रियाकारको, बभूवाऽभवद, भूरीति यया स्यात्तथा किया. विशेषणम् ॥३८॥
सेशाङ्गनामङ्गलमजुगीत
वर्याणि तू-णि बहूनि नेदुः। द्वारे तदीये शुभशातकुम्भ__ कुम्माङ्किते कौतुककेलिकान्ते ॥३९॥
सह ईभेन स्वामिना वन्ते यास्ताः सेशाः सधवा इतियावत् ततः सेशा या अगना नार्यस्तासां मालेन मञ्जूनि मनोहराणि, यानि गीतानि गेयपदानि, लोके, धवलनामकानि तैर्वाणि, तूर्याणि वाद्यानि कि० बहूनि भूयासि, ततयनश्रुपिरानद्धरूपाणि वीणावेणुलालकंसालवंशचामृदामभृतीनि, तदीये द्वारे श्रेष्ठिधामदारे, नेदुर्नदन्ति स्म। द्वारे किं० शुभं भव्यं पत् शातकम्मं काशनं, तस्य कुम्माः कलशास्तैरस्तेि. भूषिते । पुनः कि० कौतुकस्य नन्दनमननोत्सवहतासस्व या मेलि:
Page #104
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः।
७९ क्रीडा, अर्थानागरनागरीमण्डितताण्डवमयी, तया कौतुककेल्या, कान्ते कमनीये ॥ ३९ ॥ सकुङ्कुमैर्बन्धुरगन्धगन्ध
सारद्रवैय॑स्तसुशस्तहस्तैः। तन्मन्दिरं सेन्दिरमस्त्यनेक
रूपैरुपेतैरिव भानुबिम्बैः॥४०॥ सकुड्डमैयुंमृणमिश्रितैः, बन्धुरो मनोझोात् सुरभिरिति, सचाऽसौ गन्धो घ्राणग्राह्यो गुणो यस्याऽसौ गन्धसारश्चन्दनं, तस्य द्रनै रसैः, न्यस्ताः स्थापिताः, सुष्ठु अतिशयेन शस्ताः प्रशस्ताः, ये हस्ताः पञ्चाङ्गुलीगभिंतचपेटाकारा मागल्यविशेषाः स्थासकाः इति तैः। तस्य श्रेष्ठिनो मन्दिरं सदनं । कीदृशं सेन्दिरं सश्रीक, तदानीमस्तीति शेषः। इवेत्याशङ्कते, भानुबिम्बैर्मार्तण्डमण्डलैः किं. उपेतैः समागतैः, पुनः कीदृशैः अनेकरूपैर्बहुरूपधारकरिति अत्र कथञ्चिद् वर्णाकारयो साधर्ष्या हस्तकानां गभस्त्युपमानम् ॥ ४०॥
आनन्दिबन्दिध्वनिबन्धुरे तद्
द्वारे विरेने सहकारपत्रैः। विनिर्मिता मङ्गलतोरणालि
रिष्येण किं प्रैषि निजढिरेषा ॥४१॥ आनन्दिनो हर्म्युला वित्तवितरणादिना तुष्या, ये बन्दिनी मङ्गलपाठकास्तेषां ध्वनिभिर्नादैर्वन्धुरे तद्वारे, सहकारपत्रैरानदलैः,विनिर्मिता विरविता, मालतोरणालिमङ्गलार्थ तोरणश्रेणिः, विरेजे शुशुभे । किमित्युत्प्रेक्ष्यते इष्येण वसन्तर्तुना, निजर्दिः खसम्पत्तिः, मैपि महितेति ॥४१॥
Page #105
--------------------------------------------------------------------------
________________
विजयपत्रस्त्याम् । द्वाःपार्श्वयोस्तस्य गृहस्य रम्भा
स्तम्भौ व्यभातां नवपर्णपूर्णौ । धम्मिल्लफुल्लोत्पलशालिमौली
· सरस्वतीसिन्धुसुते किमेते ॥ ४२ ॥ . तस्य श्रीष्ठिनो, गृहस्य द्वाःपायोरिमूलयोः, नवैः सधस्कैः पर्णैः पत्रैः पूरितो, रम्भायाः कदल्याः स्तम्भौ व्यमातां भेजतुः, धम्मिल्लेषु संयतकेशेषु याी फुल्लोत्पलानि विस्मेरकुवलयानि, तैः शाली शोभितो मौलिर्ययोस्ते, सरस्वतीसिन्धुसुते भारतीकमले, द्वे अपि देव्यौ, किमित्युत्प्रेक्ष्यते-एते प्राप्ते, तत्ममूततनयपुण्योदयादिति गम्यम् ॥ ४२ ॥ विरेजिरे हारजिरे तदीये
दूर्वाङ्करास्तत्र भृशं लसन्तः । निकेतनाम्भोनिधिनन्दनाया
मनोहराः केशभरा इवामी ॥ ४३ ।। तत्र क्षणे तदीये द्वारजिरे द्वाराजणे, पूर्वाकुराः हरितालिकामरोहाः, विरोजिरे भान्ति स्मति कि० भृशं लसन्तोऽतिभ्राजमानाः, इवोत्प्रेक्ष्यते-निकेतनस्य सदनस्य याम्भोनिधिनन्दना लक्ष्मीस्तस्या निकेतनाम्भोनिषिनन्दनाया गृहलक्ष्म्याइति यावत्, मनोहरा मनोज्ञाः, केशभराः कुन्तलकलापाः, सुदुत्वात्तनुत्वाभीलवर्णत्वाचैतदुपमानम् ॥ ५३ ।। सुहासिनीसन्ततयः समीयु
हीरे तदीयेशतपूर्णपात्राः ।
Page #106
--------------------------------------------------------------------------
________________
द्वितीया सनः।
८१ दया रुक्षा स्तोममिवात्मनः खं
खाः प्रेषिताः शीतरुचा स्मिताक्ष्यः ॥ ४४ ॥ सुहासिनीसन्ततयः पौरपुरन्ध्रीधोरणयः, तदीये द्वारे समीयुः समभ्यागमन् । कीदृश्यः, अक्षतैाजैः पूर्णानि पात्राणि माङ्गल्यभाजनानि यासां ताः। इवेति वित, आत्मनः खस्य, खं धनं, रुचां स्तोमं ज्योतिषां जालं, दत्त्वा, खाः स्मिताक्ष्योनिजा नार्यः, शीतरुचा चन्द्रेण, प्रेषिता इति पुत्रस्योपायनायेति प्रेक्ष्यम् ॥ ४४ ॥
सन्मौक्तिकखस्तिकशस्तमामा- तदङ्गणं घौसृणघोललिप्तम् । प्रवालजालैर्जटिलाऽत्यखण्ड
डिण्डीरपिण्डा वसुधेव वाः ॥ ४५ ॥ घोसणः कौङ्घमो यो घोलः कुङ्कुमरसमसर इति, तेन लिप्तम् । पुनः, सन्तः श्रेष्ठा ये मौक्तिकानां मुक्ताफलानां स्वस्तिकास्वैः अस्तं श्रेयः, तदङ्गणं तस्य श्रेष्ठिनो गृहागणं, आभाद् बभौ । अथोत्मेक्षां माह-वाः समुद्रस्य, वसुधा महीन । कीदृशी, मवालजालछिमन्दैटिला न्यासा । पुनः किं. अत्यखण्डा: प्रकामपूर्णा डिण्डीरस्य फेनस्य पिण्डा यस्यां सायखण्डडिम्दीरपिण्डेति काव्यस्य पिण्डाः ॥४५॥ तेजखिनो ममलम बीजं
रेजुस्तदोकस्खलमात्मदर्शाः। भासामधीशाः परिवारपद्यो
छासप्रदानैकपरा इवैते ॥ १६ ॥
Page #107
--------------------------------------------------------------------------
________________
४२.
विजयपशस्त्यान् । तदोकसि तस्य श्रेष्ठिनो गेहे, अलमत्यर्य, आत्मदर्शा दर्पणाः, किं० तेजखिनो ज्योतिष्मन्तः। पुनः किं० मङ्गलानां मञ्जु मनोझं, बीजं निबन्धनं, रेजुर्बेजुरित्यन्वयः । इवोत्प्रेक्ष्यते, एते भासामधीशाः सूर्याः । किं० परिवारस्य परिच्छदस्य या पडा लक्ष्मीस्तस्या य उल्लासस्तस्य प्रदानैकपराः; पक्षे परिवारभूतानि यानि पद्यानि कमलानि तेषां उल्लासप्रदानकपराः परिवारपयोल्लासपदानैकपरा इति ॥४६॥
भान्ति स्म नीरन्ध्रमुदः पुरन्ध्य___ स्तस्यालये गीतमनोज्ञगीताः। उद्यानभूमाविव कान्तकण्ठ्यः
पिक्यः खरं पञ्चममुच्चरन्त्यः ॥ ४७ ॥ तस्य श्रेष्ठिन आलये नीरन्ध्रमुदः निबिडहर्षाः, पुरन्ध्यः कुटुम्बिन्यो भान्ति स्म । कीदृश्यः, गीतानि गानगोचरीकृतानि, मनोज्ञानि हृदयङ्गमानि, गीतानि गेयपदानि याभिस्ताः गीतमनोज्ञगीताः। दृष्टान्तमाह-इव यथा, उद्यानभूमौ वनावनौ कान्तकण्ठ्यः प्रियध्वनयः, पिक्यः कोकिलाः, सप्तसु षड्जऋषभगान्धारमध्यमपञ्चमधैवतनिषधनामकेषु खरेषु पञ्चमं संशया सङ्ख्ययाऽपि च खरं ग्रामरागाद्यवतारमूलं उच्चरन्त्य इत्युद्विरन्त्यः ॥ ४७॥ तदङ्गणे रङ्गिणि पञ्चवर्ण
प्रोत्फुल्लपुष्पप्रकरो विरेजे। सोमारसौम्यासितशुक्रसूरि
तारादिराजी सुरवर्मनीव ॥ ४८ ॥ तदङ्गणे तस्य श्रेष्ठिनो गृहागणे, किं० रङ्गिणि हर्षिणि,
Page #108
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
८३
रागिणि वा । पञ्च श्वेतपीतरक्तनीलश्यामला वर्णा यस्य स चासौ मोत्फुल्लः स्मेरवासौ पुष्पप्रकरः कुसुमस्तोमश्चेति कर्मधारयः स पञ्चवर्णप्रोत्फुल्लपुष्पप्रकरः, विरेजे राजति स्मेति । दृष्टान्तमाहइव यथा, सुरवर्त्मनि गगने, सोमारसौम्यासितशुक्रसूरितारादिराजी, तत्र सोमः शशी, आरो मङ्गलः, सौम्यो बुधः, असितः शनिः शुक्रो भृगुः, मूरिराचार्यस्तेनेहाचार्योऽधिकाराद् बृहस्पतिः । यदाहुज्र्ज्योतिर्विदः- “मासं रविबुधशुक्राः सार्द्धं भौमत्रयोदशाचार्यः” इत्याद्युक्तेः सूरिर्गुरुस्ते च, अपरेऽपि च तारादयश्चेति द्वन्द्वस्तेन तेषां सोमारसौम्यासितशुक्रमूरितारादीनां राजी श्रेणी राजत इति ।। ४८ ।।
"
संमानदानं वरगीतगानं सद्वन्दिघोषः पुरलोकपोषः । इत्युत्सवैस्तस्य गृहं बभौ तत्
प्रमोदराजः- किमु राजधानी ? ॥ ४९ ॥
संमानः सत्क्रियाविशेषस्तत्करणं संमानदानं पुनर्वरगीतगानं धवलादिप्रदानं सधवस्त्रीभिरिति शेषः । पुनः, सद्वन्दिघोषो भट्टब्राह्मणाद्याशीर्वादरूपः । पुनः, पुरलोकपोषः पुरलोकानां नगरजनानां भोज्यादिना पोषणं पोषः इति व्यावर्णितैरुत्सवैः तस्य कमाख्यस्य श्रेष्ठिनस्तदा तद् गृहं, बभौ शुशुभे । प्रमोदजः हर्षभूपतेः किं राजधानी स्कन्धावारः मुख्यं निवासस्थानमिति तात्पर्यम् ॥ ४९ ॥
माता च वप्ता च सुतेन तेन गिरामगम्यां मुदमन्वभूताम् ।
पुलोमपुत्री च पुरन्दरभ
Page #109
--------------------------------------------------------------------------
________________
विजयत्रत्रस्त्वाम् ।
कामं जयेनेव जयोर्जितेन ॥ ५० ॥
माता जननी, वसा पिता, तौः तेन सुतेन, गिराममभ्यां वचनागोचरां, मुदं हर्ष, अन्वभूतां विदांबभूवतुः । दृष्टान्तोऽत्र यथापुलोमपुत्री शची, पुरन्दरः शक्रस्तौ जयेन जयदत्तेनेत्यत्र दृष्टाते दार्शन्तिके च चकारद्वयं मातापित्रोस्समानहर्षख्यापनार्थमिति । अन्यत् स्पष्टम् ॥ ५० ॥ सिंहेन निद्रान्तरुदीक्षितेन तरखिना तेन च दोहदेन ।
द्विषां जये सिंह इवातिमात्र
ટા
स्थामा सदाऽयं भविताऽङ्गजन्मा ॥ ५१ ॥
मत्त्वेत्यतुच्छोत्सववत्सलाभ्यां समानदानैर्मुदिताचलाभ्याम् । अमुष्य सूनोर्जयसिंह इत्य
न्वर्थे पितृभ्यां विदधेऽभिधानम् ||१२|| (युग्मम्) ब्रिटेन फेसरिणा, कीदृशेन, निद्रान्तः स्वापमध्ये, उदीक्षितेन विलोकितेन च पुनः, तरस्विना बलीयसा, तेन शार्दूलकर्णग्रहणलक्षणेन दोहन, द्विषां रिपूणां, जये सिंह इव । किं० अतिमात्रमनर्गलं स्थान बलं यस्य सः अतिमात्रस्थामा । अयमङ्गजन्मा तनुजो, भविता भाबीत्यर्थः ।। ५१ ।। इति मत्वाऽतुच्छोरसवे महति महे वत्सलाभ्यां स्नेहलाभ्यां पुत्रोत्पत्तिनिमित्तोत्सवकरणप्रवणाभ्यामिति यावत् । पुनः किं० समानैः ससत्कारैर्दानैर्मुदिता अचला पृथिवी याभ्यां ताभ्यां पितृभ्यां जननीजनकाभ्यां, अमुष्य सूनोः अस्य पुत्रस्य, जयसिंह इति अन्वर्थ सार्थकं, अभिधानं नाम, विदधे निर्मितमित्यर्थः ॥५२॥ पुम्णम्यारूयेयम् ।
Page #110
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
अथ द्वाविंशत्या वृत्तैर्जयसिंहकुमारस्य बालचापल्यपुष्टितुष्टिचेष्टापांशुक्रीडादिकं कविर्वर्णयति —
स मातुरुत्सङ्गमभङ्गरङ्गवृत्तेर्दुकूलाञ्चलशालिलीलः । विभूषयन् मूर्त इव प्रमोदः कदाचिदत्यद्भुतमूर्त्तिरस्थात् ॥ ५३ ॥
८५
स बालः कदाचिदिति कस्मिंश्चित्समये, अभङ्गरगे वृत्तिः प्रवृत्तिर्यस्यास्तस्याः, मातुः कोडिमदेव्याः, उत्सङ्गमङ्क, विभूषयन्नस्थात् तस्थौ । स किं० दुकूलाञ्चलेन शालिनी शोभमाना लीला केलिर्यस्य सः, अत एव पुनः किं० अत्यद्भुताऽत्याश्चर्यकारिणी मूर्त्तिर्यस्य सः । इवोत्प्रेक्ष्यते - मातुर्मुर्त्तो मूर्त्तिमान् प्रमोदोहर्ष इति ॥ ५३ ॥
स चारुचन्द्रोदयके दुकूलनिचोलकः कोमलतूलिकायाम् ।
रेमे गुहायामिव सिंहशावः
श्रीपेशले पालनके कदाचित् ॥५४॥
स बालः, किं० दुकूलस्य निचोलः प्रच्छदपटो यस्य स दुकूलनिचोलकः, कदाचित् श्रिया शोभया, पेशले मनोहरे, पालनके, पुनः किं० चारुचन्द्रोदयके रम्यविताने रेमेऽरमत । कस्यामित्याह - कोमलतूलिकायां सुकुमालतूलशय्यायाम् ; दृष्टान्तोऽत्रइव यथा, गुहायां गिरिकन्दरायां, सिंहस्य शावो बालक इति ॥ ५४ ॥
विस्मेरपाथोरुहपेशलास्यः सचक्रचेतः प्रणयप्रणेता ।
Page #111
--------------------------------------------------------------------------
________________
विजवनस्त्वाम् । बभौ भृशं कोडिमदेसखीना
मके कदाचिद् रुचिमानिवायम् ॥५५॥ विस्मरं प्रोत्फुल्लं, यत् पायोरुहं कमलं, तद्वद पेशलमास्यं मुखं यस्य सः, पुनः किं० सच्चक्रचेतसां सज्जनसमूहमनसां, प्रणयप्रणेता प्रीतिकारकः, अयं बालः, कोडिमदेसखीनां मातुर्वयस्यानां, अके उत्सङ्गे, भृशमतिशयेन, बभौ शोभते स्म । क इव रुचिमानिव मूर्य इव । तत्पक्षे विस्मेराणां पायोरुहाणां पेशला आस्या स्थितिर्यस्माद् यत्र वेति सः । तस्योदये हि तेषां विस्मेरत्वापत्तेः। पुनः किं० सच्चक्रचेतःप्रणयप्रणेता सन्तो ये चकाः फोकपक्षिणस्तचेतसां प्रणयप्रणेता प्रीतिकारीति ॥ ५५ ॥ कदाचिदुत्फुल्लविलोचनस्य
कोडे पितुः कोडिमदेतनूजः । अक्रीडदाक्रीडमुवीव हस्ति
शावः सुखं स्थूलकपोलमूलः ॥ ५६ ॥ कोडिमदेतनूजः स जयसिंहः, कदाचित् कुत्रचित् समये, उत्फुल्लविलोचनस्य स्मेरनयनस्य, पितुः कमाख्यश्रेष्ठिनः, क्रोडे उत्सम, अक्रीडत् क्रीडति स्मेति । दृष्टान्तं पाह-आक्रीडभुवीव उद्यानमेदिन्यामिव, हस्तिशावो द्विपपोतः, द्वयोर्विशेषणमेकमेवाह--स्थूलकपोलमूल इति। स्थूले पुष्टिमापने कपोलयोर्मूले यस्य स इति ॥ ५६ ॥ सोऽस्यां नगर्या व्यवहारिणोऽस्य
पुत्रः प्रियोऽभूदुदयन् जनानाम् । निशान्तविस्तारितकान्तरश्मिः
सरोरुहाणामिव तिग्मरश्मिः ५७ ॥
Page #112
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
अस्य व्यवहारिणः कमाख्यस्य पुत्रः स जयसिंहः, अस्यां नगर्यो नारदपुर्यो, उदयन् वृद्धिरूपामुन्नतिं व्रजन्, जनानां प्रियो Sभूत् वल्लभोऽभवदित्यर्थः । एतदेव दृष्टान्तेन स्पष्टयति इव यथा, तिग्मरश्मिः सूर्यः, सरोरुहाणां पङ्केरुहाणां, प्रियो भवति । बालः सूर्यश्व कीदृश इत्याह--निशान्ते गृहे, विस्तारिताः कान्ता रमणीया रश्मयः शरीरकान्तयो येन सः । सूर्यपक्षे निशाया अन्ते निशान्ते प्रभाते, विस्तारिता इत्याद्यग्रेतनं समीचीनमेवेति ॥ ५७ ॥ उल्लासयन् पुण्यपयोधिपाथः प्रबोधयन् कोविदकैरवाणि ।
क्रमेण बालः स कलाऽभिलाषी शशीव वृद्धिं बिभराम्बभूव ॥ ५८ ॥
पुण्यमेव पयोधिपाथः समुद्रसलिलं, उल्लासयन् समुन्नतिमानयन् । पुनः० कोविदाः पण्डिता एव कैरवाणि वेतोत्पलानि, प्रबोधयन् प्रफुल्लतां नयन्, क्रमेण स बालः, शशीव चन्द्रमा इव, किं० कलानां लिखितगणितादीनां, पक्षे कलानां प्रतीतानाम् अभिलाषो यस्यास्तीति स कलाभिलाषी, वृद्धिं बिभराम्बभूव प्रावर्द्धतेत्यर्थः । किं चात्रानेन काव्यद्वयेन दिवाकरनिशाकरयोरुपमानग्रहणात् तस्य बालस्य भीमकान्तगुणात्मकता दर्शितेति तवम् ॥ ५८ ॥
रिङ्खन् प्रजल्पन्निपतन् प्रपश्य
नश्नन् विनिघ्नन् प्रहसन् पिबं ।
८७
पित्रोर्मुदेऽभूज्जयसिंहशावः
सतां समस्तं हि मुदां निदानम् ॥ ५९ ॥ रिखन् रिङ्खणं कुर्वन् उपविष्ट एव गच्छन्, पुनर्जल्पन
Page #113
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । मिास सम्भाषणं कुर्वन् , पुनर्निपतन् अधःपतन् , पुनः प्रपश्यन् स्वजनानां सन्मुखं विलोकयन् , पुनः अनन् खादन् , पुनः विनिघ्रन् चपेटादिना मारयन्, पुनहसन् स्मितं कुर्वन् , पुनः पिबन् पानं कुर्वन् , स जयसिंहशावः, पित्रोर्जननीजनकयोर्मुदेऽभूत् सन्तुष्टये जातवान् । हि निश्चितं, सतां महतां, समस्तमखिलमव्यक्तचेष्टादि फर्मापि मुदा निदानं हर्षहेतुः सर्वेषामपीति रहस्यम् ॥ ५९॥ प्रौज्झच्च कुण्ठत्वमिवाग्यकण्ठः
स क्षीरकण्ठत्वमकुण्ठमुख्यः । बयः प्रपेदे तनयः स पांशु. क्रीडोचितं चारुवयोवयस्यः ॥ ६ ॥
स बालः किं० अकुण्ठेषु प्रजावत्सु, मुख्यः, कुण्ठत्वमिव मूर्खत्वमिव, क्रमेण क्षीरकण्ठत्वं गलत्वं प्रौज्सत् त्यजति स्मेत्यन्वयः । पुनः स किं० अग्न्यः प्रधानो लक्षणोपेतत्वात् कण्ठो यस्य सः । च पुनः स बालः पांशुक्रीडाया धूलिकेलेरुचितं योग्यं वयः प्रपेदे । स किं० चारुवयसस्तुल्यवयस इति यावत्, बयस्या मित्राणि यस्य स इति ॥ ६०॥
गेहाङ्गणे धूलिविधूसराङ्गः
पित्रोः प्रमोदं प्रथयन् प्रकामम् । रेमे कुमारैः सवयोभिरर्भः
कूलेऽजजायाः कलभैरिवेमः ॥ ६१ ॥ धूल्या रेणुना, अर्थानगरत्रिकचतुष्कचत्वरादिसम्बन्धिना, विधूसर अङ्ग यस्य सः, धूलिधुसरतनुरिति, सपालः, गेहागणे मन्दिराजिरे, पित्रोः कमाकोडिमदेव्योः, प्रमोद प्रथयन्
Page #114
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः।
८९ विस्तारयन् , सवयोभिः सुहृद्भिः कुमारैः सह रेमे रमते स्मेति । अत्र दृष्टान्तो यथा-अब्जश्चन्द्रस्तस्माज्जायत इत्यब्जजा "रेवेन्दुजा" इति श्रीहेमाचार्योक्तेः अब्जजा नर्मदा, तस्या अब्जजाया नर्मदायाः, कूले तटे, कलभैत्रिंशद्वार्षिकैर्गजैरिभो हस्ती, महानिति गम्यम् , यतोत्रोपमेयसाम्यात् इभोऽपि कलभरूप एवं यूथाधिपतिराक्षिप्यते ॥ ६१॥ एकं स सादीव शिशुं तुरङ्गी
कृत्य खयं वाहयति स्म जातु । अनेकपीकृत्य कदाचिदेकं
सोऽर्भ महामात्र इवारुरोह ॥ ६२ ॥ जातु कदाचित् , स बालः, एकं शिशुं दारक, तुरङ्गीकृत्य इयं विधाय, सादीवाऽश्ववारवद्, वाहयति स्मावाहयत् । कदाचित् पुनः स बालः, एकमर्म बालकं, अनेकपीकृत्य गजं विधाय, महामात्र इब गजाजीव इव, स्वयं आरुरोहारोहति स्मेति ॥६२।।
स वाहयामास वृषौ विधाय
शिशू स्वयं सूत इव स्वगन्त्रीम् । स विश्वकर्मेव चकार केली__गृहाणि मृत्लाभिरकर्कशाभिः ॥ ६३ ॥
स बालः, द्वौ शिशू पालौ, वृषौ बलीवी, विधाय; सूत इव सारथिरिव, स्वगन्त्री निजक्रीडावाहनिका, वाहयामास । पुनः स बालः, विश्वकर्मेव देववर्द्धकीव, अकर्कशाभिर्मद्वीभिः, मृत्लाभिर्मद्भिर्पत्तिकाभिरिति यावत् , केलीगृहाणि धूलीरूपाणि, चकार अकार्षीत् ।। ६३ ॥
आरोहति स्मैष पुरः पुरस्तात्
२
Page #115
--------------------------------------------------------------------------
________________
विजयप्राशस्त्याम् । पर्यन्तभूवर्तिषु भूरुहेषु । शाखासु शाखामृगवद् भ्रमंश्च
तेषां स पंक्वानि फलान्यखादत् ॥ ६४ ॥ __ एष वालः, पुरः पुर्या नारदपुर्य्या इति याक्त्, पर्यन्तं भूवर्तिषु परिसरस्थेषु, भूरुहेषु कारस्करेषु सहकारराजादने
गुदीदाडिमीकदलीकर्कन्धप्रमुखेषु, आरोहति स्मारूढवान् । कयं० पुरस्ताव अग्रतोऽपरदारकेभ्यश्छेकतयेति शेषः । च पुनस्तेषां शाखिनां शाखासु, शाखामृगवत् कपिरिव, भ्रमन् स कुमारः, पकानि परिणतानि, फलानि अखादद्भक्षयति स्मेति ॥६४॥
सस्त्रौ स सस्नेहमथो पुरस्य - समीपगायां सुभगापगायाम् । प्रोत्फुल्लपाथोरुहपेशलायर्या __ स्वर्निम्नगायामिव राजहंसः ॥ ६५ ।।
अथो कदाचित् , स वालः, पुरस्य नगरस्य, समीपगायां सविधवर्तिन्यां, सुभगापगायां मनोहस्तरङ्गिण्यां, सस्नो स्नानं व्यधात् । यथा प्रोत्फुल्लपायोरुहपेशलायां विस्मेराम्भोरुहबन्धुरायां, स्वनिम्नगायां गङ्गायां, राजहंस इवेति दृष्टान्तः ॥६५॥ नानाविनोदै रममाणमेव
मालोक्य बालं मुमुदें सवित्री । मत्ताः करीन्द्रा इव सूनवोऽर्भा . उच्छृङ्खला एव हि तुष्टये स्युः ॥ ६६ ।।
एवमिति व्यावर्णितस्वरूपैः, नानाविनोदैविविधविलासैः, स्ममाणं क्रीडन्त, बालं विलोक्य सवित्री माता, मुमुदे इर्षमधात् ।
Page #116
--------------------------------------------------------------------------
________________
द्वितीयः समः।
अमुमेवार्थ समर्थयति यतः कारणात् अर्भावाल्यमाजः, सूनवः पुत्राः, उच्छृङ्खलाथापल्यशालिन एव तुष्टये तोषाय, स्युः, सवित्रीवस्त्रोरिति शेषः । यथा मत्ता मदवन्तः करीन्द्रा. गजेन्द्राः; उच्छृङ्खला एव तुष्टये भवन्तीति दृष्टान्तः । तथाचोक्तं सूक्तकृता-“वर्षाकाले नद्यः शयने प्रमदा मदोद्धताः करिणः। बालत्वे च कुमारा अविनीता एव शोभन्ते" इत्युक्तरिति ॥६६ ॥ हंसीव फुल्लं नवपुण्डरीकं .
हृष्टा हृदाऽम्बाऽथ तमालिलिङ्ग । पुष्पं सदामोदमिवालिनी तं . माता मुहुचारु चुचुम्ब मूर्ति ॥ ६७ ॥ - हंसी राजहंसी, यया फुल्लं विकसितं, नवपुण्डरीकं, तथेति निदर्शने, अम्बा माता, दृष्टा सती,दृदा हृदयेन, तं बालकं, आलिलिङ्गालिङ्गति स्म । पुनः, सदामोदं समन्धं सहर्ष च, पुष्पं प्रसून, अलिनीव भ्रमरीव, तं माता, मुहुरसकद, वारं वारमिति यावत् । मूर्ति मस्तके, चुचुम्ब चुम्बति स्म । बार्विति क्रियाविशेषणम् ॥ ६७ ॥
सत्रा खमात्राऽऽर्हतमन्दिरान्तः
___ शिशुःस. तत्र प्रतिमा अनसीत् । ..प्रत्येकमासनमुपाश्रयस्था. नुक्तोऽम्बयाः स. श्रमणान् ववन्दे ॥६॥
स शिशुर्जयसिंहवालः, कदाचित मात्रा सत्रा जनन्या सह, आईतमन्दिरान्तर्जिनभवनमध्ये, प्रतिमा अर्हन्मूर्तीः, अनंसीद प्रणमति स्मेति । पुनः, स वालोऽम्बया जनन्या, उक्तो मुनीन् नमेति पारयेन प्रणुनः सन् , उपाश्रयस्थान पौषधशालारिक
Page #117
--------------------------------------------------------------------------
________________
विजवावस्था । तान्, श्रमणान् साधुन् , ववन्दे वन्दते स्म । कयमित्याह-प्रत्ये. कमासनं चेति क्रियाविशेषणद्वयम् , ततः समीपं गत्वा, प्रत्येक प्रत्येकं.वन्दते स्मेति तत्त्वम् ।। ६८॥ मात्राऽतिमात्रं परमेष्ठिमन्त्रं
स पाठ्यमानं पठति स्म धीमान् । सहंशजन्मावनिजन्मनो यत् ___फलत्रयीयं गदिताऽमज्ञैः ॥ ६९ ॥
पुनर्मात्रा कोडिमदेव्या, पाठ्यमानमध्याप्यमानं, परमेष्ठिमन्त्रं पश्चनमस्कार, सधीमान् मतिमान् , अतिमात्र प्रकामं, पठति स्मेति । पश्चिमार्द्धन प्रतिपादितमेवार्थ समर्थयन् प्रस्तावनामाहयदिति यस्मात्कारणात्, सदंशजन्मावनिजन्मनः श्रावककुलावतारतरोः, इयं पागनिरूपितस्वरूपा जिननमनगुरुवन्दननमस्कारभणनलक्षणा फलत्रयी, आगमहानिभिः, गदिता जगदे। मर्थतो युग्ममिदं व्याख्यातमितिः।।.६९ ॥
छायास्पदं वाञ्छितवित्तदाता __ सुपर्वशाली सुमनोऽभिरामः । कल्पद्रुमाकूर इवैष बाल
प्रवईमानोऽतिमुदे बभूव ॥ ७० ॥ एष बालः, कल्पद्रुमाकूर इव प्रवर्द्धमानः सन् , अतिमुदे बहुहर्षाय, बभूव, पित्रोरिति शेषः । अथ द्वयोरपि बालककल्पवृक्षारयोस्तुल्यविशेषणद्वारा समानधर्मतामाह-छायायाः शोभाया आस्पदं पदं, पक्षे छायायाः अनातपस्य आतपाभोकस्येति यावत् , यदनेकार्य:-"छायाऽनातपे शोभायां च" इति । पुनः किं० वाञ्छितविचदाता कामितार्यपदः, इदं द्वयोरपि
Page #118
--------------------------------------------------------------------------
________________
द्वितीयः सान। तुल्यमेव विशेषणम् । पुनः किं० सुपर्ववत् देववत् शाली शोभमानः, सुपर्वभिः शोभनोत्सवैः शालीति वा, पक्षे सुपर्वभिर्देवैः शाली । पुनः किं० सुष्ठु शोभनं मनो येषां ते सुमनसः पण्डितास्तान् अभिरामयतीति सुमनोभिरामः, पक्षे सुमनोभिः कुसुमैरभिरामो रमणीय इति ॥ ७० ॥ सलक्षणं बन्धुरधातुसन्धि
बन्धं सदाख्यातमुदारपादम् । जहार चेतांसि सतां सुवर्णा
लङ्कारभृत् काव्यमिवाङ्गमस्य ॥ ७१ ॥ . अस्य वालस्य, अगं शरीरं, काव्यमिव ग्रन्थवत्, सतां चेतांसि जहाराज्हरदित्यन्वयः। द्वयोर्विशेषणद्वारा तुल्यत्वं व्यनक्ति-अङ्गं किं० सह लक्षणैश्छत्रचामरतामरसतोमरद्विपनिपद्वीपद्वीपिसिन्धुसैन्धवध्वजादिभिः, अथवा "इह भवति सप्तरक्तः षडुनतः" इत्यादिश्लोकोक्तैात्रिंशता लक्षणैर्वर्त्तते यत्तत् , पक्षे सह लक्षणेन व्याकरणेनाऽथवा लक्षणैः काव्यलक्षणैर्दूषणहानभूषणदानादिभिर्वर्तते यत् तत् । पुनः बन्धुरा मनोहरा धातवो रसामुग्मांसमेदोऽस्थिमज्जशुक्राख्याः सप्त, सन्धीनां चागोपागादिसंबन्धिनां बन्धा बन्धनानि यत्र तत् पक्षे बन्धुरो धातूनां भ्वादीनां सन्धीनां स्वरसन्धिप्रमुखाणां च बन्धो गुम्फो यत्र तत् । पुनः किं० सदा नित्यं ख्यातं प्रसिद्धि प्राप्तं, पक्षे सन् विद्यमान आख्यातस्त्यादिविभक्तिरूपो यत्र तत् । पुनः किं० उदारौ पादौ चरणौ यत्र तत्, पक्षे उदाराः पादा वृत्तश्लोकादितुरीयांशरूपा यत्र, अथवा पादाः पदानि विभक्त्यन्तानि यत्र तत् । पुनः किं० सुवर्णालङ्कारभृत् काञ्चनाभरणधारि, पक्षे सुवर्णाः शोभनाक्षराणि अलङ्काराच चित्रादयस्तान्
Page #119
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । विभीति तदित्यर्थः ॥ ७१॥
अशोकशाली तिलकाभिरामः
कान्तालिकः पेशलबालजालः। लसत्प्रवालांहितलः सुमाढ्यो
बभौ वनोद्देश इवास्य देहः ॥ ७२ ॥ अस्य बालस्य, वनोद्देश इव काननप्रदेश इव, देहः कायः, बभौ। द्वावपि विशिनष्टि-कि० अशोकशाली न शोकशाली. अशोकशाली, पक्षे अशोकेन वृक्षविशेषेण शाली। पुनः किं० तिलकेन पुण्ड्रेण अभिरामः, पक्षे तिलकैक्षरिति। पुनः कि० कान्तं प्रियं अलिकं भालं यस्य सः, पक्षे कान्ता अलिनो भ्रमरा यत्र सः, स्वार्थे क इति कान्तालिकः। पुनः किं० पेशलं बालजालंकेशकलापो यस्य सः, पक्षे बालो हीबेरस्तज्जालं यत्र तत् । पुनः किं० लसत्प्रवालवत् स्फुरद्विद्रुमवत् रक्तं अंहितलं यस्य सः, पक्षे लसन्तः प्रवाला नवीनकिशलयाः, अंहयो द्रुममूलानि च, तलास्तालाभिधानास्तरुविशेषाश्च यत्र सः । पुनः किं० सुमया शोभनश्रिया आढ्यः, पक्षे सुमैः कुसुमैरिति । शेषं पूर्ववत् ।।७२॥
सरस्वतीशोभितमध्यदेशं
विशालशङ्ख वरकेशपाशम् । कुन्दावदातद्विजराजमानं
तदास्यमम्भोनिधितां बभार ॥ ७३ ॥ तस्य बालस्य, आस्यं वदनं, अम्भोनिधितां समुद्रभावं, बमारेत्यन्वयः। अथ तद्धेतुभूतानि धर्यानि विशेषणान्याहकिं० सरस्वत्या वाण्या शोभितो भूषितो मध्यदेशोऽन्तरमदेशों यस्य तत्, पक्षे सरस्वतीभिस्तटिनीभिः, अग्रेतनं तवैव । पुनः कि
Page #120
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
विशालौ विस्तीर्णौ शङ्खौ भालश्रोत्रान्तररूपौ शरीरावयवविशेषौ यत्र तत्, पक्षे विशालाः शङ्खाः कम्बवो यत्र । पुनः किं० वरः प्रवरः केशपाशो मूर्द्धजवजो यत्र तत्, पक्षे केशो वरुणस्तस्य पाशोऽत्रं यत्र । पुनः किं० कुन्दावदाता ये द्विजा दन्तास्ते राजमानं भ्राजमानम्, पक्षे कुन्दावदाता ये द्विजाः पक्षिणः अर्थात् राजहंसास्तैरिति । अपरं पूर्ववत् ॥ ७३ ॥ सदब्जवासं श्रुतिशालि हारिब्राह्मीकमत्यद्भुतपुष्पदन्तम् ।
1
९५
उल्लासभृत्सौम्यमुदारतारं
व्योमेव भाति स्म तदास्यमुच्चैः ॥ ७४ ॥
तस्य बालस्यास्यं व्योमेव गगनमिव, भाति स्मेत्यन्वयः । श्लिष्टविशेषणैस्तत्तुल्यतां व्यनक्ति - किं० सती श्लाघ्याऽब्जवासा लक्ष्मीर्यस्य तत्, पक्षे सन् विद्यमानोऽब्जस्य चन्द्र. मसो वासो वसतिर्यत्र । पुनः किं० श्रुतिभ्यां श्रवणाभ्यां कर्णाभ्यामिति यावत्, शालि मनोज्ञम्, पक्षे श्रुतिः श्रवणनामक नक्षत्रं तेन शालि । पुनः, हारिणी रम्या ब्राह्मी वाग् यत्र तत्, के ब्राह्मीकम्, पक्षे ब्राह्मी रोहिणी यत्र । पुनः किं० अतिशयेनाभुतानि यानि पुष्पाणि कुसुमानि तद्वद्दन्ता रदा यत्र तत्, पक्षे अत्यद्भुतौ पुष्पदन्तौ सूर्याचन्द्रमसौ यत्र । पुनः किं० उल्लासभृत् अत एव सौम्यं प्रसन्नम्, पत्रे उल्लासभृत् सौम्यो बुधो यत्र । पुनः किं० उदारे तारे कनीनिके यत्र तत्, पक्ष उदारास्तारास्तारका यत्रेति ॥ ७४ ॥
इत्युक्तं बाल्यचापल्यचेष्टावपुः पुष्ट्यादिवर्णनम्, अथाग्रेतनं वृत्तं षभिर्वृत्तैर्वर्णयति
अन्येद्युरानन्दितसर्वपौरं
-
Page #121
--------------------------------------------------------------------------
________________
विजयप्रशस्त्वाम् । रूपश्रिया काममिवाभिरामम् । अधीतिधुर्य निजमात्मजं तं
दृष्ट्वा पितृभ्यामिति हृद्यचिन्ति ॥ ७५ ॥ अन्येधुरेकदा, आनन्दिताः सर्वे पोरा येन तम्। पुनः किं० रूपश्रिया सौन्दर्य्यसंपत्त्या, काममिवाभिरामं कन्दर्पमिवोत्रेक्ष्यम् । पुनः किं० अधीतिधुर्य पठनसमर्थ, तं निजमात्मजं जयसिंह, दृष्ट्वा, पितृभ्यां कमाकोडिमदेवीभ्यां, दृदि मनसि, इति वक्ष्यमाणम् , अचिन्ति चिन्तितम् ।। ७५ ॥
सौभाग्यभाज्यप्यतिरूपवत्य
प्यलङ्कृते चाप्यतिवल्लभेऽपि । न किंशुकस्येव सुमे जनः स्यात्
कृतादरो मातमुखे तनूजे ॥ ७६ ॥ पूर्वस्मिन् काव्ये यदचिन्तीत्युक्तं तदेवाह-सौभाग्यभाजि सुभगेऽपि । पुनः किं० अतिरूपवति सुरूपेऽपि । पुनः किं० अलङ्कृते भूषणादिभिर्भूषितेऽपि । पुनः किं० अतिवल्लभे भृशं प्रियेऽपि । किंशुकस्य वृक्षविशेषस्य सुमे पुष्प इव यथा कोऽपि जनः कृतादरो न स्यात्, तथा मातृमुखे तनूजे मूर्खे पुत्रे, पूर्वोक्तविशेषणविशिष्टेऽपि सभाजनः कोऽपि नादरं कुर्वीतेति भावार्थः॥७६॥ मत्वेति चित्ते तिथिवाराधिष्ण्य
लग्नादिशुद्धि प्रविधाय सम्यक् । सम्पूर्णकामौ सुतलेखशालो
त्सवोत्सुकौ तौ पितरावभूताम् ॥ ७७ ॥ इति चित्ते मनसि, मत्वा ज्ञात्वा, तिथिः प्रतिपदादिः, वारः
Page #122
--------------------------------------------------------------------------
________________
९७
द्वितीयः सर्गः। सूर्यादिवासरः, धिष्ण्यं नक्षत्रम् , अश्विन्यादिः लमं मेषादि, तेषां, आदिशब्दात्करणयोगादीनां च सम्यक् शुद्धिं शुद्धमुहूर्त्तनिर्णीति, प्रविधाय कृत्वा, ज्योतिषिकद्वारंणेति शेषः, संपूर्णः संपनः, कामः सुतजन्मद्धयादिलक्षणोऽभिलापो ययोस्ती, सुतलेखशालोत्सवोत्सुकौ सुतस्य लेखशालायां पाठशालायां, य उत्सवस्तत्र प्रेषणोत्सवस्तत्रोत्सुको तत्परो, तौ पितरौ, अभूतां जातो ॥ ७७॥ नानादुकूलैः सततानुकूलैः
सन्मण्डपोऽमण्डि गृहे खकीये । श्रान्तिच्छिदे तत्र पुरेऽत्यदत्रैः
किं प्रावृषेण्यैरवतीर्णमप्रैः १ ॥ ७८ ॥ .. नानादुकूलैर्विविघपट्टकूलैः, किं० सततं नित्यं, अनुकूलश्छायादिसुखहेतुत्वाद, खकीये आत्मीये, गृहे सन्मण्डपोऽमण्डि मण्डितः, ताभ्यां पितृभ्यामिति शेषः । तत्र पुरेऽत्यदभैभृशं भूरिभिः, अभैर्वार्दलैः, कीरः, पाषण्यैवर्षाकालोद्भवैः, पञ्चवर्णैरितिः श्रान्तिच्छिदे श्रमनाशाय, किमवतीर्ण किमुत्तीर्ण मिति ? ॥ ७८ ॥
सर्वोऽपि पौरोऽहुतमक्तिगौरो . भुङ्क्ते स्म तत्र प्रचुरादरेण । सद्यो मनोमोदकमोदकादि
पकानपक्त्या सुधयेव साक्षात् ॥७९॥ अग्रतमक्या कमाख्यव्यवहारिरचितया, गोरो विशदः मसबवैनोज्ज्वल इति, सर्वोऽपि पौरो नारदपुरीमहाजनः, प्रचुसदरेच, तब गल्के मामल। क्येलाह-पनोबोदकालिन
Page #123
--------------------------------------------------------------------------
________________
विनयात्रस्त्वाम् । चाइलादकारका ये मोदका लड्डुकास्तदादीनि यानि पकाबानि घृतपूरखण्डखायलपनश्रीमौक्तिकचूर्णप्रमुखाणि तेषां पकत्या श्रेण्या, साक्षात्प्रत्यक्षं, सुधया अमृतेनेव, माधुर्येणेति श्रेषः ॥७९॥ ... सुशालिदालिप्रचुराज्यपालि
शाकैश्च साकं बुभुजेऽत्र लोकः। जहर्ष पूर्जेमनवारवार
पर्वण्यसौ वर्षति भूरिवाब्दे ॥ ८० ॥ सु शोभनाः शालयः कलमाद्याः, दालयश्च मुद्दालिप्रभृतयः, प्रचुरा आज्यपालयो घनघृतधोरणयः, शाकाश्च जीवन्तीप्रभृतयस्तैः, साकं सार्द्ध, तथा लोको बुभुजे यथा जेमनवारस्य सक्कुटुम्बसकललोकभुक्तिनिर्मितिरूपस्य यो वारोऽवसरस्तल्लक्षणं यत् पर्वोत्सवस्तत्र जेमनवारवारपर्वणि, असौ पूर्नारदपुरी, जहर्ष हर्षवती जातेति । अत्र श्रेष्ठिना निर्विशेषेणाऽशेषा अपि लोका यथेच्छं भोजनं कारिता इत्यसूचि, अन्यथा निखिलाया नगर्या हर्षानुपपत्तेरिति दिक् । दृष्टान्तोऽत्र-अब्दे जलदे, वर्षति सति भूरिव पृथिवीवेति ॥ ८०॥
अथ पद्भिः काव्यैर्लेखशालाकरगं वर्णयति.... मृदङ्गचङ्गादिकवर्यतूर्य· बजे शुभोल्लासिनि वाद्यमाने।। मङ्गल्यगीतेषु च गीयमाने- ....
पूच्चैःस्वरं हासिसुहासिनीभिः ॥ ८१ ॥ .. शुभस्य कल्याणस्य, उल्लासौ यस्मिन् यस्माद वा तस्मिन् शुभोल्लासिनि, मृदङ्गचङ्गादीनां वर्यतूर्याणां, बजे समुदये,
Page #124
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः। वाद्यमाने सतिः पुनर्हासिन्यो हास्यवत्यो विस्मितानना इति यावतः याःसुहासिन्यः सधवयुवत्यस्ताभिः हासिसुहासिनीभिः, मङ्गल्येषु मनोहरेषु, गीतेषु धवलध्वनिरूपेषु, गीयमानेषु सत्सु, कथम् , उच्चैःस्वरं यथा भवति तथेति क्रियाविशेषणम् ॥ ८१ ॥
भुजङ्गवल्लीदलनालिकेर___ वस्त्रादिके वस्तुनि दीयमाने । पदे पदे पुष्कललक्ष्मिदानैः
सार्थेऽर्थिनामध्वनि तोष्यमाणे ॥ ८२ ॥ भुजङ्गवल्लीनां नागलतानां, यानि दलानि पत्राणि पुननालिकेरवस्त्राणि प्रतीतानि, तदादिके तत्ममुखे, वस्तुनि दीयमाने सति । पुनः, पदे पदे इति स्थाने स्थाने विश्रामादाने, पुष्कललक्ष्म्या बहुलक्ष्म्या दानैर्वितरणैः, अर्थिनां सार्थे समूहे, अध्वनि पथि, तोष्यमाणे सति ॥ ८२ ॥
पुरः पुरः पौरनरेषु शीघ्र
गच्छत्स्वनाभरणाद्भुतेषु । अमन्दमानन्दभरेण माता
पित्रोर्मनस्सद्मनि पूर्यमाणे ॥ ८३ ॥ अनाभरणाद्भुतेषु बहुमूल्यभूषणभूषितत्वादाश्चर्यकारिषु, पौरनरेषु नागरजनेषु, पुरः पुरोअतोऽग्रतः, शीघ्र गच्छत्सु बजत्सु सत्सु । पुनः अमन्दं यथास्यात् तथा, आनन्दभरेण हर्षप्रकर्षेण, मातापित्रोर्जननीजनकयोः, मनःसबनि इदयमन्दिरे, पूर्यमाणे सति ॥ ८३॥
अथ काव्यत्रयेण कुमारस्य वर्णनमाह.. ताम्बूलपूर्णास्य उदारपुष्प- .
.
Page #125
--------------------------------------------------------------------------
________________
विजयमशस्त्याम् । दामाभिरामः शुचिशुद्धवासाः। सविस्मयं काम इवाङ्गनाभि__र्गवाक्षलक्षैर्मुहुरीक्ष्यमाणः ॥ ८४ ॥
स किं०, ताम्बूलेन ताम्बूलीदलपूगीफलादिरूपेण पूर्ण पूरितं आस्यं यस्य स ताम्बूलपूर्णास्यः। पुनः किं०, उदाराणां स्फाराणां, पुष्पाणां जातीजपायूथिकामरुबकदमनकचम्पकादीनां, दामभिः स्रगग्भिः, अभिरामो रम्य इति । पुनः किं०, शुचिशुद्धवासाः शुचीनि धवलानि, शुद्धानि निर्मलानि, वासांसि वस्त्राणि. यस्य सः । पुनः किं क्रियमाण इत्याह-सविस्मयं सदर्प साश्चर्य वा, अङ्गनाभिर्वधृभिः, गवाक्षाणां जालाना, लक्षैः, मुहुरित्यसकंच , काम इव, वीक्ष्यमाणो विलोक्यमानः ॥ ८४ ॥ उदारचामीकरशृङ्खलाङ्के
सिन्दूरपूरे द्विरदेऽधिरूढः । ऐरावणे स्वर्णविभूषणौधै
विभूषितः सूनुरिवाद्रिशत्रोः ॥ ८५ ॥ उदारचामीकरशृङ्खलस्य चारुकाश्चनशृङ्वलस्य, अङ्को भूषा यस्मिंस्तस्मिन् , पुनः, सिन्दूरस्य पूरो विस्तारो यत्र तत्र, द्विरदे हस्तिनि, अधिरूढः । पुनः किं०, विभूषितोऽलङ्कृतः, कैरित्याह-स्वर्णविभूषणोधैः हिरण्मयाभरणगणैः। इवोत्क्ष्य ते, ऐसवणेऽधिरूढः अद्विशत्रोः शक्रस्य, सूनुर्जयदत्त इवेति ॥५॥ शस्तक्षणैरीक्षणवीक्षणैः खै
स्तां पावयन पुण्यपुरं पुरी सः ।
Page #126
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः। क्रमात् कुमारो वरलेखशाला
द्वारं श्रियां धाम समाजगाम ॥ ८६ ॥ “उत्साहोत्सवयोः क्षणः" इत्याधुक्तेः शस्तः प्रशस्तः क्षण उत्साहो येषु तैः, अथवा शस्तः क्षण उत्सवो येभ्यस्तैः शस्तक्षणैः, ईक्षणवीक्षणैर्लोचनालोकनैः, स्वैः स्वकीयैः, तां पुरी, नारदपुरी नगरी, कीदृशीं पुण्यस्य धर्मस्य, पुरं गृहं, पावयन् पवित्रयन् , क्रमात् शनैः शनैर्गच्छन् , कुमारो जयसिंहः, वरा प्रधाना या लेखशाला अध्यापकधाम तवारं, किं० श्रियां धाम शोभाऽऽस्पदं,शृङ्गारितत्वात् ; समाजगाम प्राप्तवान् । इति व्याख्यातमन्त्यक्रियं षभिः कुलकम् ॥ ८६ ॥ • अथ किपद्भिः काव्यैः कुमारस्य लेखशालाप्रवेशपाठादि वर्णयतिउत्तीर्य चातुर्यनिधिः स कुम्भि
कुम्भस्थलात् कुम्भ इवामराणाम् । यच्छन् मनःकामितमर्थमुच्चै... स्तांप्राविशत् पण्डितलेखशालाम् ॥ ८७ ॥
स जयसिंहकुमारः, कीदृशः, चातुर्यस्य वैदग्ध्यस्य, निधिनिधानं, कुम्भिनो हस्तिनः, कुम्भस्थलात् उत्तीर्य, अमराणां कुम्भ इव कामघट इव, मनःकामितं चेतश्चिन्तितं, अर्थ वित्तं, यच्छन् वितरन् , याचकेभ्य इति शेषः । तां पण्डितलेखशाला प्राविशसविष्ट इति ॥ ८७॥
आनर्च तत्र श्रुतदेवतां स
मुक्ताफलैः काञ्चनभूषणैश्च । यदर्चिता कल्पलतेव दत्ते
.
.
.
Page #127
--------------------------------------------------------------------------
________________
१०२ विजयमवस्त्याम् ।
सद्यः सतां वाञ्छितमर्थमेषा ॥ ८८ ॥ स तत्र लेखशालायां, पूर्व श्रुतदेवतां सरस्वती, आनर्चाऽपूजयत् । कैरित्याह-मुक्ताफलैमौक्तिकैः, पुनः काञ्चनभूषणैः सुवर्णाभरणैः । पूजने हेतुमेवाह-यत् यस्मात् कारणादेषा श्रुतदेवताऽचिंता सती, सतां वाञ्छितमर्थ विद्याविवेकवाल्लभ्यवैदगध्यादिरूपं, कल्पलतेव, दत्ते ददातीति ॥ ८८॥ दिव्यैर्दुकूलैः कनकैर्धनैश्च
गुरुं ततः सत्कुरुते स्म सोऽथ । निहन्ति जाड्यं ध्रुवमर्यमेव
यतः स सत्कारमनोहरास्यः ॥ ८९ ॥ दिव्यैरभुतैः, दुकूलैः पट्टकूलसंबन्धिधौतिकादिरूपैरिति शेषः। च पुनः, कनकैः सुवर्णमुद्रिकादिरूपैरिति । पुनः,धनैर्नाणकैः रूप्यकप्रमुखैरिति शेषः । गुरुं पाठक, स बालः, सत्कुरुत स्म । तस्यैव हेतुमाह-यत इति। यतो हेतोः, स गुरुः सत्कारेण संमानदानबहुमानप्रदानलक्षणेन मनोहरं आस्यं यस्य सः सत्कारमनोहरास्यः सन् , अर्यमेव सूर्य इव, जाज्यं मौख्य, निहन्ति, पक्षे जाड्यं शैत्यमित्यर्थः ॥ ८९ ॥
खर्जूरपूगीफलनालिकेर
सितोपलाभाजनमोदकाद्यैः । सञ्चक्रिरे तेन च लेखशाला
धाम्नीह पूर्व शिशवो भणन्तः ॥ ९ ॥ खर्जूरपूगीफलनालिकेरसितोपलाभाजनमोदकाः सुखभक्षिकाविशेषास्तैः आधशब्दात् पट्टिकालेखनिकावर्तनकैरिति शेषः । तेन जयसिंहन, लेखशालायां पूर्व पुरा भणन्तः शिक्षको
Page #128
--------------------------------------------------------------------------
________________
पालका लेखशालिकाः, मम सहाध्यायिनो भाविन इति धिया सञ्चक्रिरे सक्रियन्ते स्मेति ॥ ९ ॥
अल्पैर्दिनैस्तत्र समस्तविद्या
संक्रान्तिरासीत् प्रतिभाप्रकाशे । कालः कियान स्यान्मुकुरे करस्थे
बिम्बस्य यातः प्रतिबिम्बभावम् ? ॥ ९१ ॥ तत्र बाले, कीदृशे, प्रतिभाया बुद्ध्याः प्रकाशः पाटवं यत्र तत्र, अल्पैर्दिनैः स्तोकैर्वासः, समस्तविद्यासंक्रान्तिः सकलशास्त्रज्ञानसंक्रमः, आसीजातवान् । दृष्टान्तेनामुमेवार्थ समर्थयति-मुकुरे दर्पणे, करस्थे हस्ततलगते सति, बिम्बस्य सङ्कमाईवस्तुनः, प्रतिबिम्बभावं प्रतिरूपता, यातो गच्छतः, कियान कालः स्यात् ? न कियानपीति हृदयम् ॥ ९१॥
यथा यथाऽयं भणति स्म सूनु
स्तथा तथा मुद्भवति स्म पित्रोः । मृगाङ्कमालोकयतः कलाढ्यं .
वारां निधेः किं न महासमृद्धिः ? ॥ ९२ ॥ अयं सूनुर्यथा यथा भणति स्म, तथा तथा पित्रोर्जननीजनकयोः, मुद्भवति स्म। एनमेवार्थ दृष्टान्तद्वारा दृढयति-मृगाङ्क हरिणध्वजं, कि० कलाढ्यं संपूर्णसकलकलं, आलोकयतो वारां निधेः समुद्रस्य, महासमृद्धिः कल्लोलोल्लाससंबन्धिनी किं न स्यात् १.अपि तु स्यादेवेति ॥ ९२॥ सुते समेते सति लेखशाला
गुरोहादात्मगृहं भणित्वा. .
Page #129
--------------------------------------------------------------------------
________________
विजयाशस्त्या। गुरुर्गुरुभ्यां सदकारि वितैः
सत्सूपकारो यदलं फलाय ॥ ९३ ॥ लेखशालागुरोरध्यापकस्य, गृहात् सुते पुत्रे, भणित्वाऽधीत्य, आत्मगृहं समते सति, गुरुभ्यां पितृभ्यां कमाकोडिमदेवीनामकाभ्यां, गुरुः स विद्यागुरुः, वित्तैर्धनैः, सदकारि सबके। यत् यस्मात् कारणात् , सत्सु साधुषु, उपकारोऽलमत्यर्थ, फलाय भवतीति ॥ ९३ ॥ बभौ वदन्नेष पुरः स्वपित्रो
गुरोग्रहीताखिलहद्यविद्यः। निपीतपाथाः पयसामधीशाद् - वर्षासु गर्जन्निव नीरवाहः ॥ ९४ ॥
एष बालकः, कीमः, गुरोः पाठका गृहीताऽखिला हुया हृदयङ्गमा विद्या येन सः, स्वपित्रोः पुरो वदन् बभौ पृष्टप्रश्नोत्तराणि प्रयच्छन् शुशुभे । दृष्टान्तमाह-यथा पयसामधीशात् समुद्रात् , निपीतपायाः पीतपानीयो, वर्षासु मेघागमेषु, गर्जन गर्जारवं कुर्वन् , नीरवाहो मेघ इति ॥ ९४ ॥
अयावशिष्टत्तेर्गुरुपितुर्वैराग्योत्पाददीक्षादि वर्णयतिअथाऽन्यदा धर्मगुरूपदेशा
दभगवैराग्यतरमरगी । कमामिधः श्रेष्ठिवरः खपुत्र
मधीतमुवीक्ष्य हृदीति दध्यौ ॥ ९५॥ जयेत्यांना, अन्यदैकस्मिन् दिने. धर्मगुरूपदेशात् सुकृत्तो देशकोपदेशक, अगले वैराबरले स्खो बस सः,
Page #130
--------------------------------------------------------------------------
________________
हितीयः सर्गः ।
१०५
कमाख्यः श्रेष्ठिप्रधानः, स्वपुत्रं जयसिंहाभिधानं, अधीतं पठितं, उद्वीक्ष्य दृष्ट्वा इतीतिवक्ष्यमाणलक्षणं, दृदि मनास, दध्यौ ध्यातवानित्यर्थः ॥ ९५ ॥ अथ तदेवाह
असारसंसारधरारुहस्य
सारं फलं ज्ञैः कथितं तपस्या ।
सैवौचितीमञ्चति मेऽथ भुक्तभोगस्य विश्राम इव श्रमार्त्तेः ॥ ९६ ॥
असारः फल्गुर्यः संसारधरारुहो भवभूरुहस्तस्यासारसंसारधरारुहस्य, ज्ञैः पण्डितैर्गणधरादिभिः, तपस्या दीक्षा सारं फलं कथितमुक्तम् । तेनाथ मे मम कीदृशस्य भुक्तभोगस्य निविष्टविषयस्य, सैव तपस्यैव, औचितीमश्चति योग्यतामेति । दृष्टान्तोऽत्र - इव यथा, श्रमार्चः श्रमस्य क्लमस्य अर्त्तिः पीडा यस्य तस्य श्रमार्त्तः श्रमपीडितस्य पुंसः, विश्रामो व्यायामव्यपोहरूप इति ॥ ९६ ॥
ध्यात्वेति वैराग्यवरैर्वचोभिः
पत्नीं पतिः प्राह विरक्तचेताः ।
प्रिये ! भवत्याऽनुमतोऽधुनाहं परिव्रजिष्यामि गुरोः समीपे ॥ ९७ ॥
इत्युक्तरूपम्, ध्यात्वा चिन्तयित्वा विरक्तचेता निःस्पृहमनाः, पतिः प्राणेशः, वैराग्यवरैर्निः सङ्गतासारैः, बचोभिर्वाक्यैः, पत्नीं प्राह- प्रिये हे भायें !, भवत्याऽनुमतस्त्वयाऽनुज्ञातः सन्, गुरोर्विजयदानसूरेः श्रीतपागच्छनायकस्य; समीपे पार्श्वे परिव्रजिष्यामि, दीक्षां कक्षीकरिष्यामीत्यर्थः ॥ ९७ ॥
१४
Page #131
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । पत्युस्तडित्पातनिभं निशम्य
वचो जजल्पाथ सतीवतंसः । त्वया विनाहं शशिना निशेव
कथं भविष्यामि तमोमयीश!? ॥ ९८ ॥ पत्युः प्राणनाथस्य, वचो वचनं, कीदृशं तडित्पातनिर्भ विद्युत्पाततुल्यं, निशम्य श्रुत्वा, अथ सतीषु पतिव्रतासु वतंसः शेखरः सतीवतंसः, सा कोडिमदेवी, जजल्पाऽब्रवीत् । हे ईश खामिन् ! यथा शशिना विना निशा, तथा त्वया विना अहं किं० तमोमयी, अज्ञानमयी, अर्थात् किंकर्तव्यतामूढा, पक्षे तमामयी ध्वान्तमयी, इति कथं भविष्यामि त्वाद्विरहेण मम का गतिविनी ?, इति भावार्थः ॥ ९८॥ न मातरं नो पितरं न पुत्रं
न म्रातरं नापि हि देवरं च ।।
पतिं सतीनां शरणं वदन्ति .. शीतातुराणामिव सप्तजिह्वम् ||९९॥
मातरं जननी, पितरं जनकं, पुत्रं तनूज, भ्रातरं सहोदरं, देवरं प्राणनाथानुज, नेति सर्वत्र निषेधवाचकोऽव्ययः, स तु स्त्रकृतैब प्रतिपदं पृथग न्यस्तः, तेन सतीनां न मातरं शरणं बदन्ति लोका इति अनया रीत्या प्रत्येकमन्वयः प्रयोज्यो. देवरं यावत् : किन्तु सतीनां स्त्रीणां, पतिं खामिनमेव शरणं बदन्तीति शेषः । शीतातुराणां हिमपीडितानां सप्तजिवं पनिमिवेति दृष्टान्तः ॥ ९९ ॥ . ... पुत्रेण युक्ता तदहं भवहिः । .... साकं तपस्याचरणं करिष्ये ।
Page #132
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः।
ममापि मानुष्यमहीरुहस्य
फलं तदेवास्तु भवत्प्रसत्तेः॥ १० ॥ तदिति तस्मात् कारणात् , पुत्रेण युक्ताऽहं भवद्भिः साकं युष्माभिः सह, तपस्याचरणं व्रतासेवनं करिष्ये । ममापि भवत्प्रसत्तेस्तव प्रसादाद, मानुष्यमहीरुहस्य मर्त्यजन्ममेदिनीजन्मनः, फलं तदेव तपस्याचरणमेव, अस्तु भवत्विति ॥१०॥ श्रुत्वेत्यमुष्या वचनं सुमुख्याः
श्रेष्ठी स भूयो भणति स्म भार्याम् । फणाव निर्मोकमहं मुमुक्षु
गार्हस्थ्यमत्रास्ति च निश्चयो मे ॥११॥ अमुष्याः सुमुख्या अस्या नार्याः कोडिमदेव्याः, इत्युक्तरूपं, वचः श्रुत्वा स श्रेष्ठी भूयः पुनर्भणति स्माभाषत । भार्या प्रति यद्भणति स्म, तत्पश्चिमान पाह-यथा फणी सर्पः, निर्मोकं कञ्चुकं, तथा तद्वत् , अहं गार्हस्थ्यं गृहस्थभावं, मुमुक्षुमोक्तुमिच्छुः, अस्मि । अत्रास्मिअर्थे, मे मम, निश्चयो निर्णयः, अस्तीति, किन्तु यदहमनेतनवृत्तेन वच्मि, तत्त्वं स्वीकुर्या मा निराकुर्या इति ॥ १०१॥ किन्त्वस्ति पुत्रस्तव बालकोऽयं
तिष्ठौकसि त्वं तदनेन साईम् । वृद्धि नयैनं स्वयमुप्तमब्धि
काश्चीरुहाङ्क्रमिवात्मना च ॥ १०२ ॥ हे माणप्रिये ! तव पुत्रोऽयं जयसिंहः, किंतु बालकोऽस्ति वत् तस्मात् कारणात् , अनेन सार्दमोकसि गेहे, तिष्ठेति । च
Page #133
--------------------------------------------------------------------------
________________
विजयस्त्वाम् । पुनः स्वयमुप्तमब्धिकाचीरुहाङ्क्रामिव निजरोपितपादपपरोहमिव, एनं पुत्रं, आत्मना स्वेन, वृद्धिं नय प्रापयेति; अत्र धातोर्द्विकर्मकता ॥ १०२ ॥
वर्षद्वयानन्तरमेनमात्म__ जन्मानमादाय शुभाशये ! त्वम् । भवार्णवे नावमिवाददीथा__ दीक्षामवश्यं शिवशर्ममूलम् ॥ १०३ ॥
वर्षद्वयाद हायनयुग्मात् अनन्तरं पश्चात् , एनं आत्मजन्मानं नन्दनं, आदाय लात्वा, सार्द्धमिति शेषः । हे शुभाशये भव्यचित्ते ! त्वं भवार्णवे संसारसागरे, नावमिव नावं तरीमिव तत्तारकत्वात , दीक्षां तपस्यां, कीदृशीं शिवशर्मणो मोक्षसुखस्य, मूलं निमित्तम् , आददीथा गृाथा इति ॥ १०३ ॥ . इत्यादिभिः सामवचोभिरात्म
___ हितैः स्वकान्तामनुनीय सम्यक् । ततः प्रदत्तानुमतिस्तयाऽय
ममन्यत खं सफलाभिलाषम् ॥ १०४ ॥ इत्यादिभिरुक्तरूपैः, सामवचाभिरनुकूलवाक्यैः, पुनः किं० आत्मनः स्वस्य हितैः आत्महितैः, स्वकान्तां कोडिमदेवीनानी, अनुनीय सान्त्वयित्वा अनुकूलीकृत्येति यावत् , ततस्तया पल्या, प्रदत्तानुमतिर्दीक्षार्थमनुज्ञातः सन् , अयं श्रेष्ठी कमाख्यः, स्वं सफलाभिलाषं फलिततपस्यारूपमनोरथ, अमन्यत मेने ॥ १०४॥ तस्थौ तदा दुःखवशादधःस्ता
न्मुखी प्रदोषे विसिनीव साऽथ ।
Page #134
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
पत्युर्वियोगे हि महासतीनां नितम्बिनीनामिह भूरि दुःखम् ॥ १०५ ॥
अथ सा भार्या, तदा तत्र क्षणे, दुःखवशात् अधः स्तान्मुखी न्यग्वदना, तस्थौ स्थितवती । दृष्टान्तो यथा- प्रदोषे रजनीमुखे, बिसिनी मृणालिनी, यथा न्यग्मुखीभवति, तथेयमपीत्येनमर्थ समर्थयति -हीति यतो हेतोः पत्युर्वियोगे सति, महासतीनां पतिव्रतानां, नितम्बिनीनां नारीणां भूरि बहु, दुःखं भवतीति भावः ॥ १०५ ॥
अथो यथौचित्यवितीर्णवित्तः संमान्य पौरान् बहुमानगौरान् ।
कल्याणकृत्कल्पितवेष एष
१०९
दीक्षां जिघृक्षुः खपुरादचालीत् ॥१०६॥
,
अथो इत्यन्यदा शुभे वासरे, यथौचित्यं यथार्ह वितीर्ण दत्तं वित्तं धनं येन सः, स्वकुटुम्बज्ञातीयादीनामिति शेषः । पुनः किं कृत्वा संमान्य मानयित्वा कान् पौरान पुरीजनान् किं० बहुमानेन पूजया अधिकाराद्दीक्षाविषयकोत्सवोत्साहरूपया गौरानुज्ज्वलान् बहुमानगौरान् । पुनः कल्याणकृद् मङ्गलकारी दीक्षावसरयोग्यः कल्पितः कृतो वेषो रजोहरणमुखपोतिकाप्रमुखो येन सः, एष श्रेष्ठी, दीक्षां जिघृक्षुस्तपस्यामा - दित्सुः, स्वपुरान्नारदपुरीनगरात्, अचालीच्चचालेति ॥१०६ ॥
तपाधिपश्रीविजयादिदानमुख्याभिधानां शमिसिन्धुराणाम् । पादाम्बुजैर्भूषितमस्तदम्भः
Page #135
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
स स्तम्भतीर्थ नगरं जगाम ॥ १०७ ॥ तपाधिपास्तपागच्छनायकाः ये श्रीविजयदानेति मुख्याप्रधानाऽभिधा संझा येषां तेषां श्रीविजयादिदानाभिधानानां, किं० शमिसिन्धुराणां मुनिमतगजानां, पादाम्बुजैश्चलननलिनैः, भूषितं शोभितं, स्तम्भतीर्थ नाम नगरं स श्रेष्ठी, कीदृशः अस्तदम्भी निष्कपटः सन् , जगाम गतवानिति ॥१०७॥
प्रीत्या प्रणम्याऽथ जगाद शुद्ध___ यशोजलैधौतदिगन्तराणाम् । तेषां पुरः प्राभृतकं प्रकुर्व
निव स्वदन्तद्युतिमौक्तिकौघैः ॥ १०८ ॥ प्रीत्या प्रेम्णा, प्रणम्य तान् गुरूनिति शेषः, जगादाऽवदत् । इवोत्यक्ष्यते-स्वदन्तद्युतिमौक्तिकोधैर्निजदशनकान्तिमुक्ताफलजालः, प्राभृतकं दौकनं, प्रकुर्वन् ; कथं पुरोग्रे, केषां तेषां गुरूणां श्रीविजयदानमुरीणां, किं० शुद्धयशोजलैनिमलकीर्तिसलिलैः. धौतानि दिगन्तराणि हरिन्मध्यानि यैस्तेषां, पुरतो जगादाग्रे वक्ष्यमाणमिति ॥१०८॥ कैवल्यकान्तारतिदक्षदीक्षा
दानेन भट्टारकपूज्यपादाः । सद्योऽनुगृणीत कृपास्पदं मा
मपां प्रवाहेण महीमिवाब्दाः ॥ १०९ ॥ केवल्यकान्ता मुक्तिकामिनी तस्या या रतिस्तत्र दर्श निपुणं यदीक्षादानं तपस्यापदानं तेन कैवल्यकान्तारतिदक्षदीक्षादानेन, भो भट्टारकपूज्यपादाः भट्टारकै पैर्देवैर्मुनिभिर्वा पूज्याः पादा येषां ते भट्टारकपूज्यपादाः!, तेनाकार्यत्वाद
Page #136
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः।
न पोनरुक्त्यम् । मां किं० कृपास्पदं दयायोग्य, अनुगृर्णाताऽनुग्रहविषयं कुर्वन्तु, यथा महीं पृथिवीं, अपां पानीयानां, प्रवाहेणाऽन्दा मेघा इति दृष्टान्तः ॥ १०९ ॥ . वर्षे सुधारश्मिवसुन्धराषड्
मृगाङ्कसङ्ख्येऽहनि चाप्यहाँने । तेनोदितास्तेऽथ तदेति पूज्याः
प्रावाजयस्तं करुणासमुद्राः ॥११॥ सुधारश्मिश्चन्द्रमा एकः, वसुन्धराप्येका, पडिति पट्सख्यानिरूपकोऽङ्कः, मृगाङ्कोऽप्येकः एतैमिगत्या मिलितः एकादशान्वितषोडशशतप्रमाणा (१६११) सङ्ख्या यस्मिंस्तस्मिन् , वर्षे संवत्सरे, पुनरप्यहनि दिवसे, किं० अहीने अदुष्टे, तेन कमाख्येन श्रेष्ठिना, इतीत्युक्तरूपया विज्ञप्त्या उदिताः प्रेरिताः, ते पूज्याः श्रीविजयदानसूरिपादाः, किं० करुणासमुद्रा इति सुबोधम् , तदा तस्मिन्नेव क्षणे, तं श्रेष्ठिनं, पात्राजयन् दीक्षयामासुरिति ॥११०॥ प्रपालयन् संयममुग्रखड्ग
धारोपमं निष्पतिमप्रवृत्तिः । तेषां गुरूणां प्रतिभागुरूणां
श्रियां निदानं विनयं वितन्वन् ॥११॥ संयम चारित्रं पवित्रसप्तदशभेदभिन्नम् ; पुनः किं० उपखड्गधारोपमं तीवासिधारातुल्यं, प्रपालयन् ; पुनःस किं० निषतिमा निस्तुला प्रवृत्तिराचाररूपा यस्य सः पुनः प्रतिभया बुद्धया गुरूणां वृहस्पतीनां, तेषां गुरूणां श्रीविजयदान
Page #137
--------------------------------------------------------------------------
________________
११२
विजयाशस्त्यान । मरिपुरन्दराणां, श्रियां निदानं सम्पदां निवन्धनं, विनयं जिनधर्ममूलं, वितन्वन् कुर्वमिति ॥११॥ सृजस्तपो दुस्तपमत्युदार
चेताः प्रचेताश्चतुरात्मवृत्तिः।. . ‘स स्फूर्तिमान मूर्त इवर्षिधर्मो
बभूव पूर्वर्षिसमः कमर्षिः ॥ ११२ ॥ पुनः किं कुर्वन् दुःखेन तप्यत इति दुस्तपं तपः षष्ठाष्टमदशमादिकं सृजन्, पुनः किं० अत्युदारं चेतो यस्य सः, पुनः किं० प्रचेता दृष्टमनाः, पुनः किं० चतुरा निपुणा आत्मनो जीवस्य वृत्तिर्यस्य सः निपुणप्रवृत्तिरिति यावत् स कमर्षिः कमाभिधानो मुनिः, किं० पूर्वे च ते ऋषयश्च पूर्वर्षयः प्राचीनाऽनगाराधन्यकृतपुण्यशालिभद्रगोभद्रादयस्तैस्तेषां वा समः पूर्वर्षिसमः । इवोत्प्रेक्ष्यते स्फूर्तिमानतिशायी,मूर्तोऽगवान् , ऋषिधर्मःसाधुधर्मः, बभूवाजनीति युग्मव्याख्या ॥ ११२ ॥ श्रुत्वा तपस्यां वसभर्तुरिभ्यः
सञ्चाधिपः श्रीजयताभिधानः। पल्लीपुरात् प्रीतमना अथ ख
वसुः ससूनोमिलनार्थमागात् ॥ ११३ ॥ स्वसभर्तुः भगिनीपतेः कमाख्यश्रेष्ठिनः, तपस्यां दीक्षाग्रहणं, श्रुत्वा निशम्य, श्रीनयताभिधानः सस्याधिपः, किं० इभ्य इत्यादयः, पल्लीपुरात् लोके पालीतिप्रसिदा सिद्धरसाकरपुण्याकरपर्वताभ्यर्णवर्तिन इति, ससूनोः सपुत्रायाः, स्वस्वसुनिजजामः, मिलनार्थमागान्नारदपुरीमिति शेषः ॥ ११३ ॥
Page #138
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
सङ्घाधिनाथो जयसिंहनाम्ना .. __ स्वभागिनेयेन समं स्वसारम् । पञ्चेषुणेवाम्बुनिधेः सुतां तां
मूर्जामनैषीदथ स स्वमोकः ॥११४॥ अथ तत्र कियत् स्थित्वा, स सङ्घाधिनाथः सङ्घमुख्यो. जयताख्यो मातुलः, स्वभागिनेयेन भागनीपुत्रेण, जयसिंहनाम्ना समं सार्च, तां स्वसारं भगिनीं कोडिमदेवीनाम्नी, मूर्ती मूर्तिमती, पश्चेषुणा कन्दर्पण, समं अम्बुनिधेः सुतां लक्ष्मीमिव, खं निजं, ओको निकेतनं, अनैषीद निनायेति ॥ ११४ ॥ _रेमेऽतुलं मातुलमातुलानी
मुख्यं समस्तं परिवारमेषः ।। प्रमोदयंस्तस्य गृहे कुमार
इवोग्रशक्तिः सुमुखः कुमारः ॥ ११५ ॥ तस्य जयताख्यमातुलस्य, गृहे एष कुमारो जयसिंहः, कीदृशः, कुमार इव कार्तिकेय इव, उग्रा शक्तिर्बलं यस्य सः, पक्ष, शक्तिरायुधविशेषो यस्य सः । पुनः किं० सुमुखः शोभनवदनः पण्डितो वा । पुनः किं कुर्वन् , मातुलमातुलपत्नीप्रमुखं समस्तं परिवारं कुटुम्ब, प्रमोदयभानन्दयन् , अतुलं बहुतरं, रेमे अरमतेति ॥ ११५॥
अमरगिरिगुहायां स्वर्गिशाखीव साक्षा
दवनिधरधरायां केसरीवोगधामा । उडुपतिरिव पक्षे पाण्डुरे सत्कलाभिः .. __ कुवलयसुखहेतुर्वईते स्वैष तत्र ॥११६॥
Page #139
--------------------------------------------------------------------------
________________
बिजयमश्शस्त्याम् ।
अमरगिरेर्मेरोर्गुहायां यथा स्वर्गिशास्त्री कल्पवृक्षः; पुनः अवनिधरधरायां भूधरभूमिकायां यथा केसरी सिंहः । किं० उग्रं धाम बलं तेजो वा यस्य स उग्रधामा । पुनः पाण्डुरे धवले पक्षे उडुपतिश्चन्द्रमा यथा । किं० सत्कलाभिः कुवलयस्य भूव लयस्य, पक्षे कुवलयानां नीलोत्पलानां सुखहेतुः शर्ममूलमुद्बोधकत्वात् इत्येष बालो जयसिंहकुमारः, तत्र पालीपुर्या, वर्धते स्म प्रवर्धतेति । तथेदं मालिनीनामकं वृत्तं - " ननमयययुतेयं मालिनी भोगिलोकैः" इति लक्षणोक्तेः ॥ ११६ ॥
"
११४
•
इतीति सर्व सुबोधम् । इतिसुविहितसभासार्वभौमसमानसकलपण्डितमण्डलीमौलिमौली
यमानपण्डितश्रीकमलविजयगणिसुशिष्य मुख्यपण्डितश्रीविद्याविजयगणिविनेयाणुवाचक श्रीगुणविजयगणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां द्वितीयः सर्गोऽर्थतः समर्थितः ।
अर्हम्
अथ तृतीयः सर्गः ।
अथ तृतीयसर्गस्वरूपं निरूप्यते, तत्रेदमादिमं दृत्तम्श्रीवर्द्धमानः प्रभुरस्तु भूरि
भूत्यै प्रभूतान्तभूतभद्रः ।
मूलं रमाया इव रत्नराशि
बभूव यः साधुपरम्परायाः ॥ १ ॥
Page #140
--------------------------------------------------------------------------
________________
तृतीयः सर्गः। ११५ श्रीवर्द्धमानप्रभुः श्रीमहावीरखामी शासनाधीश्वरश्चतुर्विशस्तीर्थस्करः, भूरिभूत्यै बहुसम्पदे, अस्तु भूयाद् , युष्माकमिति गम्यम् । किं० प्रभूतानि पुष्कलानि अद्भुतानि आश्चर्यकारीणि भूतानि जातानि भद्राणि कल्याणानि यस्य, अथवा प्रभूतान्यद्भुतानि भूतानां प्राणिनां भद्राणि यस्मात् स प्रभूताद्भुतभूतभद्रः, अत्र पूर्वार्धेऽनुक्तोऽपि तच्छब्दो ग्राहस्तेन स कइत्याह-यः साधुपरम्परायाः पञ्चमारकवर्तिनोऽनगारान्वयस्य, मृलमादिः, बभूव । अत्र दृष्टान्तो यथा-रमाया इव लक्ष्यायथा, रत्नराशिः समुद्र इति। अत्र सर्गे उपजातिनामक छन्दः, तल्लक्षणं तु पूर्वोदितमिति नेहाभिहितमिति तात्पर्यम् ॥ १॥
स पञ्चमः स्ताद् गणभृद् मुदे त.
त्पट्रैकरत्नाकरचन्द्रमा वः। पञ्चत्वमाविष्षकरन्नपीह
महाव्रतानां परिपालको यः ॥ २॥ तत्प?करत्नाकरे चन्द्रमाः श्रीवर्द्धमानस्वामिपट्टकपायोनिधौ चन्द्रः, स पञ्चमो गणभृत् सुधर्मखामी, वो युष्माकं, मुदे प्रमोदाय, स्तादित्यन्वयः। स क इत्साह-यो गणभृत् , इह जगति, महाव्रतानां अहिंसासूनृतास्तेयब्रह्माकिञ्चन्यलक्षणानां, पञ्चत्वं निधनं, आविष्णकरत्नपि प्रकटीकुर्वन्नपि, परिपालकः समन्तादक्षका, बभूवेत्यध्याहारः। तथाऽयं स्फुटो विरोधः, अथ तत्परिहारस्तु पश्चानां भावः पञ्चत्वं पञ्चसङ्ख्याकत्वमित्यनेन कृत. इति ॥२॥ सुखाय तत्पट्टपयोजपूषा
जम्बूः स कम्बूज्ज्वलकीर्तिरस्तु ।
Page #141
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
जहे न हृद् नव्यनितम्बिनीभिर्यस्येन्दुपत्नीभिरिवार्कतेजः ॥ ३ ॥
तत्पट्टपयोजपूषा तस्य सुधर्मस्वामिनः पट्टपयोजे पूषा सूर्यः, तत्रोल्लासकृत्त्वादितिः स जम्बूनामा चरमकेवली द्वितीयः पट्टधरः किं० कम्बुरिव उज्ज्वला विमला कीर्त्तिर्यस्य स कम्बूज्ज्वलकीर्त्तिः शङ्खशुभ्रयशा इति यावत्, सुखाय शर्मणे, अस्तु स्तात् । स क इत्याह-यस्य जम्बूस्वामिनः, हृद् हृदयं, नव्या नवीनाः स्तवनीया वा या नितम्बिन्यो नार्यः, नवोढाइति शेषः; ताभिर्नव्यनितम्बिनीभिः, न जहे नाहारि । दृष्टान्तमत्राह- इन्दुपत्न्यो दाक्षायण्यः शर्वयों वा ताभिर्यथाऽर्कतेजः सूर्यमहः, न हियत इति ॥ ३ ॥ तदंह्रिसेवाबिसिनीषडंह्निः पुनातु स श्रीप्रभवप्रभुर्वः । जम्बूपदेशादभवत्तमस्वि
११.६
न्यपी यस्य प्रथितप्रकाशा ॥ ४ ॥
तस्य जम्बूस्वामिनः अंही पादौ तयोर्या सेवा सपर्या सैव बिसिनी मृणालिनी तस्यां षडंहिर्भ्रमरः, तन्त्रातिलुब्धत्वादितिः स श्रीमभवप्रभुः प्रथमः श्रुतकेवली, वो युष्मान्, पुनातु पवित्रीकरोतु, इत्यन्वयः । यस्य जम्बूपदेशात् तमस्विन्यपि तमाऽपि प्रथितः प्रकाशो यया सा प्रथितप्रकाशा प्रतिबोधरूपप्रकाशकारिणी, अभवज्जातेति चित्रम् ॥ ४ ॥
तत्पट्टपूर्वाचलहेलिहेलं तं स्तौमि शय्यम्भवसूरिसिंहम् । ध्वान्तं सभारत्नरुचेव जहे
Page #142
--------------------------------------------------------------------------
________________
तृतीयः सर्गः 1.
मूर्त्या तो यस्य कुदृष्टिमोहः ॥ ५ ॥
तत्पट्टपूर्वाचले प्रभवस्वामिपट्टोदयाद्रौ हेलेः सूर्यस्येव हेला विलासो यस्य तं तत्पट्टपूर्वाचलहेलिहेलं, तं शय्यम्भवमूरिसिंहं स्तौम्यहमित्यन्वयः । तं कमित्याह - सभारत्नरुचैव प्रदीपप्रभयेव यथा ध्वान्तं तमः, तथा यस्य श्रीशय्यम्भवमूरेः, गृहस्थावस्थायां कुदृष्टिमोहो मिथ्यात्वमौढ्यं, अर्हतो मूर्त्या श्रीशान्तिजिनप्रतिमया, जहे हृत इति । एतदर्थानुवादकं निर्युक्तिकरश्रुतधरवाक्यं यथा - " सिज्जम्भवं गणहरं जिणपडिमादंसणेण पडिबुद्धं ” इत्युक्तत्वात्प्राच्योऽर्थः समर्थ इति ॥ ५ ॥
"
स तत्पदोपास्तिपटुः प्रभूतं भद्रं यशोभद्रगुरुः करोतु । पन्थानमाविष्कुरुते स्म शुद्धं यस्योष्णरश्मेरिव गौः सदर्था ॥ ६ ॥
·११७
तस्य शय्यम्भवस्य पदोपास्तौ पादसेवायां पटुर्निपुणस्तस्पदोपास्तिपटुः, स यशोभद्रगुरुः प्रभूतं भूरि, भद्रं श्रेयः, करोत्वित्यन्वयः । स क इत्याह-यस्य यशोभद्रसूरेः, गौर्वाणी, उष्ण(रश्मेः सूर्यस्य, गौरिव द्युतिरिव, शुद्धं पन्थानं ज्ञानदर्शनचारित्रात्मकं भावमार्ग; सूर्यद्युतिपक्षे तु, द्रव्यमार्ग आविष्कुरुते स्म कटीचक्रे । उभयत्र श्लेषद्वारेणैकं विशेषणमाह-सदर्थेति । मृरेगः पक्षे, सन् शोभनोऽर्थो वाच्यं यस्यां साः सूर्यस्य गोः पक्षे तु, सन्तोऽर्थाः प्रयोजनानि यस्याः सा सदर्था । सूर्यप्रकाशे हि देवार्चादिकाः क्रियाः क्रियन्ते लोकैरिति दिक् ॥ ६ ॥ भद्रानुभूतिः स दिताभिभूतिः सम्भूतनामा गुरुरस्तु भूत्यै ।
१६
Page #143
--------------------------------------------------------------------------
________________
विजयमयस्त्वाम् ।
श्रियं महावीरपरम्परां यः
पृथ्वी पयोवाह इवानिनाय ॥ ७॥ भद्राणां कल्याणानां अनुभूतिरनुभवनं यस्माजनानामिति स भद्रानुभूतिः । पुनः किं०, दिता खण्डिताभिभूतिः पराभवोर्थात् कर्मणां येन स दिताभिभूतिः, स सम्भूतनामेत्यत्र पदैकदेशे पदसमुदायोपचारात् सम्भूतः सम्भूतविजयनामा गुरुः, भूत्यै सम्पत्त्यै, अस्तु; भव्याङ्गिनामिति शेषः। स क इत्याहयो गुरुः पयोवाह इव मेघ इव यथा पृथ्वी, तथा महावीरपरम्परां श्रीवर्द्धमानस्वामिसन्तति, श्रियं शोभां, आनिनायाऽऽनैपीत् ॥ ७॥
स दीर्घबाहुर्गुरुभद्रबाहु
र्बह्वीं रतिं रातु रमाऽभिरामः। दृष्ट्येव कष्टं जलदः प्रजानां . स्तोत्रेण यो द्राग् मरकं जहार ॥ ८ ॥
स गुरुभद्रबाहुः, किं. दीर्घावायतौ वाह भुजौ यस्य स दीर्घबाहुः; बह्वीं भूयसी, रतिं रातु दिशतुः संयमे इति गम्यम् । स कीदृशः, रमया लक्ष्म्या पश्चिमसंपूर्णसकलश्रुतायतिशयलक्षणयाभिरामो रम्यो रमाऽभिरामः। स क इत्याह-यः स्तोत्रेण श्रीउपसर्गहरसंझेन, मरकं व्यन्तरीभूतवराहमिहिरविकृतमारिं, जहाराहरत् । यदाहुः पूर्वाचार्याः-"उवसग्गहरं थुत्तं काउणं जेण संघकल्लाणं । करुणापरेण विहियं स भदवाहू गुरू जयइ" ॥१॥ इति । अथ दृष्टान्तोत्र-व यया, जलदो घनाघनः, प्रजानां लोकानां, कष्टं तद्तापोपतापादिरूपं, वृष्ट्या वर्षणेन, हरतीत्यर्थः ॥८॥ .
Page #144
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
तयोर्द्वयोर्दर्पिमनोमनोजविकारधिक्कारकरः परौजाः । यो द्योतयामास धनैर्महोभिः
११९
पट्टं प्रभावानिव पूर्वशैलम् ॥ ९ ॥
तयोर्द्वयोः श्रीसम्भूतविजयश्री भद्रबाहुस्वामिनोः, पहं प्रभावानिव भानुरिव, पूर्वशैलमुदयाचलं, घनैर्बहुभिः, महोभिस्तेजोभिरुत्सबैर्वा, यो द्योतयामासाऽभूषयत् । यः किं० दर्पि त्रैलोक्यजेतृत्वात् गर्ववन्मनो यस्यासौ मनोज श्वेतोभूस्तस्य यो विकारस्तस्य धिक्कारकरः तिरस्कारकृत्, अत एव त्रिभुवनजेतुः कन्दर्पस्य नेतृत्वात् परं प्रकृष्टं ओजो बलं प्रशस्तमनोबरूपं यस्य स इति ॥ ९ ॥
स स्थूलभद्रः प्रकरोतु भद्रं भद्राकृतिर्भद्रविहारभद्रः । यत्कीर्तिरद्याप्यतिकीर्त्तनीया
ज्योत्स्लेव विश्वं विशदं विधते ॥ १० ॥
स स्थूलभद्रो नामापश्चिमश्रुतकेबली सप्तमः पट्टधरः, भद्रं प्रकरोतु । कीदृशः, भद्रा प्रशस्यतरा आकृतिराकारो यस्य स भद्राकृतिः । पुनः किं०, भद्रं श्रेष्ठं विहाराद्विचरणाद् भद्रं मङ्गलं लोकानां यस्मात् सः, अथवा भद्रं साधु विहारो गमनं गतिरिति तेन साधुगमनेन भद्र इव वृषभ इव भद्रविहारभद्रः । अद्यापि अद्य यावत्, यत्कीर्तिः, किं० अतिकीर्चनीयाऽतिशयेन वर्णनीया, ज्योत्स्नेव कौमुदीव, विश्वं जगद्, विशदं विधत्ते कुरुते । यतस्तत्कीर्त्तिश्रुतेः पापमलमणाशाज्जगतो विशदीभवनं युक्तिमदेवेति ॥ १० ॥ इति युग्मव्याख्या ॥
Page #145
--------------------------------------------------------------------------
________________
१२०
विजयाशस्त्याम् । सूरीश्वराः श्रीप्रभवेशमुख्या- .. __श्चिरं जयन्ति श्रुतकेवलीशाः ।
अमी शमीशा ऋतवोऽवतीर्णाः __ . स्वैः खैर्विलासैः षडपि क्रमात् किम् ?॥११॥
श्रीप्रभवेशमुख्याः प्रभवस्वामिप्रमुखाः, सूरीश्वराश्चिरं जयन्तीत्यन्वयः । किं विशिष्टा इत्याह-श्रुतकेवलीशाः श्रुतकेवलिनश्चतुर्दशपूर्विणः सन्त ईशा गच्छाधीशाः सामर्थ्यभाजो वा, यतस्ते हि घटाद् घटसहस्रं पटात् पटसहस्रं विकर्तुं क्षमाइति शेषः । एते षडेव पञ्चमारके श्रुतकेवलिनः । यदाहुः श्रीहेमाचार्यचरणाः-“अथ श्रीप्रभवप्रभुः। शय्यंभवो यशोभद्रः संभूतविजयस्ततः । भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि पद्" इति । इवोत्प्रेक्ष्यते-शमीशाः साधुखामिनः, अमी षडपि, किं ऋतवोऽवतीर्णाः स्वैः स्वैविलासनिजनिजलीलाभिः, जगन्ति सुखीकर्तुमिति निर्गलितार्थः ॥ ११ ॥ श्रीसुस्थितः सुप्रतिबुद्ध एतौ
सूरी अभूतां तदनुक्रमेण । याभ्यां गणोऽभूदिह कौटिकाह्व
श्चन्दाऽर्यमभ्यामिव सुप्रकाशः ॥ १२ ॥ . - तेभ्यः षड्भ्यः श्रुतकेवलिभ्योऽनु पश्चात् तदनुक्रमेण, श्रीस्थूलभद्राचार्यमुख्यशिष्ययोः श्रीमदार्यमहागिरिश्रीमदार्यसुहस्तिनोईयोर्दशपूर्विणोरष्टमपट्टधरयोर्भवनानन्तरं श्रीसुस्थितः सुपतिबुद्धश्च एतौ द्वौ, सूरी अभूतां जातौ । याभ्यां चन्द्राऽर्यसभ्यां शशधरदिवाकराभ्यां, सुप्रकाश इव विश्वालोक इव, कोटिकावः कौटिकनामा, गणो गच्छः, अभूद बभूव । कोटिवारान्
Page #146
--------------------------------------------------------------------------
________________
तृतीयः सर्गः। १२१ सरिमन्त्रस्मरणकरणादिति श्रुतिः। किं च, श्रीहेमचन्द्रसूरीन्द्रास्तु सुस्थितसुप्रतिबुद्धेत्यखण्डितनामकमेकमेव मुनि मन्यन्ते । यद्चिरे ते स्वकीयत्रिषष्टीयचरितमान्तप्रशस्तिकायां-"अजनि सु. स्थितसुप्रतिबुद्ध इत्यभिधयाऽऽर्यसुहस्तिमहामुनेः। शमधनो दशपूर्वधरोऽन्तिषद्भवमहातरुभञ्जनकुञ्जरः"॥१॥इति । गुर्वावल्यां तु मूरिद्वयमुक्तमिति तेनैतद्ग्रन्थकर्ताऽपि मूरिद्वयं व्यावर्णितमिति ध्येयम् ॥ १२॥ तत्र क्रमात् पापभराद्रिवज्रि
वज्रः स वर्षिगुरुर्बभूव । पाकोऽपि यः पालनके प्रसुप्तोऽ
प्येकादशाङ्गीमशठः पपाठ ॥ १३ ॥ तत्र कौटिकगणे, क्रमात् श्रीइन्द्रदिन्नसूरिश्रीदिनरिश्रीसिंहगिरिषु त्रिषु मूरिषु जातेषु सत्सु स वर्षिगुरुरपश्चिमो दशपूर्वभृद् वज्रस्वामिनामा गुरुस्त्रयोदशएट्टमृद्, बभूव जातवानित्यन्वयः। कीदृशः, पापभरादौ दुरितव्रातपर्वते वज्रिणो हरेर्वजः कुलिशस्तद्भेदकत्वादिति । अत्र वज्रशब्दः पुंनपुंसकतया पठितोऽस्तीति ज्ञेयम् । स क इत्याह-यो वजूगुरुः पाकोऽपि बालोपि।पुनः किं०, पालनके प्रसुप्तोऽपि उद्यममन्तरेणापि, एकादशानामङ्गानामाचारागादिविपाकश्रुतान्तानां समाहारः एकादशाङ्गी तां एकादशाङ्गी, समाहारेऽर्थे स्त्रियां सेः । यः किं०, अशठो निर्दम्भः, पपाठेति पठति स्मेति पारिणामिक्या बुद्ध्या पदानुसारिण्या लन्ध्या चेति ध्येयम् ॥ १३ ॥ सूरेस्ततः ख्यातिमतीह वज्र
शाखाऽभवद्वर्यविनेयशाखा।
Page #147
--------------------------------------------------------------------------
________________
१२१ विजयास्त्वाम् ।
या कीर्तिमद्यापि बिभर्ति लोके
सुधेव संसूत्रितसौमनस्या ॥ १४ ॥ ततस्तस्माद, सूरेः श्रीवज्रस्वामिनः, ख्यातिमती प्रसिद्धिमुपगता, वज्रशाखाऽभवत् । कीदृशी, वो विनेयानां शिष्याणां शाखाः पक्षान्तराणि संततिविशेषा यस्यां सा वर्यविनेयशाखा । या शाखाऽद्यापि लोके तत्परम्परागतमुनिजने, कीर्ति बिभर्ति यशस्विनी प्रवर्तत इति । या किं०, संमत्रितं सम्यग् निर्मितं सौमनस्यं सुमनसो भावः कर्म वा सौमनस्यं पाण्डित्यं यया सा संसूत्रितसौमनस्या। केव, सुधेव । सुधापक्षे संम्त्रितं सौमनस्यं निर्जरत्वं यया सेति ॥ १४ ॥
तच्छिष्यमुख्यः स्खलिताक्षसेनः
श्रीवज्रसेनः स गुरुर्बभूव योऽभूषयत्कौशलधाम वज्र
शाखामलं कीर इवाम्रशाखाम् ॥ १५ ॥ .... तस्य श्रीवज्रस्य शिष्येषु मुख्यस्तच्छिष्यमुख्यः, किं०,स्वलिता भग्ना अक्षाणामिन्द्रियाणां सेना येन स स्खलिताऽक्षसेनः, श्रीवज्रसेनो नाम्ना स गुरुर्गच्छराड् बभूव । स क इत्याहयः कीर इव शुक इव, यथा आम्रशाखां, तथा वज्रशाखां श्रीवजूखामिसन्ततिं अभूषयत् । कथम् , अलमत्यर्थमिति, कीदृशः, कौशलधाम नैपुण्यास्पदम् । इदं द्वयोरपि विशेषणमिति ॥१५॥ ___ नागेन्द्रनामा प्रथमो द्वितीय
श्चन्द्रोऽथ नित्यभिधस्तृतीयः ।
Page #148
--------------------------------------------------------------------------
________________
तृतीयः सर्गः।
१२३ विद्याधरस्तुर्य इति प्रतीता
श्चत्वार एतेऽन्तिषदोऽस्य जाताः ॥ १६ ॥ अस्य श्रीवज्रसेनस्य सूरेः, सार्द्धनवपूर्विणश्चतुर्दशपट्टघरस्य नागेन्द्रनामेति पदत्रयेण प्रणीता नागेन्द्रचन्द्रनितिविद्याधरनामानश्चत्वारोऽन्तिषदः शिष्याः, किं०, प्रतीताः शास्त्रेसु, जाता जझिरे ॥ १६ ॥ तेषामेवावदातं कीर्तयति
खखाह्वयोच्चैर्भुवि विश्रुतानि ___ चत्वारि जातानि कुलानि तेभ्यः । भाति स्म यैर्वीरपरम्परेयं
नित्यानधैर्ब्रह्मतनूरिवास्यैः ॥ १७ ॥ तेभ्यश्चतुर्व्यः सूरिभ्यो भुवि विश्रुतानि चत्वारि कुलानि जातानि, कया, स्वखावया निजानिजनाम्ना, तथाहि-नागेन्द्रनाम्ना नागेन्द्रं कुलं, चन्द्रनाम्ना चान्द्रं कुलं, नितिनाम्ना नितिनामकं कुलं, विद्याधरनाम्ना विद्याधरकुलं चेति; यश्चतुर्भिः कुलैरियं वीरपरम्परा श्रीवर्धमानस्वामिनः पट्टपरम्परा, भाति स्म शुशुभे । कीदृशैयः, नित्यानधैर्नित्यं निरन्तरमननिप्पापैः, यथा चतुर्भिरास्यैर्वदनैः, ब्रह्मणो विरश्शे, तनर्मूर्तिरिति दृष्टान्त उत्प्रेक्षा वा ॥ १७ ॥ पुनरपि तानेव वृत्तव्येन वर्णयति
चत्वार आविष्कृतमुक्तिमार्गा___ स्ते सर्वसङ्घस्य दृढानुरागाः । ततो विभान्ति स्म गणाधिनाथा- .
Page #149
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् |
धर्मस्य भेदा इव दानमुख्याः ॥ १८ ॥
ते चत्वारः पूर्वोक्तनामानः कीदृशाः, आविष्कृतः प्रकटितो मुक्तिमार्गो यैस्तेः पुनः किं०, सर्वसङ्घस्य चतुर्विधश्रमणसङ्घस्य दृढां निविडोऽनुरागो येषु ते सर्वसङ्घस्य दृढानुरागाः । ततस्तस्मात्मृरेः, गणाधिनाथा आचार्य पदवीं प्राप्ताः सन्तः, विभान्ति स्म शुशुभिरे । इवोत्प्रेक्ष्यते - दानं मुख्यं प्रथमं येषु येषां वा ते दानशीलतपोभावाख्याः धर्मस्य भेदाः प्रकारा इति ॥ १८ ॥
एभिश्चतुर्भिः सततावदातैदन्तैश्चतुर्दन्त इवाहितमैः ।
गच्छाधिराजैर्बिभरांबभूव
माहात्म्यमुच्चैर्भुवि सङ्घ एषः ॥ १९ ॥
१२४
,
एभिर्नागेन्द्रादिभिश्चतुर्भिर्गच्छयाधिराजैः सूरिवरैः, चतुर्दन्त ऐरावणः, इव यथा, चतुर्भिर्दन्तैः कीदृशैः सततमवदातैः कर्मम लहीनः, पक्षे नित्योज्ज्वलैः पुनः किं०, अहितमशुभकर्मादि, पक्षे अहितान् शत्रून् न्तीति अहितघ्नास्तैः अहितन्नैः; एष सङ्घां माहात्म्यं महत्त्वं बिभरांबभूवातिशयेन बभार ॥ १९ ॥ एतैश्च शिष्यैर्गुरुणा च तेनेत्येभिर्बभौ पञ्चभिरेष संघः । छायाऽऽव्यमूलैः सुकृतानुकूलैरखप्नसालैरिव मेरुशैलः ॥ २० ॥
च पुनः, एतैश्चतुर्भिः शिष्यैः च पुन:, तेन गुरुणा इति एभिः पञ्चभिर्मिलितैः सद्भिरेष सङ्घः साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधः श्रमण भगवन्महावीरस हुन्घः, बभौ शुशुभे ।
Page #150
--------------------------------------------------------------------------
________________
तृतीयः सर्गः । दृष्टान्तोऽत्र-यथा - मेरुशैलोऽखमसालैः कल्पवृक्षः कविरूढ्या पश्चभिः कल्पपारिजातमन्दारहरिचन्दनसन्तानैः, किंलक्षणैरिति द्वयोः पञ्चकयोः श्लेषद्वारा तुल्यं विशेषणद्वयमाह-छायया शोभया, पक्षे छाययाऽनातपेन, आढ्यं मूलं पार्थ येषां तेश्छायाऽऽन्यमूलः, पुनः कि०, सुकृतात् पुण्यात् अनुकूलैः प्राणिनामिति सुकृतानुकूलैरिति ॥२०॥ अथ चतुर्वपि कुलेषु चान्द्रकुलस्य मुख्यत्वमाहस्वतेजसा धौतदिगन्तरालं
गवां गणैः प्रीणितकौशिकौघम् । चान्द्रं कुलं तेष्वधिकं बभासे
कामोत्सवं भेष्विव बिम्बमिन्दोः ॥ २१ ॥ तेषु चतुर्पु पूर्वोदिताभिधानेषु कुलेषु, चन्द्राचार्यसंबन्धि चान्द्रं, कुलं द्वितीयं कुलं, अधिकं बभासेऽशुभत् । दृष्टान्तमाहयथा भेषु नक्षत्रेषु, इन्दोश्चन्द्रस्य बिम्बं मण्डलम् । अथ द्वयोः श्लेषद्वारंण तुल्यविशेषणान्याह-कीदृशं, स्वतेजसा निजमहसा, धौतं क्षालितं, दिगन्तरालं आशामध्यं येन तत् पुनः किं०, गवां वाचां रुचां च गणैः सङ्घातैः, प्रीणित आह्लादितः, "कौशिकः शक्रघूकयोः" इत्यनेकार्थत्वात् कौशिकानां शक्राणां घूकानां च ओघो येन तत् पुनः किं०, कामोत्सवं कामं प्रकामं कामस्य च कन्दर्पस्य उत्सवो यस्मात्तत् ॥ २१ ॥
आसन् जगच्चन्द्रमुनीन्द्रमुख्या
स्तेषु क्रमाञ्चन्द्रकुलाब्धिचन्द्राः। यैर्भारतं क्षेत्रमभूदपङ्क
द्राक् कातकक्षोदलवैरिवाम्भः ॥ २२ ॥
Page #151
--------------------------------------------------------------------------
________________
१२६ विजयमशस्त्याम् । __ तेषु चतुर्ष कुलेषु, चन्द्रकुलमूलभूताचन्द्राचार्यात् क्रमात अनुक्रमेण, श्रीसामन्तभद्रसूरि-श्रीद्धदेवमूरि-श्रीपयोतनसूरिश्रीमानंदेवसूरि-श्रीमानतुडमासूरि-श्रीवीरसूरि-श्रीजयदेवमूरिश्रीदेवानन्दसृरि-श्रीविक्रमसूरि-श्रीनरसिंहमूरि-श्रीसमुद्रसूरिश्रीमानदेवमूरि-श्रीविबुधप्रभसूरि-श्रीजयानन्दसूरि-श्रीरविषभमरि-श्रीयशोदेवसूरि-श्रीप्रद्युम्नमूरि-श्रीमानदेवमूरि-श्रीविमलचन्द्रमूरि--श्रीउपयोतनमरि-श्रीसर्वदेवमूरि--श्रीदेवसरि-श्रीसर्वदेवसूरि-श्रीयशोभद्रमुरि-श्रीनेमिचन्द्रमुरि-श्रीमुनिचन्द्रमूरि-श्रीअजितदेवमूरि--श्रीविजयसिंहमूरिषु व्यतीतेषु मूलतस्त्रिचत्वारिंशत्तमयोः पट्टधरयोरेकगुरुभ्रात्रोः श्रीसोमप्रभसूरिश्रीमणिरत्नसूरीश्वरयोः पट्टधराः श्रीजगश्चन्द्रमुनीन्द्रमुख्या आसन् बभूवुः । कीदृशाः, चन्द्रकुलाब्धौ चन्द्रास्तद्धिकारित्वात् , यैः श्रीजगच्चन्द्रसूरिभिः, भारतं क्षेत्रं भारतवर्ष, अपङ्क निष्पापं, द्राक् शीघ्रं, अभूद; भूमौ विहरद्भिरिति शेषः । यथा कातकैः कतकसंबान्धभिः क्षोदलवैः कतकफलचूर्णलेशः, अम्भः पानीयम् , अपकमानिर्मलं भवतीति दृष्टान्तः ॥ २२ ॥
येषां तपो दुस्तपमल्पसत्त्वै_ वितन्वतां द्वादश वत्सराणि । आचाम्लरम्यं समभूत् पृथिव्यां
ध्वस्तापवाद बिरुदं तपेति ॥ २३ ॥ येषां श्रीजगचन्द्रसूरीन्द्राणां, अल्पसत्त्वैः कातरैः, दुस्तपं आचाम्लरम्यं तपो द्वादश वत्सराणि यावद्, वितन्वतां कुर्वतां सतां, पृथिव्यां तपा इति बिरुदं, किं०, ध्वस्तापवादं निर्गतकलस्क, समभूत् । श्रीमेदपाटदेशे आघाटनाम्नि नगरे गुरुदर्शनचमत्कृतात् श्रीराणकादिति श्रुतिः ॥ २३ ॥
Page #152
--------------------------------------------------------------------------
________________
दतीयः सर्गः।
१२५ संवत्सरे सायकसिद्धिवक्षो___ रहौषधीप्राणपतिप्रमाणे । तपेति विख्यातिमवाप सत्यां
ततस्ततौजा अयमत्र गच्छः ॥ २४ ॥ संवत्सरे वर्षे, कीदृशे, सायका बाणाः पश्च, “पौष्पाः पञ्च शराः" इत्याद्युक्तेः सिद्धयश्च क्षितिजलज्वलनानिलाद्या अष्टौ महासिद्धयः, वक्षोरुहौ स्तनौ द्वौ, औषधीप्राणपतिश्चन्द्रमाएकः, एतैर्वामगत्या विन्यस्तैः द्वादशशतोत्तरपञ्चाशीतिसख्यं (१२८५) प्रमाणं यस्मिंस्तस्मिन् सायकसिद्धिवक्षोरुहौषधीपाणपतिप्रमाणे; तत इति तेभ्यः श्रीजगच्चन्द्रसूरीन्द्रेभ्यः, ततं विस्तीर्णमोजो बलं प्रबलज्ञानक्रियाविषयं यस्य स ततौजाः, अयं गच्छ:, तपागच्छ इति विख्यातिं प्रसिद्धिं पुनः कीदृशी, सत्यां यावजीवमाचाम्लाभिग्रहिगुरुतपोगुणनिष्पन्नत्वात् समीचीनां, अवाप प्राप्तवानिति ॥ २४ ॥ काव्यत्रयेण तपगच्छमेव वर्णयति
सदालिशाली सुमनोमनोज्ञो ___ बर्हप्रबर्हः परभागजातः। सदैव-साधुः सुरसार्थहारी ___ यः स्वर्गिशाखीव बिभर्ति शोभाम् ॥२५॥
यस्तपागच्छः, स्वर्गिशाखीव कल्पवृक्ष इव, शोभा राढां बिभर्तीत्यन्वयः । द्वावपि निर्विशेषविशेषणैः श्लेषद्वारेण विशिनष्टि--गच्छपक्षे सतां साधूनां आलिः श्रेणिस्तया शाली सदालिशाली, पक्षे सदा नित्यं अलिभिभ्रमरैः शाली शोभन इतिः पुनः किं०, सुमनोभिः प्राज्ञैर्मनोज्ञः, पक्षे सुमनोभिः कुसुमैरितिः पुनः
Page #153
--------------------------------------------------------------------------
________________
१२८ विजयमवस्त्याम् । . किं०, बहेण परिवारण प्रबईः प्रकृष्टः, पक्षे हैंः पत्रैः प्रबहः पुनः किं०, परभागस्य गुणोत्कर्षस्य जातं समूहो यस्मिन् सः, पक्षे परा प्रकृष्टा भा कान्तिर्यत्रासौ अगः पर्वतोऽर्थान्मेरुस्तत्र जातउत्पन्नः परभागजातः; पुनः किं०, सदैवाः सभागधेयाः साधवो मुनयो यत्र सः, पक्षे सदैव नित्यमेव साधुर्वन्धुरः; पुनः किं०, सुष्टु शोभनो रसो येषु ते सुरसास्तेऽर्थाः सूत्राभिधेयानि तानि विद्यन्ते येषु ते सुरसार्या अर्थाद्गीतार्थास्तेारी रम्यः, पने सुरसार्येन देववृन्देन हारीति ॥ २५ ॥ न दर्शनज्ञानचरित्रकोशः
क्रिया शिवस्त्रीसुखदानदूती। अन्यत्र यं गच्छमतुच्छमच्छं
- मुक्त्वा कलेन्दोरिख शम्भुभालम् ॥ २६ ॥ - अतुच्छमलब्धमध्यत्वात् । पुनः अच्छं निर्मलत्वात यं गच्छं तपागच्छ,मुक्त्वाऽन्यत्र क्रिया सम्यकरणचरणसामाचारीसमाचरणलक्षणा, न वर्तते इत्यन्वयः। क्रिया कीदृशी, दर्शनज्ञानचरित्राणां कोशो भाण्डागारं तदाधारत्वादिति । पुनः किं०, शिवस्त्रीसुखस्य दाने दूतीव दूती तन्मेलापकहेतुत्वात् । अयात्र दृष्टान्तो यथा-शम्भोर्महादेवस्य भालं मुक्त्वा इन्दोश्चन्द्रमसः, कलाऽन्यत्रापरपुरुषललाटे, नेति नास्तीत्यर्थः ॥ २६ ॥ यद्वासिभिः सुन्दरसूरिसिंहो
पाध्यायविज्ञर्षिभिरर्चनीयैः। श्रीवर्डमानप्रभुशासनं स
दिवं दिवेशैरिव दिद्युतेऽदः ॥ २७ ॥ - यद्गच्छवासिमिः सुन्दरसरिसिंहोपाध्यायविवर्षिभिः रुचि
Page #154
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
१२९
रानूचानपश्चाननवाचकपण्डितमुनिभिः किं०, अर्चनीयैर्महनी - यैः, जगतामिति शेषः । अद इत्येतत्, श्रीवर्द्धमानप्रभोः शासनं पारम्पर्ये, दिवेशैर्वासरेश्वरैः सूर्यैरिति यावत् दिवं आकाशमिव, दिद्युते शोभते स्म इति दृष्टान्तः ॥ २७ ॥ गच्छेऽत्र सूरिप्रभवः प्रभूतप्रभुत्वपूर्णाः क्रमतः क्रमज्ञाः ।
संविग्नविज्ञर्षिमनोज्ञसंज्ञाः
श्रीममुख्या विमला बभूवुः ॥ २८ ॥
अत्र तपाख्ये, गच्छे श्रीजगचन्द्रसूरीन्द्रात् चतुश्चत्वारिंशत्तमपट्टधरात् क्रमतोऽनुक्रमेण, श्रीदेवेन्द्रसूरि - श्रीधर्मघोषसूरि- श्री सोमप्रभसूरि-श्रीसोमतिलकसूरि-श्रीदेवसुन्दरसूरिश्री सोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि - श्रीरत्नशेखरसूरि -श्रीलक्ष्मीसागरसूरि - श्रीसुमतिसाधुसूरिषु जातेषु सूरिप्रभवः सूरीश्वराः पुनः कीदृशाः, प्रभूतं भूरि यत् प्रभुत्वमैश्वर्यं तेन पूर्णाः, पुनः किं०, क्रमं कल्पं साध्वाचारं जानन्तीति क्रमशा:, अथवा क्रमे गुरुसंप्रदाये दक्षाः क्रमज्ञाः पुनः किं०, संविधेषु संवेगवत्सु विशेषु पण्डितेषु ऋषिषु साधुषु मनोज्ञा संज्ञा येषां ते संविप्रविज्ञर्षिमनोज्ञसंज्ञाः, श्रीहेममुख्या विमला इति श्रीहेमविमलसूरयः पञ्चपञ्चाशतमे पट्टे बभूवुर्जाता इत्यर्थः ॥ २८ ॥ तेषां प्रभूणां प्रभुताद्भुतश्रीसौभाग्यभाग्यादिगुणैरुदारैः ।
अद्यापि सद्यो हृदि गच्छ एष मुद्रे शरहैरिव देवमार्गः ॥ २९ ॥ तेषां प्रभूणां श्रीहेमविमलसूरीणां प्रभुता गच्छैश्वर्यरूपा,
१८
Page #155
--------------------------------------------------------------------------
________________
१३०
विजयप्रशस्त्याम् ।
अद्भुता श्रीश्च शोभा, सौभाग्यं नृपादिप्रियत्वं, भाग्यं च श्रुतबयोद्धे गुरुभ्रातृरिद्वन्द्वे सत्यपि स्वगुरुपट्टसंपत्प्राग्भारसमागमातिशयलक्षणं; इत्यादिभिरुदारैर्गुणैराकर्णितः सद्भिः, अथ यावद्गच्छ एष मुदे भवति । दृष्टान्तोऽत्र यथा - शरद्भैः शरत्कालीनैर्नक्षत्रैः, देवमार्ग इवाकाश इवः यतः शरदि वार्दलाद्यनादृतत्वेन विशेषतो नक्षत्राणां नैर्मल्यं मुदे भवतीत्याशयः ॥ २९ ॥
तत्पट्टकुम्भिप्रभुकुम्भभूमौ सिन्दूरपूरायितमत्र गच्छे |
आनन्दमुख्यैर्विमलैर्यतीन्द्रै
चारित्रमार्गामरमार्गमित्रैः ॥ ३० ॥
तस्य श्रीहेमविमलसूरेः पट्टरूपो यः कुम्भिप्रभुर्गजेन्द्रस्तस्य कुम्भभूमौ कुम्भप्रदेशे, आनन्दमुख्यैर्विमलैर्यतीन्द्रः श्रीआनन्दविमलसूरिभिः कीदृशैश्चारित्रमार्गः संयमपथः स एवामरमार्ग आकाशस्तत्र मित्रैः सूर्यैः; सिन्दूरपूरैरिवाचरितं सिन्दूरपूरायितम्, अत्रेति श्रीतपागच्छे ॥ ३० ॥
"
अथ पञ्चदशभिर्वृत्तैस्तानेव सूरीन् वर्णयतिवर्षे भुजेमेषुहिमांशुसङ्ख्ये शुभेऽहनि श्रीवटपल्लिपुर्याम् ।
समन्वितैः श्रीविनयादिभावा
भिधेन शिष्येण बुधोत्तमेन ॥ ३१ ॥ वर्षे संवत्सरे, कीदृशे, भुजौ द्वौ इभा हस्तिनोऽष्टौ दिग्गजानामष्टसङ्ख्यत्वात्, इषवो बाणाः पञ्च, हिमरश्मिश्चन्द्रबैकः अथ वामगतिजुषामेषां मीलितानां पञ्चदशशतोत्तरम्यशी
Page #156
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
तिरूपा (१५८२)सङ्ख्या यत्र तत्र वर्षे भुजेभेषुहिमांशुसख्ये; पुनः कस्मिन्, अहनि वासरे, किं०, शुभे भव्ये; पुनः कस्यां, श्रीबटपल्लिपुर्या पचननगराभ्यर्णवर्त्तिन्यां यैः पूज्यपादैः श्रीआनन्दविमलसूरिभिः, एतत्पदं त्वग्रेतनवृत्तगतमप्यत्राधिकाराद्व्याख्यातमिति। यैः कीदृशैः समन्वितैः संयुक्तैः केनेत्याह-श्रीविनयादिभावाभिषेन शिष्येणः किं०, बुधोत्तमेन श्रीविनयभावपण्डितोचमेन निजावेनेयेन परिवृतैरिति ।। ३१ ।।
तैः किमकारि १, तदग्रेतनवृत्ते युग्मत्वादाख्यातिकिश्चित प्रमादाचरणं निरीक्ष्य
गच्छे स्वकीये कलिकालजन्यम् । यैः पूज्यपादैर्जगतां हितायो
ध्रे क्रिया रत्नमिवाध्वपांशोः ॥ ३२ ॥ किश्चित्प्रमादाचरणं सुविहितसामाचारीशैथिल्यलक्षणं, किं०, कलिकालः पञ्चमारकस्तज्जन्यं तद्वशाज्जातं, निरीक्ष्य जगतां हिताय क्रिया विशुद्धसाधुपद्धतिप्रवृत्तिरूपावस्कन्धवाह्यवस्त्रपात्रपुस्तकव्यतिरिक्ताशेषशेषपरिग्रहनिवृत्तिस्वरूपा, उपधे उद्घृता, यथाऽध्वनः पथः पांशोः रेणोः, रत्नमिव मणिरिव, यथोद्भियते तथेति दृष्टान्तः ॥ ३२ ॥ इति युग्मव्याख्या ॥
दुरुक्तियुक्त्युत्कटकर्दमाढ्ये
१३१
मिथ्यात्वकूपे प्रपतन् जनो यैः । अत्यर्थदार्व्यान्वितया खवाचो
इत्रे सुरज्ज्वेव सदर्थशक्त्या ॥ ३३ ॥ दुरुक्तियुक्तिर्दुर्वाक्ययोगः स एवोत्कटः कर्दमस्तेनाढ्ये, मिध्यात्वकूषे प्रपतन् ब्रुडन्, जनः यैः पूज्यैः, खवाचा निजवा
Page #157
--------------------------------------------------------------------------
________________
१३२
विजयप्रशस्त्याम् ।
ण्या, किं०, अत्यर्थदार्यान्वितया अत्यर्थे गाढं दाढयै भगवदाशायां स्थैर्य तेनान्वितया युक्तया पुनः किं०, सदर्थशक्त्या सती अर्थस्याभिधेयस्य शक्तिर्यत्र तया । कयेवेत्याह--सुरज्ज्वेव सुष्ठु शोभना या रज्जूस्तया सुरज्ज्वा, किं०, अत्यर्थदार्यान्वितया गाढदृढतासंयुतयाः पुनः सुरज्ज्वा किं०, सती अर्थशक्तिः प्रयोजननिष्पादनविषयिणी शक्तिर्यत्र तया सदर्थशक्त्याः उदधे उधृत इति ।। ३३॥
विश्वं स्वकीयेन गवां गणेन व्यधायि यैः सूरिसमाजचन्द्रैः ।
कुपाक्षिकोक्तिप्रसरत्तमोभिः
शुद्धाध्वनिध्यानविदग्धमन्धम् ॥ ३४ ॥
यैः सूरिसमाजचन्द्रैराचार्यसभाशशाङ्कः, कुपाक्षिकाणां कुतीर्थिनां उक्तयो वाक्यानि तान्येव प्रसरन्ति विस्तारवन्ति यानि तमांसि ध्वान्तानि तैः, अन्धं शुद्धमार्गानवलोककमिति, विश्वं जगत्, स्वकीयेन गवां गणेन वाचां निचयेन, पक्षे किरणकदम्बकेन; शुद्धाध्वनो विशुद्धमार्गस्य यद् निध्यानं निभालनं तत्र विदग्धं निपुणं, व्यधायि विनिर्ममे ॥ ३४ ॥
मिथ्यात्वधीध्वान्तभृते समस्ते. विश्वौकसि च्छन्नपदार्थसार्थे । विजृम्भितं यद्वचनैः प्रदीपैरिवोत्तमस्नेहदशामहाढ्यैः ॥ ३५ ॥
मिध्यात्वस्य शुद्धदेवगुरुधर्मा श्रद्धानरूपस्य या धीर्बुद्धिस्वद्रूपं यद् ध्वान्तं तेन भृते, समस्ते विश्वौकसि जगद्गृहे, अतएव पुनः किं०, छनः पदार्थानां सार्थो यत्र तत्र च्छन्नपदार्थ
Page #158
--------------------------------------------------------------------------
________________
M
तृतीयः सर्गः।
१३३ साथै, यद्वचनैर्यस्य श्रीआनन्दविमलमूरर्वचनैः, प्रदीपैरिव विज़म्भितं विलसितं दीपरिवाचरितमिति यावत् । अथ यद्वचनदीपकरूपद्वयमपि श्लिष्टविशेषणेन विशिनष्टि--एकत्रोत्तमेषु देवगुरुधर्मादिषु स्नेहो रागः, पुनरुत्तमा दशाऽवस्था, पुनरुत्तमो यो मह उत्सवस्तैराढ्यैः; अन्यत्र स्नेहो घृतादिकः, दशा वतिः, महस्तेजश्च, तैरुत्तमस्नेहदशामहाढयोति ॥ ३५॥ उलूकपाका इव भूरिमिथ्या
धीध्वान्तपात्रे कलिकालरात्रौ । कुपाक्षिकाः पापभटा अटन्तो
यैश्चक्रिरेऽकरिव मीलिताक्षाः ॥ ३६ ॥ उलूकपाका इव घृकार्भका इव, यथाः सूः, तथा यैर्गुरुभिः, कुपाक्षिकाः कुमतयः, मीलिताक्षा मुद्रितनेत्राः, चक्रिरे कृता इति । कीदृशाः, पापस्य भटाः सुभटा इव पापभटास्तत्साहायककृत्त्वात; पुनः किं कुर्वन्तः, अटन्तो भ्रमन्तः, क, कलिकालरात्रौ दुःषमाकालदोषायां, किं०, भूरिमिथ्याधीध्वान्तपात्रे घनतरमृषामतितमोभाजने। अत्र कचित् पाठतः कचिच्चार्थतः सूत्रादिपुनरुक्तताऽस्तीति; तथापि गुर्वादिस्तुत्यधिकारात् स दोषी नावधार्यः श्रीमदायः । यदुक्तं पूर्वाचार्यैः-"सज्झायज्झाणतोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तदोसाओ" ॥ १॥ एवमग्रतोऽपि भावनीयमिति ॥ ३६ ॥ लोकः समस्तोऽपि दुरन्तमिथ्या
वागग्रीष्मभीष्मातपतप्तगात्रः । यैः प्रीतविश्वैर्विदधेऽस्ततापः पानीयवाहैरिव सान्द्रशब्दैः ॥ ३७ ॥
Page #159
--------------------------------------------------------------------------
________________
१३४ विजयप्रशस्त्याम् ।
समस्तः सर्वोऽपि लोकः, कीदृशः, दुरन्ताऽपारा या मिध्यावाग कुमतिवासिता मृषोक्तिस्तद्रूपो यो ग्रीष्म उष्णतुस्तस्य यो भीष्मातपो घोरतापस्तेन तप्तं गात्रमङ्गं यस्य स दुरन्तमिथ्यावागग्रीष्मभीष्मातपतप्तगात्रः, यैर्गुरुभिः, पानीयवाहर्जलदैरिव, कीदृशैः, प्रीतं प्रीणितं विश्वं जगद् यस्तैः, अन्यत्र पीता विश्वा विश्वम्भरा यैस्तैः प्रीतविश्वैः; पुनः कि०, सान्द्रशब्दैर्गभीरनादः, लोकः कीदृशः, अस्ततापो ध्वस्तसन्तापः, विदधे व्यधायीति ॥३०॥
सदर्शनं ज्ञानमथो चरित्रं
रत्नत्रयीयं मनुजैरवापि । यतः पयोधेरिव देववृन्दै
श्चन्द्रश्च लक्ष्मीश्च सुधा च सद्यः ॥ ३८ ॥ सच्छोमनं दर्शनं सम्यक्त्वं ज्ञानं चरित्रं चेतिरनत्रयी, यतः सूरीन्द्राद्, मनुजैरवापि प्राप्ता । दृष्टान्तमत्राह-यथा पयोधेः समुद्राइ, देववृन्दैस्त्रयस्त्रिंशत्कोटिममितामरनिकरैः, चन्द्रः, पुनर्लक्ष्मीश्च, पुनः सुधाऽपि चेति । अत्र देवैर्बहूनां रवानामुपादानेऽप्यत्र तु चन्द्रलक्ष्मीसुधारूपा रबत्रयी त्रित्वसंख्यानुरोधादेवोपाति रहस्यम् ॥३८॥ मरुस्थलीमालवमेदपाट
मुख्येषु देशेषु जनानशेषान् । बोधिप्रदानात् सुखयांबभूवु-.
ये तोयवर्षादिव तोयवाहाः ॥ ३९ ॥ ये गुरवः, मरुस्थलीमालवमेदपाटप्रमुखेषु देशेषु अशेषान् जनान् बोधिप्रदानात् सम्यक्त्वसमर्पणात्, सुखयांबभूवुः
Page #160
--------------------------------------------------------------------------
________________
१३५
तृतीयः सर्गः। सुखिनो व्यधुः, यया तोयवाहा मेघाः, तोयवर्षाद् वारिवर्षणादिति दृष्टान्तः ॥ ३९॥
सत्यं च धर्मश्च तपश्च नष्टा ___ अमी गुणा यत्कलिकालदोषात् । एतन्मयैर्यतिपैः स जहे
त्रयीमयेणात्र तमोऽशुनेव ॥ ४० ॥ सत्यं समीचीनवचनं, धर्मश्च क्षान्त्यादिर्दशविधो यतिधर्मः, तपश्च द्वादशधा, अमी त्रयो गुणाः कलिकालस्य दुःषमाकालस्य दोषानष्टा बभूवुः, स दोषः एतन्मयैः सत्यधर्मतपोमयैः, यैर्यतिपैर्मुनीन्द्रः, जहेऽहारि; अत्र प्राचुर्यार्थे मयत्प्रत्ययः। दृष्टान्तमाहयथा "त्रयीतेजोमयो भानुः" इति वचनात् त्रयीमयेण अंशुना सूर्येण, तमो ध्वान्तमिवेति ॥ ४०॥ प्रकाममेषां समतारसेन
सन्तोषिताऽशेषधरातलेन । चारित्रधर्मत्रिदशगुमो द्राक्
सिक्तः पुनः पल्लवभाग बभूव ॥ ४१ ॥ एषां गुरूणां परमगुरूणां, समतारसेन साम्यसलिलेन, किंलक्षणेन, सन्तोषितं सम्यक् तोषितं अशेष धरातलं भूतलं येन तेन सन्तोषिताशेषधरातलेन, सिक्तः सेचनविषयीकृतः, चारित्रधर्मत्रिदशद्रुमः सुविहितसाधुधर्मकल्पवृक्षः, पुनः पल्लवभाग बभूव, अन्तरा म्लानोऽपि पुनः पल्लवित इति ॥ ४१ ॥
तेपे तपो दुस्तपमस्तपापं ___षष्ठोष्टमाद्यं बहुधा बुधायैः ।
Page #161
--------------------------------------------------------------------------
________________
१३६ विजयपशस्त्वाम् ।
ईर्यादियत्नैर्यतिवृन्दवर्यैः - स्वस्मिन् शरीरेऽपि गतस्पृहैर्यैः ॥ ४२ ॥
यैः पूज्यैः, किं०, बुधाच्यविद्वत्पूज्यैः पुनः किं०, ईर्यादिषु प्रवचनजननीषु यत्रं मनोवचस्तनुसावधानत्वमयनं येषां तैः ईदियनैः; पुनः किं०, यतिद्वन्दे सुविहितसार्ये वर्वरेण्यैः सम्यकमवृत्तिनिष्ठत्वाबायकत्वाचेति, पुनः कि०, स्वस्मिन् निजे शरीरेऽपि नि:स्पृहैरिति; अत एव बहुधा बहुभिः प्रकारैः, अनशनन्यूनोदरतादिभिः, तपः कि०, दुस्तपं हीनसत्त्वः, पुनः कि०, अस्तपापं ध्वस्तपातकं पुनः कि०, षष्ठाष्टमाय तेपे तप्तमितिः अत्रायशब्दादालोचनातपोविंशतिस्थानकतपोवीरस्वामिनिर्मितद्विशतकोनत्रिंशदषष्ठतपोष्टकर्मनाशकतपःप्रमुखबहुतपोब्रहः, यतस्तैः सप्तानां कर्मणां तपस्तु ययोक्तचतुर्यषष्ठाटमादिभिः पूर्ण निर्ममे, नामकर्मणस्तु प्रकृतिमाचुर्यादायुषोऽवसानाच न चके इति श्रुतिः ॥ ४२ ॥ पीयूषपादैरिव पूज्यपादै
स्तपागणव्योम्नि समुद्तैः । श्रीमन्महावीरपरम्पराब्धि
वेला समुल्लासमियाय भूयः ॥ ४३ ॥ यैः पूज्यपादैः पीयूषपादैश्चन्द्ररिव, तपागणव्योनि तपा: गच्छगगने, समुद्गतैरुदयं प्राप्तः सद्भिः, श्रीमतो महावीरस्य परम्परारूपाऽन्धिवेला भूयो बहु, समुल्लासंइयाय प्राप्त्यर्थः ॥४३॥
कल्पांहिपाङ्क्रमिवात्यतुच्छ___च्छायं महानन्दफलं ददानम् ।। संस्थाप्य पट्टे विजयादिवाना
Page #162
--------------------------------------------------------------------------
________________
दतीयः सर्गः ।
भिधानमाचार्यमहार्यधैर्यम् ॥ ४४ ॥
कल्पांड्रिपस्य कल्पपादपस्य अङ्कुरमिव, अत्यतुच्छच्छाये अतिसम्पूर्णशोभं, पुनः किं कुर्वाणं, महानन्दफलं मोक्षफलं ददानं, पक्षे अत्त्यतुच्छा छाया नातपरूपा यत्र तं, पुनः, महानन्दो महान् प्रमोदो यस्मात् तद् महानन्दं, महानन्दं च तत् फलं चेति कर्मधारये महानन्दफलम्, ददानमित्यत्र प्रयोज्यम्, खे पट्टे विजयादिदानाभिधानं आचार्य श्रीविजयदानमूर्ति, संस्थाप्य निवेश्य, किं०, अहार्ये हर्तुमशक्यं धैर्ये यस्य तमहार्यधैर्यमिति ॥ ४४ ॥
वर्षे रसाङ्केषुहिमांशुसङ्ख्ये समाधिभाजः शमिसिन्धुरास्ते ।
भूमेरलंचकुरमर्त्यलोकं
१२७
द्वीपात् परं द्वीपमिवांशुमन्तः ॥ ४५ ॥
रसाः षद्, अड्डा नव, इषवः पञ्च, हिमांशुः एकवेत्येषां बामतो मिलितानां पञ्चदशशतोत्तरषण्णवतिरूपा १५९६ सङ्ख्या यत्र तत्र रसाङ्केषुहिमांशुसङ्घये, वर्षे, समाधिभाजः शुभध्यानवन्तः, ते शमिसिन्धुरा मुनिकुञ्जराः श्रीआनन्दविमलसूरयः, भूमेर्मनुष्यलोकाद्, अमर्त्यलोकं देवलोकं, अलंचक्रुर्नवभिरुपवासैरहम्मदाबादद्रङ्गपार्श्ववर्त्तिनि निजामपुरे चेति शेषः । दृष्टान्तो यथा, द्वीपात् परमन्यं द्वीपं अंशुमन्तः सूर्या इवेति ॥ ४५ ॥ युग्मव्याख्या ॥
सांप्रतमवसरसङ्गतान् पूज्यपट्टमतिष्ठितान् श्रीविजयदानस्रीनुपश्लोकयति कविः— गङ्गासुधाम्भोषिसुता यदंद्वि
१९
Page #163
--------------------------------------------------------------------------
________________
बिजयप्रशस्त्याम् ।
वाग्दृक्षु पूज्यामलपंशलासु ।
संचक्रमुर्यन्मिलिताखिमाखऽनश्यन्नघव्याधिधनार्तयो द्राक् ॥ ४६ ॥
गङ्गासुधे प्रसिद्धं, अम्भोधिसुता लक्ष्मीरेतास्तिस्रः, यदहिवारदृक्षु येषां श्रीविजयदानमूरीणां अंही पादौ, वाग् वाणी, ग् दृष्टिस्तासु यद्दिवाग्दृक्षुः किं०, पूज्यामलपेशलासु महनी - यनिर्मलमनोहरासु, क्रमेणेदं विशेषणत्रयं स्थानकत्रिके स्थापनीयम्; संचक्रमुर्मिलिताः । कथमवगतमिति चेत् । उच्यते । यस्मात्कारणात् इमासु अंहिवागदृक्षु, मिलितासु सतीषु, अघानि पापानि, व्याधय भावरोगाः, धनार्तयथ निर्धनत्वपीडाः अघव्याधिधनार्तयः पातककर्मामयदारिद्र्याणिः अनश्यनेशुः । अंड्रिपूजकानां वाकश्रोतॄणां दृशा विलोकनविषयीकृतानां मानवानामिति शेषः ॥ ४६ ॥
२३८
भुस्तमां ये तमसां प्रपञ्च
मपि स्खलन्तस्तपना नवीनाः ।
पद्मोत्सवायोदयमप्यवाप्ता
मुदेऽभवन् कौशिकचक्षुषां यत् ॥ ४७ ॥
ये पूज्याः, तमसां अन्धकाराणां पापानां वा प्रपञ्चं विस्वारं, स्खलन्तोऽपि नाशयन्तोऽपि, नवीनास्तपना नूतनाः सूर्याः, बभ्रुस्तमां भृशं भान्ति स्मेत्यन्वयः । पश्चिमार्द्धेन तदेव दृढयति-यदिति यस्माद्धेतोः, पद्मानां पङ्कजानां पद्माया लक्ष्म्याचीत्सवाय, उदयं आप्ताः प्राप्ता अपि कौशिकचक्षुषां घूकनयनानां मुदेऽभवन्नासन्; अयं विरोधः, तत्परिहारस्तु “कौशिकः शुक्र
Page #164
--------------------------------------------------------------------------
________________
तृतीयः सर्गः। घूकयोः" इति श्रीहेमाचार्यवचनात् कौशिकचक्षुषां शक्रलोचनानामिति ॥४७॥
ये नाम्बुधित्वेन सतां विशन्ति ___ स्वान्ते श्रियो जन्मकृतोऽपि पूज्याः। दोषाकरोऽप्याप्तसरस्वतीनां
येषां न तोषाय बभूव दृष्टः ॥ ४८ ॥ ये पूज्याः श्रियो लक्ष्म्याः शोभाया वा, जन्मकृतः उत्पादका अपि, शब्दच्छलात् श्रियो जनका अपि, अम्बुधित्वेन समुद्रतया, सतां वान्ते चित्ते, न विशन्ति न प्रतिभान्तीत्यर्थः । तद्धेतुमेवाह-आप्ता प्राप्ता सरस्वती वाक्, पक्षे आप्ताः सरस्वत्योनद्यो यस्तेषां आप्तसरस्वतीनामपि दोषाणां मदमोहमायाममतामत्सरादीनां आकरो निकरः दोषाकरः, पक्षे चन्द्रः, दृष्टः, तोषाय तुष्टये, न बभूवेति समुद्रताऽभानकारणमित्याकूतम् ॥४८॥ मन्यामहे नेति विचार्य राज्ञो
यानप्यवाप्तोत्तमराज्यलीलान् । दोषागमं दागहरन्नपीताः
सर्वज्ञचूडामणिताममी यद् ॥ ४९ ॥ .. अवाप्ता उत्तमस्य राज्यस्य तपागच्छसाम्राज्यस्य लीला यैस्तान् अवाप्तोत्तमराज्यलीलानपि, यान् गुरुन्, राजश्चन्द्रान्, न मन्यामहे, वयमिति यावत् । किं कृत्वा, विचार्य विमृश्य, कथमिति तदेवाह-यदिति यतः,अमी गुरवः सर्वत्रचूडामणितां सर्वेच ते झाः प्राज्ञाचेति कर्मधारयस्तेषु सर्वश्रेषु सकलपण्डितेषु चूडामणितां शिरोमणितां, पक्षे सर्वज्ञस्य महादेवस्य चूडामणिता,
Page #165
--------------------------------------------------------------------------
________________
विजयमनस्याम् । इताः माता अपि, द्राक् शीघ्र, दोषाणां आगम, चन्द्रपक्षे दोषाणा रात्रीणां आगमं दोषागम, अहरन् हरन्ति स्मेति ॥ १९ ॥ येषां प्रतापैरतितीव्रतापै
रहर्निशं पेशलपुण्यभाजाम् । कथं तुलामेति मयूखमाली ... प्रतापवान् वासरभाग एवं ॥ ५० ॥
पेशलपुण्यभाजां अद्भुतभाग्यवतां, येषां गुरूणां, प्रतापैः, कीदृशैः, अतितीव्रतापैः परासह्यत्वेनातितापवद्भिः, कथम् , अहर्निशं दिवानिश, दिवसेऽपि निशायामपि चेति यावत् , मयूखमाली भानुमाली, सूर्य इति यावत् , कयं तुलामेति कथं तुल्यः स्यात् । तत्र हेतुमाह-सूर्यः किं० वासरभागे एव दिवसांश एव, प्रतापवान् प्रतापीत्यर्थः ॥ ५० ॥
कामं स कामः सुभगवरूप
श्रिया न यैः साकमवाप साम्यम् । महाव्रतिप्रीतिमुरीचकार .
न यः स्वयं मूर्तिगुणैः प्रहीणः ॥ ५१ ॥ काममत्यर्थं स कामः कन्दर्पः सुभगत्वरूपयोः सौभाग्यसौन्दर्ययोः श्रिया लक्ष्म्या, यैः पूज्यैः साकं, साम्यं तुल्यतां, नावाप न प्राप्तवान् । तत्कारणमेव व्यनक्ति-यो महाव्रतिभिमहामुनिभिरुत्तमसाधुभिरिति यावत् , पक्षे महातिना हरेण प्रीति, न. उरीचकार नाहीचक्रे, च पुनः, स्वयं यः कीदृशः, मूर्णिगुणैः महीणो रहितोऽनङ्गत्वादिति ॥५१॥ .. .न ब्रह्मचार्यप्यजनिष्ट तुल्यः
Page #166
--------------------------------------------------------------------------
________________
वतीयः सर्गः। शीलेन यैर्जह्वसुतासुतोऽत्र । यतो यमध्वंसिनि बद्धरागो
बभार यस्तारकवैरितां च ॥ ५२ ॥ ब्रह्मचार्यपि जसुताया गङ्गायाः सुतो गारयः, शीलेन ब्रह्मचर्येण यैर्गुरुभिः तुल्यो नाजनिष्ट न जातवानिति । कथं न जात इति तनिमित्तमेवाह-यतो हेतोर्यो गाङ्गेयः यमध्वंसिनि हरे बद्धरागः, वर्तत इति शेषः । गुरुस्तु यमध्वंसिनि पञ्चमहाव्रतलोपिनि वद्धरागो नेति, च पुनः, यःतारकेण दैत्येन वैरितां बभार, गुरुस्तु तारकाः संसारसागरतारका अर्थात्तीर्थङ्करादयस्तैः सह वैरितां न दधाति तदाराधकत्वादिति ॥५२॥ येषां मुखाम्भोरुहमडुताय
बभूव भूयो विदुषां न केषाम् । यत् पश्यतामेव जगज्जनाना
मामोदमक्षणोः प्रददे प्रकामम् ॥ ५३ ॥ येषां गुरूणां, मुखाम्भोरुहं. वदनकमलं, केषां विदुषां पण्डितानां, नाद्भुतायाभूत् ; अपि तु सर्वेषामिति । तद्धेतुमेवाह-यतः पश्यतामेव जगजनानां विश्वलोकानां, अक्ष्णोर्नेत्रयोः, प्रकाममतिमात्रं, आमोदं हर्ष गन्धं च प्रददे ददौ, अन्यत्तु कमलं घ्राणस्य गन्धं दत्ते, न नेत्रयोरित्यद्भुतहेतुः ॥ ५३॥ येषां गतौ सङ्गतकौशलायां
केषां मनः कौतुकमाप नेति । गजोक्षहंसा गतिपण्डितले.
Page #167
--------------------------------------------------------------------------
________________
विजयंप्रशस्त्याम् । . प्यात्तेऽनया यद्गतिपण्डितास्ते ॥ ५४॥ येषां पूज्यानां गतौ, किं०, सङ्गतं मिलितं कौशलं मावीण्यं यस्यां तस्यां सङ्गतकोशलायां, केषां मनः कौतुकं नाप, सर्वेषामपि मनः कौतुकं प्राप। कथमिति तदेवाह-यत् गजोक्षहंसाः कुअरषभमरालाः, गतिपण्डितत्वे गमनचातुर्ये, अनया यद्गुरुगत्या, आत्ते गृहीतेऽपि, ते त्रयः पूर्वोक्ता गतिपण्डिताश्चतुरगमना दृश्यन्ते । तेनाहो गुरुगतेः कौशलं, येन परगतिग्रहणेऽपि तेषां गतिस्खलना न जातेति भावार्थः ॥ ५४ ॥
येषां प्रभूणां प्रबलान् प्रतापान् ___ कथं विदध्मः सदृशोऽशनिभ्याम् । चिरप्रभैयविदधेऽत्र गोत्रो
लासः शुभानां यशसां निवासः ॥ ५५ ॥ येषां प्रभूणां गच्छस्वामिना, प्रबलान् प्रतापान , अशनिभ्यां । विद्युद्वज्राभ्यां, सशस्तुल्यान्, कयं विदध्मः कुर्मः। तदकरणे कारणमाह-चिरं बहुकालं प्रभा येषां तैथिरमभैः,यैः प्रतापः, गोत्रोल्लासो विदधे, कीदृशः, शुभानां भव्यानां यशसां निवासः, सत्कीर्तिस्थानमिति यावत् । अब चिरपरित्येननाचिरमभाया विद्युतः, गोत्रोल्लास इत्यनेन गोत्रच्छिदः पर्वतभिदो वज्रस्य प दोषदुष्टता स्पष्टीकृतेति ॥ ५५ ॥ सामोदपद्मोत्सवकारिपादै
र्गा इवाम्भोजकरैः कृता यैः। आल्हादितच्छेकमनेकवारमेकादशाङ्गीप्रतयो विशुद्धाः ॥ ५५ ॥
Page #168
--------------------------------------------------------------------------
________________
इतीयः सर्गः। १५ यः पूज्यैः, किं०, अम्भोजकरैः कमलहस्तैः, कोमलकरत्वादिति, पक्षे अम्भोजकरैः सूर्यैरिव, कीदृशैः, एकत्र सामोदः सहर्षः पद्माया लक्ष्म्या उत्सवः, अन्यत्र सामोदः सगन्धः पद्मानां पङ्कजानां उत्सवः, तत्कारिणः पादाश्चरणा एकत्र, अन्यत्र तु पादाः किरणा येषां तैः सामोदपद्मोत्सवकारिपादैः; मार्गाः पन्थानः, यथा तथा एकादशाङ्गीप्रतयः उपलक्षणत्वाद् द्वादशोपाङ्गपुस्तका अपि विशुद्धा दूषणवर्जिताः कृताः, कथं, आहादितच्छेकमिति क्रियाविशेषणम् । पुनः कथम् , अनेकवारमिति पुनः पुनर्न सकृदेवेति तत्त्वम् । अत्रायमाशयः--यथा सूयर्मार्गाः शुद्धाः क्रियन्ते, तथा यैः श्रीपूज्यैरेकादशाङ्गद्वादशोपाङ्गप्रतयः शुद्धाश्चक्रिरे । वारं वारमिति शेषः ॥ ५६ ॥
अभङ्गवैराग्यतरङ्गरङ्गा
आजन्म पूज्या विकृतीय॑मुञ्चन् । पञ्चापि पञ्चेषुमदप्रपञ्च
पञ्चाननक्रीडनकन्दरा ये ॥ ५७ ॥ __ ये पूज्याः, किं०, अभङ्गोऽक्षयो यो वैराग्यतरङ्गः वैरङ्गिकत्वकल्लोलस्तत्र रङ्गो रक्तता येषां ते अभङ्गवैराग्यतरङ्गरगाः, आनन्मेत्याभवं, जीवितावधीति यावत् । पश्चापि दुग्धदाधिगुडपक्का
तैलाख्या विकृतीः, किं०, पश्चेषोः स्मरस्य मदनपश्चो गर्वविस्तारः स एव पञ्चाननः केसरी तत्क्रांडनाय कन्दरा इव कन्दरा गुहास्तद्ग्रहणे हि तत्प्रादुर्भावादिति, व्यमुश्चन् न नगृहुः, इति ये पञ्चविकृतीस्त्यक्तवन्त इति भावः॥ ५७ ॥ __यान् श्रीसुधर्मप्रतिरूपरूपान्
शुद्धस्वरूपान् सुगुरूनवाप्य ।
Page #169
--------------------------------------------------------------------------
________________
_ विजयशस्त्ताम् । .. मेने जनैर्जन्म निजं कृतार्थ
दुःस्थैरिवार्थान् फलवत्पुमर्थान् ॥५॥ यान सुगुरुन् , किं०, श्रीसुधर्मा बर्द्धमानस्वामिपट्टधरस्तमतिरूपं तत्तुल्यं रूपं येषां तान् श्रीसुधर्मप्रतिरूपरूपान् , पुनः कि०, शुद्धं निर्मलं खरूपं स्वभावः शीलं वा येषां तान् शुद्धखरूपान् , अवाप्याधिगम्य गुरुत्वेन प्राप्येति यावत् , जनैनिजं जन्म कृतार्य सार्थकं, मेने अमानि । दृष्टान्तोऽत्र यथाफलवन्तः सफलाः पुमर्याः पुरुषार्था धर्मकाममोक्षलक्षणा येभ्यस्तान् फलवत्पुमर्यान् , अर्थान् धनानि, प्राप्य, दुःस्यैर्दरिद्रैः, जावतारः फलेपहिर्मन्यते तथेति ॥ ५८ ॥
ऐश्वर्यवाल्लम्यपृथुप्रतापान्
निरीक्ष्य येषां वरभूरितीवान् । श्रीकण्ठवैकुण्ठकठोरपादा
गोपत्वमाप्तास्त्रपितास्त्रयोऽत्र ॥ ५९ ॥ येषां गुरूणां, ऐश्वर्य ईश्वरता, वाल्लभ्यं विश्ववल्लभता, पृथुविशालो यः प्रतापस्तेजस्तान् ऐश्वर्यवाल्लभ्यपृथुप्रतापान, कीरशान्, वरभूरितीव्रान्, विशेषणत्रयमिदं विशेष्येषु त्रिष्वनुसन्धेयम् । तथाहि-ऐश्वर्य कि०, वरं वरीयः, वाल्लभ्यं किं० भूरि यूयः, प्रतापः किं० तीव्रचण्डश्चेति निरीक्ष्य, श्रीकण्ठो महादेवः, बैकुण्ठो वासुदेवः, कठोरपादः सूर्यश्चैते त्रयोऽपि किं त्रपिता लज्जिताः, इतो जातायें; गोपत्वं हरे पशुपतित्वात् , विष्णौ गोकुलरक्षकत्वात् , रवौ गवां किरणानां पतित्वाच; अत्र शब्दछलत्वात् गोपत्वं पशुपालकत्वं वल्लवत्वमिति यावत्, अत्र जगति, आताः पापरिवि.॥ ५९ ॥
Page #170
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
चेतश्चमत्कार मनोज्ञवर्णपुष्पैकपात्रं गुणत्रल्लुलाम । दामेव मूर्ध्ना वहतां यदाज्ञां
स्वयंवरा श्रीः सकला समागात् ॥ ६० ॥ चेतश्चिचं चमत्करोतीत्येवंशीलं चेतश्चमत्कारि, पुनः किं०, मनोज्ञवर्णपुष्पैकपात्रं मनोझो वर्णो यशस्तदेव पुष्पं प्रसूनं तस्यैकमद्वितीयं पात्रं भाजनं, पुनः किं०, गुणवल्ललाम गुणवतां लाम तिलकं तैरेव मूर्ध्नि धार्यत्वात्, दामेव मालावत्, यदाज्ञां येषां पूज्यानामादेशं, मूर्ध्ना वहतां पुंसां, सकला सर्वा, श्रनादिलक्ष्मीः, स्वयंवरा सम्मुखा, समागात् प्राप्तेति ॥ ६०॥ अथावदातद्वारेण विशेषतस्तानेव वर्णयतितेऽन्येद्युरार्यास्तपगच्छधुर्या
हंसा इवाम्भोरुहिणीं विहारैः ।
मरुस्थली मञ्जु विभूषयन्तः
स्वयं समेता अजमेरुदुर्गम् ॥ ६१ ॥
१४५
अन्येकदा ते आर्याः पूज्याः श्रीविजयदानसूरयः, किं० तपगच्छस्य धुर्या वृषभा इव तद्भारनिर्वाहकत्वात्, अम्भोरुहिणीं नलिनीं, हंसा इव मरुस्थलीं मरुदेशभूमिं, मञ्जु यथा भवति तथा साध्विति यावत् विभूषयन्तोऽलंकुर्वन्तस्सन्तस्तन्मध्ये भूत्वेति यावत्, क्रमेण स्वयमात्मना, अजमेरुदुर्गे लौकिकपुष्करतीर्थपार्श्वगं समेता आजग्मुः ॥ ६१ ॥
9
तत्राऽथ लुम्पाकमतानुरक्तालोकाः सदध्वाऽमृतरश्मिकोकाः ।
Page #171
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
क्लिष्टाशयव्यन्तरदेवदुष्ट. मदीदृशन् वासगृहं गुरूणाम् ॥६२॥
अथ तत्र तस्मिन् दुर्गे, लोकाः, कीदृशाः, लुम्पाकानां जिनप्रतिमारीणां मते लुकाख्यकुमते अनुरक्ता रागिणः, पुनः कीदृशाः, सन् सत्यो योऽध्वा मार्गः स एवाऽमृतरश्मिश्चन्द्रमास्तत्र कोकाश्चक्रवाकास्तत्पराङ्मुखत्वादिति । अत एव ते किं चक्रुरित्याह-क्लिष्टः क्रूर आशयोऽभिप्रायो यस्यासो व्यन्तरजातीयो देवश्चेति कर्मधारयस्तैन क्लिष्टाशयव्यन्तरदेवेन दुष्टं दृषितं दुष्टव्यन्तराधिष्ठितमिति यावत् , वासगृहं निवासस्थानं, गुरूणां तेषामिति शेषः, अदीदृशन् दर्शयामासुः, अतिद्वेषबुद्ध्येति ध्येयम् ।। ६२ ॥
ते ब्रह्मचारित्वपवित्रगात्राः ___ साक्षाद्विशाखा इव शक्तिमन्तः । सौधेऽथ तस्मिन् परिवारयुक्ताः
सक्ताः सुधर्माध्वनि तस्थिवांसः ॥ ६३ ॥ ते गुरवः, किं०, ब्रह्मचारित्वेन जगत्पतीतन ब्रह्मचर्यगुणेन पवित्रं गात्रं येषां ते, पुनः किं०, शक्तिः सामर्थ्यमायुधविशेषो वा तद्वन्तः शक्तिमन्तः । इवोत्प्रेक्ष्यते-साक्षात प्रत्यक्षाः, पिशाखाः कार्तिकेया इवेति, पुनः किं०, परिवारयुक्ताः स्वपरिकरपरिवृताः, पुनः किं०, सुष्ठु शोभनो धर्मः सुधर्मस्तस्य मुधर्मस्याथवा सुधर्मणः पञ्चमगणधरस्य योऽध्या मार्गस्तत्र मुधर्माध्वनि, सक्ता आसक्तास्तत्पट्टपरम्पराचारचारिण इति, तस्मिन् सोधे तस्थिवांसः स्थिताः ॥ ६३ ॥
काकोदरस्येव दुरादरस्य
Page #172
--------------------------------------------------------------------------
________________
तृतीया.सर्गः।
१४७ जिह्मां गतिं व्यन्तरदैवतस्य । तस्याऽनिशोद्वेगकरी निशम्य
ते चिन्तयांचक्रुरवऋचित्ताः ॥.६४ ॥ तस्य व्यन्तरदैवतस्य, कीदृशस्य, काकोदरस्येव पनगस्येव, किंविशिष्टस्य, दुरादरस्य दुष्ट आदरो यस्य तस्य, जिह्मां गति वक्रचेष्टां मनुष्यमारणलक्षणां, कि०, अनिशं नित्यमुद्वेगकरीमनिशोदेगकरी, निशम्य श्रुत्वा, कस्यचित् साधुलोकस्य मुखादिति शेषः । ते पूज्याः किं०, अवक्रचिताः सरलाशयाः, चिन्तयांचकुरिति विमर्श कृतवन्तः, तदेवाओतने वृत्ते माह ॥६॥ पय प्रवाहादिव हव्यवाहः .......
पुण्यप्रभावाद् भवितैष शान्तः। मवेति सुप्तेषु मुनिष्वथो ते
तस्थुः शुभध्यानविधावधानाः ॥ ६५ ॥ पयसः पानीयस्य प्रवाहात् , इव यथा, हव्यवाहो वहिः, तथा पुण्यप्रभावात् सुकृतमाहात्म्यात् , एष व्यन्तरः, शान्तोभविता भावीत्यन्वयः। इति मत्वा मुनिषु शेषान्तेवासिषु, सुप्तेषु आवश्यकपौरुषीक्रियाकरणानन्तरमिति शेषः। ते गुरवः किं चकिरे ?, तदाह-शुभध्यानस्य धर्मध्यानस्य विषायां विधाने शुभध्यानविषायां अवधानं समाधानं येषां वे शुभध्यानविषाऽवधानाः सन्तः, तस्थुनिविष्टाः, सरिमन्त्रध्यानमेवाकापुन तु निद्रामिति तत्त्वम् ।। ६५ ॥ तेषां पुरस्तात् प्रसभं प्रजल्पन्
हसन् रुदन् भूमितले पतंश्च ।
Page #173
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
क्रीडल्लुठन् बाल इवातिमात्रं
स व्यन्तरः प्रादुरभूत् तदानीम् ॥ ६६ ॥
2
तदानीं तत्र रात्रौ तेषां गुरूणां पुरस्तादग्रतः प्रसभं हठात् प्रजल्पन ब्रुवन्, पुनर्हसन् अट्टहासं मुञ्चन्, पुन: रुदन् आक्रन्दं कुर्वन्, पुनर्भूमितले पृथिव्यां पतन्, पुनः क्रीडन् केलिं सृजन्, पुनलुठन् भूमिशरीरयोः सङ्घट्टादिना बालवच्चेष्टितमातन्वन् स व्यन्तरः प्रादुरभूत् प्रकटीबभूवेति ॥ ६६ ॥ तैस्तौर्वनोदैः पवनैरिव खःशैलानकम्प्रान् सुगुरून् प्रणम्य ।
स्वप्नान्तरायात इव प्रचेता
१४८
अन्तर्दधे व्यन्तर एष सद्यः ॥ ६७ ॥
पवनैर्वायुभिः, स्वःशैलान् मेरूनिव, तैस्तैर्देवविनिर्मितैर्विनोदैर्जल्पनहस नरोदनादिभिः, अकम्पान्निश्चलान्, तान् सुगुरून् प्रणम्य नत्वा, एष व्यन्तरः कीदृशः, प्रचेता हृष्टमनाः सन्, स्वान्तः सुप्तज्ञानमध्ये, आयात इव अन्तर्दधेऽदृश्योऽभूदिति ॥ ६७ ॥
अथ प्रभाते सुखिनः स्मितास्यान् पद्मानिवैतान् श्रमणानुदीक्ष्य ।
अहो ! अमीषां महिमा महीयानेवं स्तुवन्ति स्म गुरूंश्च पौराः ॥ ६८ ॥
अथाधुना, प्रभाते जाते सति एतान् श्रमणान् किं०, सुखिन: कुशलिनः पुनः किं०, पद्मानिव कमलानिव, स्मिता - स्वान् स्मेराननान्, “पद्मोऽब्जसङ्घययोः" इति श्रीहेमचन्द्रा
Page #174
--------------------------------------------------------------------------
________________
तृतीयः सर्गः।
चार्यधुर्योक्तेः पप्रशन्दस्य पुंनपुंसकलिङ्गत्वात् पनानित्यदुष्टम् । उदीक्ष्य दृष्टा, अहो इत्याश्चर्ये, अमीषां महामुनीनां, महिमा महीयानतिमहान् , एवं च पुनर्गुरून् पौरा नगरनिवासिलोकाः प्रतिमारयोऽपि, स्तुवन्ति मेति ॥ ६८ ॥
तेषां गुरूणाममुतः प्रभूत
प्रभावतः सर्वजनास्तदानीम्। जहर्षुरुत्कर्षितचित्तचेष्टाः - पानीयवाहादिव केकिनोऽमी ॥ ६९ ॥
तेषां गुरूणां अमुत इत्येतस्मात् प्रत्यक्षं वीक्षितात् , प्रभूतप्रभावतोऽतिभूरिमाहात्म्यतः, तदानीं तत्रावसरे, व्यन्तरविनाभावे सति सर्वजना निखिललोकाः, जहर्षहृष्टा बभूवुः । कि०, उत्कर्षिता प्रकर्षवती चित्तचेष्टा मनोवृत्तिर्येषां ते उत्कर्षितचित्तचेटाः, इव यथा, केकिनो मयूराः, पानीयवाहाजलधरात्, इति दृष्टान्तः ॥ ६९॥ - भोगीव निर्मोकमथान्धिताक्षं
. खं खं मतं क्लिष्टगति प्रहाय । स पौरवर्गः सविधे गुरूणां
विशुद्धमध्वानमुपाददे द्राक् ॥ ७० ॥ भोगी सर्पः, यथा निर्मोकं कञ्चुकं, तथा स्वं स्वं मतं निर्ज निजं कुमतं, किं०, अन्धिते मुद्रिते सन्मार्गाऽनवलोकनत्वात् अक्षिणी नयने येन तदन्धिताक्ष, पुनः किं०, क्लिष्टा क्लेशमयी गतिर्यस्मात्तत् क्लिष्टगति, प्रहाय हित्वा, स पौराणां नागराणां वर्गो वजः, अथेदानी, तेषां गुरूणां, सविधे समीपे, विशुद्धमध्वानं सम्यग् मार्ग, उपाददेशीकुरुते स्मेति ॥ ७० ॥
Page #175
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । बहूनि बिम्बानि जिनाधिपानां
प्रतिष्ठयन्तः पुरपत्तनादौ । श्रीगूर्जरत्रामरुमेदपाटा
वन्त्यादिदेशेषु महामहोभिः ॥ ७१ ॥ . जिनाधिपानां तीर्यकृतां, बहूनि बिम्बानि प्रतिमाः, पतिष्ठयन्तः स्थापनाविषयीकुर्वन्तः सन्तः । केत्याह-पुरपत्तनादौ पुरं नगरं राजनगरादि, पत्तनं रवयोनिः, अत्रादिशब्दाद् बन्दिरद्रोणमुखसंनिवेशादिग्रहस्तेन तदादौ तत्प्रमुखे पुरपत्तनादौ, अथवा पुरं च यत् पत्तनमणहिल्लपाटकनगरं तदादौ पत्तनभमुखनगरादाविति । अथ केषु देशेष्वित्याह-श्रीगूर्जरत्रामरुमेदपाटावन्त्यादिदेशेषु तत्र गुर्जरत्रा गर्जरदेशधरा सप्तदशसहखग्राममण्डिता, मर्मरुस्थली नवकोहमयी चेति, मेदपाटश्च दशसहस्रनाममण्डितः, अवन्तिदेवध द्विनवतिलक्षप्रामाभिरामोमालवाभिधान इत्यादिदेशेषु । कैरित्याह-महामहोभिर्महोत्सवैरिति । तत्र तावद् गूर्जरबायां पत्तननगरगन्धारबन्दिरमहीशानकविश्वलनगरादित, मरुस्थल्यां च नारदपुर्य्या शिवपुर्या चेति, मेदपाटे चाघाटपुरचित्रकूटदुर्गादौ चेति, मालवदेशे च स्वानूचानपदवासिस्थाने दध्यालयपुरे चेत्यादिस्थानेषु तैः प्रतिष्ठाः कृता इति वृदयवादः। पुनः किं कुर्वन्त इत्यग्रेतने हचे माह ॥ ७१॥ द्यामब्जिनीशा इव दीप्तिमन्तः ।
प्रोल्लासयन्तः पृथिवीं खपादैः। . ते बोधयन्तो जनपद्मपति
पूज्या विजबिरमत्र लोके ॥ ७२ ॥
Page #176
--------------------------------------------------------------------------
________________
तृतीयः सर्गः।
१५१ घामाकाशं, अब्जिनीशाः सूर्या इव, किं०, दीप्तिमन्तस्तेजखिनः, तथा पृथिवीं स्वपादेर्निजक्रमैः, मूर्यपक्षे पादैः किरणैः, पोल्लासयन्तः, पुनः किं कुर्वन्त इत्याह-जनपद्मपति लोककमलावली, बोधयन्तः सन्तस्ते पूज्याश्चिरं चिरकालं, अत्र लोके जगति, विजहर्विहारं चक्रुः । इति युग्मव्याख्या ॥७२॥ रथाङ्गः पूर्वाद्राविव लसति भानोर्युतिभरे ___ पतत्यम्भःपूरे भुवि जलमुचां चातक इव । चकोरः शीतांशोरुदय इव मार्गे मखभुजां
विहारे सत्येषामिह जगति लोकः प्रमुमुदे ॥७३॥ . पूर्वाद्रावुदयाचले, भानोर्युतिभरे लसति सति, रथाङ्गः कोक इव पुनर्भुवि भूमौ, जलमुचां मेघाना, अम्भःपूरे पतति सति, चातक इव बप्पीह इव; पुनर्मखभुजां मार्गे गगने, शीतांशोश्चन्द्रस्य, उदये सति, चकोरो यथाः तथेषां श्रीविजयदानमुरीणां विहारे सति जगति लोकः प्रमुमुदे मुदित इति । शिखरिणीतमिदं “रसैरुदैश्छिन्ना यमनसभला गः शिखरिणी" इति लक्षणात् ।। ७३ ॥ . . . . . . . . . . . . . . . . . . . . . . .
इतीति स्पष्टम् ॥ इति सुविहितसभासार्वभौमसमानसकलपण्डितमण्डलीमौलिमोलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितश्री. विद्याविजयगणिविनेयाणुवाचकश्रीगुणविजयगणिविरचितायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां
तृतीयः सर्गोऽर्थतः समर्थितः ।
Page #177
--------------------------------------------------------------------------
________________
___ अहम्
अथ चतुर्थः सर्गः।
अथ श्रीविजयदानसरिपट्टधरस्य श्रीहीरविजयसूरीश्वरस्य जन्माधवदातवर्णनवर्यस्तुर्यः सर्गः भारभ्यते, तथाहि
अथ धात्रीलताधात्रीरुहः स्फारफलप्रदः । गूर्जरत्राभिधो देशः क्रीडाक्रीड इव श्रियः ॥१॥ धात्रीलताया भूमिबल्लेः धात्रीरुहो वृक्षस्तदापारत्वात् , पुनः कि०, स्फारफलमदो विस्तीर्णफलदाता, गजेरत्राभियो देशोऽस्तीति शेषः । इबोल्सेक्ष्यते-श्रियः कमलायाः क्रीडाकांडः फेलिकरणोबानं अस्तोकैलक्ष्मीवल्लोकेरुपचर्यमाणत्वात् ॥१॥
पत्रमिः श्लोदेवमेव विशिनष्टियं विमानगृहं कल्पद्रुमं निर्जरमानवम् । दृष्ट्वा त्रिविष्टपं द्रष्टुं न स्यादुत्कण्ठितं मनः ॥२॥ यं-देखें, रमा त्रिविष्टपं खर्ग, द्रष्टुं बीक्षित, उत्कण्ठितं मनान स्याद् वृणामिति योगः । अयोपयोः साम्यमतिपादकविशेपणान्याह-विमानराइमिति "विमानं देवतायानं सप्तभूमिगृहेऽपि च" इत्यनेकार्यवचनात् देशपले विमानानि सप्तभूमिकानि गृहाणि यत्र तम् , स्वर्गपक्षे विमानाम्येव गृहाणि यत्र तत् : पुनर्य कि०, कल्पद्रुमं कल्पाः कल्पद्रुमा इव दुमा यत्र तं, अथवा कल्पद्रुम कल्पवृक्षतुल्यं लोकानां कल्पितफलपूरकत्वात् , स्वर्गपक्षे कल्पालुमा यत्रतत् । पुनः कि०, निर्जरमानवं देशपक्षे विशिष्टरूपादियस्वात् निर्जराइव मानवा यत्र तं, स्वर्गपक्षे निर्जराणां मा लक्ष्मीस्तया नवं नव्यं प्रभूततरस्फातिमत्वादिति ॥२॥
Page #178
--------------------------------------------------------------------------
________________
_
चतुर्थः सर्गः। यत्र धर्मार्थकामानां संगमः पुंसु दृश्यते ।
श्रेयोलक्ष्मीकलाकेलियुतास्ते यदहर्निशम् ॥३॥ यस्मिन् देशे, धर्मार्थकामानां त्रयाणां पुरुषार्थानां, संगमः पुंसु लोकेषु, दृश्यत इत्यन्वयः । अथ विशेषणत्रयेण तमेव स्पष्टयति-यदिति यस्मात् कारणात, ते लोकाः, अहर्निशं दिवानिशं नित्यमिति यावत् , श्रेयः पुण्यं मालं वा, लक्ष्मीः पया शोभा वा, कलाकेलिः कन्दर्पः कलानां वा केलिीला तयुक्ताः सन्तीति ॥३॥
श्रीकण्ठश्रीपतिश्रीदान यजनान् विदधे विधिः। यदीश्वरतमोध्वंसिधनदत्वयुता अमी ॥ ४ ॥
यद्देशीयजनान् विधिविधाता, श्रीकण्ठश्रीपतिश्रीदान् हरहरिधनदान , विदधेऽकरोदित्यन्वयः । अथ विशेषणत्रयेण तानेव स्थापयति-यदीवरेति अत्र 'द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं संबध्यते' इति न्यायात् विशेषणत्रयान्ते स्थितस्य त्वशब्दस्य प्रत्येकं संबन्धः कार्यः, तेन ईश्वरत्वतमोचंसित्वधनदत्वयुता इति व्याख्येयम् । तत्रेश्वरत्वं धनित्वं हरत्वं च, तमोवंसित्वं तमसः पापस्य ध्वंसित्वं तमोध्वंसित्वं पापव्यपोहकत्वं, पक्षे तमसो राहोसित्वं विष्णुत्वं, धनदत्वं तु दयोस्तुल्यं, तैर्युता अमी जना वर्तन्त इति ॥४॥
दुमाः कल्पद्रुमा यत्र धेनवः कामधेनवः । मानवाश्च सुपर्वाणो देवदेशस्तदस्ति यः॥५॥
यत्र देशे, दुमाः कि०, कल्पद्रुवत् मा लक्ष्मीश्छायाफलमाचुर्यरूपा येषां ते कल्पद्रुमाः; पुनर्यत्र धेनवः, किं०, कामं यथाभिलापं दोबत्वात कामधेनवः खर्गवीतुल्याः, अथवा
या
Page #179
--------------------------------------------------------------------------
________________
१५४
विजयप्रशस्त्याम्।
कामाः काम्याः कमनीया धेनवः करिण्य इवोन्नतत्वपुष्टत्वादिना कामधेनवः; पुनर्यत्र मानवाः सुपर्वाणः शोभनोत्सवाः, पक्षे देवाः तेन यो देशः, दिव्यवस्तुसद्भावाद्देवदेश इति प्रसिद्धिमानस्तीति शेषः ॥ ५॥
प्रतिद्रङ्गं प्रतिग्रामं प्रत्योकः प्रतिपाटकम् ।
आईत्यो मूर्तयो यत्र तेन पुण्यमयोऽस्ति यः ॥६॥ प्रतिद्रङ्ग नगरं प्रति, पुनामं प्रति, पुनरोको गृहं प्रति, पुनः पाटकं नगरावयवविशेष प्रति, यत्र देशे, आईत्यो जैन्यः, प्रतिमाः सन्ति; तेन कारणेन, यो देशो गूर्जरनामा, पुण्यमयोऽस्ति, अत्र मयदप्रत्ययः प्राचुर्यप्राधान्यख्यापकः ॥६॥
अथाऽष्टभिनगरं विशिनष्टिनित्यं जगज्जनानन्दिसुपर्वभरभासुरम् ।
प्रह्लादनपुरं तत्र पुरन्दरपुरोपमम् ॥ ७ ॥ तत्र देशे, प्रहादनपुर नगरमस्तीति योगः। कि०, पुरन्दरपुरं अमरावती तदुपमम् । द्वयोर्विशेषणमाह-जगजनानन्दीनि यानि सुपर्वाणि शोभनोत्सवास्तेषां भरेणातिशयेन, पक्षे जगजनानन्दिनो ये सुपर्वाणो देवास्तेषां भरेण भासुरं रम्यम् ॥ ७॥
नित्यं वैश्रमणोल्लासं नित्यं पुण्यजनप्रियम् ।
सदारम्भं सदासारं यदभादलकासदृग् ॥ ८ ॥ एकत्र वै निश्चयवाचकोऽव्ययः, श्रमणानां मुनीनामुल्लासो यत्र तत् , पक्षे वैश्रमणस्य कुबेरस्योल्लासो यत्र तत् पुनः कि०, पुण्यैर्जनेराहतः प्रियं रम्यं, पक्षे पुण्यजना यक्षास्तैः प्रियं, अथवा पुण्यजनानां यक्षाणां प्रियं वल्लभं पुनः किं०, सन्तः श्रेष्ठा आरम्भाः सुकृतकर्मोद्यमा अल्लोकानां यत्र, पक्षे
Page #180
--------------------------------------------------------------------------
________________
चतुर्यः सर्गः। सदा रम्भा यत्रः पुनः कि०, सदा सारं श्रेष्ठ, पक्षे सदा सारं धनं यत्र तत् अलकाया वस्त्रोकसारेत्यभिधानात्, यनगरं अलकासहा अभाद् भाति स्मेति ॥ ८॥
दृष्ट्रेत्यूचुर्जनान् यत्र यथाकामं प्रयच्छतः । किं पञ्चत्वमिता देवदुमा अस्मिन्नवातरन् ? ॥९॥ यत्र पुरे, यथाकामं मनोरथानुसारेण, यच्छतो ददतः, जनान् दृष्ट्वा इत्यूचुश्चतुरा इति शेषः। तदेवाह-पञ्चत्वं निधनं, इताः प्राप्ताः, देवद्रुमाः कल्पपादपाः, अस्मिन् पुरे, अवातरन् अवतीर्णाः, अत्र देवपादपानां नित्यत्वेन पञ्चत्वमापणे विरोधः, स तु पञ्चत्वं पञ्चसंख्याकत्वमित्यर्थसमर्थनेनाऽपास्तइति ॥९॥
छायाभृन्नन्दनानन्दाः सुरसार्थमनोहराः । यत्रोच्चैरप्सरायन्ते सत्कामाः कमलेक्षणाः ॥१०॥
यत्र कमलेक्षणाः पद्यलोचना मृगलोचना वा " कमलं पये कमलो मृगे च" इत्यनेकार्थत्वात्, स्त्रियः, अप्सरायन्ते स्वर्गस्त्रिय इवाचरन्ति । कयमिति शङ्कां विशेषणसापर्येण व्यपोहतिछायेति एकत्र छायाऽनातपस्तभृत् यत् नन्दनं इन्द्रोधानं तत्र आनन्दो यासां ताः, अन्यत्र छायाभृत्सु शोभावत्सु नन्दनेषु कुत्रेषु आनन्द इति; पुनः किं०, सुराणां देवानां साथैर्गणः, सार्थानां वा मनोहराः, पक्षे सुरसः शोभनो रसो यः शृङ्गारस्तस्य सर्वलोकप्रियत्वात् सर्वरसेषु मुख्यतया भणनाच ये अर्थाः प्रकाराः कामोद्दीपकहावभावविभ्रमादयस्तैर्मनोहरा, पुनः किं०, सन् विद्यमानः कामः कन्दर्पो यत्र, तस्य हि तत्र वसतिसद्भावात्, पक्षे सन्तः श्रेष्ठाः कामा अभिलाषा यासां ताः॥१०॥
Page #181
--------------------------------------------------------------------------
________________
१५६ विजयप्रशस्त्याम् ।
मत्तमातङ्गगामिन्यः सुरार्थाश्चलदर्शनाः । निन्द्या अपि मुदे सन्ति यत्र त्रस्तमृगीदृशः॥११॥ मत्तो मातङ्गश्चाण्डालस्तद्वदिति निन्दा,स्तुतिपक्षे मातङ्गोहस्ती तद्गामिन्यः; पुनः सुराया मदिराया अर्थो यासां ताइति निन्दा, स्तुतिपक्षे सुराणां देवानां अर्थः प्रयोजनं तत्स्पृहालक्षणं याभ्यस्ताः; पुनः कि०, चलं चञ्चलं दर्शनं यासां ता इति निन्दा, स्तुतिपक्षे चले चपले दर्शने नेत्रे यासां ताः । इति बाह्यतो निन्द्या अपि यत्र पुरे, त्रस्तमृगीदृशः स्त्रियः, मुदे सन्ति, सर्वेषामिति शेषः ॥ ११ ॥
शस्तहस्ताः स्फुरत्पद्मा दानिनः शोभनासनाः। इभ्या इभा इवाऽऽभान्ति यत्राऽवग्रहशालिनः ॥१२॥
यत्र पुरे, इभ्या व्यवहारिणः, इभा इव गजा इव, आभान्ति। किं०, एकत्र शस्ताः प्रशस्या हस्ताः पाणयः, अन्यत्र हस्ताः शुण्डा येषां ते पुनः स्फुरन्ती पद्मा रमा, अन्यत्र स्फुरन्त प्रकटानि पद्मानि इभबिन्दवो येषां ते “पद्मामिभबिन्दौ" इत्यनेकार्थत्वात पुनर्दानिनः दातारः, पक्षे दानिनः समदाः; पुनः शोभनं आसनं विष्टरं येषां ते, पक्षे आसनं हस्तिस्कन्धो येषां ते यदनेकार्थः"आसनं हस्तिस्कन्धे" इतिः पुनः अवग्रहो ज्ञानं तेन, पक्षेऽवग्रहोगजललाटं तेन शालिनः “अवग्रहो गजललाटे च" इत्यनेकार्थत्वादिति ॥ १२॥
यत्र प्रदत्तदृकशैत्येऽर्हच्चैत्ये मरजध्वनिः । धरत्यम्भोधरध्वानकलां वनकलापिनाम् ॥१३॥
यत्र अर्हच्चैत्ये, किं०, प्रदत्तं दृशोः शैत्यं येन तत्र, मुरजध्वनिमर्दानादः, वनकलापिनां काननमयूराणां गृहमयुराणां
Page #182
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। १५७ च "वनं कानने गृहेऽपि" इत्यनेकार्थत्वात् अम्भोषरध्वानकलां घनगर्जिततुलां, धरति ॥ १३ ॥
यत्र चैत्योदरे दग्धधूपधूमो विजृम्भितः । अभूदभ्युन्नताम्भोदविभ्रमाद् बर्हिणां मुदे ॥१४॥ यत्र चैत्योदरे दग्धस्य धूपस्य धूमो विजृम्भितो व्याप्तः सन्, अभ्युन्नताम्भोदविभ्रमात् उन्नतजीमूतभ्रमात्, बर्हिणां केकिनां, मुदेऽभूदिति ॥ १४ ॥ अथ नगरस्यैव विशेषवर्णनमाचष्टे
इति यत्राभवद्वार्ता महाकौतुककारिणी । ' व्यानशे सा जगत्तैलबिन्दुरम्भ इवाभितः ॥१५॥ .. यत्र पुरे, इति वक्ष्यमाणलक्षणा, वार्ता कथा, महाकौतुककारिणी, अभूजाता । सा तैलस्य बिन्दुः अम्भः पानीयमिव, जगद् व्यानशे व्यानोति स्मेति ॥ १५ ॥
तथाहि समभूत् पूर्व प्रह्लादनमहीपतिः । नेताऽर्बुदगिरीन्द्रस्य वर्गस्येवाऽच्युताग्रजः॥१६॥ तथाहीति तां वार्ता सूत्रकृदेवाह-पूर्व प्रहादनो नाना महीपतिरभूत् । किं०, अर्बुदागरीन्द्रस्य नेता नायकः, इव यथा, अच्युताग्रज इन्द्रः, स्वर्गस्येति दृष्टान्तः ॥ १६ ॥ तेन श्रीशान्तिनाथस्य प्रतिमा गालिता पुरा । तत्पातकादभूद् दुष्टं कुठं तस्याऽवनीपतेः ॥ १७ ॥
तेन राज्ञा, श्रीशान्तिनाथस्य कुमरविहारमूलनायकस्य, प्रतिमा स्वर्णमयी श्रीकुमारपालभूपालकारिता, गालिताऽग्निना ज्वालिता, वृषभीकृत्याऽचलेश्वरस्य पुरतः स्थापितेति शेषः।
Page #183
--------------------------------------------------------------------------
________________
१५८
विजयमशस्त्याम् ।
अथ तस्मात् पातकातस्याऽवनीपतेः प्रह्लादनस्य, दुष्टं कुष्ठं रोगः, अभवत् ॥ १७ ॥
तया तस्याथ लावण्यरूपादि प्राणशद् रुजा । महसां महिमा सर्पदृशेवौकोमणेः क्षणात् ॥१८॥
तया रुजा कुष्ठाख्यरोगेण, तस्य नृपस्य लावण्यरूपादि लवणिमसौन्दर्यादिकं प्राणशत् नश्यति स्म । यथा सर्पदृशा ओकोमणेः प्रदीपस्य, महसां तेजसां, महिमेति दृष्टान्तः ॥ १८ ॥ स्वनाम्नाऽथाऽमुना राज्ञा प्रह्लादनपुरं पुरम् । वासितं पृथुलं पृथ्वीपुरन्ध्रीपुण्ड्रसन्निभम् ||१९||
अथाऽमुना राज्ञा स्वनाम्ना महादनपुरं नाम, पुरं वासितम् । किं०, पृथुलं विस्तीर्ण, पुनः किं०, पृथ्वीपुरन्ध्या महीमहि - लायाः पुण्ड्रसंनिभं तिलकतुल्यम् ।। १९ ।।
तदेनः शान्तये तेन चैत्यं पार्श्वप्रभोः पृथु । कारितं षोडशस्वर्णकपिशीर्षकशीर्षभृत् ॥ २० ॥
तत् श्रीशान्तिनाथमूर्त्तिभञ्जनलक्षणं यत् एनः पापं तस्य शान्तये शमनाय तेन राज्ञा, श्रीपार्श्वप्रभोः प्रहादनविहारइतिनामकं चैत्यं कारितम् । किं०, पृथु विशालं, पुनः किं०, षोडशस्वर्णकपिशीर्षकाण्येव शीर्षाणि शिरांसि विभर्तीति तत् ॥ २० ॥
तत्पुण्यतः प्रनष्टेऽस्मिन् दुष्टे कुष्ठे क्षणाद् नृपः । लग्घलावण्यलीलादिः पुनर्जात इवाऽभवत् ॥२१॥ तत्पुण्यतः श्रीपार्श्वनाथप्रासादप्रतिमानिर्मापणप्रभवात्, अस्मिन् दुष्टे कुष्ठे मनष्टे सति, लब्धं लावण्यलीलादि येन सः, पुनर्जातो नवाऽवतारेणाऽवतीर्ण इवाऽभवदिति ॥ २१ ॥
Page #184
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ।
प्रत्यहं मौक्तिकानीव ढौक्यन्ते चाऽक्षताक्षताः । प्रह्लादनविहारेऽस्मिन् मूढकप्रमिता जनैः ॥ २२ ॥
प्रतिदिनं मुक्ताफलानीवाऽक्षताक्षता अखण्डलाजा:, अत्र महादनविहारे मूढकः शतमणप्रमाणस्तन्मिता ढोक्यन्ते, एकदिने तत्रत्यैर्जनैर्नत्यर्थमागतैरिति ॥ २२ ॥
१५९
जनानां मुञ्चतां पूगीफलान्यस्मिन् जिनौकसि । बीजानीव स्वभाव द्रोर्मणान्यासंश्च षोडश ॥२३॥
अत्र जिनौकसि पार्श्वप्रासादे, जनानां किं कुर्वतां, मुञ्चतां, कानि, पूगीफलानि षोडश मणानि एकस्मिन्नहनि आसन् जातानि स्वभावद्रोर्निजभक्तिरागतरोः, बीजानीवेत्युत्प्रेक्षा ॥२३॥
यत्रेति वचनैरभ्यागतं प्रणयिनं प्रजाः । सुखयामासुरानन्दकन्दकन्दलनाम्बुदैः ॥ २४॥
यस्मिन् पुरे, इति वचनैः किं०, आनन्दकन्दस्य कन्दलने पल्लवने अम्बुदैः, अभ्यागतं प्रणयिनं मित्रबान्धवादिकं, प्रजालोकाः, सुखयामासुः ॥ २४ ॥
अथ षड्भिः श्लोकैर्गुरुपितरं विशिनष्टि
तत्र कुंराभिधः श्रेष्ठी श्रेष्ठधीः शिष्टशेखरः । महेश इव संजातः सर्वदासर्वमङ्गलः ॥ २५ ॥
तस्मिन् प्रह्लादनपुरे, कुंराभिधः श्रेष्ठी, किं०, श्रेष्ठा धीर्यस्य, पुनः किं०, शिष्टेषु शेखरोऽवतंसः, महेश इव संजातः किं०, एकत्र सर्वदा सर्वाणि मङ्गलानि यस्य सः, अन्यत्र सर्वमङ्गला पार्वती यस्य सः ॥ २५ ॥
Page #185
--------------------------------------------------------------------------
________________
विजयपशस्त्याम् । निष्कलङ्क समालोक्य साक्षाद् यं यस्य वेश्मनि ।
श्रीश्चलत्वकलङ्क खं माटुकामेव तस्थुषी ॥ २६ ॥ ___यं कुराख्यं श्रेष्ठिन, निष्कलई कलावर्जितं, समालोक्य श्रीश्चलत्वलक्षणं स्वं कलझं माष्टुकामेव त्यक्तुकामेव, यस्य श्रेष्ठिनः, वेश्मनि तस्थुषी स्थिता ॥ २६ ॥ पुमर्थत्वेन धर्मार्थकामेषु सदृशेष्वपि। संजघ्नतुः सङ्गतौ द्वौ यद्धर्म नार्थमन्मथौ ॥२७॥
पुमर्थत्वेन पुरुषार्थतया, धर्मार्थकामेषु सदृशेषु तुल्येष्वपि सत्सु, यस्य श्रेष्ठिनो धर्म, अर्थमन्मथो धनकामो, किं०, सन्तो मिलितावपि, न संजघ्रतुन इतवन्तौ, अनेन धर्मदायममूचीति ॥२७॥ धर्मो धत्ते ध्रुवं पुंसामर्थकामौ निषेवितः । ध्यावेति धीमता येन धर्म एवाऽऽहतः सदा ॥२८॥
ध्रुवं निश्चितं, धर्मो निषेवितः सन, अर्थकामो धत्ते पुष्णाति, इति ध्यात्वा येन धीमता बुदिशालिना, श्रेष्ठिना धर्म एवाहतः ॥२८॥ दानं दीनार्थिपात्रेषु नित्यं येनाऽपि यच्छता। बहमन्यन्त पात्राणि पयोदेनेव वहिणः ॥ २९ ॥
दीना दुःस्थिताः, अर्थिनो याचकाः, पात्राणि च श्रमपश्रमणीश्रादश्रादीरूपाणि, तेषु येन दानं यच्छतापि पात्राणि बहु अमन्यन्त भूरि मेनिरे, यथा पयोदेन मेघेन, बहिणः फेकिन इति ॥ २९॥ ब्रह्मवत्स गृहस्थेषु यस्य श्रेष्ठिशिरोमणेः ।
Page #186
--------------------------------------------------------------------------
________________
चतुः सर्गः। १६१ रेखा सुदर्शनस्येव प्रथमा प्रथमाकृतेः ॥ ३०॥
ब्रह्मवन्तः शीलधारिणो ये गृहस्थास्तेषु, यस्य श्रेष्ठिशिरोमणे, पुनः किं०, प्रथमा प्रधाना आकृतिर्यस्य तस्य, सुदर्शनश्रेष्ठिन इव प्रथमा रेखा, जातेति शेषः ॥३०॥
अथ सप्तभिर्गुरुमातरं वर्णयतिउल्लसद्भाग्यसौभाग्या लावण्यजलदीर्घिका । नाथी तस्याऽभवद् भार्या लक्ष्मीर्लक्ष्मीपतेरिव ॥३१॥
उल्लसन्ती दीप्यमाने भाग्यसौभाग्ये यस्याः सा, पुनर्लाचण्यं सद्गमनसनिरीक्षणसजल्पनरूपं तदेव जलं तस्य दीधिका वापिका, नायीनानी तस्य भार्याऽभवत् , यथा लक्ष्मीपतेर्नारायणस्य, लक्ष्मीरिति ॥ ३१॥
सदोदाराऽन्धिपुत्रीव रम्भेव च वृषादरा । . पद्मिनीव सदामोदा हरीणामपि या मुदे ॥३२॥
अन्धिपुत्रीव लक्ष्मीरिव, सदा उदारा लक्ष्मीपले उदारा महती, देवतासु हरिपियेत्युक्तेः, नाथीपक्षे उदारा महेच्छा सरला वा पुनः रम्भेव पादरा एकत्र वृषा इन्द्रस्तत्रादरो यस्याः सा, अन्यत्र पे धर्मे आदरो यस्याः सा पुनः पबिनीव सदामोदा एकत्र आमोदो गन्धः, अन्यत्र आमोदो हर्षो यस्याः सा, अत्र लक्ष्मीपक्षे हरीणां नारायणानां बहुत्वं पूज्यत्वात् , दशावतारत्वेन रहुत्वाद् वा, रम्भापक्षे हरीणां इन्द्राणां, पबिनीपले हरीणां सूर्याणां, तथा या नाथी हरीणां विष्णुशक्रम्र्याणां त्रयाणामपि, सकलदेवार्चनीयश्रीगुरुरूपपुत्रप्रसवहेतुत्वेन सुदे, अस्तीति शेषः॥३२॥ पकेरुहं जडोल्लासि दोषोल्लासी सुधाकरः ।
Page #187
--------------------------------------------------------------------------
________________
१६२
विजयप्रशस्त्याम् ।
यन्मुखेन समे नेमे मतिमद्गुणपोषिणा ॥ ३३ ॥
पङ्केरुहं कमलं, किं०, जडोल्लासि डलयोरैक्यात् जले उल्लासि, पक्षे जडेन मूर्खेणेति शेषः; पुनः सुधाकरश्चन्द्रः, किं०, दोषोल्लासी दोषैरादीनवः, पक्षे दोषायां निशायां उल्लासी इति दोषः; यन्मुखेन इमे द्वे, न समे, मुखेन किं०, मतिमतां गुणान् पोषयतीति तेन । अत्र मतिमत्पदेन जडोल्लासित्वं, गुणपदेन दोषोल्लासित्वं चाऽपास्तम् ॥ ३३ ॥ मौक्तिकस्वर्णरत्नानां नूत्नालङ्कृतयोऽपि हि । प्रत्युतालक्रियन्ते स्म यच्छरीररुचां भरैः ॥३४॥
मौक्तिकस्वर्णरत्नानां नूना नव्या अलङ्कृतयोऽलङ्काराः, प्रत्युत यच्छरीररुचां भरेर्यस्या नाथीनाम्न्याः शरीररुचा वपुस्तेजसां भरैः, अलङ्क्रियन्ते स्म । यतस्तत्संयोगेन तेषां तेजःसद्भावात् , एतेन तस्याः शरीरथुतेरतिशायित्वं दर्शितमिति ॥ ३४ ॥
सीता कुशीलतासारा शश्वज्जडा सुरापगा। यस्या नेत्यनयोः साम्यं शीलकौशलसम्पदः ॥३५॥
सीता जानकी, किं०, कुशीलतासारा कुशीलस्य भावः कुशीलता तया सारा, नन्वत्र सीता तु सुशीलत्वेन प्रतीता. सा कुशीलतासारा कथं स्यात् । इति प्रकटो विरोधः अथ विरोधपरिहारस्तु सीता हलपद्धतिः सा तु कुशीलतासारा, तत्र कुशी लोहविकारः सैव लता कुशीलता तया सारा कुशीलतासारा इत्यर्थेन कृत इति दिक् । पुनः सुरापगा गङ्गा, किं०, शश्वजडा नित्यजडा डलयोरक्याद् नित्यजला नित्यमूर्खा च, इति हेतोः, अनयोः सीतागङ्गयोः, यस्याः साम्यं न, अस्तीति शेषः । यस्याः
Page #188
--------------------------------------------------------------------------
________________
१६३
चतुर्थः सर्गः। कि०, शीलकौशलयोः संपद् यस्याः सा, अत्र शीलपदेन कुशीलत्वं, कौशलपदेन नित्यजडत्वं चाऽपास्तमिति तत्त्वम् ॥३५॥ कुरङ्गत्वरजोयुक्त्वप्रोन्मादित्वकलङ्किषु । न यल्लोचनतुल्यत्वं सारङ्गाम्भोजसीधुषु ॥ ३६ ॥
यल्लोचनयोस्तुल्यत्वं सारङ्गाम्भोजसीधुषु मृगपङ्कजमयेषु, न, भवतीति योगः। अथ विशेषणद्वारेण तद्धेतुमाह-कुरङ्गत्वरजोयुक्त्वपोन्मादित्वलक्षणः कलङ्को येषु ते कुरङ्गत्वरजोयुक्त्वोन्मादित्वकलङ्किनस्तेषु, यतो मृगस्य कुरङ्गत्वात, पद्मस्य सरजस्त्वात्, मद्यस्य चोन्मादित्वात् दोषदुष्टतेति निगर्वः ॥३६॥
सिंहः कटिगतिर्हस्ती मुखं चन्द्रो दृगम्बुजम् । .. नामूनि कलहायन्ते मिथो वैरेऽपि यत्तनौ ॥ ३७॥
कटिरूपः सिंहः, गतिरूपो हस्ती, मुखरूपश्चन्द्रः, दृगरूपं अम्बुजं, अमूनि एतानि, मिथः परस्परं, वैरे सत्यपि, यत्तनौ यस्याः शरीरे, न कलहायन्ते कलिं न कुर्वन्तीति अद्भुतालकृतिः ॥ ३७॥ . सा भुङ्क्ते स्म भवानीव कौमुदीकान्तशालिना । साई स्वप्राणनाथेन नाथी सांसारिकं सुखम् ॥३८॥ · कौमुदीकान्तशालिना महादेवेन, भवानीव पार्वतीव, सा नाथी, स्वप्राणनाथेन कुंराख्यश्रेष्ठिना, सार्द्ध सांसारिकं सुखं भुङ्क्ते स्माऽभुङ्क्तेति ॥ ३८॥ कुंराख्यश्रेष्ठिनः पत्नी सुखसुप्ताऽथ साऽन्यदा। बिभर्ति स्मोत्तमं गर्भमभ्रमालेव वारिदम् ॥ ३९ ॥ सा कुराख्यव्यवहारिभार्या सुखसुप्ता सती, अन्यदा उत्त
Page #189
--------------------------------------------------------------------------
________________
१६४
विजयप्रशस्त्याम् ।
मं गर्भं बिभर्त्ति स्म, अभ्राणां माला श्रेणिः, इब वारिदं मेघमिति ।। ३९ ।।
सुरशैलमिवोत्तुङ्गं भास्वन्तमिव भासुरम् । हरराशि तदैवाशु सा खप्नान्तरुदैक्षत ॥ ४० ॥
सुरशैलमिव मेरुमिव, उत्तुङ्गं प्रांशुं पुनर्भास्वन्तं सूर्यमिव, भासुरं दीप्यमानं, हीरराशि वज्रपुञ्जं तदैव क्षणे, सा स्वमान्तः स्वापमध्ये, उदैक्षताऽद्राक्षीत् ॥ ४० ॥
,
पद्मिनीव प्रबुद्धा सा प्रातः प्रोत्फुल्ललोचना । तं स्वनं पुरतः पत्युः प्रोवाचाऽऽमोदमेदुरा ॥ ४१ ॥
सा नाथी, प्रातः पद्मिनीव प्रबुद्धा सती, किं०, मोत्फुल्ललोचना बिस्मेरनयना, पुनः किं०, आमोदेन हर्षेण, अन्यत्र गन्धेन, मेदुरा पुष्टा, पत्युः स्वामिनः श्रेष्ठिनः, पुरतस्तं स्वयं प्रोवाचाऽम्रबीत् ॥ ४१ ॥
मुक्तेव शुक्तौ तत्कुक्षौ गरभो ववृधेऽथ सः । बिभ्रती साऽशुभद् गर्भ तं निधानमिवाऽवनिः ॥४२॥
यथा मुक्ता मुक्ताफलं, शुक्तौ तथा तत्कुक्षौ गरभो गर्भः, स ववृधे अवर्द्धत, तं गर्भ बिभ्रती सा नाथी, अनुभव शुशुभे, निधानं अवनिर्भूमिः, इवेति दृष्टान्तः ॥ ४२ ॥
प्रभावात्तस्य गर्भस्य सोच्चैर्वाल्लभ्यभूरभूत् । शाखेव सहकारस्य फलानां परिपाकतः ॥ ४३ ॥
तस्य गर्भस्य प्रभावात् सा उचैरतिशयेन, बाल्लभ्यभूः सौभाग्यस्थानम्, अभूत्, द्रष्टुलोकानामिति गम्यम् । यथा फलानां परिपाकतः परिणतेः, सहकारस्य शाखेति ॥ ४३ ॥
Page #190
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। श्रीसंदर्भस्य गर्भस्याऽनुभावात्तस्य दोहदाः। बभूवुः सुभगास्तस्याः शस्याभ्युदयहेतवः ॥ ४४ ॥
श्रियो लक्ष्म्याः शोभाया वा संदर्भस्य गुम्फस्य, तस्य गर्भस्य, अनुभावात् तस्याः सुभगा दोहदा बभूवुः, किं०, शस्यः श्रेयान् अभ्युदय उनतिस्तद्धेतवः ॥४४॥ जननी जननीतिज्ञा सद्यः सम्पूर्णदोहदा।। प्रमोदं प्राप सा प्राप्तवर्णसिद्धिरिवाऽधिकम् ॥४५॥ ___सा जननी, किं०, जननीतिं जानातीति सा, पुनः कि०, सम्पूर्णानि दोहदानि यस्याः सा, प्रमोद प्राप्ता, प्राप्तस्वर्णसिदिर्यथेति दृष्टान्तः ॥ ४५ ॥
अथो वर्षे शक्तिसिद्धिशिलीमुखसितत्विषि। मासे सहसि शीतोस्राऽनवमे नवमे तिथौ ॥ ४६ ॥
अथेति नवमास्यां व्यतिक्रान्तायाम् , शक्तयः प्रभुत्वोत्साहमन्त्रजास्तिस्रः, सिद्धयोऽष्टौ, शिलीमुखा बाणाः पत्र, सितत्विद् शशी एकः, एतेषां वामगतिगणितानां १५८३ इति संख्या यसिंस्तस्मिन् वर्षे, पुनर्मासे सहसि मार्गशीर्षे मासे, पुनर्नवमे तिथौ नवमीवासरे, किं०, शीतोषेण चन्द्रेण, अनवमे मनोज्ञे धवले इति यावत् , तिथिशब्दस्य पुंस्त्रीलिङ्गत्वानवमे तिथावित्यदृष्टम् ॥ ४६॥
पुनः केत्याहशुभेऽहनि कलाकेलिकुलं कुवलयप्रियम् । पूर्णिमवैन्दवं बिम्ब साऽसूत सुतमुत्तमम् ॥ ४७॥ शुभे निर्दोषे, अहनि नवमरवियोगसद्भावात् श्लाघ्ये दिने,
Page #191
--------------------------------------------------------------------------
________________
१६६
विजयप्रशस्त्याम् ।
पूर्णिमेव ऐन्दवं चान्द्रं, विम्बं तथा सा सुतममृत, कीदृशं, एकत्र कलाचन्द्रकलाः प्रतीतास्तेषां केलेलीलायाः कुलं गृहं, अन्यत्र कला लेख्यादिकास्तत्केलिकुलः पुनरेकत्र कुवलयानां नीलोत्पलानां प्रियं बल्लभं, अन्यत्र कुवलयस्य भूवलयस्य प्रियमिति युग्मव्याख्या || ४७ ॥ तदाऽभूद्दीपकोद्योतस्तिरस्तस्य तनुत्विषा । यत्तारातेजसां स्तोमः किं स्यादभ्युद्गते रौ ? ॥४८॥
तदा तज्जन्मक्षणे, तस्य बालस्य, तनुत्विषा तच्छरीरतेजसा, दीपकोद्योतस्तिरोऽभूत् पलायितः, यद्धेतोः, तारातेजसां स्तोमः समूहः, अभ्युद्गते रवौ किं स्याद् ? अपि तु नेति ॥४८॥ अनुकूलं मुदां मूलं श्रुत्वा जन्माऽङ्गजन्मनः । श्रेष्ठ्य मोदिष्ट सः स्पष्टविष्टपैश्वर्यभागिव ॥ ४९ ॥
अङ्गजन्मनः पुत्रस्य, जन्म, किं०, मुदां प्रमोदानां, अनुकूलं मूलं श्रुत्वा सः श्रेष्ठी अमोदिष्ट मुमुदे स्पष्टविष्टपैश्वर्यभाक् स्फुटं जगदाधिपत्यभृत् पुमान्, इवेति उत्प्रेक्षार्थे दृष्टान्तार्थे
वा ।। ४९ ।।
अमन्दानन्दकन्दस्य स्थानस्योल्लासवीरुधः । अत्यर्थसुभगस्याङ्गजन्मनो जन्मशंसिनाम् ॥ ५० ॥
अमन्दः अनल्पो यः आनन्दस्तस्य कन्द इव कन्दस्तद्धेतोः परमानन्दहेतोरिति यावत् पुनः किं०, उल्लासवीरुधः हृल्लेखवल्लेः, लेखवलें, स्थानस्य, पुनः किं०, अत्यर्थं गाढं सुभगस्य सर्वजनेष्टस्येति यावत् अङ्गजन्मनः जन्मशंसिनां पुत्रोत्पत्ते निंवेदकानाम् ।। ५० ।।
"
यच्छन् सोऽतुच्छधर्वर्द्धापनिका नान्तरं व्यधात् ।
Page #192
--------------------------------------------------------------------------
________________
भवेत् देशेषु, वर्षणाऽवप मेयः, तोयं पानी एनसेवार्थ
चतुर्थः सर्गः।
१६७ वर्षस्तोयधरस्तोयं किं भवेद्भेदभाग् भुवाम् ?॥५१॥
सोऽतुच्छधीमहामतिः, वर्दापनिका यच्छन् अन्तरं अल्पाऽनल्पप्रदानादिविशेष, न व्यधात् । एनमेवार्थ दृष्टान्तद्वारेण स्पष्टयति-तोयधरो मेघः, तोयं पानीयं, वर्षन् निम्नानिनादिप्रदेशेषु, वर्षणावर्षणादिना भुवां महीनां, भेदभाक् किं भवेत् ? अपि तु नेति युग्मव्याख्येयम् ॥ ५१॥ महान् महो महेभ्येन तेनाऽऽरब्धो मुदन्धिना। यजनौ तादृशां पुंसामुत्सवानामतुच्छता ॥ ५२ ॥
मुदब्धिना हर्षसमुद्रेण, तेन महेभ्येन महान् मह उत्सवः, आरब्ध आरेभे । यतः कारणात् , तादृशां पुंसां पुण्यवतां जनानां, जनौ जन्मनि, उत्सवानामतुच्छता स्यादेवेति ॥ ५२ ॥ मञ्जु मङ्गलगीतानि गीयन्ते स्म तदोकसि । न वसन्तोत्सवे किं स्युः कोकिलानां कलोक्तयः ॥५३॥
तदोकसि तद्गहे, मञ्जु मनोज्ञं, मङ्गलगीतानि गीयन्ते स्म, नगरलोकैरिति गम्यम् । वसन्तोत्सवे कोकिलानां कला मनोज्ञाउक्तयः पञ्चमकाकलीलक्षणाः, किं न स्युः अपि तु भवन्त्येवेति ॥ ५३॥
तेन दानान्यदीयन्ताऽर्थिनां सार्थे यथार्थनम् । प्राज्याः पाथोमुचेवोच्चैरापश्चातकपोतके ॥ ५४ ॥
तेन श्रेष्ठिना, अर्थिनां सार्थे मार्गणानां गणे, यथार्थनं यथायाचितं, दानानि अदीयन्त दत्तानि । दृष्टान्तोऽत्र-यथा पाथोमुचा मेघेन, चातकानां पोतके बालके बप्पीह इति यावत् , आपः पाथांसीति ॥ ५४ ॥
Page #193
--------------------------------------------------------------------------
________________
विजयपत्रस्त्वाम् । सकर्णा अभणन् कर्णानन्दिनो बन्दिनस्तदा । किं क्रीडाक्रीडकाश्यप्यांमञ्जु गुञ्जन्ति नालयः? ॥५५॥
सदा सकर्णाः कोविदाः, पुनः कि०, कर्णानन्दिनः श्रोत्रानन्दकारिणः, बन्दिनः मागधाः, अभणन् भणन्ति स्म, मालाभीर्वादादिच्छन्दांसि भट्टयोग्यानीति शेषः। क्रीडाक्रीडकाश्यप्यां केलिवनावन्या, अलयो भ्रमराः, किं न गुञ्जन्ति ? अपि तु गुञ्जन्त्येव, मञ्जु इति क्रियाविशेषणम् ॥ ५५ ॥
तदाऽभुर्घसृणैर्यस्ता हस्तकाः शस्तकारिणः । बालार्का उत्सवं द्रष्टुं बहुरूपैरिवागताः ॥ ५६ ॥ · तदा तजन्मनि, घुसणैः कुडमः, न्यस्ताः, पुनः, शस्तकारिणः मङ्गलकारकाः, हस्तकाः स्थासकाः, अधुर्भान्ति स्म, उत्सवं तदुत्पत्तिलक्षणं, बहुरूपैर्द्रष्टुं बालास्तरुणतरणयः, इवोत्येक्ष्यते-आगता इति ॥ ५६ ॥ रेजेऽजिरे तदा न्यस्तो मौक्तिकखस्तिकोत्करः। गाम्भीर्याद मामयं बालो जेतेत्यब्धेरिवोपदा ॥५॥
तदा मौक्तिकस्वस्तिकानां उत्करः समूहः, अजिरे अङ्गणे, रहस्येति शेषः, न्यस्तोरजे राजति स्म । अयं बालो गाम्भीर्यात गम्भीरत्वात् , मां जेता जेष्यति, इति हेतोः, अब्धेः समुद्रस्येव, उपदा प्राभृतम् ॥ ५७॥ ढौकितानि पुरीलोकैः प्राविस्तिद्हे तदा । प्रोच्चैः पूर्णानि पात्राणि मुदा बीजैरिवाऽक्षतैः ॥५८॥
पुरीलोकै गरजनैः, दौकितानि, पुनर्मुदा वीजैहेतुभिरिव, अक्षतेलाजैः, पूर्णानि पात्राणि सदरहे तदा माविशन् ॥ ५८ ॥
Page #194
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। १६९ कम्राम्रपत्रैः क्लुप्ताऽभात् तत्रोच्चैस्तौरणी ततिः । सौरभ्याद् मामयं जेता सूनुरिष्योपदेति किम् ?॥५९॥
कम्राणि रम्याणि यानि आम्रपत्राणि तैः, क्लुप्ता कृता, तौरणी ततिस्तोरणसंबन्धिनी श्रेणिः, अभाद् भाति स्म । सौरभ्याद् वपुःसुरभित्वात् , अयं सूनुर्मा जेता इति कारणात्, किं इष्योपदा वसन्तस्य भाभृतमिति ? ॥ ५९ ॥ 'इत्युत्सवैर्मुदां मूलैर्भूरि भाति स्म तत्पुरम् । राजधानी सुखोत्कर्षहर्षक्षोणिपतेरिव ॥ ६ ॥
इत्युक्तरूपैः, पुनर्मुदां मूलैः उत्सवैः तत् प्रहादनपुरं, पुरं . भूरि भाति स्म । सुखस्योत्कर्षो यत्र स हर्षशोणिपतिः प्रमोदराद् तस्य, राजधानी स्कन्धावार इवेति उत्प्रेक्षा ॥६०॥ . हीरराशिर्यदुत्तुङ्गः खप्नान्तर्ददृशेऽम्बया । हीरस्तद् भविताऽर्भोऽयं विश्वमानवमौलिषु ॥१॥
यदिति यतः कारणात् , अस्याऽम्बया मात्रा, स्वमा· न्तः हीरराशिः, किं०, उत्तुरः, ददृशे दृष्टः, तत् कारणात्,
अयं अर्भो बालः, विश्वमानवा एव मौलयः, अथवा विश्वमानवानां मौलयः शिरांसि तेषु विधमानवमौलिषु; हीरो भविता रवं भावीति ॥ ६१॥. . इति मत्वा पिताऽतुच्छमहोत्सवपुरस्सरम् । . हीरजीति व्यधात् सूनो म धाम गुणश्रियाम् ॥२॥
इति मत्वा ज्ञात्वा, पिता कुराख्यः श्रेष्ठी, अतुच्छमहोत्सवपूर्वकं सूनोः पुत्रस्य, हीरजीति नाम, कि०, गुणश्रियां धाम गृहं, व्यधात् कृतवान् । अर्थतो युग्ममिदम् ॥ ६२॥ .
Page #195
--------------------------------------------------------------------------
________________
१७० विजयप्रशस्त्याम् । कल्पगुरिव रम्भाभिाल्यमानः पुरन्धिभिः। कुमारः कलयामास कलाभिवृद्धिमिन्दवत् ॥६३॥
रम्भाभिः कल्पद्रुम इव, पुरन्धिभिः कुटुम्बिनीभिः, लाल्यमानः स हीरकुमारः कलाभिः सह, इन्दुवत् चन्द्र इव, वृद्धिं कलयामास आससाद ॥६३ ॥ स जहौ क्रमतः क्षीरकण्ठतां शठतामिव । ललौ च गुरुतो विद्या वार्डेरप इवाम्बुदः ॥ ६४ ॥
स कुमारः, शठतां शाठ्यमिव, क्षीरकण्ठतां बाल्यं. जहाँ तत्याज । पुनर्वार्धेः समुद्रात् , अपः पानीयानि, अम्बुद इव गुरुतोऽध्यापकात् , विद्या मातृममुखाः, ललो जग्राह ॥६४॥ प्राप्ताऽनवद्यविद्यः स दत्ते स्म जगतां मुदम् । पीयूषपादः संपूर्णकलोऽब्धेरम्भसामिव ॥ ६५ ।। : प्राप्ताऽनवद्या निदोषा विद्या येन सः. स कुमारः, जगतां मुदं दत्ते स्म सम्पूर्णकलः पीयूषपादश्चन्द्रमा, अब्धः समुद्रस्य, अम्भसा पाथसां, यथेति दृष्टान्तः ॥ ६५॥
अथ सच्छाययोः पुष्पदन्तयोरिव सर्वदा । क्लेशामयभरध्वंसे दक्षयोर्दस्रयोरिव ॥ ६६ ॥ पुनर्वस्वोरिवाऽजस्रं जगदुल्लासितारयोः । सम्यगाराधनापूर्व पित्रोदवमुपेतयोः ॥ ६७ ॥ कुमारः सोऽन्यदा खस्याः स्वसुर्मिलनहेतवे । श्रीपत्तनमलञ्चके मनोभूरिव मूर्त्तिमान् ॥ ६८ ।। अथ श्लोकत्रिकव्याख्या-अयास्मिन्नवसरे, पित्रा थी
Page #196
--------------------------------------------------------------------------
________________
चतुर्मः समः १७५ कुंराख्ययोः, कीदृशयोः, पुष्पदन्तयोः सूर्याचन्द्रमसोरिव, सच्छाययोः सती विद्यमाना प्रशस्ता वा छाया शोभा ययोस्तयोः, पुष्पदन्तपक्षे छायाऽर्कयोषित् , कान्तिश्चेतिः पुनः दसयोः स्ववैद्ययोरिव, किं०, क्लेश एवाऽऽमयभरो रोगगणस्तस्य ध्वंसे, दक्षयोनिपुणयोः, अन्यत्र क्लेशहेतुर्य आमयभरस्तस्येति ॥६६॥ पुनः किं०, 'पुनर्वसू तु यामकौ' इति वचनात् पुनर्वस्वोरिक, जगदुल्लासिनी तारे कनीनिके ययोस्तयोः, पक्षे जगदुल्लासिन्यस्तारास्तारकाणि ययोस्तयोः, यतः पुनर्वसुनक्षत्रभुक्तौ मेषदृष्टौ सत्यां जगतां सर्वशस्यसंपत्तेरुल्लासः स्यादिति रनमालावृत्तिवचनात् सार्थकं विशेषणम् । पुनः किं०, सम्यगाराधनापूर्व दिवं स्वर्गम् , उपेतयोर्गतयोः सतोः, ॥६७॥ स किं कृतवानित्याह-स कुमारोहीरजीनामा, अन्यदा मातापित्रोः शोकं मुक्त्वा, स्वस्याः स्वसुर्निजभगिन्याः, मिलनहेतवे मूर्तिमान् मनोभूरिव कन्दर्प इव, रूपश्रियेति गम्यम्, श्रीपत्तनं अणहिल्लपाटकनगरं, अलश्के व्यभूषयत् । त्रयाणां व्याख्येयम् ॥ ६८ ॥ . भगिनी सुभगाकारं वीक्ष्य सोदरमात्मनः। . चक्रपाणिमिवाऽपर्णा प्रमोदं प्राप पुष्कलम् ॥१९॥
चक्रपाणिं नारायणमिव अपर्णा पार्वती, तज्जामित्वात् , 'भवानी कृष्णमेनाकस्वसा' इति श्रीहेमाचार्यवचनात् आत्मनः सोदरं, किं०, सुभगाकारं मनोहराकृति, वीक्ष्य पुष्कलं प्रचुरं, प्रमोदं पाप ॥ ६९ ॥
अथ श्रीविजयदानाभिधानान् सूरिसिन्धुरान् । नमति स्म कुमारः स पत्तने तत्र तस्थुषः ॥ ७० ॥
अथावावसरे, पूर्व तृतीयसर्गव्यावाणितगुणावदातान् श्रीविजयदानाभिधानान सूरिसिन्धुरान् , किं०, तत्र पत्तने नगरे,
Page #197
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । तस्थुषस्तदानी चतुर्मासी स्थितान्, स कुमारो हीरजीनामा, नमात स्म प्राणमन् ॥ ७० ॥
तत्राऽमीषां मुनीन्द्राणामुपदेशेन शालिना। नादेनाऽम्भोमुचां भेजे मुदं बहीव हीरजीः ॥ ७ ॥
तत्र पत्तने, अमीषां मुनीन्द्राणां श्रीविजयदानमूरिगुरूणां, शालिना रम्येण, उपदेशन अम्भोमुचां मेघानां, नादेन बहीव मयूर इव, हीरकुमारो मुदं भेजे हर्ष प्राप्तवानिति ॥ ७१ ।।
वैराग्यवासितो दीक्षां जिघक्षुः स कुमारराट् । समेत्य सदनं सद्यः खां खसारमदोऽवदत् ॥ ७२ ॥
स कुमारराट्, किं०, वैराग्यवासितोऽत एव दीक्षां जिघृक्षुर्दीक्षां ग्रहीतुकामः सन् , सदनं समेत्य आगत्य, स्वां स्वसारं निजां भगिनीं, अदो वक्ष्यमाणं, अवदत् ॥ ७२ ॥
मया सोदरि ! संसारकमलाकरचन्द्रिका । देशना पूज्यपादानां शुश्रुवे श्रुतिशर्मकृत् ॥ ७३ ॥
हे सोदरि भगिनि !, संसार एव कमलानां आकरः समूहः 'आकरो निकरे खनौ' इत्यनेकार्थत्वात् , संसारकमलाकरे भवाम्भोजपुढे चन्द्रिका ज्योत्स्ना, तन्म्लानिहेतुत्वात् । पुनः श्रुत्योः कर्णयोः शर्मकद सुखकारिणी, पूज्यपादानां श्रीविजयदानसूरीणां, देशना धर्मोपदेशरूपा, शुश्रुवे श्रुता ॥७३॥
अवश्यमहमादास्ये तपस्यां गुरुसंनिधौ। तन्ममानुमतिं देहि हे सहोदरि ! सुन्दरि ! ॥४॥ .. गुरोः संनिधौ पार्थे, अवश्यं निधयेन, तपस्यां दीक्षां, अहं भादास्ये ग्रहीयामि, तदेवोः, ममानुमतिमनुश, हे सुन्दरि
Page #198
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ।
भद्रे ! सहोदरि ! देहि दिशेति ॥ ७४ ॥ भ्रात्रेत्याभिहिता साऽश्रुमुखी सा सुमुखी जगौ । तर्णकस्येव धूर्वत्स ! तपस्या तव दुर्वहा ॥ ७५ ॥
१७३
इति भ्रात्राऽभिहिता प्रोक्ता, सा सुमुखी सुवदना, कीदृशी, अश्रुमुखी सती, जगौ बभाषे । तदेवाह - 'वत्सोऽपत्ये, उपलक्षणात् लघुभ्रात्रादावपि' इत्यनेकार्थटीकाकारकवाक्यात्, हे वत्स लघुभ्रातः ! तर्णकस्य वत्सस्येव, धूर्धुरा, तब तपस्या दुर्बहा दुःरतेश धार्येत्यर्थः ॥ ७५ ॥
पुनर्यद् बभाषे तदेवाह - परिणीयाऽधुना तेन वधूं देववधूपमाम् ।
भुङ्क्ष्व भोगांस्तया सौम्य ! समं रत्येव मन्मथः ॥७६॥ तेन हेतुना पूर्वप्रतिपादितेनेति, अधुना सांप्रतं, देववधूपमां सुरखीतुल्यां, बधूं पत्नीं, परिणीय रत्येव मन्मथः कामः, तया समं, हे सौम्य मनोहर ! भोगान् भुङ्क्ष्वेति ॥ ७६ ॥ ममाधारोऽसि वत्स ! त्वं लताया इव भूरुहः । भ्राता हि सुखकृत् स्त्रीणां कृषीणामिव वारिमुक् ॥ ७७॥
है वत्स ! लताया भूरुह इव वृक्ष इव, ममाधारस्त्वमेवासीति योगः । हीति यतः, भ्राता स्त्रीणां सुखकृदस्ति, दृष्टान्तमत्राहकृषीणां इव यथा, वारिमुक् मेघ इति ॥ ७७ ॥ इत्याग्रहरुजं तस्या वैराग्यवचनौषधैः ।
स कुमारोऽगदङ्कार इव सद्यो निराकरोत् ॥ ७८ ॥ कुमारो हीरनामा, अगदङ्कार इव वैद्य इव, वैराग्यवचनौषधैः संसाराऽसारतादिवाग्भेषजैः, तस्या भगिन्याः, इत्याग्नहरुजं इठरोगं, निराकरोत् न्यकुरुते स्मेति ॥ ७८ ॥
Page #199
--------------------------------------------------------------------------
________________
१७४
विजयपत्रस्त्याम् ।
अथोपाश्रयमागत्य नत्वा च मुनिसत्तमान् । हीरजीाजहारैवं हारिणं विनयं वहन् ॥ ७९ ॥
उपाश्रयमागत्य मुनिसत्तमान् गुरून् , नत्वा प्रणम्य, च पुनः, हारिणं मनोज्ञं, विनयं वहन् हीरजीकुमार एवं वक्ष्यमाणं, व्याजहारेति जगो॥ ७९ ॥ तपस्यामहमादित्सुरस्मि क्लेशविनाशिनीम् । भगवन् ! भवदभ्यणे कूपे पाथ इवाऽध्वगः ॥ ८ ॥
हे भगवन् ! भवदभ्यर्णे युष्मत्समीपे, कूपेऽध्वगः पथिकः, पाथ इव पानीयमिव, क्लेशविनाशिनी तपस्यामहमादित्सुग्रहीतुमिच्छुः, अस्मीति ॥ ८॥
तस्येति वचसाऽऽचार्यवर्या मुमुदिरेतराम् । शिष्यरत्नस्य लब्धौ हि हर्ष उत्कर्षभाग् भवेत् ॥१॥
आचार्यवर्यास्त पूज्याः, इति तस्य वचसा मुमुदिरेतरां अतिमुदं दधुः, हीति यतो हेतोः, शिष्यरत्नस्य लब्धौ प्राप्तौ सत्यां, हर्षउत्कर्षभाग् भवेत् महतामप्यतिशायी प्रमोदः स्यादिति ॥८१॥ निरीक्ष्य शस्तैः सामु र्लक्षितं लक्षणैरिमम् । गणेन्द्रैर्निरणायीति भाव्ययं गच्छधूर्वहः ॥ ८२ ॥
शस्तैः प्रशस्तैः, सामुद्रः सामुद्रिकशास्त्रोक्तैर्लक्षणैः, लक्षितमलंकृतम् , इमं कुमारं, निरीक्ष्य गणेन्द्रैस्तपगच्छपैः, इति निरणायि निर्णयश्चक्रे । इतीति किमित्याह-यदयं शिष्यो गच्छ धूर्वहो भावीति ।। ८२ ॥
अथ दशभिर्दीक्षामहोत्सवं वर्णयति- सजितस्फारशृङ्गारैरखनैरिवं नागरैः।
Page #200
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। १७५ गीतैश्च मङ्गलोल्लासैः स्त्रीणामप्सरसामिव ॥८३॥
सन्जिताः संभृताः स्फारा उदाराः शृङ्गारा यैस्तैः, नागरैः पौरैः, अस्वमैरिव देवैरिवः पुनः सौभाग्यादिनाऽप्सरसामिव स्त्रीणां मङ्गलोल्लासगीतैर्धवलमङ्गलध्वनिभिः ॥ ८३ ॥ विमानैरिव सदनैः सूत्रितोत्तुङ्गतोरणैः । वर्मना नन्दनेनेवाऽऽनन्दिना पुष्पपतिभिः ॥४॥ - पुनः कैः कीदृशैरित्याह-मूत्रितानि कृतानि उत्तुङ्गानि तारणानि येषु तैः, सदनमन्दिरैर्विमानैरिव, पुनः पुष्पपतिभिः कुसुमश्रेणिभिः, आनन्दिना वर्मना मार्गेण, नन्दनेनेव इन्द्रोद्याननवेति ।। ८४ ॥
देवद्रुमैरिवात्यन्तोदारैर्दत्तधनैर्जनैः । गायद्भिर्मधुरं देवगायनैरिव गायनैः ॥ ८५ ॥
पुनः देवद्रुमैः कल्पवृक्षरिव, अत्यन्तोदारैः दत्तधनैजनः सद्भिरिति, पुनर्मधुरं गायद्भिर्देवगायनैहाहाहूहूप्रमुखैरिव, गायनैरिति ।। ८५ ॥ पौरैश्च पोषितैर्नानाभोजनैरमृतैरिव । वर्यतूर्यस्वरैर्दैवदुन्दुभिस्तनितैरिव ॥ ८६ ॥
पुनः पौरैनंगरीलोकैः, नानाभोजनर्माधुर्येणाऽमृतरिव, भोजितैः; पुनः देवदुन्दुभिस्तनितैः सुरवाद्यगर्जितैरिव, वयतूर्यस्वरैर्जायमानैरिति ॥ ८६ ॥ भूषितैर्दन्तिभिर्देवदन्ताबलैरिबोडुरैः ।। सोत्साहैरुत्सवैरेवं पुरन्दरपुरायितम् ॥ ८७ ॥ पुनर्देवदन्ताबलैः सुरगजेरिव, भूपिनैः शृङ्गारितः, पुनः
Page #201
--------------------------------------------------------------------------
________________
२७६ विजयपत्रस्त्याम् ।। उदुरैरुत्कटः, दन्तिभिर्हस्तिभिरिति; एवमितिव्यावर्णितरूपः, सोत्साहेचित्तोत्साहसहितः, उत्सवैः पुरन्दरपुरायितं सुरेन्द्रनगरमिवाचरितम् ॥ ८७ ॥ पत्तनं पावयन् प्रोच्चैः पीयूषसदृशा दृशा । सविस्मयं स्मिताक्षीभिर्गवाक्षस्थाभिरीक्षितः ॥ ८८ ।।
अथ कुमारः, किं०, पत्तनं अणहिल्लपाटकपुरं, पीयुषसहशा सुधातुल्यया, दृशा दृष्ट्या, पावयन् पवित्रयन् , पुनः सविस्मयं साश्चर्य, गवाक्षस्थाभिः स्मिताक्षीभिः स्त्रीभिः, इक्षितो विलोफितः ॥ ८८॥ सामोदकुसुमस्तोमचामरच्छत्रराजितः । मौक्तिकैः काञ्चनै रानैरलङ्कारैरलङ्कृतः ॥ ८९ ॥
पुनः सामोदैः सगन्धैः कुसुमस्तोमैः पुष्पपुजैः कण्ठन्यस्तैमाल्यादिग्रथितैः, चामरैर्वालव्यजनैरुभयतो वीज्यमानैः, छत्रेरातपत्रैश्च शिरसि ध्रियमाणैः, राजितः शोभितः पुनः मौक्तिकैर्मुक्तासम्बन्धिभिः, काशनैः स्वर्णसंबन्धिभिः रात्रैर्मणिसंबन्धिभिः, अलङ्कारभूषणैः, अलंकृतो भूषित इति ॥ ८९ ॥ सारसिन्दूरपूरेण बन्धुरे सिन्धुरे स्थितः । कुडमैश्चन्दनैश्चोक्षैश्चर्चितश्चारुचीरभृत् ॥ ९० ॥ ___ सारेण सिन्दूरपूरेण बन्धुरे मनोहरे, सिन्धुरे गजे, स्थितअटितः पुनश्चोक्षरनवस्करैः कुडुमघुसणैः, चन्दनैहरिचन्दनः, चर्चितोपर्चतः; पुनश्चारुचीरभृत् दिव्याम्बरपरिधानः ॥ ९ ॥ स्फारशृङ्गारया सारं रथमास्थितया पथि । अनुगम्यमानः स्वस्त्रा विमलाईतिसंज्ञया ॥ ९१॥
Page #202
--------------------------------------------------------------------------
________________
. चतुर्थः सर्गः।
१७७ पुनः स्फारा उदाराः शृङ्गारा मज्जनादयो निर्मिता यया तया, पुनः सारं रथं आस्थितया आरूढया, पथि मार्गे, विमलाई इति संज्ञा यस्यास्तया विमलाईनाम्न्या भगिन्या, अनुगम्यमानः॥९१॥
शोभितः सुमनोवृन्दैः सुरेन्द्र इव मूर्तिमान् । सोऽन्तनगरमुल्लासी निर्जगाम शनैः शनैः ॥१२॥
पुनर्मूर्तिमान् सुरेन्द्र इव, कीदृशः, सुमनोहन्दैः शोभितः कुमारपक्षे सुमनसां सज्जनानां पुष्पाणां वा, अन्यत्र सुमनसां देवानां, वृन्दै जितः स कुमारः, अन्तर्नगरं शनैः शनैनिर्जगाम, वनं प्रति जगाम चेति शेषः। दशभिः श्लोकैरन्त्यक्रिय कुलकं व्याख्यातम् ॥ ९२ ॥ विक्रमाद् रसनन्देषुद्विजेशे परिवत्सरे । बाहुलस्य बहुलायां द्वितीयायां शुभेऽहनि ॥ ९३ ॥
विक्रमात् श्रीविक्रमादित्यभूपतेः, रसाः षद्, नन्दा नव, इषवः पञ्च, द्विजेशश्चन्द्र एकः, एते वामगतिगणिताः १५९६ इतिसंख्याका यत्र तत्र, परिवत्सरे संवत्सरे, पुनर्बाहुलस्य कार्तिकस्य, बहुलायां कृष्णायां, द्वितीयायां तिथौ, शुभेऽहनि वासरे ॥ ९३॥
असौ श्रीविजयदानसूरिसिन्धुरसंनिधौ । पर्यणैषीत् परिव्रज्यापत्नी पद्मामिवाच्युतः ॥ ९४ ॥ - ___ असौ हीरकुमारः, श्रीविजयदानसूरिसिन्धुराणां संनिधौ समीपे, परिव्रज्यापनी दीक्षादयितां, पर्यणेषीत् परिणीतवान् । कः कामिवेत्याह-अच्युतो विष्णुः, पयां लक्ष्मीमिव, इति दृष्टान्तः । युग्मव्याख्या ॥ ९४ ॥
Page #203
--------------------------------------------------------------------------
________________
१७८
विजयपस्त्याम् । सहर्ष हीरहर्षाह्वो मुनिर्गुणमहोदधिः । कलभः कुञ्जरेणेव व्यहार्षीद् गुरुणा समम् ॥९५॥
हरिहर्ष इति आहा संज्ञा यस्य सः, पुनर्गुणानां ज्ञानदर्शनचारित्रादीनां महोदधिर्महार्णवः, स मुनिः कुञ्जरेण युथनाथेन, कलभः कुञ्जरवाल इव, गुरुणा समं सहर्ष व्यहाद् विजहार ॥ ९५ ॥ महाव्रतानि पञ्चापि पञ्चापि समितीः पुनः । गुप्तीस्तिस्रश्च स मुनिः पालयामास यत्नतः ॥९६॥
पञ्च महाव्रतानि सर्वतःप्राणातिपातमषावादाऽदत्ताऽऽदानाsब्रह्मपरिग्रहविरमणरूपाणि, पुनः पञ्च समितीः ईर्याभाषेषणाऽऽदाननिक्षेपोत्सर्गलक्षणाः, पुनर्गुप्तास्तिस्रोशुभमनोवचनकाययोगनिग्रहरूपाः, स मुनिहींरहर्षः, पालयामास ॥ ९६ ॥ सेवमानो गुरुं देवोद्यानं विबुधसेवितम् । विनयामरसालस्य फलं विद्यां स लेभिवान् ॥९७||
एकत्र विबुधैर्देवैः, अन्यत्र पण्डितैः सेवितं गुरुं देवोद्यानं नन्दनवनं, सेवमानो भजमानः, स शिष्यः, विनय एवाऽमर• सालः कल्पवृक्षस्तस्य, फलं विद्यां सकलशास्त्रपाठरूपां, लेभिवान् प्राप्तवानिति ॥ ९७ ॥ सोप्रमत्तः पपौ सर्व शास्त्रं खं स्वगुरोः सुधीः । ग्रीष्मतप्तो भुवां भाग इवाऽब्दानिपतत् पयः ॥९८॥
स हीरहर्षः शिष्यः, किं०, अप्रमत्तः सन् प्रमादरहितो भूत्वा, सर्व शास्त्रं, किं०, स्खं निजदर्शनसंबन्धि, स्वगुरोः श्रीविजयदानसूरेः, पपौ असादरेणाऽऽकर्ण्य हृदयेऽस्थापयत्, भवति
Page #204
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ।
१७९
हि आदरेणाकर्णने पानमिति प्रयोगः, यथा नैषधाख्य महाकाव्याऽऽदिमकाव्ये - 'निपीय यस्य क्षितिरक्षिणः कथाः' इत्यत्र कथा निपीयेति कथा निपीयाऽत्यादरेण आकर्ष्णेति व्याख्याने, तथा पपात्रत्रापि अत्यादरेण भणति स्मेति भावार्थः । दृष्टान्तो यथा - ग्रीष्मेण निदाघेन, तप्तो भुवां भागो महीप्रदेशः, अन्दाद् मेघात्, निपतत् पयः पानीयं पिवतीति ॥ ९८ ॥ हीरहर्षमसंहर्षमात्तात्मसमवाष्प्रयम् । गुरुर्गुरुमिवाऽऽलोक्य दध्यावित्यन्यदा हृदि ॥९९॥
असंहर्ष अमत्सरं, हीरहर्ष मुनिं पुनः किं०, आत्तानि गृहीतानि आत्मनः समानि तुल्यानि समानि समस्तानि वा वाङ्मयानि येन तं पुनः किं०, गुरु बृहस्पतिमिव, बुद्ध्येत्यध्याहियते, आलोक्य गुरुरिति वक्ष्यमाणं, हृदि दध्यौ ध्यातवान् ।। ९९ ।। तदेवाह
स्वकीयं परकीयं च योऽधीते वाङ्मयं सुधीः । आविष्कर्त्ताशुमालीव स स्यात् सद्सतोः पथोः ॥ १०० ॥
स्वकीयं परकीयं च वाकायं यः सुधीरधीते पठति, स. अंशुमाली सूर्य इव, सदसतोः प्रशस्ता प्रशस्तयोः, पथोर्मार्गयोः, आविष्कर्त्ता प्रादुर्भावकः स्यादिति ॥ १०० ॥
पुनर्गुरुचिन्तितमेवाह— हीरहर्षगणिर्नूनं शैवदर्शनशास्त्रवित् । यदि जायेत तत् साधु यदसौ बहुबुद्धिभृत् ॥ १०१ ॥
यदि हरहर्षगभिर्नूनं निश्चितं शैवदर्शनशास्त्राणि नैयायिकप्रमाणप्रकरणानि वेतीति स शैवदर्शनशास्त्रवित्, जायेत.
Page #205
--------------------------------------------------------------------------
________________
१८०
विजयप्रशस्त्याम् ।
भवत्, तत् साधु भव्यं भवति, यतः कारणात्, असौ बहुबुद्धिभृद् वर्तत इति ॥ १०१॥ ध्यात्वेति प्रेरितः सम्यक् शिष्योऽसौ सूरिपुङ्गवैः । अगस्त्याध्यासितदिशो देशे गन्तुमना अभूत् ॥१०२॥
इति ध्यात्वा मूरिपुङ्गवैः प्रेरितः सन्नसौ शिष्यः अगस्त्याध्यासिता दिग् दक्षिणा तस्याः, देशे दक्षिणदेशे, गन्तुमनाअभूत् ॥ १०२ ॥ श्रीधर्मसागरगणिप्रमुखैश्च महर्षिभिः । युतश्चतुर्भिर्दानायै दैर्धर्म इवाऽङ्गवान् ॥ १०३ ॥
चतुर्भिर्महर्षिभिः, कि०, श्रीधर्मसागरगणिप्रमुखेः, युतः सहितः, इवोत्प्रेक्ष्यते-दानाद्यैर्दानशीलतपोभावः, चतुर्भिर्भेदैः धर्म इव अङ्गवान् मूर्तिमानिति ॥ १०३ ॥
इंग्विधः स कृतवान् किमित्याहविजहार हीरहर्षः सहर्षस्तत्र नीवृति । नभःकूलङ्कषाकूले कलहंस इवाऽमलः ॥ १०४ ॥
सहर्षी हीरहर्षगणिस्तत्र तस्मिन् , नीति देशे, विजहार विहतवान् । दृष्टान्तमाह-नभःकूलङ्कषाकूले गङ्गातटे, कलहंसइवेति युग्मव्याख्या ॥ १०४ ॥ तत्र देवगिरौ देवगिराविव महोन्नते । पञ्चर्षयस्तेऽस्थुयेष्ठस्थिति देवद्रुमा इव ॥ १०५ ॥
देवगिरी मेराविव, महोचते तत्र तस्मिन् , देवगिरौ दुर्गे, ते पश्चर्षयो ज्यष्ठस्थिति अस्थुः स्थिताः, देवद्रुमाः पश्चापि, इवोत्प्रेक्ष्यते, युज्यते हि देवगिरी पञ्चदेवद्रुमाणां स्थितिरिति ।।
Page #206
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। प्रतिबिम्बमिवादशे चिन्तामण्यादि वाङ्मयम् । सर्व तद्ददि संक्रान्तं जाह्नवीजलनिर्मले ॥१०६॥ ___ आदर्श दर्पणे, प्रतिबिम्बमिव सर्व चिन्तामण्यादि वाङ्मयं शेवप्रमाणशास्त्र, जाह्नवीजलनिर्मले गङ्गासलिलविमले, तद्धृदि तस्य हृदये, संक्रान्तम् ॥ १०६ ॥
अधीत्य शैवशास्त्रं तत् तत्राऽयं निखिलं खलु । गूर्जरत्रामगाद् वाधौ लावा नीरमिवाऽम्बुदः॥१०७॥
तत्र देवगिरी, तनिखिलं समस्तमपि, शैवशास्त्रं अधीत्य भणित्वा, वाधौं समुद्रे, नीरं लात्वा अम्बुद इब गूर्जरत्रामगात् ॥ १०७॥ खकीयपरकीयाभ्यां शास्त्राभ्यां शास्त्रवित्तमः । अधीताभ्यामभाद् द्वाभ्यां स दोर्ष्यामिव शूरराट्॥१०८॥ ___स शास्त्रवित्तमः अतिविद्वान् , स्वकीयपरकीयाभ्यां निजानिजाभ्यां, शास्त्राभ्यामधीताभ्यां अभात् शुशुभे, यतः पण्डितानां स्वसमयपरसमयाभ्यां शोभा भूयसी भवेत् । अत्र दृष्टान्तमाह-इव यथा, शूरराट् महाशूरः पुमान् , दोा बाहुभ्यां शोभते, प्रकृष्टशूराणां हि भुजबलेनैव सुतरां शोभाः यतः शौर्यश्रीः शूराणां भुजदण्ड एव वर्ण्यते 'शौर्यश्री जदण्डमण्डपतले सिंहीव विश्राम्यति' इत्यादाविवेति ॥ १०८ ॥ गुरूनथ मरौ मत्वा हीरहर्षगणिर्गुणी । जगाम तत्र खर्वापीप्रवाह इव पावनः ॥ १०९ ॥
अथ गुरून् मरो मरुस्थलीनाम्नि देश, मत्वा हीरहर्षगणिस्तत्र जगाम, स्वर्वापीपवाह इव गाङ्गौघ इव, पावनः पवित्र इति ॥ १०९ ॥
Page #207
--------------------------------------------------------------------------
________________
१८२ विजयप्रशस्त्याम् ।
तत्र त्रिजगतां पूज्यैः पूज्यपादैरलंकृताम् । श्रीनारदपुरीं प्रौढप्रासादां प्राप स प्रभुः ॥ ११ ॥
सत्र देशे, त्रिजगतां त्रिभुवनानां, पूजनीयैः पूज्यपादैः श्री विजयदानमूरिभिः, अलङ्कृतां भूषितां, पुनः किं०, पौडभासादां तुङ्गविहारां, श्रीनारदपुरी नगरी, स पाप ॥ ११० ॥
भणित्वाऽष्टोत्तरं नव्यकाव्यानां शतमग्रतः । ललाटपट्टसङ्घट्टिकोटीरायितपाणिना ॥ १११ ॥
नव्यानां तात्कालिकानां, काव्यानां अष्टोत्तरं शतं भणित्वा कथयित्वा, कथम् , अग्रतः पुरः, ललाटपट्टे सङ्घहिनौ कोटीरायितौ किरीटीभूतौ पाणी हस्तौ यस्य तेन ॥ १११ ॥ साक्षात् पुंरूपया वाचामधिदेवतयेव ते । हीरहर्षेण हर्षेण गुरवोऽथ ववन्दिरे ॥ ११२ ॥
पुनः साक्षात् प्रत्यक्षया, पुंरूपया पुरुषमूर्त्या, वाचामधिदेवतयेव भारत्येव, हीरहर्षेण हर्षेण प्रमोदेन, ते गुरवो ववन्दिरे वन्दिताः। युग्मव्याख्या. ॥ ११२ ॥ परिपूर्णकलं पुत्रं प्रेक्ष्याऽमी सूरिशेखराः। उल्लसन्ति स्म शीतांशुमिव वारिधिवीचयः ॥११३॥
अपत्यशिष्ययोः समानधर्मत्वात् पुत्रं शिष्यं, कि०, परिपूर्णकलं विद्वत्कलासम्पन्न, प्रेक्ष्य अमी मूरिशेखरा गुरवः, उल्लसन्ति स्म । शीताशुं चन्द्र, प्रेक्ष्य वारिधिवीचयः समुद्रोर्मयइवेति दृष्टान्तः ॥ ११३॥ तत्रैव नगरे वर्षे सप्तव्योमर्तुभूमिते । शुभेऽह्नि ललिते लग्ने प्रासादे वृषभप्रभोः ॥११४॥
Page #208
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ।
१८३
तत्रैव नगरे नारदपुरीनामके, पुनर्वर्षे, किं०, सप्तव्योमर्तुभूवाचकैः अवमगत्या विन्यस्तैः १६०७ इतिसंख्यया मिते, पुनः शुभे श्लाघ्ये, अहनि दिने, पुनर्ललिते लग्ने वहमाने सति, पुनर्वृषभप्रभोः प्रासादे ॥ ११४ ॥
किं कृतमित्याह
सत्यङ्कारमिवाचार्यपदप्रकटसंपदाम् ।
विद्वत्पदं पदं कीर्त्तेर्गुरवो ददिरेऽस्य ते ॥ ११५ ॥
आचार्य पदप्रकटसम्पदां सूरिपदश्रीणां सत्यङ्कारमिव कीर्त्तः पदं स्थानं, विद्वत्पदं पण्डितपदं, गुरवः अस्य शिष्यस्य, ददिरे दत्तवन्तः । इति युग्मव्याख्या ।। ११५ ॥
तत् पण्डितपदं हीरहर्षे विदुषि धीजुषि । सुवर्णे हीरवद् रेजे सार्द्धषोडशवर्णिके ॥ ११६ ॥
हीरहर्षे विदुषि पण्डिते, किं०, धीजुषि मतिमति, तत् पण्डि तपदं सार्द्धषोडशवर्णिके सुवर्णे हरिवद् रेजे राजति स्मेति ॥ ११६ ॥
अथानघेन संघेन श्रीनारदपुरीपुरः । पुनर्विज्ञपयांचके तपागच्छाधिभूर्विभुः ॥ ११७ ॥
अथेत्येकवर्षानन्तरं, पुनः श्रीनारदपुरीति पुरः पुर्याः, अनघेनं सङ्केन तपागच्छाविभूर्विभुः श्रीविजयदानमूरिः, विझपचक्रे विज्ञप्त इति ॥ ११७ ॥ विद्वषां हीरहर्षाणामुपाध्यायपदं प्रभो ! | संघाशावल्लिविस्तारवारिदानां प्रदीयताम् ॥ ११८ ॥ हे प्रभो ! हरिहर्षाणां विदुषां पण्डितानां किं०, सङ्घस्य
Page #209
--------------------------------------------------------------------------
________________
१८४
विजयप्रशस्त्याम् । आशा वाञ्छा सैव वल्लिस्तस्या विस्तारे वारिदानां उपाध्यायपदं प्रदीयतां, भवद्भिरिति शेषः ॥ ११८ ॥ पुण्याहूतनिजाकूताऽव्यभिचारिणि चारुणि। - सङ्घस्य वचनेऽमुष्मिन् सूरेश्चित्तममोदत ॥ ११९ ॥
पुण्येन आहूतं आकारितं पुण्याहूतं भाग्यलभ्यं यनिज आकृतं अभिप्रायस्तस्याऽव्यभिचारिणि अविसंवादिनि स्वाभिमायानुसारिणीति यावत् , पुनश्चारुणिं रम्ये, अमुष्मिन् सकस्य वचने सति, सूरेश्चित्तममोदत मुमुदे ॥ ११९ ॥ __ अथ चतुर्णा व्याख्यासंवत्सरेऽथ पृथ्वीध्रसुराध्वरसशीतगौ । माघे मास्यमृतज्योतिःपञ्चमे पञ्चमे तिथौ ॥१२०॥
अथाऽन्यदाऽप्येकवर्षानन्तरं, संवत्सरे, किं०, कुलाचलानामष्टसंख्यत्वात् पृथ्वीधाः पर्वता अष्टी, सुराध्या गगनं विन्दुः, रसाः षद्, शीतगुश्चन्द्रमा एकः; एतेऽङ्का वामतो मीलिताः १६०८ इति संख्याका यत्र तत्र वर्षे, पुनर्माघे मासि, पुनः अमृतज्योतिषा चन्द्रेण पञ्चमे रम्ये शुभ्र इति यावत् , पञ्चमे तिथौ ॥ १२० ॥ श्रीनारदपुरीनाम्नि पुरेऽत्युत्सवसुन्दरे । वरकाणाभिधानश्रीपार्श्वतीर्थेशसाक्षिकम् ॥ १२१ ॥
पुनः अत्युत्सवैः सुन्दरे नारदपुरीनाम्नि पुरे नगरे, पुनवरकाणाभिधानश्रीपार्वतीर्थेशस्य तदानीं तत्र स्थितस्य साक्षिकम् ॥ १२१॥
चैत्ये श्रीनेमिनाथस्य सनाथस्याऽद्भुतश्रिया। सम्यक् संमतिमादाय साधूनां गच्छवासिनाम्॥१२२॥
Page #210
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ।
१८५
पुनरद्भुतश्रिया सनाथस्य श्रीनेमिनाथस्य चैत्ये प्रासादे, नगरमध्यवासस्थ इति शेषः, पुनर्गच्छ्वासिनां साधूनां संम तिमनुझां, आदाय लात्वा, यतस्तदानीं तथाविधमध्यस्थगीतार्थानुज्ञापूर्वकमेव वाचकादिपदप्रदानमासीदिति महत्तेः तेन साधूनां संमतिमादायेत्युक्तमिति तात्पर्यम् ।। १२२ ।। उपाध्यायपदेऽस्थापि हीरहर्षः स सूरिभिः । स्थानेऽङ्कुर इवाचार्यपदर्द्धिवरवीरुधः ॥ १२३ ॥
स ही हर्षपण्डितः सूरिभिरुपाध्यायपदेऽस्थापि स्थापितः, आचार्यपदर्द्धिरेव वरा वीरुद् वल्लिस्तस्याः, स्थाने आलवाले, अङ्कर इवेत्युत्प्रेक्षा । चतुर्भिरन्त्यक्रियं कलापकं व्याख्यातम् ॥ १२३ ॥
शुशुभे श्रीतपागच्छस्तेन वाचकचक्रिणा । काननं कुञ्जरेणेव दानवारिविराजिना ॥ १२४ ॥
तेन वाचकेषु चक्रिणा चक्रवर्तिना, श्रीतपागच्छः शुशुभेशोभिष्ट । दृष्टान्तोऽत्र - यथा दानवारिविराजिना वाचकपक्षे दानवारिर्नारायणस्तद्वद्विराजिना, सौभाग्येनेति शेषः, कुञ्जरपक्षे दानवारिणा मदजलेन विराजिना मनोज्ञेन कुञ्जरेण, काननं वनमिति ।। १२४ ॥
आधिपत्यं गणस्याऽस्य भविता दीप्तिमत्तमम् । श्रीहीरहर्षोपाध्याये वज्रिणीव दिवः सदा ॥ १२५ ॥
अस्य गणस्य तपागच्छस्य, आधिपत्यं साम्राज्यं, श्रीहीरहर्षोपाध्याये वज्रिण शक्रे, दिवः स्वर्गस्येव, दीप्तिमत्तमं देदीप्यमानं भविता भावि ।। १२५ ।।
ध्यात्वेति सूरयः सूरिमन्त्राराधनमुत्तमम् ।
२७
Page #211
--------------------------------------------------------------------------
________________
१८६ विजयपशस्त्याम् । विधिना साधु सीरोहीनगरे चक्रिरेऽन्यदा ॥ १२६ ॥
इति ध्यात्वा सूरयः सीरोहीनगरे मूरिमन्त्राराधनं साध्विति क्रियाविशेषणं, चक्रिरे चक्रुः । अर्थतो युगलम् ॥१२६॥
अथाऽऽसीत् सूरिमन्त्रस्याधिष्ठायकसुरः पुरः। प्रत्यक्षः प्रेष्यवत् प्रोच्चैः प्रमनाः सूरिहस्तिनाम् ॥१२७॥
अथ मासत्रयान्ते मूरिमन्त्रस्याऽधिष्ठायकसुरः,कि०, प्रमनाहृष्टमनाः सन् , मूरिहस्तिनां तेषां, पुरः प्रेष्यवत् प्रत्यक्षः प्रकटः, आसीत् ।। १२७ ॥ वाचको हीरहर्षाख्य आख्यातः शमिनां गुणैः । स्वस्मिन् पट्टे प्रभो ! स्थाप्यः प्रतिबिम्ब इवात्मनः ॥१२८॥
शमिनां साधना, गुणैराख्यातः प्रकामं प्रसिद्धिमान् , हीरहर्षाख्यो वाचकः स्वस्मिन् पट्टे हे प्रभो! स्थाप्यः, अयं कोहर इत्याह-आत्मनः प्रतिबिम्ब इवेति, अनेन गुरुशिष्ययोर्नान्तरमिति सूचितम् । प्रतिबिम्ब इत्यत्र बिम्बशब्दस्य धुनपुंसकत्वाद् बिम्बइत्यदुष्टम् ॥ १२८ ॥ इत्युक्त्वा पूजयित्वा च मौक्तिकैरक्षतैरिव । यथागतं सुपर्वाऽयमभ्यागत इवागमत् ॥ १२९ ॥
इत्युक्त्वा कथयित्वा, पुनः अक्षतैरिव मौक्तिकैः पूजयित्वा, अभ्यागतः अभिमुखं आगतोऽभ्यागतो मिलनायाऽऽगतेष्ट इच, अयं सुपर्वा देवः, यथागतं तथाऽगमद् गतवानिति ॥ १२९ ॥ वचनेनाऽमुना धैर्यवर्या आचार्यपुङ्गवाः । कृषीबला इवाऽम्भोदगर्जितेन मुदं दधुः ॥ १३० ॥ धैर्येण वर्या आचार्यपुत्चास्ते, अम्भोदनादेन जलदगर्जि
Page #212
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ।
૨૮૭
तेन, कृषीवला इव कर्षका इव, अमुना वचनेन देवोकेन, मुदं दधुर्मुमुदिरे ॥ १३० ॥
अहो ! वचनमेतस्य दैवतस्य महात्मनः । अर्थ उक्तेरिव मदाशयस्याऽव्यभिचार्यभूत् ॥ १३१ ॥
अहो इत्याश्चर्यवाचकोऽव्ययः, एतस्य दैवतस्याऽस्य देवस्य, बचनं महात्मन उक्तेरिव आप्तपुरुषवाक्यस्यैव, अर्थोऽभिधेयो यथा अव्यभिचारी भवति तथा, महाशयस्य मच्चित्तस्य, अव्यभिचारि अभूत् ॥ १३१ ॥ चिन्तयित्वेति चित्तान्तश्चिरं सूरिपुरन्दरैः । पृष्टाः प्रोचुर्यथाकाममिति सर्वेऽपि साधवः ॥ १३२॥
इति सूरिपुरन्दरैश्चित्तान्तश्चिन्तयित्वा सर्वेऽपि साधवः पृष्टाः सन्तः यथाकाममिति प्रोचुर्यथा रुचिर्भवतां तथाऽस्त्विति कथयामासुः । अर्थतो युग्ममिदम् ॥ १३२ ॥
अब्देऽथ शुद्धे धिष्ण्याध्वधिष्ण्येशर्तुधरामिते । दशम्यां सहसो मासो विशदद्युतिसंपदि ॥ १३३ ॥
अथ अब्दे वर्षे, कीदृशे, शुद्धे गुर्वस्तशुक्रास्तादिना वर्जिते, पुनः किं०, धिष्ण्याध्वा गगनं, धिष्ण्येशचन्द्र एकः, ऋतवः षद्, धरा एका, तद्वाचकैर कैर्वामगत्या विन्यस्तैः १६१० इति सङ्घयया मिते, पुनः सहसो मासो मार्गशीर्षस्य मासस्य, दशम्यां तिथौ, किं०, विशदद्युतेश्चन्द्रस्य सम्पद् यत्र तत्र विशदद्युतिसंपदि मार्गशीर्ष शुक्रदशम्यामिति ॥ १३३ ॥
अथ द्वादशभवनविभागेन तल्लग्नकुण्डलिका यथा— कर्के राहौ शनौ कुम्भे सौम्यमार्त्तण्डयोरलौ ।
Page #213
--------------------------------------------------------------------------
________________
૧૮૯
विजयप्रशस्त्याम् ।
गुरौ भृगौ च कन्यायां मीने कुमुदिनीपतौ ॥ १३४ ॥
१० के
| बु ८ र
राह कर्केऽष्टमे भवने सति, पुनः शनौ कुम्भे स्वक्षेत्रे तृतीयभवने सति, पुनः सौम्यमार्त्तण्डयोः अलौ वृश्चिके द्वादशे भवने स्थितयोः, पुनरौसुराचार्ये भृग शुक्रे च
४ रा
कन्यायां दशमे भवने सति, पुनः कुमुदिनीपतौ चन्द्रे मीने चतुर्थे भवने सति इति नवग्रहसंस्था || १३४ || अंशैश्व बलिभिः सर्वैर्धनुर्लग्ने समङ्गले । अष्टादशभिरदुष्टे दोषैर्वेधादिभिर्दिने ॥ १३५ ॥
११श
चं १२
७
श्रीः शु ६ वृ
३
च पुनः, अंशैः पञ्चमांशनवांशादिभिर्लग्नांशैः, सर्वैर्बलीयो - भिर्वर्त्तमानैः पुनः धनुर्लवे, किं०, समङ्गले भौमसहिते वहमाने सति, पुनः अष्टादशसंख्याका ये मुहूर्तदोषास्ते यथा
" स्युर्वेधः पातलते ग्रहमलिनमुड क्रूरवारा ग्रहाणां
जन्मक्षै विष्टिरर्द्धमहरककुलिको पग्रहक्रान्त्यवस्थाः । कर्कोत्पातादिघण्टो विगतबलशशी दुष्टयोगोऽर्गलाख्यो
गण्डान्तो दग्धरिक्तमुखतिथियुतो नामतोऽष्टादशैते ॥१॥ एवैर्वेधादिभिर्दोषैरदुष्टे दिने ॥ १३५ ॥ पुरे शिवपुरीनाम्नि महोत्सवमनोहरे । सङ्गते सङ्घसङ्घातेऽनघे मञ्जुमनोरथे ॥ १३६ ॥ पुनर्महोत्सबैर्मनोहरे शिवपुरीनाम्नि पुरे सीरोहीनामके मगरे, पुनरनघे निष्पापे, पुनर्मज्ञ्जुमनोरथे मनोज्ञाभिलाषे, संघस्य
Page #214
--------------------------------------------------------------------------
________________
.
चतुर्थः सर्गः। चतुर्विधस्य संघाते समुदाये, संगते मिलिते सति ॥ १३६ ।। हर्षेण हीरहर्षाणां वाचकानां गणाधिपाः । गच्छैश्वर्यं तरो/जमिवाचार्यपदं ददुः ॥ १३७ ॥ ___गणाधिपाः श्रीविजयदानसूरयः परमगुरवः, हर्षेण हीरहर्षाणां वाचकानां गच्छैश्वर्यतरोस्तपागणसाम्राज्यवृक्षस्य, बीजमिव आचार्यपदं सूरिपदवीं, ददुर्दत्तवन्तः । इति श्लोकपञ्चकव्याख्या । अन्त्यक्रिय कुलकमिदम् ॥ १३७ ॥
वशक्रियाया जगतां मूलमन्त्रमिवानघम् । । नामापि हीरविजय इत्येषां गुरवो व्यधुः ॥१३८॥ - जगतां स्वपिर्त्यपातालानां, वशक्रियाया वशीकारस्य, मूलमायं मन्त्रमिव, एषां वाचकानां, गुरवः पूज्याः, हीरविजयइति नाम व्यधुश्चक्रुः, सूरिपददाने श्रीहीरविजयसूरिरिति नाम स्थापितम् ॥ १३८॥
इदं सूरिपदं प्राप्य तेजसामेकमास्पदम् । दिदीपेऽधिकमाचार्यो मध्याह्नमिव भास्करः ॥१३९॥
इदं सूरिपर्द, किं०, तेजसा प्रभावानां, सूर्यपक्षे तेजसा त्विषां, आस्पदं स्थानं, प्राप्य मध्याह्न मध्यन्दिनं, भास्करइव स आचार्योऽधिकं दिदीपे देदीप्यमानोऽभूदिति भावः॥१३९।। सूरिश्व युवराजश्व द्वावेतौ सदृशक्रमौ। गच्छचिन्तां वहतः स्माऽनोधुरां वृषभाविव ॥१४॥ . मूरिः श्रीविजयदानसूरिः, युवराजः श्रीहरिविजयमूरिः, एतौ द्वौ गच्छनायको, अनसः शकटस्य धुरा, वृषभाविव गच्छचिन्तां वहतः स्म दधतुः। कीदृशी, सदृशक्रमौ वृषभपक्षे सदृशाः
Page #215
--------------------------------------------------------------------------
________________
१९० विजयप्रशस्त्याम् । क्रमाः शक्तयो ययोस्तो, गुरुपक्षे सदृशः क्रमः कल्पः साध्वाचारो ययोस्तौ ॥ १४ ॥
अभूद् दीप्तिमतोः शश्वत् सूरीशयुवराजयोः । गच्छे तेजोऽद्भुतं व्योम्नि सूर्याचन्द्रमसोरिव ॥१४१॥ - व्योम्नि गगने, सूर्याचन्द्रमसोः पुष्पदन्तयोरिव, किंभूतयोः, दीप्तिमतोः मूरीशयुवराजयोगच्छेन्द्राचार्ययोस्तयोः, तेजोऽद्भुतमाचर्यकारि, अभूद् गच्छे तपागच्छे ।।१४१।। क्रमात् कुङ्कणदेशो:मुखमण्डनमुत्तमम् । भूषयन्ति स्म ते सूरिसूराः सूरतिबन्दिरम् ॥१४२॥
अनुक्रमेण सीरोहीनगरतो विहरन्तस्तै सूरिसूरा आचायसूर्याः श्रीविजयदानसूरिपादाः, श्रीहरिविजयसूरि पत्तने चतु
सीकरणायाऽऽदिश्य स्वयं कुङ्कणदेशस्योर्वी मही तन्मुखे मण्डनमलङ्कृतिकृत् , सूरतिबन्दिरं भूषयन्ति स्माऽलश्चक्रुः ॥१४२॥ असमकुसुमे ताम्राक्षाणामिवाम्रतरौ वने
सरसि सरसे रोलम्बानामिवाम्बुरुहे स्मिते । इह निवसतां पुण्याशानामशेषमहीस्पृशां । स्थितवति गुरौ तुङ्गे द्रङ्गेऽजनिष्ट सुखं महत्॥१४३॥
असमकुसुमे निरुपमपुष्पे, आम्रतरी सहकारद्रुमे, यथा ताम्राक्षाणां कोकिलानां, वनेः पुनः सरसे ससलिले, सरसि कासारे, यथा स्मिते स्मेरे. अम्बुरुहे कमले, रोलम्बानां भ्रमराणां; तथा इह तुझे द्रले सूरतिनामकबन्दिरे, गुरौ विजयदानसूरी, स्थितरति सति, पुण्ये धर्मे आशा तृष्णा येषां तेषां धर्मिणामिति, अशेषमहीस्पृशां समस्तजन्तूनां, महत् सुखमज
Page #216
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः ।
१९१
निष्ट जज्ञे । इह सर्गेऽनुष्टुप्छन्दोऽन्त्यं तु हरिणीवृत्तं, तल्लक्षणं प्रतिपादितम् ।। १४३॥
इतीति सकलं भव्यम् । इतिसुविहितसभासार्वभौमसमानसकलपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिशिष्यमुख्य पाण्डितपुरन्दरमख्यपण्डितश्रीविद्याविजयगणित्रिनेयवाचक श्रीगुणविजय
गणिविरचितायां विजयप्रदीपिकाऽभिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां चतुर्थः सर्वोऽर्थतः समर्थितः ।
अर्हम् अथ पञ्चमः सर्गः ।
अथ पञ्चमः सर्गः प्रारभ्यते तस्येदमाद्यं काव्यम् - अथ सुखं निवसन् निजमातुलौकसि दद्युतिरम्यमुखोऽन्यदा ।
स जयसिंहकुमार उदारवाक् स्वजननीं जननीतिविदब्रवीत् ॥ १ ॥ अथ द्वितीयसर्गव्यावर्णितकौमारः स जयसिंहकुमारः जेसिंहनामा बालकः, किं०, रदद्युतिरम्यमुखः दन्तांशुमनोहराननः, पुनर्मातुलस्य जयताभिधानस्य ओकसि गेहे, सुखमिति क्रियाविशेषणम्, निवसन् अवस्थानं कुर्वन्, अन्यदा एकस्मिन्
Page #217
--------------------------------------------------------------------------
________________
१९२ विजयप्रशस्त्याम् । दिने, स्वजननीं कोडिमदेवीनाम्नी, अब्रवीत् कथयति स्म । स किं०, जनानां नीतिं वेत्तीति सः ॥ १॥ अथ यदब्रवीत्तदाहजननि ! सांप्रतमस्मि पितेव स
न्मतिपदं विपदम्बुधितारिणीम् । ननु जिघक्षुरथो नियमस्थिति
शमघनामघनाशकरीमहम् ॥ २ ॥ है जननि मातः ! सांप्रतमधुना, पितेव कमर्षिवत् , नियमस्थिति तपस्यां, जिघृक्षुर्ग्रहीतुमिच्छुः, अहमस्मीत्यन्वयः। कीदृशीं, सन्मतिपदं शोभनबुद्धिस्थानं, पुनः किं०, विपदम्बुधितारिणी जन्मजरामरणादिव्यापत्तिसमुद्रतारिणी, पुनः किं०, शमस्य क्षमाया घनो दाय॑ यस्यां सा शमघना तां "उवसमसारं खु सामण्णं" इत्यागमायुक्तः। अत एव अघनाशकरी पापप्रध्वंसकारिणीम् ॥ २॥
स खलु वर्त्मनि यत्र पिता मम
ब्रजति तत्र लघुश्चलिताऽस्म्यहम् । जगति यज्जनकाधिगता बुधै
रभिहिताऽभि हिता महतां सृतिः ॥३॥ स कमर्षिः, मम पिता यत्र वर्त्मनि संयममार्गे, व्रजति तत्राहं लघुर्बालोऽपीत्यध्याहार्यम् , चलितास्मि चिचलिषुरस्मीत्यन्वयः। यस्माद्धेतोः, महतां पुण्यात्मनां पुत्राणां, जनकाधिगता नातनिषेविता, मृतिः पद्धतिः, अभि समन्तात् , हिता हितकारिणी, बुधैरभिहिता प्रोक्ता, आदातुमित्यर्थः ॥३॥
तदनु पुत्रमवोचदिति प्रसू
Page #218
--------------------------------------------------------------------------
________________
पत्रमः सर्गः। विषमभारवती नियमस्थितिः। . तव लघोर्घटते न हि सुन्दर
द्विज ! तनूज ! तनूसुखनाशिनी ॥४॥ तद्वाक्यश्रवणादनन्तरं, प्रसूर्माता, पुत्रं जयसिंहकुमारं, इत्ययोचत् ब्रूते स्म-हे सुन्दरदिज मनोदशन ! हे तनूज सुत ! लघोस्तव नियमस्थितिः, कीडशी, विषमो लोहमारवद् दुर्वहोऽजस्रं पश्चमहाव्रतधरणरूपो भारो यस्यां सा विषमभारवती, पुनः किं०, तनूसुखनाशिनी शरीरसौख्यध्वंसिनी, न घटते नोपपद्यते इति ॥४॥ निशितयाऽसुखभूरसिधारया
गतिरिवाऽभिमता तव जातुचित् । . न नियमस्थितिरत्र जनैरपि
श्रितनया तनयाऽभिदधे शिशोः॥ ५ ॥ निशितया तीक्ष्णया, असेः खड्गस्य धारया, गतिर्गमनमिव,असुखभूरसौख्यस्थानं, नियमस्थितिः,हे तनय पुत्र ! शिशोलिस्य तव, जनैलॊकैरपि, श्रितनया न्याय्या, नाभिदधे न प्रतिपादितेति ॥ ५॥ सुसुकुमार ! कुमार ! गृहस्थता
सुखमशेषमहर्निशमात्मसात् । कुरु कनी परिणीय घटोगट
स्तनयमां नयमांसलमानसाम् ॥ ६ ॥ सुष्टु अतिशयेन सुकुमारः कोमलस्तदामन्त्रणं हे सुसुकुमार, हे कुमार बालक! घटवत् कुम्भवत् उद्भटयोमत्तयोःस्त
Page #219
--------------------------------------------------------------------------
________________
१९४
विजयप्रशस्त्याम् ।
नयोः कुचयोर्यमं युग्मं यस्यास्तां, पुनर्नयेन नीत्या मांसल पुष्टं मानसं यस्यास्तां, कनीं कन्यां परिणीय गृहस्थताया अगारित्वस्य, अशेषं समस्तं, सुखं आत्मसात् स्वाधीनं कुर्वित्यर्थः ॥ ६ ॥ सुर इवाऽनुभवाऽऽत्मज ! नित्यशः सुरवधूपमचश्ञ्चलचक्षुषाम् । सुखमखण्डितमत्र धुरि स्थितो धनवतां नवताण्डवडम्बरैः ॥ ७ ॥
हे आत्मज तनय ! सुरवधूपमा देवाङ्गनातुल्याश्चञ्चलचक्षुषो लोललोचनाः स्त्रिय इति यावत् तासां, अखण्डितं संपूर्ण सुखं, सुर इवानुभवेत्यन्वयः । कैः, नवताण्डवडम्बरैनूतननाटकाडम्बरैः, त्वं कीदृशः, धनवतां व्यवहारिणां धुरि स्थित इति ॥७॥ नवजलानि नभोऽम्बुपबालके सलिलवाह इवातुलकौशलः । वितर वत्स ! यथेच्छमतुच्छकोऽर्थिनि वसूनि वसूर्जितमूर्त्तिभाक् ॥ ८ ॥
हे वत्स ! त्वं, किं०, अतुलकौशलोऽनल्पप्रावीण्यः, नभोऽम्बुपबालके चातकपोते, सलिलबाहो मेघः, यथा नवजलानि वितरति तथाऽर्थिनि याचके, वसूनि धनानि वितर देहि । कीदृशः, अतुच्छकः पूर्णः, चित्तविचाभ्यामिति गम्यम्; पुनः, वसुभिस्तेजोभिरूर्जितां मूर्ति भजतीति वमूर्जितमूर्तिभाक् ॥ ८ ॥ वजननीवचनैः स इतीरितः
पुनरभाषत मातरमुल्लसन् । नियतिमन्नियमो नियमस्थिति
Page #220
--------------------------------------------------------------------------
________________
.
.
पञ्चमः सर्गः। - प्रियतमायतमानमनाः शिशुः ।। ९॥ ___ इति व्यावर्णितः, स्वजनन्याः कोडिमदेवीनाम्न्या वचनैः, स शिशुर्जयासिंहः, इरितः प्रेरितः सन् , पुनः, उल्लसन् , प्रमोदेनेति शेषः, पुनर्मातरं अभाषतोवाच, कीदृशः, नियतिमान् निश्चयवान् नियमो निजप्रतिज्ञारूपो यस्य स नियतिमनियमः, पुनः, नियमस्थितिरेव भियतमा प्रणयिनी तस्यां यतमानं यत्नवद् मनो यस्य स नियमस्थितिप्रियतमायतमानमना इति ॥९॥
अपि शिवाध्वनिबद्धधियां नृणा- . .
मघनिदानमभाणि जिनेन या। मम तदम्ब ! गृहस्थतया तया
किमधुना मधुना महतामिव ? ॥ १० ॥ शिवाध्वा मुक्तिमार्गस्तत्र निवद्धधियां बद्धबुद्धीनामपि नृणां, चरमशरीरिणामपीति शेषः, या जिनेन भगवता, आसन्नोपकारित्वेन श्रीवर्धमानखामिनेति यावत् : अधानां पापानां दुःखानां वा, निदानं कारणम्, अभाणि भाणिता। हे अम्ब तया गृहस्थतयाऽगारवासेन, अधुना मम किं १, कृतमिति यावत् । दृष्टान्तमाहमहतां सतां, मधुना मधेनेवेति ॥१०॥ न विरसासु मरुष्विव हस्तिनां
भवति यासु रतिः सुखकृद् ,नृणाम् । बुधजनैः पथिकाः पथि पाप्मनः
सुनयना नयनाशकृतः स्मृताः ॥ ११ ॥ हस्तिनां मरुषु स्थलीष्विव, किंलक्षणासु, विरसासु निर्ज लासु, अन्यत्र निःखादासु विपाकत इति, यासु रतिर्नृणां
Page #221
--------------------------------------------------------------------------
________________
विजयशस्लाम् । सुखकृद् न स्यात् । अत्र पूर्वार्धे यच्छब्दोपादानात् पश्चिमा तच्छन्दोऽध्याहार्यः, तेन ताः सुनयनाः स्त्रियः, किं०,नयनाशकृतः न्यायध्वंसिन्यः, पुनः किं०, पाप्मनः पापस्य, पथि मार्गे, पथिका अध्वन्याः, स्मृता उक्ताः, पापपद्धतिप्रवृत्तिकारिण्य इति यावत् ॥ ११ ॥
नयति तन्नटनं न सतां मनो
मुदममन्दममङ्गलनाशिनीम् । प्रचुररूपभृता यदनुष्ठितं
तनुमताऽनुमताऽऽदरमाभवम् ॥ १२ ॥ तन्नटनं नाटकं, सतां पण्डितानां, मनः, अमन्दमिति क्रियाविशेषणम् ,अमङ्गलनाशिनी अकल्याणवारिणी,मुदं हर्ष, न नयति प्रापयतीत्यन्वयः। तत्किमित्याह-यत् प्रचुररूपभृता भूरिरूपधारिणा, तनुमता प्राणिना, आभवं आसंसारमधिकृत्य, अनुमतादरं कृतादरं यथा स्यात्तथा, अनुष्ठितं स्वीकृतमिति ॥१२॥
वितरणं ननु दातुमना अहं ___ तदभयाभिधमद्भुतमात्मसु । भवति यत् समतासुभगे शिवा
ध्वनि हितं निहितं निजमानसे ॥ १३ ॥ नन्विति निश्चये, तदभयाभिषं वितरणं अभयदानं, कीदृशं, अद्भुतं चित्रकृत् , आत्मसु जन्तुषु, दातुमना अहमस्मीत्यन्वयः । यद् निजमानसे स्वस्वान्ते, निहितं अहमेतमै अभयं ददामीति चिते भावितं सत् , समतासुभगे साम्यरम्ये, शिवाध्वनि मुक्तिमार्गे, हितं पथ्य भवतीति भावार्यः ॥ १३ ॥ . . ब्रजितुमध्वनि यत्र महात्मना
Page #222
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः।
१९७ मभिलषामि समाहितचेतसाम् । त्वमपि तत्र तदम्ब ! भवाऽधुना __ छविपदेऽविपदेनसि सत्वरा ॥ १४ ॥
समाहितचेतसां समाधियुक्तमनसां, महात्मनां साधूनां, यत्राऽध्वनि मार्गे, वजितुं गन्तुं, अभिलषामि ईहे, अहमिति योगः। हे अम्ब! ततस्तत्राऽध्वनि, कीदृशे, छविपदे शोभाऽऽस्पदे, पुनर्न विद्यते विपत् संसारसंबन्धिनी दुष्कर्मव्यापारप्रयासादिरूपा व्यापत्तिः, एनः पातकं च यत्र तत्राविपदेनसि; त्वमपि सत्वरा भव औत्सुक्यं भजेति, संयमस्वीकारकरणेन मम सहायीभवेति शवार्थः ॥ १४ ॥ वचनमीरितमात्मभुवेत्यदो
ऽनघमुदां खनिरप्यगरीयसा । शिखिसुलोचनयेव पयोधर
ध्वनिरमानि रमासमयाऽनया ॥ १५ ॥ अगरीयसापि बालेनापि, आत्मभुवा पुत्रण, इतीरितं व्यावर्णितरूपं वचनं, कीदृशं, अनघमुदो खनिर्मनोज्ञहर्षाकरः, शिखिसुलोचनया केकिकान्तया, यथा पयोधरध्वनिर्मेघनादः, तथाऽनया कोडिमदेनाम्न्या जनन्या, किं०, रमासमया लक्ष्मीतुल्यया, अमानि मेने ॥ १५॥ प्रमुदिता प्रति सूरतिबन्दिरं
चलितुमैच्छदथार्थमिवाऽङ्गिनम् । सपदि सा परिगृह्य तमात्मनः
सुतमसातमसावुदकोपमम् ॥ १६ ॥
Page #223
--------------------------------------------------------------------------
________________
विजयत्रशस्त्याम् ।
अथेत्यन्यदा, मूर्त्तिमन्तमर्थमिव वित्तमिव तं आत्मनः सुतं जयसिंहकुमारं कीदृशं, असातमसौख्यं तद्रूपा मसिर्मणी तत्र, उदकोपमं पानीयप्रतिमं तद्व्यपोहकत्वात्; परिगृह्य समादाय, सूरतिबन्दिरं प्रति प्रमुदिता सती, सा चलितुमैच्छच्चिचलिषुर्जातेति ॥ १६ ॥
जिनवरांश्च गुरूंश्च पुरे पुरे
१९८
प्रणयतः प्रणमन्त्यथ पुण्यधीः ।
अचलदध्वनि कोडिमदेसती
त्रसहिता सहिता तनुजन्मना ॥ १७ ॥
अथेति पालीपुरस्थस्वसहजालयात् शुभे दिवसे जिनवरान् देवान् गुरून् मुनीन्, पुरे पुरे प्रणमन्ती अत एव पुण्ये धर्मे, अथवा पुण्या पवित्रा धीर्यस्याः सा, कोडिमदेसती अचलत् । कीदृशी, त्रसाश्वरजीवा उपलक्षणत्वात् स्थावराश्च तेषां हिता भावचारित्रात् पुनः, तनुजन्मना पुत्रेण जयसिंहकुमारेण सहिता ॥ १७ ॥
"
शकुनसूचितभाविमहोदया
ऽऽत्मजयुता वनिताऽऽलिमतल्लिका ।
निजमनोरथपूर्तिमनोरमा
ऽध्वनि शिवानि शिवाकृतिरन्वभूत् ॥१८॥
शकुनैः सूचितो भावी महान् उदयो यस्याः सा पुनः, आत्मजेन सुतेन युता, वनिताऽऽलिमतल्लिका स्त्रीश्रेणिश्रेष्ठा, पुनः, निजमनोरथपूर्त्या देवगुरुप्रणमनलक्षणस्वाभिलाषपूरणेन मनोरमा, पुनः, शिवा पार्वती तद्वत्, अथवा शिवा निरुपद्रवा
Page #224
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः। आकृतिर्यस्याः सा, सा कोडिमदेवी, अध्वनि मार्गे, शिवानि कुशलानि, अन्वभूत् क्षेमेण याति स्मेति ॥ १८ ॥ विजयदानमुनीन्द्रपदाम्बुजो-:
ल्लसदलङ्कृति साऽथ पतिव्रता । नगरमाप च सूर्यपुरं कजो
पमकरा मकराकरपार्श्वगम् ॥ १९॥ विजयदानमुनीन्द्रपदाम्बुजाभ्यां उल्लसन्ती अलस्कृतिर्यत्र तत् , पुनः, मकराकरःसमुद्रस्तत्पार्श्वगं उदधितटवर्तित्वात् , सूर्यपुरं नाम नगरं सूरतिबन्दिरं, सा पतिव्रता, अथ मेदपाटगूर्जरघरोल्लङ्घनाद, आप प्राप्ता । कीदृशी, कजोपमौ कमलतुल्यौ करौ यस्याः सा ॥ १९ ॥
जययुतेव पुलोमसुताऽथ सा • प्रणमति स्म सुतेन समन्विता । विजयदानमुनीन्दुपदद्वयं
घनरसं नरसंघनमस्कृतम् ॥ २० ॥ जयेन जयदत्तेन युता, पुलोमसुता शचीव, सा सुतेन जयसिंहेन समन्विता, विजयदानमुनीन्दोः पदद्वयं, कीदृशं, नरसङ्घन नमस्कृतं, घनरसं बहुहर्ष यथा भवति तथा, प्रणमति स्मेति॥२०॥
न्यगददुज्ज्वलदन्तमहोभरा _ विदधतीव मनोहरमौक्तिकैः। मुनिपतेरुपदामियमग्रतो ___ वरवचाऽऽरवचारुमुखी सती ॥ २१ ॥ इयं सती, कीदृशी, उज्ज्वलो दन्तमहोभरो यस्याः, इबोल्ने
Page #225
--------------------------------------------------------------------------
________________
२००
विजयप्रशस्त्याम् ।
क्ष्यते - मुनिपतेः श्रीविजयदानसूरेः, अग्रतः मनोहरमौक्तिकैः रम्यमुक्ताफलैः, उपदां ढौकनं, विदधती कुर्वती, पुनः, बरः श्रेष्ठो यो वचः शुकः " वचः शुके " इत्यनेकार्थत्वादिति बरवचः शोभनशुकस्तद्वत् आरवेण ध्वनिना चारुमुखी, न्यगदद् बभाणेति ॥ २१ ॥
सममनेन सुतेन लघीयसा निकट आर्यवराः ! सुकृताकरे ।
परिजिघृक्षुरहं ध्रुवमस्मि वः
शुभवतां भवताण्डवहृद् व्रतम् ॥ २२॥
अनेन पुरः स्थितेन सुतेन समं सार्धं, हे आर्यवराः श्रीपूज्यमिश्राः ! शुभवतां श्रेयस्विनां, वो युष्माकं, निकटे पार्श्वे, कीदृशे, सुकृताकरे धर्मखानौ, भवताण्डवहृत् संसारनाव्यहरं, व्रतं चारित्रं, ध्रुवं निश्चयेन, परिजिघृक्षुर्ब्रहीतुमिच्छुः, अस्मीत्यर्थः २२ इति तदुक्तिमुदारगुणास्पदं
सुतममुं च निशम्य सदाकृतिम् । भृशममी गुरवो गुरुवैभवा
मुमुदिरे मुदिरेष्टसमागमाः ॥ २३ ॥
उदारगुणानामास्पदं पदं, तदुक्तिं तद्वाचं, निशम्य श्रुत्वा, पुनः, सदाकृर्ति शोभनाकारं, अमुं सुतं निशम्य निरीक्ष्य । यत् श्रीहेमसूरयोऽनेकार्थसंग्रहे “निशमनं निशामनं निरीक्षणश्रवणयोः" इत्याहुः, अमी गुरवः श्रीपूज्याः कीदृशाः, गुरुवैभवा महासंपदः, पुनः, किं०, मुदिरो मेघस्तद्वत् इष्टः समागमो येषां प्रजानामित्याक्षेप्यते, मुदिरेष्टसमागमाः, सुमुदिरे मोदमापुः ॥ २३॥
अमृशदम्बिकयेरित आदरात्
Page #226
--------------------------------------------------------------------------
________________
.
अना
पानः सर्गः। २०१८ स जयसिंहकुमार उदारदृक् । खशिरसा बहुशः सुगुरोईयीं
चरणयो रणयोगतमोऽर्कयोः ॥ २४ ॥ उदारा दृग् बुदिदृष्टिदर्शनं वा यस्य सः, स जयसिंहकुमारः, अम्बिकया मात्रा, इरितः प्रणोदितः सन्, स्वशिरसा सुगुरोः रणयोगतमोऽर्कयोः कलहसंयोगध्वान्तसूर्ययोः, चरणयोयीं बहुशो भूरिवेलं, अमृशत् स्पृशति स्मेति ॥ २४ ॥
अमरभूरुहपल्लवशालिना .. ..
शिशुशिरः प्रणतं निजपाणिना। .. यतिवरा बहुवारमथाऽस्पृशन् ।
ध्वजपयोजपयोधिमुखाङ्किना ॥ २५ ॥ अमरभूरुहपल्लवः कल्पपादपकिशलयं तद्वच्छालिना, पुनः, ध्वजः पताका, पयोजं च कमलं, पयोधिः समुद्रः, तन्मुखानां तदादीनां लाञ्छनानां अङ्को भूषा तदादयो वा अङ्काश्चिह्नानि यस्मिस्तेन ध्वजपयोजपयोधिमुखाङ्किना, निजपाणिना प्रणतमानतं, शिशुशिरोबालकमस्तकं, यतिवराः श्रीविजयदानसूरयः, बहुवारमनेकशः, अस्पृशन् स्पृशन्ति स्मेति ॥ २५ ॥
दृशि पुमान् गुणिलक्षणलक्षितः - खलु महान् भवतीति वितर्कतः।। न गुरुदृग् जयसिंहदृशं जहाँ ..
कमलिनीमलिनीव ससौरभाम् ॥ २६ ॥ महान् पुमान् दृशि चक्षुषि, गुणिनां गुणवता लक्षणैर्लतितो भवति, एतावता महतां चक्षुर्लक्षणोपेतं विलोक्यते "यथा
२७
Page #227
--------------------------------------------------------------------------
________________
२०२
विनयपशस्त्याम् । नेत्रे तथा शीलम्" इत्यायुक्तः, इति वितर्कतो गुरुहग्जयसिंहदृर्श न जहौ नात्याक्षीत् । दृष्टान्तं स्पष्टयति-यया ससौरभां सगन्धां, कमलिनी नलिनी, अलिनी भ्रमरीवेति ॥ २६ ॥
जलरुहे भ्रमरीव विकखरे
मुनिपदृग् भजति स्म चिरं स्थितिम् । शिशुमुखे मधुरत्वलसहचो____ मधुनि साधुनि साम्य इवर्षिहृत् ॥२७॥ शिशुमुखे, कीदृशे, मधुरत्वेन माधुर्येण लसद्वच एव मधु क्षीरं क्षौद्रं परागो वा यत्र तत्र, मुनिपदृग् गुरुदृष्टिः, स्थिति भजति स्म । प्रथमान्त्यपादयोदृष्टान्तमाह-विकखरे जलरुहे भ्रमरी यया, पुनः, साधुनि रम्ये, साम्ये समतायां, ऋषिहृत् चारित्रिचेतः, यथेत्युपन्यासः ॥२७॥
अथैकविंशत्या वृत्तैर्यथा गुरुः शिशुं परीक्षितांस्तथा वर्णयतिस्मितपयोजपलाशसुपेशले
प्रचुरपुण्यमये नयनद्वये । शुभति चाऽस्य शिशोः सदपाङ्गयो__ररुणिमोरुणि मोदनिदानभूः ॥ २८ ॥
अस्य शिशोनयनद्ये, कीदृशे, मितपयोजपलाशवत् विकसितकमलदलवत् सुपेशले सुशोभने, पुनः, प्रचुरपुण्यमये बहुधर्ममये, पुनः, उरुणि विस्तीर्णे, सदपाङ्गयोः स्फुरत्कोणयोः, अरुणिमा रक्तिमा, कीदृशः, मोदनिदानभूः हर्षहेतुस्थानं, शुभति मातीति ॥२८॥
चरणपाणितलौष्ठनखावली
Page #228
--------------------------------------------------------------------------
________________
पशमः सर्गः। २०३ प्रभवयाऽहुतशोणतयाऽमुना। अरुणताऽवधि कोकनदाभिधा
ऽम्बुजगता जगतामतिचित्रकृत् ॥ २९ ॥ चरणौ क्रमौ, पाणितले हस्ततले, ओष्ठोऽधरः, नखाबली प्रतीता, ताभ्यः प्रभव उत्पत्तिर्यस्याः सा तया, अद्भुतशोणतया मनोज्ञरक्तत्वेन, कोकनदाभिधाऽम्बुजं रक्तोत्पलं तद्ता, अरुणता रक्तता, कीदृशी, जगतां अतिचित्रकृद् बहाश्चर्यकारिणी, अमुना बालेन, अवधि 'वधि हिंसायाम्' इति प्रयोगाद् हता, निर्जितेति निर्गलितार्थः ॥ २९ ॥ उदयदम्बुजसोदरसोदरा
ऽभिनवघौसृणघोलविलेपनाः। जयति विद्रुमपल्लवसंपदो
ऽमृतरसा तरसाऽस्य शिशो रसा ॥३०॥ उदयन् उद्गच्छन् योऽम्बुजसोदरः सूर्यस्तत्सोदरस्तुल्योऽभिनवो नव्यो घौसृणः कौडमो घोलस्तद्विलेपनं यासां ताः, अनेन रक्तताऽतिशयः सूचितः; विद्रुमाणां प्रवालानां पल्लवाः किशलयानि तेषां संपदः संपत्तीर्गुणोत्कर्षान् वा "संपद् ऋद्धौ गुणोत्कर्षे" इत्यनेकार्थत्वादिति, अस्य शिशो रसा रसना, तरसा शीघ्र, जयतीत्यन्वयः । कीदृशी, अमृतरसा सुधास्वादा मधुरभाषित्वात् ॥ ३०॥
अरुणिमा यदितः प्रसरद्रुचि
प्रभव एव भवेद् रसनोष्ठयोः । इति धिया विधिना बहुशोणता
Page #229
--------------------------------------------------------------------------
________________
विजयत्रशस्त्वाम् ।
प्रजनिताऽजनि तालुगता शिशोः ॥ ३१ ॥ अस्येत्यध्याहारः, तेनास्य शिशोः, इति धिया बुद्ध्या, विधिना धात्रा, बहुशोणता, कीदृशी, तालुगता काकुदगा, प्रजनिता निर्मिता, अजनि जातेति । इति किमित्याह-यदिति यतः कारणात्, इतस्तालुत एव प्रसरगुचिप्रभवोऽरुणिमा रक्तिमा, रसनोष्ठयोर्जिहाधरयोः भवेद् जायत इति ॥ ३१ ॥
२०४
शिरसिजेषु रदाङ्गुलिपर्वसु त्वचि नखेषु महस्विषु सूक्ष्मता । बहुरमुष्य शिशोः सुभगाकृते
रति विभाति विभाभरभाजिनः ॥ ३२ ॥ महस्विनस्तेजस्विनो ये शिरसिजाः केशास्तेषु, पुनः, रदा दन्ताः, अगुलिपर्वाणि च तेषु, पुनस्त्वचि चर्मणि, पुनर्नखेषु, सूक्ष्मता कृशता, अस्य शिशोः, किंलक्षणस्य, विभाभरभाजिनः कान्तिनिकरशालिनः, पुनः, सुभगाऽऽकृतेः शोभनाऽऽकारिणः, बहुर्बह्वी, अति विभाति ॥ ३२ ॥
ध्रुवमयं भविता शिशुराढ्यरा
डिति लिलेख किमक्षरपद्धतिम् ? | भ्रमरकच्छलतोऽस्य विधिर्मुदोत्सुकमलीकमलीकमुचं सृजन् ॥ ३३ ॥
मुदा हर्षेणोत्सुकं मुदोत्सुकमिति क्रियाविशेषणं, अलीकसुचं कलङ्कमोचकं, अलीकं भालं, सृजन् कुर्वन्, विधिर्विधाता, भ्रमरको भालालकः " स तु भाले भ्रमरकः" इति वचनात्, तन्मिषात्; किं०, इत्यक्षरपद्धतिं वर्णावलीं, लिलेख । इति कवमित्याह- ध्रुवं निश्चितं, अयं शिशुः आन्यराट् ज्ञानविज्ञा
Page #230
--------------------------------------------------------------------------
________________
- पञ्चमः सर्गः। २०५ नादिधनाढ्यमुख्यः, भविता भावी, इति भावार्थः ॥ ३३॥ किमु जगत्प्रभुताचलचक्षुषः
शयनतल्पमनल्पसुखास्पदम्। पृथुलमस्ति हृदस्य शिशोः श्रिया
श्रितमनन्तमनङ्गमदच्छिदः ॥ ३४ ॥ जगत्मभुतैव चलचक्षुः स्त्री तस्याः, अनल्पसुखानामास्पदं, शयनतल्पं शय्येव, अस्य शिशोः, किं०, अनङ्गमदच्छिदःस्मरस्मयहर्तुः, श्रिया श्रितं, पुनः, अनन्तं निरवधि यथा स्यात्तयेति, पृथुलं हृदस्तीति ॥ ३४ ॥ मुनिसभाचलचञ्चुचलेक्षणा
पथि दृशोः प्रविधाय भजत्यलम् । उरुममुष्य मुखं शशिमण्डल
प्रतिमकान्तिमकान्तकरीर्मुदः ॥ ३५॥ अमुष्य शिशोः, शशिमण्डलपतिमकान्ति चन्द्रबिम्बतुल्याभं, पुनः, उरुं विस्तीर्ण, मुखं दृशोः पथि प्रविधाय दृष्ट्रेति , मुखशब्दस्य पुंनपुंसकत्वात् मुखसंबन्धिविशेषणद्वयस्य पुंलिङ्गचाचकत्वे न काऽपि विप्रतिपत्तिरिति । मुनिसभाचलचञ्चुचलेक्षणा साधुपर्षञ्चकोरी, "अकं दुःखाघयोः" इत्यनेकार्थत्वात् अकानां दुःखानां, पापानां वा अन्तकरीः अकान्तकरीर्दुःखध्वंसिनीः, पापध्वंसिनी;; मुदः प्रीतीः, भजतीत्यर्थः ॥ ३५ ॥
भवति भूरि वयःस्थशिखण्डिना
मिव पयःपरिपूर्णपयोमुचः। अति गभीरममुष्य निशाम्यतां
Page #231
--------------------------------------------------------------------------
________________
विजयमशस्त्याम् ।
खरमपारमपापदृशां सुखम् ॥ ३६ ॥ पयसा पानीयेन परिपूर्णो यः पयोमुग् मेघस्तस्य, इव यथा, वय स्थशिखण्डिनां तरुणमयूराणां, तथा अमुष्य शिशोः, गभीरं, पुनः, अपार स्वरं निशाम्यतां शृण्वतां, "डग् द्रष्टुदर्शनध्यक्षिण" इत्यनेकार्थत्वात् अपापा दृग् दृष्टिः, दर्शनं वा, धीर्बुद्धिर्वा, येषां तेषां अपापचक्षुषां वा, अंपापदर्शनानां वा, अपापधियां वा, पुण्यात्मनामिति यावत् ; भूरि बहु, सुखं सातं, 'भवतीति ॥३६॥
चुलुकतस्तलमाविरभूद् मुने__ स्तुलयतोऽपि पति पयसां बहुम् । प्रथितमस्य तु सत्त्वधनं सदा
ऽतलमबालमवाग्विषयं शिशोः ॥३७॥ बहोस्खिलित्वात् पुंलिङ्गे बहुं महान्तमपि, पयसां पति समुद्र, मुनेरगस्त्यस्य, तुलयतः सतः, चुलुकतस्तलं आविरभूत प्रकटितं, अस्य तु पृथुलं, पुनः, अतलमगाधं सत्त्वधनं, अबालमजडं, पुनः, अत एवावाविषयं वचनागोचरम् ॥ ३७॥
असमविस्मयभूरभिभूयते
भुवनवैभववेश्म गभीरिमा । पृथुलकूपभुवाऽतिगभीरता
द्भुततया ततयाऽस्य न नाभिजः ॥३८॥ असमस्य निरुपमस्य विस्मयस्य भूमिः, पुनः, भुवनवैभवस्य जगदैश्वर्यस्य वेश्म गृहं, अस्य शिशोः, नाभिजो गभीरिमा ततया बड्या, पृथुलकूपभुवातिगभीरताऽद्भुततया कूपगभीरत्वचारुत्वेन, नाभिभूयते निर्जित इति निगर्वः ॥ ३८ ॥
Page #232
--------------------------------------------------------------------------
________________
२०७
पञ्चमः सर्गः।
२०७ मुनिषु भाव्ययमुन्नतिमान् भृशं
मनसि नक्रमवक्रमवेत्य किम् ?। प्रविदधेऽस्य शिशोर्बहुबन्धुरो
नततमं ततमम्बुजभूरिति ॥ ३९ ॥ अयं जयसिंहकुमारः, मुनिषु उन्नतिमान् भावी इति मनसि अवेत्य ज्ञात्वा, किं०, अम्बुजभूर्विधाता, अस्य शिशोः, नक्रं, किं०, अवक्रं सरलं, पुनः, बहुबन्धुरं घनमनोमं च उन्नततमं चेति कर्मधारये बहुबन्धुरोन्नततमं, पुनः, ततं विस्तीर्ण, प्रविदधे चकारेत्यर्थः ॥ ३९ ॥ निगरणे युगलेऽपि च जङ्घयो
रपि च पृष्ठतटेऽरमदीर्घता । लसति चास्य शिशोः सततोदय
स्पृशदलेशदलेतरमानभूः॥ ४० ॥ च पुनः, अस्य शिशोडिंगरणे कण्ठे, अपि च जङ्ग्योयुगे,अपि च पृष्ठतटे पाश्चात्यभागे, अरं अत्यर्थ, अदीर्घता लसति.शोभतइत्यन्वयः। अदीर्घता किं०, सततोदयं स्पृशतीति सततोदयस्पृशत् पुनः अलेशं लेशवर्जितं अत एव दलेतरं अखण्डितं यन्मानं पूजासंमानादि तस्य भू: स्थानं, यतः कण्ठादिषु हस्त्रेषु नरोर्चाभाग भवतीति भावः॥ ४० ॥ लगनमस्त्यनयोर्मम यज्जग
हरणसारमिति प्रथनोत्सुकम् । स्पृशति चास्य शिशोरिति जानुनी
सरलतारलताकृति दोईयम् ॥४१॥
Page #233
--------------------------------------------------------------------------
________________
विजयावस्त्याम् । च पुनः, अस्य शिशोः दोयं, भुजयुगलं, इति हेतोः, जानुनी स्पृशतीत्यन्वयः।दोर्द्वयं किं०, सरलाकुटिला तारा रम्या या लता वल्लिस्तद्वद् आकृतिर्यस्य तत् सरलतारलताकृति, हेतुमाहयत् यस्मात्कारणात् , अनयोर्जानुनोः, मम लगनं जगद्भरणसारमस्ति जगतो यद् भरणं धारणं, पोषणं वा, टुडुभंगा पातोर्धारणपोषणार्थत्वात् , इति प्रथने कथने उत्सुकं तत्परं, अनेन आजानुलम्बिभुजत्वमसूचीति भावः ॥४१॥
पृथुलमस्य शिशोईयमंसयो___ रतिशयोर्ध्वगतं श्रुतिसङ्गतम् । अति विभाति जगदररक्षण
क्षममवाममवामतरः पदम् ॥ ४२ ॥ अस्य शिशोः अंसयोः स्कन्धयोयं, कि०, पृथुलं विस्तीर्ण, पुनः किं०, अतिशयोर्ध्वगतं भृशोन्नतिमागतं, पुनः किं०, श्रुतिसङ्गतं कर्णप्राप्तं, पुनः किं०, जगद्भरस्य जगतीभारस्य रक्षणे क्षम, पुनः किं०, अवामं अप्रतिकूलं, पुनः किं०, अवामतरःपदं प्रधानबलास्पदं, अति विभाति भृशं शोभते ॥ ४२ ॥
इति विधिविदधे पदमङ्कितं
मृदुलमस्य शुभोर्ध्वकरेखया । इदमशेषजगच्छिरऊर्ध्वगं
प्रभविता भवितापविनाशकृत् ॥ ४३ ॥ अस्य शिशोः, विधिविधाता, इति हेतोः, शुभोर्ध्वकरेखया अङ्कितं अलकृतं, पुनः, मृदुलं सुकुमालं, पदं विदध इत्यन्वयः । हेतुमाह-इदं पदं, अशेषजगच्छिरसः समस्तविश्वशिरसः ऊर्ध्व
Page #234
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः।
२०९ मतं, तनामनात् । प्रभविता भावि, पुनः कि०, भविनां वापविनाशकृत् ॥ ४३॥
सकुलिशाङ्कममुष्य कराम्बुरुट्
तलमलं कमलां कलयत्यदः । अहितगोत्रभिदे तदसौ शिशुः
प्रबलभा बलभाग् भविता ध्रुवम् ॥४४॥ अमुष्य अस्य शिशोः, अदः कराम्बुरुदतलं करकमलतलं, कि०, सकुलिशाई सवज्रलक्ष्मकं, कमलां श्रियं, कलयति बिभतीत्यन्वयः । सकुलिशाङ्कमिति विशेषणद्वारा वज्रश्लेषं सूचयति पश्चिमार्धेनेति-तदसौ शिशुः, कीदृशः, प्रबलभाः प्रकृष्टतेजाः, पुनः, बलभाग, अहितगोत्रभिदे रिपुकुलच्छिदे, वज्रपक्षे पर्वतच्छिदे, भविता इति गुरुश्चिन्तयतीत्यर्थः ॥४४॥
अयममुण्य करः कमलोत्कर
श्रियमियति हृदीति मनस्विनाम् । अरुणता रुचिरं न विमुञ्चते
यमहता महतामपि चित्रकृत् ॥४५॥ अमुष्य शिशोः, करो हस्तः, कमलोत्करस्य पङ्कजवजस्य श्रियं शोभा, इयर्ति प्रामोति, इति मनखिना सहृदयानां, चेतसि, प्रतिभातीत्यध्याहारः। कमलोत्करोपमाहेतुमुत्तरार्धेनाह-यं करं, कमलोत्करं च; अरुणता रक्तता, न विमुश्चते; यं किं०, रुचिरं चारुं, अथवा रुचिरमिति क्रियाविशेषणम् , रक्तता कीटशी, अहताऽखण्डिता, पुनः कीदृशी, महतां सतामपि, चित्रकृत् आश्चर्यकारिणीत्यर्थः ॥ ४५ ॥
कमलकूर्मकुलाङ्कुशकान्तिमत्
२८
Page #235
--------------------------------------------------------------------------
________________
२१०
विजयप्रशस्त्याम् । कुलिशकेसरिकेतुकुटाङ्कभृत्। सृजति पाणिरमुष्य शिशोः सतां
शुचिरसौ चिरसौख्यमुदीक्षितः ॥ ४६ ॥ अमुष्य शिशोः असौ शुचिः पवित्रः, पाणिः उदीक्षितः दृष्टः सन् , सतां चिरसौख्यं नित्यसुखं, सृजतीत्युत्तरार्धेनाऽन्वयः। पूर्वार्धन पाणिं विशिनष्टि-पाणिः कीदृशः, कमलं प्रतीतं, कूर्मः कच्छपः, कुलं गृहं, अङ्कुशः सृणिः, कान्तिमान् सूर्यः, कुलिशं वजं, अथवा कान्तिमत् इति कुलिशविशेषणम् ; केसरी प्रतीतः, केतुर्ध्वजः, कुटः कुम्भः; एतेषां अङ्को भूषा लक्ष्म वा विभीति पूर्वार्धायः॥ ४६ ॥ . तदयमेव भविष्यति मेदिनी
प्रियतमः खलु यानबलर्धिभृत् । गमनमस्य शिशोरनयत् त्रपां
कलमरालमरालतयोज्झितम् ॥ ४७ ॥ तदिति तस्माद्धेतोः, अयमेव शिशुः, किं०, यानबलदि विभौति यानवलर्द्धिभृत् , अत एव मेदिनीप्रियतमो राजा, भविष्यतीत्यन्वयः । तद्धेतुमाह-अत्र यच्छब्दोऽध्याहियते, तेन यद् यस्मात्कारणात् , अस्य शिशोः, गमनं गतिः, कलमरालं कलहंस, अपां लज्जा, अनयत् नयति स्मेति, अत्र धातुद्वैकये, गमनं किं०, अरालतया वक्रतया, उज्झितं सरलमिति भावार्थः॥४७॥
अतिभरामयमेकपराक्रमी
ननु घरिष्यति यजगतो धुरम् । अनुसरन् गतिमस्य कथं नव
Page #236
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः ।
वरति गौरतिगौरगुणश्रियः १ ॥ ४८ ॥
अतिगौरगुणश्रियोऽस्य शिशोः, गतिं अनुसरन्, कथं नवो गौर्दृषभः, चरति गच्छति, अपि तु नेत्यन्वयः अस्य गतेरनुकारी न स्यादिति तात्पर्यम् । तद्धेतुमेवाह - यदिति यस्माद्धेतोः अयं शिशुः एकपराक्रमी सन्, जगतोऽतिभरां महाभारामपि, धुरं धरिष्यति, नवो गौस्तु पराक्रमवानपि एकाकी धुरं न धरतीति निगर्वः ॥ ४८ ॥
२११
इति जगत्प्रभुतापिशुनैर्महोदयकृतिप्रवणैर्वरलक्षणैः । पृथुशिराः पृथुकः श्रयते श्रियं
सकमलैः कमलैरिव वापिका ॥ ४९ ॥
इति व्यावर्णितस्वरूपैः, पुनः, जगत्प्रभुतापिशुनैर्विश्वैश्वर्यसूचकैः, पुनः, महोदयकृतिप्रवणैः सर्वाऽभ्युदयकरणपरायणैः, वरैः प्रधानैर्लक्षणैः, अयं पृथुको बालकः कीदृशः, पृथुशिरा विस्तीर्णशीर्षः, श्रियं श्रयते शोभां भजति इत्यन्वयः । दृष्टान्तमाह--यथा सकमलैः सश्रीकैः कमलैर्वापिका वापीत्यर्थः ॥ ४९ ॥
अतिमहत्तरकारणकारणाऽगणितलक्षणलक्षणलक्षितम् ।
अमुमुदीक्ष्य शिशुं गुरवोऽदधु
मुदममी दममीनमहार्णवाः ॥ ५० ॥
अतिमहत्तराणां द्विषतां यत् कारणं घातनं तत्कारणानि प्रकृष्टहेतुभूतानि यानि अगणितानि गणनाऽतीतानि लक्षणानि नामानि येषां तानि लक्षणानि लान्छनानि तैर्लक्षितं अलङ्कृतं, अनुं शिशुं उदीक्ष्य दृष्ट्वा, गुरवोऽधिकारात् श्रीवि
Page #237
--------------------------------------------------------------------------
________________
२१२
बिजयमशस्त्याम् ।
जयदानसूरयः, मुदं हर्ष, अदधुरिति घरन्ति स्मेत्यन्वयः । गुरवः कीदृशाः, दममीनमहार्णवाः उपशमरूपमत्स्यमहाम्भोधयः, तदाधारत्वात् ।। ५० ।। सुदृगयं जयसिंहशिशुर्वतिव्रतकलत्रकरग्रहणोत्सुकः ।
शुभति तत्र पुरे सममम्बया
सदयया दयया सुकृती यथा ॥ ५१ ॥
सुदृक् सुलोचनः सुधीर्वा, सुदर्शनो वा; अयं जयसिंहशिशुः किं०, व्रतिव्रतकलत्रकरग्रहणोत्सुकः संयमत्रीपरिणयनपरायणः, तत्र पुरे सुरतिबन्दिरे, अम्बया मात्रा, समं सार्धं, शुभति शोभते, अम्बया किंलक्षणया, सदयया सद्भाग्यया, यथा सुकृती पुण्यवान्, दयया कृपया, शुभतीति दृष्टान्तः ॥५१॥ सांप्रतं जयसिंहकुमारस्य दीक्षामहोत्सवो वर्ण्यतेअथ जगज्जनचित्तचमत्कृतिप्रसित आविरभूदतिशायिमुं । सपदि तत्र महोत्सव उल्लस
ल्लवमयोऽवमयोगलताहिमम् ॥ ५२ ॥
अति अन्यदा, तत्र सूरतिबन्दिरे, सपदि महोत्सवः आविरभूत् प्रकटीबभूव, महोत्सवः कीदृशः, जगज्जनचित्तचमत्कृतौ विश्वलोकचेतश्चमत्कारे, प्रसितः परायणः, पुनः किं०, अतिशायिमुत् घनहर्षदायीति, पुनः किं०, उल्लसन् यो लवो विलासः तन्मयस्तत्प्रधानः, अत्र प्राधान्ये मयट् ; पुनः कीदृशः, अवमयोगलतायां पापयोगवल्लौ हिमं तुहिनं, तत्प्लोषकस्वादिति ॥ ५२ ॥
Page #238
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः ।
अतुलमङ्गलकृद् धवलध्वनिः समभवत् पुरि तत्र तदीरितः । हृदनयन् विकृतिं ननु याः सदा युवतयो बत ! योगजुषामपि ॥ ५३ ॥
२१३
पुनस्तत्र पुरे, याः पश्चिमार्धे वर्णयिष्यामः, ताभिः स्त्रीभिरीरितस्तदीरितः, धवलध्वनिर्मङ्गलारवः, समभूत् । कीदृशः, अतुलमङ्गलानि करोतीति सोऽतुलमङ्गलकृत् निस्तुलकल्याणकारीति पूर्वार्धम् ; या युवतयः स्त्रियः, वतेति कोमलामन्त्रणे, योगजुषां योगिनां हृद् हृदयं, विकृतिं विकारं, अनयन् नयन्ति स्मेति ॥ ५३ ॥
नटनमाविरभूत् पणसुभ्रुवां
तदिह हारि जितामरसुभ्रुवाम् । नयनयोः पथि यन्नयतां नृणां
समुदभूद् मुदभूतसुखाङ्कुरः ॥ ५४ ॥ पुनरिह पुरे, हारि मनोज्ञं, तन्नटनं नाव्यं, आविरभूत् । कासां, पणसुभ्रुवां पण्याङ्गनानां पात्रनामधारिणीनां, खैरिणीनामिति योगः; पण्याङ्गनानां किं०, जितामरसुभ्रुवां निर्जितनिजराङ्गनानां रूपयौवनहावभावादिभिरिति शेषः । तत्किमित्याह-यन्नटनं नयनयोः पथि नयतां पश्यतां नराणां, मुद् हर्षः, समुदभूत् ; कीदृक्, अभूतं पुरा कदाऽप्यजातं यत्सुखं तस्याङ्कुरो बीजं कारणमिति यावत् ॥ ५४ ॥
उदयदर्यमरम्यरुचां भरैर्भवति या खचिते वसुधातले ।
Page #239
--------------------------------------------------------------------------
________________
२१४ विजयाशस्त्याम् ।
अजनि सा नगरे रुचिरेऽहुतै
रुरुणि माऽरुणिमास्पदकुङ्कुमैः ॥ ५५ ॥ उदयन् उद्गच्छन् योर्यमा सूर्यस्तस्य रम्यरुचां मनोहरप्रभाणां भरैः, खचिते व्याप्ते, वसुधातले या चतुर्थचरणाऽऽनीता, मा लक्ष्मीः, स्यात् ; अद्भुतैराश्चर्यैः, रुचिरे तत्र नगरे, पुनः किं, उरुणि विस्तीर्णे, अरुणिमास्पदकुडमै रक्तिमापदघुसणैः, सा मा, अजनि जातेत्यर्थः ॥ ५५ ॥ अजनि चङ्गमृदङ्गकदम्बक
प्रमुखतूर्यरवः स तदा महान् । य इतवान् जगतां लघु रोदसी
विवरगो वरगोचरमात्मनः ॥ ५६ ॥ तदा तत्र क्षणे, महान् चङ्गानां वाद्यविशेषाणां, देश्यभाषया मनोज्ञानां वा; मृदङ्गानां मुरजानां यत् कदम्बकं समूहः तत्पमुखाणि यानि तूर्याणि तूराणि तेषां रवः शब्दः, सः अजनि जज्ञे । स क इत्याह-यो रवः, लघु शीघ्रं, रोदसीविवरगः दिवस्पृथिवीप्राप्तः सन् , जगतां आत्मनो जीवलोकस्येति, वरगोचरं प्रधानविषयं, इतवान् प्राप्तवानिति ॥ ५६ ॥ रविसुतः किमितो बहुरूपवान् ।
ननु निरीक्ष्य तदा ददतो जनान् । महसि तत्र धनानि पुरेऽर्थिनो
ऽभ्यधुरिदं धुरि दम्भभिदां स्थिताः ॥५५॥ तदा तत्र पुरे, तत्र महसि दीक्षामहे, जनान् धनानि ददतो निरीक्ष्य अर्थिनः, किं०, दम्भभिदा निष्कपटाना, धुरि स्थिता
Page #240
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः।
२१५ इदं अभ्यधुः वदन्ति स्म । किमित्याह-किं बहुरूपवान् रविसुतः कर्णनामा राद, इतोऽत्राऽऽगतवान्, तस्य हि "सैष कर्णो महात्यागी" इति दातृत्वश्रुतेरिति ॥ ५७॥ मणिमनोरममौक्तिककाञ्चना
ऽऽभरणभूषितभूरिमृगीदृशः। . अतुलमङ्गलगीतसृजस्तदा
श्रियमिता यमिताद्भुतकञ्चुकाः ॥५॥ मणिभिः मनोरमैौक्तिकैश्च काञ्चनाभरणैश्च भूपिता अलड़ता या भूरिमृगीदृशो बहुहरिणीनेत्राः, किं०, अतुलम
लानि सृजन्तीति ता धवलमङ्गलानि गायन्त्य इति, तदा तत्र महे, श्रियं इताः प्राप्ताः, पुनः कि०, यमितो यन्त्रितोऽद्भुतः कञ्चुको याभिस्ताः ॥ ५८॥ इति पुरे दिवति प्रवरोत्सवैः
पुरजनेऽपि च निर्जरति श्रिया। त्रिदशनाथति चात्र शिशूत्तमे , सुधिषणा धिषणा गुरवोऽभवन् ॥ ५९॥
इत्यमुना वर्णकेन व्यावर्णितः, प्रवरोत्सवैः पुरे सूरतिबन्दिरे, दिवति देवलोक इवाचरिते सति, पुनः, पुरजने श्रिया संपत्त्या, शोभया वा; निर्जरति देव इवाचरिते सति, पुनः, अत्र शिशूत्तमे जयसिंहे कुमारे, त्रिदशनायति इन्द्र इवाचरिते सति, गुरवः श्रीविजयदानमूरिपादाः, कीदृशाः, सुधिषणाः सुबुद्धयः, धिषणा बृहस्पतय इव, अभवन् । इत्येकोनषष्ट्या वृत्तद्भुतविलम्बितच्छन्दसा वर्णनम् । अथ तु स्वागताच्छन्दसा, तल्लक्षणं चेदम् “ स्वागतेति रनभाद् गुरुयुग्मम् " ॥ ५९॥
Page #241
--------------------------------------------------------------------------
________________
२१६ विजयप्रशस्त्याम् ।
शोभितः सुभगमौक्तिकरत्न
स्वर्णभूषणगणेन यथाऽहम् । हेमतन्तुततदिव्यदुकूलः
श्रीतनूज इव रूपसुरूपः ॥ ६ ॥ दीक्षादिने जयसिंहकुमारः, कीदृशः, सुभगमौक्तिकरत्नस्वर्णभूषणगणेन यथाऽर्ह शोभितो राजितः, पुनः कि०, हेमतन्तुभिस्ततं विस्तीर्ण वा, निर्मितं वा दिव्यं दुकूलं यस्य सः। उत्प्रेक्ष्यते--श्रीतनूजः कन्दर्प इव, किं०, रूपेण सुरूपो रम्यः, " सुरूषस्तु बुधे रम्ये " इत्यनेकार्थत्वात् ॥ ६ ॥ ईदृक् कः किं च कृतदानित्याह
नागजारुणशिरस्कमथोच्चं ___ कुम्भिनं कनकशृङ्खलकान्तम् । आरुरोह जयसिंहकुमारः
पूर्वपर्वतमिवाम्बुजबन्धुः ॥ ६१ ॥ स जयसिंहकुमारः, कुम्भिनं गज, आरुरोहेत्यन्वयः । कि० गज, नागजारुणशिरस्कं सिन्दररक्तशीर्ष, पुनः, उच्चं तुझं, पुनः, कनकशृङ्खलेन कान्तम् । दृष्टान्तमत्राह-पूर्वपर्वतं उदयाचलं, अब्जबन्धुः सूर्य इव । इति युग्मव्याख्या ॥ ६१॥ पद्ममस्य कमलाङ्कितमास्यं
तेन नौ घटत एतदुपास्तिः । चामरच्छलत आशु मराला
वित्यवेत्य तमिवाऽऽगतवन्तौ॥ ६२ ॥ अस्य जयसिंहस्य, आस्यं मुखं, कमलया लक्ष्म्या अङ्कि
Page #242
--------------------------------------------------------------------------
________________
पत्रमः सर्गः।
२१७ तमलङ्कृतं, पामासीद , तेन नौ आवयोः, एतदुपास्तिर्घटते युज्यते, इति हेतोः आशु शीघ्र, चामरच्छलतः, मरालौ हंसौ, तं जयसिंह, इत्यवेत्य ज्ञात्वा; इवोत्सेक्ष्यते-आगतवन्तौ सेवितुमिति हृदयम् ॥ ६२॥
आननेन यदनेन जितोऽहं
सर्वदोदयभृता सुभगेन। सेव्यते स्म शशिनेव तदानीं
छत्रकैतववतेति कुमारः ॥ ६३ ॥ यत् अनेन कुमारेण, अहं आननेन मुखेन, जितः, आननेन कि०, सर्वदा उदयभृता सदोदयेनेति, पुनः, सर्वदा सुभगेन, इति हेतोः, कुमारो जयसिंहनामा, शशिना चन्द्रेण उक्तविशेपणयविपरीतस्वरूपेण, सेव्यते स्मेति, शशिना किं०, छत्रकैतववता आतपत्रदम्भभृतेति भावः ॥ ६३ ॥
रूपमस्तु सुभगं खलु मा दृग्
दोषदूषितममुष्य मुखस्य । अञ्जनं न्यधित पौरपुरन्ध्री
काचिदस्य दृशि धन्यधियेति ॥ ६४ ॥ तदानीमिति सर्वत्र योज्यं, अमुष्य बालस्य, रूपं सुभगं दृग्दोषदृषितं माऽस्तु मा भवतु, इति धन्यधिया साधुबुद्ध्या, काचित् अनिर्दिष्टनामिका, पौरपुरन्ध्री नागरनारी, अस्य दृशि नेत्रे, स्वर्णाऽऽभरणादि विहाय अञ्जनं कजलमेव, न्यधित स्थापयामासेत्यर्थः ॥ ६४ ॥ . शोणिमानमधरोष्ठरसज्ञा
तालुमूलमतुलं कलयत् किम्।
२९
Page #243
--------------------------------------------------------------------------
________________
२१८
विजयाशस्त्याम् ।
आस्यमस्य शुशुभे भृशरक्तं
नागवल्लिदलरङ्गतरङ्गैः ॥ ६५ ॥ नागवल्लिदलरक्तरार्धशरक्तं अस्य आम्यं शुशुभे इत्यन्वयः । किमित्युत्प्रेक्षायां, अधरोष्ठरसज्ञातालुमूलं अतुलं शोणिमानं कलयत् दधत् , अस्तीत्युत्प्रेक्ष्यते; अनेन रक्तताऽतिशायित्वमुक्तमिति ॥६५॥ भाविगच्छविभुतासुरवल्ले
रालवाल इव दीप्तिपयोभूः। मूर्ध्नि रत्नमुकुटो विकटोऽभा
दस्य जात्यकनकोत्कट उच्चैः ॥ ६६ ॥ - अस्य मूर्ध्नि विकटः पृथुः, रम्यो वा, यदाहुः श्रीहेमाचार्यपादा अनेकार्थसंग्रहे-"विकटः कराले पृथुरम्ययोः" इति; विकटो रत्नमुकुटः, पुनः किं०, जात्यंन कनकन उत्कटः, अभात शुशुभे इत्यन्वयः। इवोत्प्रेक्ष्यते-भाविगच्छविभुतासुरवल्लेः आगमिष्यद्गच्छश्वर्यकल्पलतायाः, आलवालः स्थानकमिव, कीहक् , दीप्तिपयोभूः कान्तितोयास्पदम् ॥ ६६ ।। अस्य कुन्दकुमुदेन्द्रनुकारः
शोभते स्म हृदि हार उदारः । उल्लसल्लवणिमैकपयोधेः
फेनपिण्ड इव पाण्डिमपूर्णः ॥ ६७ ॥ अस्य बालस्य, हृदि हारः शोभते स्मेत्यन्वयः। हारः कि०, कुन्दकुमुदेन्दूनां अनुकारः साम्यं यस्य सः, पुनः, उदारः। इवोसेक्ष्यते-उल्लसल्लवणिमेकपयोधेः देदीप्यमानलावण्यार्णवस्य, फेनपिण्डः, कीदृशः, पाण्डिम्नाऽतिपाण्डुरत्वेन पूर्ण इति ॥६७॥
Page #244
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः। २११ कुण्डले कनककान्तमणीरुग्__मण्डले शिशुमुखे शुशुभाते। राहुभीतिचकितौ रविचन्द्रौ
निर्भयं शरणमेनमितौ किम् ? ॥ ६८ ॥ कनककान्तमणीनां सुवर्णरम्यरत्नानां रुग्मण्डलं कान्तिकदम्बकं ययोस्ते, कुण्डले कर्णाभरणे, शिशुमुखे जयसिंहानने, शुशुभाते इत्यन्वयः। किं०, एनं बालं, निर्भयं, मत्वेत्यध्याहारः कार्यः, राहुभीतिचकितौ सन्तौ रविचन्द्रौ शरणं इतौ प्राप्तौ ॥ ६८॥
कान्तकुन्तलविलासिनि सौमी
मूर्धान स्रगनघा शुशुभेऽस्य । शारदे नभसि नीलतमे किं
निर्मला तरलतारकराजी ? ॥ ६९ ॥ ___ अस्य मूर्धनि अनघा निर्मला, सुमानां पुष्पाणामियं सौमी, सक् कुसुममाला, शुशुभे इत्यन्वयः।मूर्धनि किं०, कान्ता ये कुन्तलाः केशास्तैर्विलासिनि शोभमाने। किमित्युत्मक्ष्यते-नीलतमेऽतिनीले, शारदे शरत्कालसंबन्धिनि, नभसि व्योम्नि, तरला भास्वरा तारकाणां राजी श्रेणीति ॥ ६९ ॥
गन्धबन्धुरपयोभरसेका
ऽत्यन्तशान्तपृथुपौरपरागे। लोकलोचनचयोत्सवनृत्य- ....
त्तोरणप्रगुणकाञ्चनकुम्भे ॥ ७० ॥ - मण्डपोल्लसदखण्डदुकूल
Page #245
--------------------------------------------------------------------------
________________
२२४
विनयमजस्त्याम् । वातवारितसदातपतापे। लोकयन् नगरवर्त्मनि लोकान्
संचचार जयसिंहकुमारः ॥ ७१ ॥ नगरवमनि पुरमार्गे, कीदृशे, गन्धबन्धुरः सुगन्धिर्यः पयोभरस्तस्य यः सेकः सेचनं तेनाऽत्यन्तं शान्तः शमितः पृथुर्विस्तीर्णः पौरपरागः पुररेणुर्यत्र तस्मिन् , पुनर्नगरवमनि कि०, लोकलोचनचयस्य जननयनन्दस्य उत्सवप्रायाणि यानि नृत्यन्ति वातादिना वेल्लन्ति तोरणानि तत्र प्रगुणाः पटूकृताः काञ्चनकुम्भा यस्मिंस्तस्मिन् ॥ ७० ॥ पुनर्नगरवर्त्मनि कि०, मण्डपे विचित्रवस्त्रादिमण्डिते उल्लसन्तो ये दुकूलवाताः पट्टकूलपटलास्तैर्वारितः सदाऽऽतपस्य विद्यमानोपतापस्य निरन्तरातपस्य वा ताफः कष्टं यस्मिंस्तस्मिन् नगरपये, लोकान् नरनारीरूपान् नागरजनान्, लोकयन् निभालयन् , जयसिंहकुमारः संचचाराऽचलत् , तपस्यार्थमिति। इति युम्मव्याख्या ॥ ७१ ॥ स्वर्णमौक्तिकमणिप्रकरोद्यद्
भूरिभूषणविभूषितदेहा। दानमर्थिनिवहाय ददाना
मूर्तिभृत् सुरलतेव रथस्था ॥ ७२ ।। चीनचीररुचिरा फणिवल्ली
पत्रपूर्णवदना. वनजाक्षी। वारिराशिदुहिता किमु साक्षा
दन्वगात तनुजमेनमथाम्बा ? ॥ ३ ॥
Page #246
--------------------------------------------------------------------------
________________
____ २२१
पञ्चमः सर्गः। स्वर्णमुक्ताफलमणीनां प्रकरण उद्यन्ति दीप्तानि भूराणि बहूनि यानि भूषणानि तैर्भूषितं देहं यस्याः सा, पुनः, आर्थिनिवहाय याचकनिकराय, दानं ददाना मूर्तिभृत् सुरलतेव साक्षात्कल्पवल्लीव, पुनः किं०, रथस्था ॥ ७२ ॥ पुनः, चीनचीरेण दक्षिणीयवस्त्रविशेषेण रुचिरा चार्वी, पुनः किं०, फणिवल्लीपत्रै गलतादलैः पूर्ण वदनं यस्याः सा, पुनः कि०, वनजाक्षी कमललोचना, किमु साक्षात् प्रत्यक्षा, वारिराशिदुहिता लक्ष्मीः, एनं तनुजं जयसिंह, अम्बा माता कोडिमदेनाम्नी, अन्वगाद् अनुप्राप्तेत्यर्थः। इयमपि युग्मव्याख्या ॥७३॥
अथ तयोर्जन्यजनन्योर्निर्गमने सति नागरस्त्रीविचेष्टितं यज्जातं तद् वर्णयति- .. तन्निरीक्षणभृशोत्सुकयोषा
शोभिसौधशिखराणि तदास्यैः। अभ्रवर्त्मनि विनिद्रसरोज
स्तोमसौम्यसरसीत्वमवापुः ॥ ७४॥ तन्निरीक्षणाय भृशोत्सुका या योषाः स्त्रियस्ताभिः शोभीनि शोभायमानानि यानि सौधशिखराणि तानि, तदास्यैस्तन्मुखैः, अभ्रवर्त्मनि गगने, विनिद्रसरोजस्तोमसौम्यसरसीत्वं विस्मेरकमलकलापकमनीयसरोवरभावं, अवापुः प्राप्नुवन्ति स्मेति ॥७४॥
सौधमूर्ध्नि पृथुकोल्लसदङ्का
काऽप्यभात् तदवलोकनशीला । शाखिनः शिरास चापलमुक्ता
वानरीव गललिङ्गितबाला ॥ ७५ ॥ वयोरवलोकनमेव शीलं खमावो यस्याः सा तदवलो
Page #247
--------------------------------------------------------------------------
________________
२२२
विजयपशस्त्याम् । कनशीला, कापि स्त्री, पुनः किं०, पृथुकेन बालकेन उल्लसन् अङ्कउत्सङ्गो यस्याः सा, अभात् शोभते स्म । इवोत्सेक्ष्यते-शाखिनः शिरसि वृक्षस्याग्रे, चापलेन मुक्ता अङ्गीकृतस्थैर्या, पुनः, गललिङ्गितबाला कण्ठलनखाका, वानरीवेति ॥ ७५ ॥ . काऽप्यभात् तदवलोकनवृत्त्यै
लम्बिताननमनोज्ञगवाक्षा । वासरेऽप्युदितपूर्णमृगाङ्क __ तत्क्षणात् त्रिदशवर्त्म सृजन्ती ॥ ७६ ॥
तदवलोकनवृत्त्यै तद्वीक्षणाय, लम्बितेन आननेन वदनेन मनोज्ञगवाक्षा, काऽपि स्त्री, अभादित्यन्वयः । किं कुर्वती, सृजन्ती, किं, त्रिदशवमै व्योम, कीदृशं, वासरेपि उदितः पूर्णमृगाङ्कः संपूर्णचन्द्रमा यत्र तत्, वासरेऽपि सचन्द्र नभस्खलं कुर्वतीत्यर्थः ॥ ७६ ॥ नूपुरध्वनितराजपथाश्च
काश्चिदस्थुरथ नीरजनेत्राः । बालहंसललिताः कमलिन्यः
किं सुपर्वपथपर्वतजायाम् ? ॥ ७७ ॥ अथेति पुनरर्थे, काश्चित् नीरजनेत्राः स्त्रियः, किंलक्षणाः, नूपुरैर्मञ्जीरैर्ध्वनितो मुखरीकृतो राजपथो राजमार्गो याभिस्ताः, तस्थुः स्थिता इति, बालहंसैललिता रमणीयाः, सुपर्वपथपर्वतजायां गङ्गायां, कमलिन्यः किमित्युत्प्रेक्षा ॥ ७७ ॥ अभ्यमुं मृगदृशो मुहुरौज्झन्
काश्चिदक्षतततीसतिशुद्धाः।
Page #248
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः।
२२३ शीकरोत्करमिवोत्तममन्तः
शायिकेशवहृदम्बुधिवेलाः ॥ ७८ ॥ काश्चिद् मृगदृशः स्त्रियः, मुहुर्वारं वारं, अमुंजयसिंह, अभि संमुखं, शुद्धा उज्ज्वलाः, अक्षतानां ततीः श्रेणीः, औज्झन् त्यजन्ति स्म, वर्धापयन्ति स्मेति भावः। अन्तःशायिनः केशवस्य हरेहृद् हृदयं, अम्बुधिवेला इव यथा, उत्तमं शीकरोत्कर क्षिपन्तीति दृष्टान्तः ॥ ७८ ॥
तत्र सौधशिखरेषु मृगाक्ष्यो __ लोललोचनचयाः स्म विभान्ति । बम्भ्रमद्भमरभासुरकोशाः
पुष्करिण्य इव शैलशिरस्सु ॥ ७९ ॥ ... तस्मिन् महे, सौधशिखरेषु मृगाक्ष्यः, किंलक्षणाः, लोललोचनचयाश्चपलनयनोत्कराः, विभान्ति स्मेत्यन्वयः।इवोत्प्रेक्ष्यतेशैलशिरस्सु शिखरिशिखरेषु, पुष्करिण्यः पअिन्य इव, किं०. बम्भ्रमद्भिः अतिशयेन भ्रमद्भिर्धमरैर्भासुराः कोशा यासां ताः ॥ ७९ ॥ सौधमूर्धसु वधूवरगीता
राव उच्च उदभूत् पुरि तत्र। प्रावृषीव धरणीधरशृङ्गे
प्वब्दहृद्यमनसां शिखिनीनाम् ॥ ८० ॥ पुनस्तत्र सौधमूर्धसु वधूनां वरः प्रधानो गीतारावः, किं०, उच्चः, द्वेधा द्रव्यतो भावतोऽपि, उदभूत् संजातः। दृष्टान्तमाह-प्रावृषि वर्षासमये, धरणीधरशृङ्गेषु गिरिशिखरेषु, अब्डे
Page #249
--------------------------------------------------------------------------
________________
२२४
विजयशस्त्याम् । हचं मनो यासां तासां मेघमनोज्ञचेतसा, शिखिनीनां मयूरीणामिवेति ॥ ८०॥ .. इत्यशेषवरवेषविशेषाः
प्रीतिपात्रपुरपौरपुरन्ध्यः । द्रष्टुमेनमचलदृश आसन्
वारिवाहमिव मोरमृगाक्ष्यः ॥ ८१ ॥ इत्यमुना प्रकारेण, अशेषवरवेषाणां सर्वोत्तमनेपथ्यानां विशेषो वैशिष्ट्यं यासां ताः, पुनः, प्रीतिपात्रं पुरं शरीरं यासां ताः "पुरं शरीरे" इत्यनेकार्थत्वात् , प्रीतिभाजनीभूतदेहाश्च ताः पौरपुरन्ध्यो नागरनार्यः कर्तृभूताः, एनं जयसिंह, द्रष्टुं अचलदृशः स्थिरनयनाः, आसन् बभूवुः, इवेति यथा, वारिवाई घनाघनं, द्रष्टुं मोरमृगाक्ष्यः शिखण्डिन्यः, मयूरवाचको मारइत्युणादिसिद्धः शब्दोऽस्तीति ।। ८१॥
आगतः किमु धरासु सुराणां
भूरुहः सुकृतसंचयतो नः । याचकैरयमर्कि ददानो
रूप्यहेममुखमर्थमदभ्रम् ॥ ८२ ॥ अयं जयसिंहकुमारः, रूप्यहेममुखं अदभ्रं भूरि, अर्थ वित्तं, ददानः, याचकैरिति अतर्कि चिन्तयाञ्चक्रे, अत्र इतरध्याहारः, इतीति कि०, नः अस्माकं, सुकृतसंचयतः पुण्यप्रकर्षाद, धरासु पृथिवीषु, सुराणां भूरुहः कल्पपादपः, किमागतः ? इति ॥ ८२॥ सादरं विजयदानमुनीन्द्रा
लङ्कृतामनघसंघमनोज्ञाम् ।
Page #250
--------------------------------------------------------------------------
________________
पत्रमः सर्गः। २२५ आम्रकम्रवनधारिधरित्री
माजगाम जयसिंहकुमारः ॥ ८३ ॥ सादरं चित्तोत्साहपूर्वकं, जयसिंहकुमारो विजयदानमुनी न्ट्रैरलङ्कृतां, पुनः, अनघेन संघेन मनोज्ञाम् , पुनः, आम्राणां आत्रैर्वा कनं यद्वनं तद्धारिणी या धरित्री तां आम्रकम्रवनधारिधरित्रीं, आजगाम आगतवानित्यर्थः ॥ ८३॥ अथ गुरुदीक्षावर्षमासतिथिलमादिनिर्णीतिं वृत्तत्रयेणाहवत्सरेऽग्निशशिक्षितिसंख्ये
विश्वविश्वसुखसूत्रणदक्षे । ज्येष्ठमासि विशदद्युति हृद्यै__ कादशीदिवस एणपलमे ॥ ८४ ॥
वत्सरे संवत्सरे, वर्षे इति यावत् कीदने, अग्निशशिषद्क्षितिसंख्ये अमयस्त्रयस्तेन तृतीयाः, शशी एकस्तेन एकाङ्कः, पडिति षडकः, क्षितिरेका तेन एकाङ्कः,"अकानां वामतो गतिः" इति वचनात् प्रातिलोम्येन एतेषामकानां मीलने संवत् १६१३ . वर्ष इत्यागतम् ; वत्सरे कीदृशे, विश्वविश्वस्य समस्तजगतो यत् सुखस्य सूत्रणं करणं तत्र दक्षे निपुणे, पुनः कस्मिन् , ज्येष्ठमासि शुक्रमासे, पुनः कस्मिन् , हृद्यैकादशीदिवसे वर्षंकादशीतिथौ, कीदृशे, विशदा उज्ज्वला जुत् कान्तिर्यत्र तत्र ज्येष्ठशुक्लैकादश्यामिति, अथवा विशदद्युतिश्चन्द्रस्तेन हयो यएकादशीदिवसस्तस्मिन् विशदद्युतिहबैकादशीदिवसे इत्यखण्डितमेव पदम् । पुनः क सतीत्याह-एणपलमे सिंहलने वहमाने सतीत्यर्थः॥ ८४ ॥ अथ ग्रहसंस्थितिमाहचापगे सुरगुरावजभाजोः
Page #251
--------------------------------------------------------------------------
________________
२२६
विजयप्रशस्त्याम् ।
सूर्यसूनुतमसोर्मिथुनस्थे । ज्ञे रखौ च वृषगे भृगुपुत्रे चन्द्रभूमिसुतयोश्च तुलायाम् ॥ ८५ ॥
चापने सुरगुरौ धनुः स्थिते बृहस्पतौ, पुनः, अजभाजोः मेष स्थितयोः, सूर्यसूनुतमसोः शनिराहोः, पुनः, मिथुनस्थे ज्ञे बुधे, च पुनः रबौ सूर्येऽपि मिथुनस्थे सति च पुनः, भृगुपुत्रे शुक्रे, वृषगे वृषभवनगते सति च पुनः, चन्द्रभूमिसुतयोः सोममङ्गलयोः, तुलायां गतयोरिति । ग्रहसंस्थापना यथा
9
४
मंचं
૮
बृ ९
श्रीः
११
1
बु३ र
शु २
श१ रा
१२
१०
इयं दीक्षा कुण्डलिका । दीक्षाग्रहाणां फलादिविचारस्तु दैवदीपकलिकादेरवधार्य इति ॥ ८५ ॥
अस्मिन् मुहूर्त्ते के किं कृतवन्त इत्याहचक्रिरे विजयदानमुनीन्द्राः श्रीयुतं स्मरमिवाद्भुतरूपम् । अम्बया सममिमं जयसिंहं
शावमाशु नियमस्थितिमन्तम् ॥ ८६ ॥
श्रीविजयदानारूपा मुनीन्द्रा गुरवः, इमं जयसिंह, शावं बालकं, अम्बया जनन्या समम् । इवोत्प्रेक्ष्यते श्रीयुतं लक्ष्मी
-
Page #252
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः ।
सहितं, स्मरमित्र कन्दर्पमित्र अद्भुतरूपं, नियमस्थितिमन्तं चक्रिरे दीक्षयामासुरित्यर्थः । इति काव्यत्रिकव्याख्या ॥ ८६ ॥ अखिलसुखलताया मूलमेवानुकूलं भुवनवशविधाने वर्णविद्यामनिन्द्याम् । विदधुरनघचित्ता विश्ववित्ता व्रतीन्द्रा
जयविमल इति श्रीधाम नामाऽस्य शस्यम् ॥८७॥
व्रतीन्द्रास्ते गुरवः, किं०, अनघचित्ता निर्मलमनसः, पुनः किं०, विश्ववित्ता जगत्मसिद्धाः, अस्य शिष्यस्य, जयविमलइति नाम विदधुरित्यन्वयः । नाम किं०, श्रीधाम, अत एव शस्यं श्लाघ्यं पुनः किं०, अनुकूलं मूलमेव, कस्याः, अखिलसुखलतायाः समस्तसुखवल्ल्याः, पुनः, भुवनस्य जगतो वशविधाने वशीकरणे, अनिन्द्यां वर्णविद्यामिवेत्यध्याहार्यम् ॥ ८७ ॥ गुरुरपि मुदितात्मा तस्य शिष्यस्य लाभात्
9
सविधशिव इवासीत् साधुधर्मस्य साक्षात् । प्रथममथ सं तस्थौ तच्चतुर्मासकं च
प्रचुरपरमपुण्यैः सुन्दरे बन्दिरेऽस्मिन् ॥ ८८ ॥
२२७
गुरुः श्रीविजयदानमूरिः, तस्य शिष्यस्य जयविमलस्य, लाभात् प्राप्तेः, मुदितात्मा आसीत् । क इव कस्येति दृष्टान्तं योजयति-- इव यथा, सविधशिवः आसन्नसिद्धिकः पुमान्, साधुधर्मस्य लाभात्तथेति । अथ च स गुरुः, प्रथमं तच्चतुर्मासकं प्रचुरपरमपुण्यैः सुन्दरेऽस्मिन्नेव बन्दिरे सुरतिनाम्नि, तस्थौ स्थित इति ॥ ८८ ॥ गुरुचरणसरोजोपास्तिलीलामरालः
Page #253
--------------------------------------------------------------------------
________________
२२८
विजयाशस्त्याम् । सनयविनयविद्याऽम्भोजिनीभृङ्गबालः । शिशुरपि जयसिंहः शुद्धबुद्धिः सुनन्दा
तनुरुह इव सद्यः शास्त्रपाठानपाठीत् ॥ ८९ ॥
गुरुचरणसरोजानां उपास्तेः सेवाया या लीला तत्र मरालो हंसः, तदासक्तत्वात् पुनः, सनयविनया या विद्या सेवाम्भोजिनी पद्मिनी तत्र भृङ्गबालो द्विरेफः, शिशुरपि नववर्षीयोऽपि, जयसिंहमुनिः सुनन्दातनुरुह इव वज्रस्वामीव, शुदबुद्धिः सन् , सद्यः शीघ्रं, शास्त्रपाठान् , अपाठीत् पठति स्मेत्यर्थः । अन्त्ये वृत्तत्रये मालिनीनाम च्छन्दः, तल्लक्षणं चेदम्"ननपयययुतेयं मालिनी भोगिलोकैः" इत्युक्तेः।। ८९ ॥
इतीति सर्व सुगमम् । इति सुविहितसमासार्वभौमसमानसकलपण्डितमण्डलीमौलिमालीयमानपण्डितश्रीकमलविजयगणिशिप्यमुख्यपण्डितपुरन्दरमख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां विजयमदीपिकामिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां पञ्चमः
सर्गोयतः समर्थितः।
Page #254
--------------------------------------------------------------------------
________________
अहम् अथ षष्ठः सर्गः।
अथ षष्ठः सर्गः प्रारभ्यते, तस्येदमादिकाव्यम्अन्येयुरेनमनघं विनयावननं
साक्षाद् बृहस्पतिमिव प्रतिभापटिष्ठम् । दृष्ट्रा विशिष्टगुणधाम विनेयमेवं
तैश्चिन्तितं विजयदानमुनीन्द्रचन्द्रैः ॥१॥ अथ अन्येशुः अन्यदा, एनं विनेयं जयविमलाऽऽरूयं शिष्य, किं०. अनघं मनोझं, पुनः, विनयावनम्र, पुनः, साक्षाद् बृहस्पतिमित्र प्रतिभया प्रज्ञया, पटिष्ठं पटीयांसं, पुनः, विशिष्टगुणानां धाम गृहं, दृष्टा तैर्विजयदानमुनीन्द्रचन्द्रः, एवमिति वक्ष्यमाणलक्षणं, चिन्तितं विचारितम् ॥ १॥ चिन्तितमेवाह
नन्वेष शिष्यवृषभः शुभलक्षणश्री___ रस्त्यम्बुराशिरिव दीधितिदीप्ररत्नः ।
आचार्यहीरविजयव्रतिवर्यपार्श्व . हेमेव चारुमणिरर्हति रम्यधामा ॥२॥
ननु इति वितर्के, एष शिष्यवृषभः अम्बुराशिरिव समुद्रइव, शुभलक्षणश्रीः, पुनः,दीधितिरेव दीपं रत्नमस्मिन्निति अस्ति, अत एव आचार्यहीरविजयव्रतिवर्यस्य मम पट्टधरस्य पार्ध
ईति योग्यतामेति । किमिव क इत्याह--हेमेव सुवर्णमिव, चारुमणिः, किं०, रम्यधामा कान्ततेजा इति दृष्टान्तः ॥ २ ॥
Page #255
--------------------------------------------------------------------------
________________
३३०
विजयाशस्त्याम् ।
ध्यावेति साधुशशिभिः शकुनानुकूल्या___ऽतुल्यक्षवारतिथियोगमनोहरेऽह्नि । शिष्योत्तमः प्रहित एष चचाल मूर्त
आद्यः पुमर्थ इव सुन्दरसाधुसार्थः ॥ ३ ॥ . इति ध्यात्वा तैः साधुशशिभिर्गुरुभिः, प्रहित एष शिष्योत्तमः, चचालाञ्चलत् ; कस्मिन् , अह्नि दिने, किं०, शकुनानुकूल्यं च अतुल्यानि यानि ऋक्षाणि अश्विन्यादीनि, वाराश्च रव्यादयः, तिथयः प्रतिपदादयः, योगाश्च विष्कम्भप्रमुखाः, अथवा योगा रवियोगराजयोगकुमारयोगप्रमुखाः, अथवाऽतुल्यक्षवारतिथीनां यो योगविकसिद्धियोगादिस्तेन ताभ्यां वा शकुनानुकूल्याऽतुल्यसंवारतिथियोगाभ्यां मनोहरे दिवसे । इवोत्प्रेक्ष्यते--आद्यःप्रथमः, पुमर्थः पुरुषार्थः, अर्थाद्धर्मः, अगवान् मूर्त इति, पुनः, सुन्दरसाधुसार्थ इति शिष्यविशेषणम् ॥ ३ ॥
अथ शकुनान् वर्णयतिपीनः पृथुः श्रवणयुग्ममनोज्ञमूर्धा
श्यामश्चतुश्चरणचारुरतुच्छपुच्छः । द्राक् संमुखं वलितकन्धरबन्धुरास्यो
वामः पथि प्रथमतः सरमासुतोऽगात् ॥ ४ ॥ पीनः पुष्टः, मांसोपचितत्वात् , अत एव पृथुविस्तीर्णः, अङ्गोपाङ्गादिभिरिति, पुनः, श्रवणयुग्ममनोज्ञमूर्द्धा श्रोत्रयुगलशालिशिराः, पुनः, श्यामो वर्णतः, वसन्तराजादौ श्यामः श्वानोऽतिवरीयानिति ज्ञायते, पुनः, चतुश्चरणैः चारुः, पुनः, अतुच्छे पुच्छं यस्य सः, पुनः, संमुखं अभिमुखं, तस्य शिष्यस्य संमुखं, वलितकन्धरं वलितग्रीवं यथा स्यात्तथा बन्धुरं आस्यं यस्य
Page #256
--------------------------------------------------------------------------
________________
पष्टः सर्गः। .. २३१ सा, सरमासुतः धानः, प्रथमतः पूर्व, पथि मार्गे, वाम इति दक्षिणपार्थाद् वामपार्थ, अगात् गत इति । स हि प्रयाणेऽतीव शुभः, यदुक्तम्-"दक्षिणाद् वामगमनं प्रशस्तं श्वशृगालयोः" इति ॥४॥ छायाकुले तरुतले पथि तस्थिवांस
मेनं विनेयमथ दक्षिणमेत्य चाषः । संसूचयन् सपदि चारुवचःप्रपञ्चै
स्त्रि विनीमुदयिनी पदवीं परीतः ॥ ५॥
छायया आकुले, अथवा छायायाः कुले गृहे, तरुतले, पथि मार्गे, तस्थिवांसं स्थितिजुषं, एनं विनेयं जयविमलाख्यं, वामतो दक्षिणं दिग्भागं, चाषः चासपक्षी, एत्य आगत्य, त्रिः परीतः तिस्रःप्रदक्षिणा दत्तवान् , चापः किं कुर्वन् , संसूचयन् ज्ञापयन् , . . कां, भाविनी पदवीं गच्छैश्वर्यलक्षणां प्रदक्षिणां ददानो हि चाषोऽतीव श्रेष्ठः। यदुक्तं श्रीभद्रबाहुखामिपादैः"जम्बू चासमऊरे भारदाए तहेव नउले अ।
दसणमेव पसत्थं पयाहिणे सव्वसंपत्ती"॥१॥ इति । · पुनः पदवी किं०, उदयिनी अग्रतोऽभ्युदयवतीमिति, कैः, चारुवचःमपश्चैः मनोहरवाग्विस्तरैः । एतावता शब्दायमानस्य चाषस्य दर्शनमप्यतिश्रेयः सूचितम् ।
यतः"नकुलाजमयूराणां चापखञ्जनयोरपि ।
दर्शनं कीर्तनं शब्दः सर्वसिद्धिकरं नृणाम्" ॥१॥ इति वचनात् ॥५॥ आनन्दकन्दसदृशा खदृशा पुरस्तात्
Page #257
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् |
पश्यन् पथि प्रचलतां परमर्द्धिसिद्धया । सव्येतरः सुकृतिनोऽस्य विनेयवृन्दचन्द्रस्य पेशलकुलो नकुलो जगाम ॥ ६ ॥
अस्य विनेयवृन्दचन्द्रस्य शिष्य समूहशशिनः, नकुलः सव्येतरो दक्षिणः जगामेत्यन्वयः । अस्य किं०, सुकृतिनः पुण्यात्मनः, कथम्, पुरस्तात् अग्रतः, किं कुर्वन्, पश्यन्, कया, स्वदृशा निजचक्षुषा, किं०, आनन्दकन्दसदृशा हर्षाङ्करतुल्यया, पुनर्दशा किं०, परमर्द्धिसिद्धया उत्कृष्टसम्पत्साधिन्या, केषां पथि प्रचलतां पुरुषाणामिति गम्यम् । नकुलः किं०, पेशलकुलः कमनीयकुटुम्बयुक् ॥ ६ ॥ सौन्दय्यमत्यधिकमात्मदृशोर्विशालस्फारत्वतारतरयोरपि दृश्यमुष्य । सव्येतराः सविधगाः प्रविलोकयन्त
२.३२
उत्तेरुरध्वनि मृगाः सुभगास्तदानीम् ॥ ७ ॥
अमुष्य शिष्यस्य, दृशि नयने, आत्मदृशोर्निजनयनयोः, किं०, विशालत्वस्फारत्वाभ्यां तारतरयोर्मनोज्ञतरयोरपि, अत्यधिकं सौन्दर्य प्रविलोकयन्त इवेत्यध्याहार्यम्, तदानीं तत्र क्षणे, सुभगाः सौभाग्यशालिनः, मृगाः; अध्वनि मार्गे, सविधगाः समीपप्राप्ताः, सव्येतरा दक्षिणाः, उत्तेरुरुत्तीर्णा इत्यर्थः ||७|| दुर्गाऽहमस्मि मुनिरेष महाव्रती च
स्थानेऽस्य सव्यसविधे मम वाक् स्थितायाः । मत्वेति किं शकुनरत्नमियं सदैव
देवी पथि प्रमुदिता विदधे तथैव ? ॥ ८ ॥
Page #258
--------------------------------------------------------------------------
________________
२१३
पष्ठः सर्गः। ___ एष जयविमलमुनिर्महाव्रती अस्ति, च पुनः, अहं दुर्गाऽस्मीत्यन्वयः। महाव्रती-मुनीन्द्रः, महादेवश्च: दुर्गा देवीति प्रतीता शकुनजातीया पक्षिणी, पार्वती च; अत एवाऽस्य मद्भर्तुः, सव्यसविधे वामे समीपे, स्थिताया मम वाक्, स्थाने योग्या, अस्ति। किमित्युत्प्रेक्ष्यते-इति मत्वा किं इयं शकुनरत्नं शकुनजातिश्रेष्ठा, इयं देवी दुर्गा, पथि प्रमुदिता सती, तथैव वामस्वरादिकं, विदधे कृतवतीत्यर्थः ॥८॥ कर्ता नतिं क्रमणयोस्तव कौशिको यो
हन्ता स मे मयि भवेत् प्रमना यथाऽशु। कुर्यास्तथा मुनिवरेति निवेदनाय
वामोऽस्य किं पथि शुभो बलिभुग्ववासे ?॥९॥ . हे मुनिवर ! “कौशिकः शक्रघूकयोः" इत्यनेकार्थत्वाद् यः कौशिकः शक्रः, तव क्रमणयोश्चरणयोः, नतिं प्रणाम, कर्ता करिष्यति, स कौशिको घूकः, मे मम, हन्ताऽस्ति, तेन स यथा मयि प्रमनाः प्रीतिमान्, भवेत् तथा त्वं कुर्या इति निवेदनायेव किं पथि वामो दक्षिणेतरः, बलिभुग् वायसः, ववासेऽजल्पदित्यर्थः ॥९॥ अन्ये महर्द्धिपिशुनाः शकुनाः सुदूरे
सन्वस्य पुण्यपरमर्डिपुरन्दरस्य । भेजेऽनिलोऽपि पटुपुष्पितपादपाली
प्रेढोलनैककुशलोऽतुलमानुकूल्यम् ॥ १० ॥
अस्य मुनेः, किं०, पुण्यपरमर्द्धयो ये पुण्याब्यास्तेषु पुरन्दरस्य, अन्ये येऽनुक्ताः शकुनाः खञ्जनभैरवीप्रमुखा ग्राम्या आटव्याच, किं०, महर्दिपिशुना महासंपत्तिसूचकाः, सुदरे
३१
Page #259
--------------------------------------------------------------------------
________________
१३६
विजयाशस्त्याम् । सन्तु भवन्त्वित्यन्वयः। यतः अनिलो वायुरपि, कीदृशः, पटवः पुष्पिताश्च ये पादपा वृक्षास्तेषामाली श्रेणी तस्याः प्रेडालने कम्पने एकोद्वितीयः कुशलो निपुणः सोऽपि, अतुलं निष्पतिमं, आनुकूल्यं भेजेऽभजन , एतावता वायुरपि पाश्चात्यो महाशकुनमिति सूचितम् ॥ १० ॥ इत्यादिभिः सुभगद्दग्विहगैः प्रभूतैः
संसूचितप्रचुरसंपदयं विनेयः । पादाब्जपांसुपटलैः पृथिवीं पुनानः
प्राप क्रमाद् द्रुतमजर्जरगूर्जरत्राम् ॥ ११ ॥ अयं विनेयः, किं०, संमूचिता प्रचुरा संपद् यस्य सः, कैरित्याह-सुभगविहगैः सुभगा भाग्यवती दृग् दर्शनं दृष्टिा येषां ते विहगाः शकुनास्तैः, पुनः किं०, प्रभूतैः अनेकः, पुनः, इत्यादिभिर्व्यावर्णितस्वरूपैः, अयं किं कुर्वाणः, पुनानः पवित्रीकुर्वाणः, कां, पृथिवीं, कैः, पादाब्जपांसुपटलैःचरणकमलरेणुगणेः, क्रमादनुक्रमेण सूर्यपुराञ्चलन् , अजर्जरा सौराज्यसमृद्ध्यादिना सज्जा या गूर्जरत्रा तामजर्जरगूर्जरत्रां, पाप आगतवानिति॥११॥ अत्रापि यद् नगरमागात् तदाहआचार्यहीरविजयवतिचन्द्रपाद
पद्मद्वयीपतदपारपरागपूतम् ।। श्रीपत्तनं पुरमगात् कमतश्च शिष्यो__तंसः स हंस इव कूलममर्त्यनद्याः ॥१२॥ " स शिष्योत्तंसो विनेयशेखरः, अमर्त्यनद्या गङ्गायाः, कूलं इस इव कमतः क्रमेण, श्रीपचनं अणहिल्लपाटकनामकं पुरं, अमात् प्राप्तः, पुरं किं०, आचार्यहीरविजयव्रतिचन्द्राः श्रीवि
Page #260
--------------------------------------------------------------------------
________________
षष्ठः सर्गः।
२३५ जयदानमरिपट्टधारिणस्तेषां पादपद्मद्वय्याश्चरणकमलयुगल्याः पतन् अपारो बहुर्यः परागो रेणुस्तेन पूतं पवित्रमिति ॥१२॥ अथ प्रावेशिकान् शकुनान् कानप्याह
आनीयमानमृषभद्वयमात्तरश्मि ___ पुंसा पुरः प्रचलता मिलितं तदस्य । गुर्वी धरिष्यति धुर जगतोऽयमेव
यदर्शनादयमुपैति महत्त्वमर्थः ॥ १३ ॥ अस्य जयविमलमुनेः, तद् ऋषभद्वयं मिलितं, किं क्रियमाणं, आनीयमानं, संमुखमिति गम्यं केन. पुंसा पुरुषेण, किं कुर्वता, पुरः प्रचलता गच्छता, पुनः किं०, आत्ता गृहीता रश्मिः रज्जुर्यस्य तत् । तत्किमित्याह-यदर्शनात् यस्य ऋषभद्वयस्य दर्शनात् , अयमों महत्त्वं माहात्म्यं उपैति । अयं क इत्याहअयमेव मुनिः, जगतो धुरं धरिष्यति, धुरं किं०, गुवी महतीं, अयमेवेत्यत्र एवकारोऽन्ययोगव्यवच्छेदकः, यतो गुरोः शिष्यभूयस्त्वेऽपि पट्टभृदयमेव भावीति भावार्थसूचक इति तात्पर्यम् ॥ १३ ॥
अभ्यागमत् तदनु संमुखमम्बुपूर्ण __ कल्याणकारि कलशं शिरसा धरन्ती । कौसुम्भचीवरवती युवतीतिसूचा
कामोत्सवाय भविताऽयमतीव महत् ॥१४॥ तदनु ऋषभद्वयादनु पश्चात् , संमुखं अम्बुपूर्ण पानीयपूरितं, कल्याणकारि मङ्गलकरं, कलशं कुम्भं, शिरसा शीर्षण, धरन्ती सती, पुनः, कोसुम्भचीवरवती कुसुम्भरङ्गरक्तवस्त्रधरा, युवती स्त्री, अभ्यागमद् मिलितेत्यन्वयः। पुनः कीदृशी, इति मूचा
Page #261
--------------------------------------------------------------------------
________________
२३६
विजयाशस्त्याम् ।
सूचनं यस्याः सा, इतीति किं, अयं मुनिः, मदन कामोत्सवाय भविता भविष्यति; स्त्रीपक्षे कामः कन्दर्पस्तस्योत्सवः, पक्षे काम प्रकामं उत्सवस्तस्मै ॥ १४ ॥ भाव्येष शिष्यवृषभः परवादिवंश
ध्वंसाजयावह इहति निवेदकः किम्।। अस्याऽमिलत् प्रविशतः पुरगोपुरान्त___ मूर्तोऽद्भुतो रस इव हिरदोऽतितुङ्गः ? ॥१५॥
अस्य मुनेः, पुरगोपुरान्तनगरप्रतोलीमध्ये, प्रविशतः प्रवेशं कुर्वतः, अतितुङ्गो द्विरदो गजः, अमिलदित्यन्वयः । इवोलेक्ष्यते-मृर्तो मूर्तिमान् , अद्भुताख्यः पञ्चमरस इव साक्षाद् मिलितः, किमित्याशङ्कायां, गजो निवेदक इव, किमित्याह-एष शिष्यवृषभः शिष्यमुख्यः, परवादिवंशध्वंसात् कुवादिवंशोन्मूलनात् , इह जगति, जयावहो भावोति ॥ १५ ॥
स्कन्धाधिरूढपुरुषः पुरुषः पुरान्त__ रस्यामिलत् प्रविशतः पुरतः प्रतोल्याम् । प्रौढप्रभुत्वपदवी न दवीयसी स्याद्
महीक्षणात् प्रविशतामिति सूचनोत्कः॥१६॥ अस्य प्रतोल्यां प्रविशतः सतः, पुरतोऽग्रतः, पुरान्तनगरमध्ये, पुरुषोऽमिलदित्यन्वयः। कीदृशः, स्कन्धाधिरूढपुरुषःस्कन्धेऽधिरूढः पुरुषोबालरूपो यस्य सः, पुरुषारूढो हि पुमानतिश्रेष्ठः, यदुक्तं शकुनशास्त्रे-"प्रस्थाने वा प्रवेशे वा नराख्ढो नरो वरः" इति। पुरुषः कीदृशः, इति सूचने उत्क उत्सुकः, इतीति किं, मद्वीक्षणात् प्रविशतां पुरुषाणां, प्रौढप्रभुत्वपदवी दवीयसी दूरतरा, न स्यात् आसन्नैव स्यादिति तत्त्वम् ॥ १६ ॥
Page #262
--------------------------------------------------------------------------
________________
षष्ठः सर्गः। २३७ संसूचयन्निति किमुद्धतधामवह्नि___ रस्याऽमिलत् प्रविशतः पुरि धूममुक्तः। मद्दर्शनस्य फलमस्तपरप्रभावो
ऽमुष्योल्वणः प्रभविता परितः प्रतापः ॥१७॥ अस्य पुरि पत्तने, प्रविशतः, उद्धतं धाम तेजो यस्याऽसौ वह्निश्चेति कर्मधारये उद्धतधामवह्निरनिः, पुनः, धूममुक्तो निधूमः, आमलदित्यन्वयः। किमित्युत्प्रेक्षायां, इति संसूचयन् , इतीति किं, तदेवाह-अमुष्य एतस्य मुनेः, मदर्शनस्य इदं फलं भावि, तदाहअस्य उल्वण उत्कटं, पुनः, अस्तः क्षिप्तः परेषां प्रभावो येन सः, अस्य प्रतापः परितः सर्वतः, प्रभविता उत्पत्स्यत इति, भविष्यतीति ॥ १७ ॥ गङ्गेव पेशलपयाः शुचिगोविलासै
श्वेतश्चमत्कृतिकरी च सरस्वतीव । ज्योत्स्नेव निर्मिततमद्विजराजतुष्टि
गौरस्य वत्ससहिता मिलिता पुरस्तात् ॥१८॥ . अस्य मुनेः, वत्ससहिता सवत्सा, गौर्मिलितेत्यन्वयः।की. दृशी, पेशलं मनोहारि पयो यस्याः सा, केव, गङ्गेव, गङ्गापक्ष पयः पानीयं, गोपक्षे पयो दुग्धं, पुनः, सरस्वतीव शुचिगोविलासैश्वेतश्चमत्कृतिकरी; सरस्वतीपक्षे शुचय उज्ज्वला ये गोविलासा वाग्विलासास्तैः, गोपक्षे शुचिगोविलासाः शुचयः शुभ्रा गोविलासाः कान्तिविलासा धेनोर्धवलवर्णत्वादिति, अथवा गोविलासा धेनुविलासास्तैः, पुनः कीदृशी, ज्योस्नेव कौमुदीव, निर्मिततमा द्विजराजस्य महाब्राह्मणस्य, पक्ष द्विजराजस्य चन्द्रस्य तुष्टिर्यया सा गौर्मिलितेति ॥ १८ ॥
Page #263
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
इत्यादिद्यतमभाविमहोदयश्रीसंसूचनेन सुभगैर्विहगैः शुभेऽह्नि । आचार्यहीरविजय मिहीमहेन्द्र
पादौ ननाम जयसिंहमुनिर्महात्मा ॥ १९ ॥ इत्यादि हृद्यतमं मनोहरतरं यद् भाविमहोदय श्रीसंसूचनं भविष्यद्गच्छैश्वर्यलक्ष्मीज्ञापनं, तेन सुभगै रम्यैः, विहगैः शकुनैः, शुभेऽह्नि दिने, आचार्यश्वासौ हीरविजयर्षिमहीमहेन्द्रो मुनिराजस्तस्य पादौ क्रमों, महात्मा जयसिंहमुनिर्ननामानमत् ॥ १९ ॥ भाति स्म हीरविजयैर्व्रतिवृन्दचन्द्रैयस्तोऽस्य मूर्धनि नते खकरोऽपसव्यः । देया ध्रुवं त्रिजगतः प्रभुतानिदानं
२३८
स्वाऽस्माभिरस्य पदवी प्रतिभूरिवेति ॥ २० ॥ व्रतिवृन्दचन्द्रैहींरविजयैः श्रीहीरविजयसूरीन्द्रैः, अस्य मूर्द्धनि, किं० नंते प्रणतिकृति, अपसव्यो दक्षिणः, करो न्यस्तः सन् भाति स्मेत्यन्वयः । ध्रुवं नूनं, त्रिजगतः प्रभुताया निदानं बीजं, स्वा स्वकीया, पदवी अस्माभिरस्य देया इति प्रतिभूः साक्षीवेत्यर्थः ॥ २० ॥
शिष्यं निरीक्ष्य जयसिंहमुनिं मनखि - मुख्यं मुदां भरमवापुरमी मुनीन्द्राः । पूर्ण कलाभिरखिलाभिरुषाधिनाथ
मापः प्रभोरिव पयोधिनितम्बिनीनाम् ||२१|| मनस्विमुख्यं सहृदयश्रेष्ठ, जयसिंहमुनिं शिष्यं निरीक्ष्यामी मुनीन्द्राः श्रीहीरविजयाचार्याः, मुदां भरं हर्षप्रकर्ष,
Page #264
--------------------------------------------------------------------------
________________
षष्ठः सर्गः।
२३९
अवापुरित्यन्वयः। दृष्टान्तमाह-इव यथा, अखिलाभिः कलाभिः सकलाभिः कलाभिः, पूर्णमुषाधिनाथं चन्द्रं, निरीक्ष्य पयोधिनितम्बिनीनां नदीनां, प्रभोः पत्युः समुद्रस्य, आपः पयांसि, मुदं प्राप्नुवन्तीत्यर्थः ॥ २१ ॥ रेजे धियां निधिरयं नितमां गुरूणां
पार्श्वे प्रसन्नमतिलक्ष्मिजुषाममीषाम् । पीयूषभुगवसुमतीभृदुपत्यकायां । ___ दौस्थ्यच्छिदङ्कर इव त्रिदिवद्रुमाणाम् ॥२२॥
प्रसन्नमतिलक्ष्मिजुषां सद्बुद्धिसंपद्वतां, अमीषां गुरूणां, पार्थेऽयं शिष्यः, किं०, धियां निधिः, अत एव रेजे सदृशसंयोगेनाऽराजतेत्यन्वयः । क इव केत्याह-पीयूषभुजो देवास्तेषां वसुमतीभृत् पर्वतो मेरुस्तस्य या उपत्यका ऊर्श्वभूमिस्तस्यां, त्रिदिवद्रुमाणां कल्पवृक्षाणां, अङ्कुर इव, कीदृशः, दौस्थ्यच्छित् दारिद्यभेत्तेति ॥ २२ ॥ वात्सल्यवत्यजनि चात्र विनेयरत्ने
सर्वत्र सन्निभदृशामपि दृग् गुरूणाम् । भागेऽतिनिम्न इह वारिधिमेखलायाः
संस्थायिनी भवति वृष्टिरिवाम्बुदानाम्॥२३॥ ' सर्वत्र सनिभदृशामपि गुरूणां दृग् दृष्टिः, अत्र विनेयरत्ने, वात्सल्यवती वत्सला, अजनि जातेत्यन्वयः। वारिधिमेखलायाः पृथिव्याः, भागे, किं०, अतिनिम्ने गभीरे, यथा अम्बुदानां मेघानां, वृष्टिः संस्थायिनी स्थास्नुशीला भवति तथेयं गुरुदृष्टिरिति दृष्टान्तः ॥ २३ ॥
गुर्वहियुग्मसरसीरुहराजहंसः
Page #265
--------------------------------------------------------------------------
________________
विजयप्रसस्त्वाम् । प्रावीण्यपेशलमनाः प्रमनाः प्रकुर्वन् । नित्याङ्गमण्डनमयं विनयं विनेयः ।
श्रीधाम वाङ्मयमयं भणति स्म भूरि ॥२४॥ गुरूणां यद् अंहियुग्मं क्रमयमलं तदेव सरसीरुहं तत्र राजहंसः, पुनः, प्रावीण्यं चातुर्य तत्र तेन वा पेशलं रम्यं दक्षं वा मनो यस्य सः, पुनः, प्रमनाः प्रचेताः सन् , प्रकुर्वन् , के विनयं, किं०, नित्याङ्गमण्डनमयं निरन्तरागभूषणप्रधान, अयं विनयः कि०, श्रीधाम, वामयमग्रेतनसर्गवक्ष्यमाणलक्षणं, भ. णति स्म, भूरि क्रियाविशेषणं, अथवा वाङ्मयस्यैव विशेषणं; अत्र जातावेकवचनं ज्ञेयम् ॥ २४ ॥
श्रीसङ्घनीरनिधिवृद्धिविधानसज्ज
स्तन्वन् गुरोर्मनसि तुष्टिमयं विनेयः । पक्षे वलक्ष उडुराज इवातिकान्ति
वृद्धि क्रमेण कलयन् शुशुभे शुभश्रीः ॥२५॥ अयं विनेयः वलक्षे शुक्ल पक्षे, उडुराज इव चन्द्रवद्, वृद्धि कलयन् शुशुभे शोभते स्मेत्यन्वयः । किं०, अतिशयेन कान्तिर्यस्य सः, पुनः, श्रीसङ्घ एव नीरनिधिस्तस्य वृद्धिविधाने सज्जः पटुः, पुनः, गुरोः श्रीहीरविजयसूरेः, मनास तुष्टिं तन्वन्, चन्द्रपक्षे गुरोबृहस्पतेर्मनसि तुष्टिं तन्वन् , चन्द्रो हि गुरोमित्रमिति ज्योतिर्विदां मतं, यदुक्तम्--"जीवस्यार्कात् त्रयो मित्राणि" इति वचनात् ॥ २५ ॥
नित्योन्नतैः सपदि भाविसमुन्नतिश्रीः
प्रौढासनस्त्वरितभाविमहासनश्च ।
Page #266
--------------------------------------------------------------------------
________________
षष्ठः सर्गः।
२४१ सूरीन्द्रहीरविजयैः सममेष यूथ
नाथेन पोत इव शिष्यवरो व्यहार्षीत् ॥२६॥ सूरीन्द्रहीरविजयैः समं एष शिष्यवरो व्यहार्षीदित्यन्वयः। क इव केनेत्याह-यूथनाथेन गजेन्द्रेण सह, “पोतस्तु दशवार्षिक:" इति वचनात् पोतो गजवाल इवेति दृष्टान्तः । सूरीन्द्रहीरविजयैः किं०, नित्योन्नतैः सदोदयवद्भिः, शिष्यवरः किं०, सपदि शीघ्रं भाविनी समुन्नतिश्रीरुन्नतिलक्ष्मीः मूरिपदवीरूपा यस्य सः, पोतपक्षे सपदि भाविनी समुन्नतिश्रीः प्रोच्चत्वलक्षणा यस्य सः, पुनः सूरीन्द्रः किं०, प्रौढं महद् आसनं गच्छैश्वर्यलक्षणं येषां तैः, शिष्यः किं०, त्वरितं भावि महासनं गुर्वासनाध्यासनरूपं यस्य सः, गजपोतपक्षे भावि महासनं हस्तिस्कन्धलक्षणं यस्य सः, “आसनं विष्टरे हस्तिस्कन्धे" इत्यनेकार्थत्वात् । अत्र तृतीयान्ते गुरुविशेषणे, प्रथमान्ते च शिष्यविशेषणे इति ॥ २६ ॥ अथ श्रीविजयदानसूरिनिर्वाणखरूपं पाहअस्मिन्नथाऽवसर इसमृद्धिभाज
स्तेजखिनो विजयदानमुनीन्द्रचन्द्राः । स्तोमैगवां कुवलयं प्रतिबोधयन्तः
प्रापुः क्रमेण वटपल्लिपुरी प्रसिद्धाम्॥ २७ ॥ . अत्यधिकारान्तरे, अस्मिन्नवसरे श्रीविजयदानमुनीन्द्रचन्द्राः, किं०, इद्धसमृद्धिमाजो दीप्तर्द्धिमन्तः, पुनः किं०, तेजस्विनः, पुनः किं कुर्वन्तः, प्रतिबोधयन्तः, किं०, कुवलयं, गुरुपक्षे भूवलयं, चन्द्रपक्षे चोत्पलं, कैः, गवां वाचां किरणानां च स्तोमैन्दैः, क्रमेण वटपल्लिपुरी पत्तनपरिसरस्था, मापुः सं.
Page #267
--------------------------------------------------------------------------
________________
१४२ . विभक्तस्त्वाम् । . प्राप्ता इति ॥ २७॥
तत्र ते किं चकुरित्याह'मत्वा स्वमन्तसमयं समयज्ञसूरि
सिंहा महाव्रतगृहोपरि वैजयन्तीम् । . आराधनां विदधिरे जिनसिद्धसाधु
देवात्मसाक्षिकमघौघविघातिनी ते ॥ २८ ॥ खं अन्तसमयं मत्वा ते समयज्ञमूरिसिंहाः समयज्ञाअवसरज्ञा आगमज्ञा वा ते च ते मूरिसिंहाश्वेति कर्मधारयः, महाव्रतगृहोपरि संयमवेश्मशृङ्गे, वैजयन्ती ध्वजतुल्यां, पुनः, अघौघविघातिनी पापव्यापविनाशिनी, आराधनां व्रताद्यतिचारालोचनारूपां, विदधिरे चक्रुः, कयं, जिनसिद्धसाधुदेवात्मानः अर्हत्सिद्धसंयमिसम्यग्दृष्टिसुरजीवाः साक्षिणो यत्र तजिनसिद्धसाधुदेवात्मसाक्षिकमिति क्रियाविशेषणम् ।। २८ ॥ श्रीविक्रमार्कधरणीधवतः पयोधि
वस्त्राविलोचनरसद्विजराण्मितेऽब्दे । वैशाखमासि तुहिनविषिशोभनायां
तिथ्यां च पङ्करुहिणीपतिसंमितायाम् ॥२९॥ श्रीविक्रमार्कधरणीधवतो विक्रमादित्यनरेन्द्रात् , पयोधिवस्खा पृथिवी एका, तेन एकाङ्कः, विलोचने नेत्रे दे, तेन यङ्कः, रसाः षद्, तेन षडङ्कः, द्विजराद चन्द्र एकः, तेन एकाङ्कः, एतैमिगतिमीलितैः १६२१ मितेऽब्दे वर्षे, पुनः, वैशाखमासि राधाभिधमासे, पुनः, तिथ्यां, किं०, पङ्करुहिणीपतयः पद्मिनीपाणनायाः सूर्याः, ते च लौकिकसमयानुसारेण द्वादशोच्यन्ते, वैषां च द्वादशसंख्यावाचकाः पुराणगताः श्लोका यथा
Page #268
--------------------------------------------------------------------------
________________
___ः सर्गः।
अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा। चैत्रे मासे तु सविता भानुर्वैशाखमासि च ॥१॥ ज्येष्ठमासे तु मार्तण्ड आषाढे तपते रविः । गभस्तिः श्रावणे मासि तथा भाद्रपदे भगः ॥२॥ आदित्यश्चाऽऽश्विने मासे कार्तिके तु दिवाकरः। मार्गशीर्षे तपेद् मित्रः पौषे मासि सहस्ररुक्॥३॥ इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः । नित्यं द्वादशमासेषु तपन्ते द्वादशाऽप्यमी ॥४॥
इति लौकिकग्रन्थानुसारेण द्वादशसूर्याः, तेन सूर्यसंमितायां द्वादशीतिथ्यां, किं०, तुहिनत्विषिश्चन्द्रस्तेन शोभनायां, शुक्लायामिति गम्यम् ॥ २९॥ स्मृत्वा चतुःशरणमुत्तममर्हदाद्यं
कृत्वा तथाऽनशनमस्तसमस्तदोषम् । ते सूरयोऽथ सुरवामविलोचनाना
मातिथ्यमस्तकलुषाः कलयाम्बभूवुः ॥३०॥ उत्तमं अहंदाचं चतुःशरणं स्मृत्वा ध्यात्वा, पुनः, कृत्वा विधाय, अस्तसमस्तदोषं निर्दोष, अनशनं चतुराहारनिषेधरूपं, नियमविशेषं, अत एव ते सूरयः किं०, अस्तकलुषा गतपापाः, सुरवामविलोचनानां देवाङ्गनानां, आतिथ्यं कलयाम्बभूवुर्दिवं गतवन्त इति भावः। श्रीविजयदानसूरीणां सं० १६२१ वर्षे वेशाखशुक्लद्वादश्यां वटपल्ल्यां स्वर्गमनं जातमिति ॥ ३० ॥ - तद्भक्तिभावितमनाः सकलोऽथ सङ्घः
स्तूपं व्यधत्त पुरि तत्र मनोज्ञमुच्चैः। . यद् वन्दितं स्मृतमुदीक्षितमर्चितं च
Page #269
--------------------------------------------------------------------------
________________
विजयप्रशस्त्यां ।
सूते लतेव मरुतां द्रुतमृद्धिमिद्धाम् ॥ ३१ ॥
,
अथ तत्र सकलसङ्घः, किं० तद्भक्तिभावितमना गुरुसेवावासितचेताः, तत्र पुरि वटपल्ल्यां, उच्चैर्मनोज्ञं गुरुपादुकास्थापनारूपं स्तूपं, व्यधत्त चक्रे, इति पूर्वार्द्धव्याख्या । उत्तरार्द्धेन तद् विशिनष्टि - यत् स्तूपं वन्दितं गुणोत्कीर्त्तनादिना स्तुतमिति यावत्, स्मृतं गुरुगुणध्यानादिना ध्यातं, उदीक्षितं दृशा निभालितं, अर्चितं चन्दनादिना पूजितं सत् मरुतां लतेव सुरवल्लिवत्, इद्धां दीप्तां ऋद्धिं संपत्ति, सूते कुरुत इत्यर्थः॥ ३१ ॥ आचार्यहरिविजया अथ सत्प्रथेषु प्राप्तेषु सूरिषु सुपर्वपुरीममीषु ।
२४४
खेदं तदा विदधिरे हृदि चक्रवाका पान्तरं गतवतीव सरोजबन्धौ ॥ ३२ ॥
अथाऽमीषु श्रीविजयदानसूरिषु किं०, सत्प्रथेषु सत्ख्यातिषु, सुपर्वपुरीं दिवं प्राप्तेषु सत्सु, आचार्यहरिविजयास्तदा खेदं विदधिर इत्यन्वयः । यथा सरोजबन्धौ सूर्ये, द्वीपान्तरं गतवति 'सति, चक्रवाकाः कोका इवेति दृष्टान्तः ॥ ३२ ॥ अथ श्रीहीरविजयसूरि साम्राज्यं वर्णयतिया धूः सुधर्मगणभृत्प्रमुखैरशेषैरूहेऽत्र सूरिभिरभिद्रुतवादिवृन्दैः । दधेऽथ सा स्वयममीभिरहार्य धैर्यै
धुर्यैरिवात्मभुजमूर्धनि वर्यवीर्यैः ॥ ३३ ॥ श्रीसुधर्मस्वामिप्रमुखैः सूरिभिः किं०, अभिद्रुतवादिन्दै - स्तिरस्कृतदुर्वादित्रातैः, या धूस्तपागच्छधुर्वी, ऊहे व्यूढेति, अथा
Page #270
--------------------------------------------------------------------------
________________
पठः सर्गः।
२४५ ऽमीभिः श्रीहीरविजयसूरिभिः, सा धूः स्वयं धुरिव आत्मभुजमूर्द्धनि खस्कन्धे, दधे धृतेति, अमीभिः कि०, अहार्य हर्तुमशक्यं धैर्य येषां तैः, अत एव पुनर्वर्यवीमनोज्ञवलैः॥ ३३ ॥ श्रीगौतमप्रतिममूर्त्तय आर्यवर्या
राज्यं तपागणनभोऽङ्गणभासमानाः । प्रापालयन्नथ समर्थमसीमभीम
कान्तैर्गुणै रविहिमांशुसमा इवामी ॥ ३४ ॥ अथामी आर्यवर्याः पूज्यमुख्याः, किं०, श्रीगौतमो गणभृत , तत्तुल्या मूर्तिर्येषां ते, पुनः, तपागण एव नभोगणं गगनाङ्गणं, तत्र भासमानाः शोभमानाः, समर्थ शक्तिसंपन्नं यथा स्यात्तथा, राज्यं पापालयन् पालयामासुः । इवोत्प्रेक्ष्यते-असीमभीमकान्तैरतिमात्रोग्रसौम्यैः, गुणैः रविहिमांशुसमाः सूर्यशशितुल्याः, तत्र भीमगुणैः सूर्यसमाः, सौम्यगुणैः शशिसमाश्चेति भावार्थः ॥ ३४॥
सर्वज्ञशासनविभासनभासि राज्यं
प्राज्यं प्रपालयति सूरिपुरन्दरेऽस्मिन् । क्षोणीतलेऽत्र शुशुभे न परं परेषां
तेजः सहस्रकिरणे सुरवर्मनीव ॥ ३५ ॥ अस्मिन् सूरिपुरन्दरे, प्राज्यं प्रकृष्ट, राज्यं प्रपालयति सति, अस्मिन् विक, सर्वज्ञशासनविभासनभासि जिनशासनप्रकाशकारिमहसि, अत्रक्षोणीतले, परेषां सूरीणां, तेजो न शुशुभे तिरोऽभूदिति भावः। सुरवर्त्मनि गगने, सहस्रकिरणे तरणौ सति, परेषां ग्रहनक्षत्रादीनां तेजो यथा न शोभत इति दृष्टान्तः ॥ ३५॥
Page #271
--------------------------------------------------------------------------
________________
२४६ विजयाशस्त्याम् ।
अस्मिन्नशोभततमाममरत्वभाजा___मप्यहृतं मह इलातिलके गुरूणाम् । सप्तार्चिषीव चरमाचलचूलिकायां
चूलामणीयिततनोस्तमसामरातेः ॥ ३६ ॥ अमरत्वभाजामपि गुरूणां दिवं गतानामपि श्रीविजयदानसूरीणां, महस्तेजः, अस्मिन् श्रीहरिविजयसूरौ, किं०, इलातिलके भूमिभूषणे, अशोभततमां भृशं शुशुभे इत्यन्वयः । इव यथा, तमसामरातेः सूर्यस्य, किं०, चरमाचलचूलिकायां अस्ताचलशृङ्गे, चूलामणीयिततनोःशिरोरत्नायितवपुषः, अस्तंगतस्येति यावत् ; महः सप्ताचिषि वह्नौ, शोभते ॥ ३६ ॥
भट्टारकत्वमधिगम्य मुनीन्द्र एष - सौभाग्यभूरपि जगत्यधिकं दिदीपे।
भद्रः करीन्द्र इव पार्थिवसार्वभौम
द्वाराव नलिनदृक्तिलकायमानः ॥३७॥ एष मुनीन्द्रः, किं०, सौभाग्यभूःसुभगताधामापि, भट्टारकत्वं गणैश्वर्यरूपं, अधिगम्य प्राप्य, जगति लोके, अधिकं दिदीपे दीप्तिमापेत्यन्वयः। भद्रः करीन्द्रो भद्रहस्तीव, कि०, पार्थिवसार्वभौमद्वारावनीनलिनदृतिलकायमानः महाराजेन्द्रगृहभूभामिनीतमालपत्रोपमानः, इव यथेति दृष्टान्तः॥ ३७॥ . भट्टारकोऽयमिह साधुजनैरमानि
__ भीमलभूरपि भृशं तपनो नवीनः । अस्योदये मुमुदिरे किल कौशिका य___च्छाया जवादुदलसच्च घनप्रकाशा ॥३८॥
Page #272
--------------------------------------------------------------------------
________________
षष्ठः सर्गः।
२४७ इह जगति, अयं भट्टारकः, भीमत्वभूरपि भीमतायाः स्थानमपि, नवीनस्तपनो नूतनो रविः, साधुजनैरमानि मेने इत्यन्वयः। नूतनत्वे हेतुमाह-यस्मादेतोः, अस्योदये कौशिका इन्द्राः, मुमुदिरे मोदमापुः, च पुनः, घनप्रकाशा बहुप्रसिद्धा, छाया शोभा, उदलसत् शोभते स्म, तपनोदये हि कौशिका उलूकाः, न मुदं लभन्ते "दिवा पश्यति नोलूकः" इत्युक्तेः, तस्यान्धत्वसद्भावात् , पुनः, घनप्रकाशा मेघतुल्या, छाया ध्वान्तं, नोल्लसति "छाया तमास" इत्यनेकार्थत्वात् ॥३८॥.. भट्टारकप्रभुरसावपि कान्तकान्ति
मैने जनैरिति नवः पतिरोषधीनाम् । दोषोदयो न यदभूददसीयदीप्तौ
शोभा बभार सकलः कमलाकरश्च ॥ ३९ ॥ असौ भट्टारकप्रभुः, किं०, कान्तकान्तिरपि आहादकृत्कान्तिरपि, नवो नवीनः, ओषधीपतिश्चन्द्रः, जनैर्मेनेऽमानीत्यन्वयः । तथात्वे हेतुमाह-यस्मात् कारणात् अदसीयदीप्तौ एतद्द्युतौ सत्यां, दोषोदयो दोषसद्भावो नाभूत् , च पुनः, सकलः कमलाऽऽकरः लक्ष्मीसमूहः, शोभांश्रियं, बभार धृतवान् , चन्द्रोदये हि दोषोदयो रात्रेरुदयः, भवति, समस्तः कमलाकरस्तटाकः, सरोरुहव्यहो वा, शोभा न बिभर्तीति भावः ॥ ३९ ॥
सप्तर्षिभूषितसमाजमथैकसौम्यं
दोषज्ञयुग्मसुभगं धनदैक्यहारि । तत्तद्बहुत्वसहितेन तुलां न यस्य
राज्येन सार्द्धमभजत् सुरराजराज्यम् ॥४०॥ यस्य गुरोः, राज्येन सार्द्ध सुरराजराज्यं तुलां नामजदित्य
Page #273
--------------------------------------------------------------------------
________________
२४८ विजयप्रशस्त्वाम् । न्वयः।सुरराजराज्यं हि शक्रराज्यं कि०,सप्तर्षिभिर्भूषितः समाजः सभा यत्र तत्, पुनः कि०, एकः सौम्यो बुधो यत्र तत् , पुनः कि०, दोषज्ञयोद्ययोरर्थात् स्ववैद्ययोर्यद् युग्मं तेन सुभगं, पुनः कि०, धनदस्य कुबेरस्य यदैक्यं तेन हारि रम्यं यस्य राज्येन, किंविशिष्टेन, तत्तद्वहुत्वं तेषां उक्तविशेषणानां यद्बहुत्वं वाहुल्यं ऋषीणां बहुत्वं, सौम्यानां अनुग्राणां बहुत्वं, दोषज्ञानां प्राज्ञानां बहुत्वं, धनदानां श्रीदायिनां बहुत्वं तेन तत्तद्बहुत्वसहितेन यद्राज्येन महेन्द्रराज्यं न साम्यमेतीति भावार्थः ॥ ४० ॥ कालिन्दिकासलिलकज्जलजालकाले
ऽङ्गारत्वमञ्चति कुवाद्ययशःप्रपञ्चे । कुन्देन्दुकम्बुकुमुदाकरभासि यस्य
राज्ये स्थिरत्वमनिशं धनसार आसीत् ॥४१॥ यस्य गुरोः, राज्ये घनसारे यद्राज्यकर्पूरे, किं०, कुन्देन्दुकम्बुकुमुदाकरभासि कुन्दकुसुमशीतांशुशङ्खकैरवनिकरकान्तो, अनिशं स्थिरत्वं स्थैर्यम् , आसीत् इत्यन्वयः । क सति, कुवाद्ययशःप्रपञ्चे दुर्वाद्यकीर्तिविस्तारे, अङ्गारत्वं अञ्चति सति अङ्गारतां गच्छतीत्यर्थः । कि०, कालिन्दिकासलिलकज्जलजालकाले यमुनाजलाञ्जनपुञ्जश्यामले; एतावता दुर्वाद्ययशोऽङ्गारेण सह सअतिमागतो यद्राज्यकर्पूरः स्थैर्यभागभूदिति भावः ॥४१॥ भीमत्वभाजि बहुदुःसहतैकपात्रे
ग्रीष्मेऽम्भसामिव वेरिव भासि भानाम् । ‘दुर्ध्यानदुर्गतिदुराग्रहदुर्मतीनां
यद्वैभवे स्फुरति फल्गुदृशामसत्ता ॥ ४२ ॥ यद्वैभवे यस्य गुरोः साम्राज्ये स्फुरति सति, फल्गुदृशां
Page #274
--------------------------------------------------------------------------
________________
२४९
पष्ठः सर्गः। बसारदृष्टीना, मिथ्याशामिति यावत् । फल्गुटखा किं०, दुर्ध्यानदुर्गतिदुराग्रहदुर्मतीनां दुर्ध्यानाथ दुर्गतयश्च दुराग्रहाच दुर्मतयश्चेति द्वन्द्वस्तेषां, असत्ताऽसद्भावोऽभूदिति, सतामप्येषामसत्लायता जातेति रहस्यम् । दृष्टान्तद्वारेणाह-यथा ग्रीष्मे ज्येष्ठापाढरूपे ग्रीष्मतौं, अम्भसा पानीयानां; पुनः, यथा रवे सि सूर्यस्य दीप्तौ सरयां, भानां नक्षत्राणां,असत्ता स्यात् तथैवेति दृष्टान्तद्वयम्: यद्राज्ये ग्रीष्मे रविभासि च किं०, भीमत्वभाजि भीमतया युक्त, पुनः, बहुदुस्सहतैकपात्रे घनदुःसहतायाएकपात्रे एकस्थाने, इति विशेषणद्वयं विष्वपि विशेष्येषु योज्यमिति ॥४२॥
तेषामथ क्रमसमागतसूरिमन्त्र
ध्यानेऽन्यदा सकलकृत्यकृतौ निदाने । चेतोधृतिः सफलमुन्नतिमाससाद
द्राग् युग्मिनामिव तरावमृताशनानाम् ॥४३॥ अथान्यदा तेषां श्रीहीरविजयसूरीणां, चेतोधृतिश्चित्तघारणा, क्रमसमागतसरिमन्त्रध्याने, किं०, सकलकृत्यानां कृतौ करणे निदाने कारणे, सफलमिति क्रियाविशेषणं, उनतिं आससाद उदयं प्रापेत्यन्वयः । दृष्टान्तमाह-युग्मिनां युगल. धर्मिणां नराणां, अमृताशनानां सुराणां, तरौ कल्पपादपे, यथा स्पृहा स्यात्तयेति भावः॥ ४३ ॥ ततस्ते ध्यानाय क गतवन्त इत्याहमुक्ताफलैरिव पदद्वयपांसुपूरैः
पृथ्वीं विभूषणमयीमथ ते सृजन्तः । श्रद्धालुलोककुलसंकुलमुत्सवाढ्यं
Page #275
--------------------------------------------------------------------------
________________
२५० विजयशस्याम् ।
डीसाऽभिधाननगरं गुरवोऽधिजग्मुः ॥ १४ ॥ अथ ते गुरवः पदद्वयपांसुपूरैश्चरणयुग्मरेणुगणैः, मौक्तिकैरिव, पृथ्वीं विभूषणमयीं सृजन्तः सन्तो विहरन्त इति यावत् , श्रद्धालवश्च ते लोकाश्च श्रद्धालुलोका आस्तिकजनास्तेषां यानि कुलानि गृहाणि कुटुम्बानि वा तैः संकुलं पूर्ण, डीसाऽभिधाननगरं, पुनः किं०, उत्सवाढ्यं महार्द्धमत्त्वात् , अधिजग्मुः प्राप्ताइति ॥४४॥ - आरोप्य तत्र जयसिंहगणीन्दुरत्ने
व्याख्यानमुख्यमखिलं यतिजातकृत्यम् । आराधयन्नथ हृदीहितकार्यमेते
श्रीसूरिमन्त्रमनघं शनिनामधीशाः ॥ ४५ ॥ तत्र डीसाऽऽख्ये नगरे, अर्थते शमिनामधीशा मुनीन्द्राः, श्रीमरिमन्त्रं, किं०, अनघं निष्पापं, आराधयन् , हृदि हृदये, मन्त्रं किं०, ईहितं कार्य यस्मात् तत् , अथवा हृदीहितकार्यमित्यखण्डं पदं, किं कृत्वा, आरोग्य संस्थाप्य, किं, यतिजातकृत्यं यतिजातस्य मुनिन्दस्याऽध्ययनाध्यापनयोगोद्वाहनादि कार्य, किं०, व्याख्यानमुख्यं व्याख्यानादिकं, कस्मिन् , जयसिंहगणीन्दुरत्ने, जयविमलगणिचन्द्रचूडामणौ सर्व साधुश्राद्धसामाचारीसत्यापनरूपं कृत्यं स्थापयित्वा स्वयं त्रिमासिक सूरिमन्त्रध्यानं कृतवन्त इति ॥ ४५ ॥ ध्यानाधिरूढमनसां मुनिपुङ्गवानां
तेषां सुदुस्तपतपः सृजतां तदानीम् । आसीत् तडित्ततिरिवाऽद्भुतसूरिमन्त्राधिष्ठायकः सुरपतिः प्रकटः पुरस्तात् ॥ ४६ ॥
Page #276
--------------------------------------------------------------------------
________________
पष्ठ सर्गः।
२५१ तेषां मुनिपुङ्गवानां गुरूणां, किं०, ध्यानाधिरूढं मनो येषां तेषां, पुनः किं कुर्वतां, सृजतां, किं, सुदुस्तपं च तत्तपथ, दुष्करं तपस्तन्वतां, तदानीं ध्यानावसाने सति, तडित्ततिरिव विद्युद्दण्ड इव, अद्भुतमरिमन्त्राधिष्ठायकः सुरपतिर्देवमुख्यः, पुरस्तादग्रतः, प्रकट आसीत् प्रकटीबभूवेत्यर्थः॥४६॥ . ... दन्तद्युतिप्रकरपेशलशुक्तिजानां...
कुर्वन्नथोज्ज्वलरुचामुपदां पुरस्तात् । ऊचे ललाटमुकुटायितपाणिपद्म-.. - युग्मः स निर्जर इति प्रमना मनाग्वाम्॥४७॥ . स निर्जरः, किं०, प्रमना हृष्टमानसः, पुनः कि०, मनाग्वाम् ईषद्वचाः, वाचाटो नेति; यद्गुरुवचः-"ब्रुवते यदेकवाणीमुत्तममा अमाश्च" इति, पुनः किं०, ललाटे मुकुटायितं चूडामणीयितं पाणिपद्मयुग्मं करकमलयमलं यस्य सः, इति वक्ष्यमाणं वाक्यं, ऊचेऽवोचदित्यन्वयः । किं कुर्वन् , कुर्वन् , कां, उपदांपाभृतकं,केषां, दन्तद्युतिप्रकरपेशलशुक्तिजानां दशनच्छविनिवहमनोहरमुक्ताफलानां, किं०, उज्ज्वलरुचां विमलत्विषां, कथं, पुरस्ताद् , गुरोरित्याक्षेप्यम् ॥ ४७॥
यदूचे तदाहगाङ्गो भगीरथकुमारमिव प्रवाहः ___ पट्टः पटिष्ठमहिमा भगवन्नयं वः । श्रीधामधाम जयसिंहगणीन्दुमेन-- ___ मर्हत्यतुल्यभरभूस्त्रिजगत् पुनानः ॥ ४८ ॥ हे भगवन् ! अयं वो युष्माकं पट्टः, किं०, पटिष्ठो महिमा यस्य सः, गाङ्ग प्रवाह इव गङ्गाप्रवाह इव, भगीरथकुमारं
Page #277
--------------------------------------------------------------------------
________________
३५२
विजयत्रशस्त्याम् |
सगरचक्रधरपौत्रं जन्हुकुमारपुत्रं, तथा श्रीधान्नोर्लक्ष्मीतेजसोर्षाम गृहं, एनं जयसिंहं गणीन्दुं अर्हति योग्यतामेति, पट्टो गङ्गाप्रवाहच कीदृशः, अतुल्यभरस्य निष्पतिमातिशयस्य भूः स्थानमिति पुनः किं कुर्बाणः, पुनानः, किं त्रिजगत्, जगत्त्रयं पवित्रीकुर्वाण इति ॥ ४८ ॥
इत्यात्मचिन्तिततमाव्यभिचारचावमाकर्ण्य कर्णसुखमूलमिमां तदुक्तिम् । सूरीश्वरा मुमुदिरे हृदि दृष्टशिष्ट
स्वप्ना इव त्वरितजातसमीहितार्थाः ॥ ४९ ॥ इत्युक्तरूपस्य, आत्मचिन्तिततमस्य स्वध्यानविषयीकृततरमनोरथस्य योऽव्यभिचारो विसंवादाभावस्तेन चार्वी रम्यां, पुनः, कर्णसुखमूलं श्रोत्रसुखहेतुं इमां तदुक्तं देववाणीं, आकर्ण्य श्रुत्वा, सूरीश्वरा हृदि मुमुदिरे मुदितमनसः संजाताइति । किं० त्वरितं जातः समीहितोऽर्थो मनोरथपूर्तिलक्षणो येषां ते, क इवेत्याह-दृष्टः शिष्टः स्वप्नो यैस्ते, यथा विशिष्टस्वमदर्शनात् शीघ्रं समीहितार्थसिद्धिमन्तः स्युः, तथा तहेबवाक्याऽऽकर्णनाद् गुरवोऽपि संजातार्थितार्थसिद्धिभाजोऽभूवन्निति निर्गलितार्थः ।। ४९ ॥
,
स्पष्टं प्रहृष्टतमदृष्टिमथो मुनीन्द्रमेनं प्रणम्य च मुहुर्मुहुरित्युदीर्य । वेलाम्बुधेरिव विनिर्मितसिद्धिरात्म
स्थानं यथाऽऽगतमियाय सुरः स सद्यः ॥५०॥
अथो एनं मुनीन्द्रं, किं०, महृष्टतमदृष्टिं हर्षिततरदृशं, प्रणम्य च पुनः इति वचः जयविमलगणेरेव पदस्थापनाला
Page #278
--------------------------------------------------------------------------
________________
षष्ठः समः।
२५३ पनरूपं वाक्यं, मुहुर्वारं वारं, उदीर्य उक्त्वा स सुरः सद्यः, किं०, विनिर्मिता सिद्धिर्वर्थसिद्धिर्येन सः, आत्मस्थानं खं पदं, अम्बुधेर्वेलेव जलधिवेलावत् , इयाय गतवान्, कयं, यथाऽऽगतं तथा गतवान् ॥५०॥ ईषत्प्रमीलितदृशः प्रभवः प्रभूणां
हंसेन पद्ममिव भूषितमात्मनोऽङ्कम् । पक्षद्वयीविजयिना जयसिंहनाम्ना
शिष्येण शिष्यमुकुटेन तदाऽऽश्वपश्यन् ॥५१॥ तदा तत्र सुरे गते सति, प्रभूणां प्रभवस्ते गुरूणां गुरवः, किं०, ईषन्मानं प्रमीलिता निद्रिता दृग् येषां ते, आशु शीघ्र, आत्मनोऽई स्वमुत्सहं, कि०, भूषितं भ्राजितं, केन, जयसिंहनाम्ना शिष्येण, किंलक्षणेन, शिष्यमुकुटेन शिष्यशिरोमणिना, कमिव केनेति दृष्टान्तमाह-यथा हंसेन पद्म कमलं, हंसेन शिष्येण च किं०, पक्षद्वयीविजयिना हंसपक्षे पक्षयोश्छदयोईयं, शिष्यपक्षे पक्षयोर्मातापितरूपयोयं, तेन विजयिना जयवता, अपश्यन् पश्यन्ति स्मेत्यर्थः ॥५१॥
इत्यात्मचित्तगतिना वचसा सुरस्य __स्वप्नेन तेन च तदा खयमीक्षितेन । अस्मिन् विनेयवृषभे तपगच्छलक्ष्मी
यास्या मया ध्रुवमथो गुरुणेत्यमानि ॥५२॥ इति पूर्वोक्तेन, आत्मचित्तगतिना स्वमनोज्ञेन, वचनेन, च पुनः, तदा स्वयमीक्षितेन तेन स्वमेन, अथ गुरुणा इत्यमानि इति निश्चिक्ये, इतीति किं, अस्मिन् विनेयषभे जयविमलना
Page #279
--------------------------------------------------------------------------
________________
२५४ विजयाशस्त्याम् । मिन, ध्रुवं नूनं, मया तपगच्छलक्ष्मीर्गच्छाधिपत्यसंपत्तिः, न्यास्या स्थापनीयेति ॥ ५२ ।
रोचिष्णुचित्तचरिताम्बुजबान्धवेन .. प्रातःस्मिताननविलोचनपुण्डरीकाः । संघेन मेनिर इमे मुनिपुण्डरीका
श्चिद्वैर्मुदां सपदि सिद्धसमीहितार्थाः॥ ५३ ॥
रोचिष्णुचित्तचरिताम्बुजबान्धवेन मनोज्ञमानसाध्यवसायरूपाचारतरणिना, प्रातःस्मिताननविलोचनपुण्डरीकाः पातबेलायां व्याख्यानसभायां स्मिते हसिते आननविलोचनपुण्डरीके वदननयनकमले येषां ते, इमे मुनिषु पुण्डरीका व्याघ्रा गुरवः, मुदां चिह्नः पूर्वार्द्धविशेषणसूचितैः, सिद्धसमीहितार्थाः कृतकृत्याः, संघेन समस्तसाधुसाध्वीश्राद्धश्राद्धीलक्षणेन, मेनिरे ज्ञाता इति ॥ ५३॥
अमरगिरिसहायां दुर्वहायामदोऽन्यै
गणधरधुरि योज्योऽवश्यमस्माभिरेषः । गणिजयविमलाख्यः शिष्यमुख्यः समेषा__ मजनि रतिकृदित्यानन्ददृष्ट्या गुरूणाम्॥५४॥
अमरगिरिर्मेरुस्तद्वत् सहो बलं यस्यां तस्यां, अत एव अदोऽन्यैः एतस्माच्छिष्यादन्यैरपरैः, दुर्वहायां दुर्धरायां, गणधरधुरि गच्छनायकपदव्यां, अवश्यं अस्माभिरेष शिष्यः, योज्यः स्थाप्य एवेति पूर्वार्द्धम् , इति गुरूणामानन्ददृशा हर्षदृशा, गणिजयविमलाख्यः शिष्यमुख्यः समेषां सर्वेषां चतुर्विधसंघलोकानां, रतिकृत् रागभाजनं, अजनि जातवानिति ॥५४॥
हरिहरिदिव सद्योभाविभानूदयश्रीः
Page #280
--------------------------------------------------------------------------
________________
पष्ठः सर्गः।
२५५
सुरसरिदिव भाविस्कन्दशीघ्रप्रसूतिः । जयविमलगणीन्दोः स्फूतिरतिच्छिदुच्चै
र्मुनिपपदसमेष्यत्सौख्यलक्ष्मीविरेजे ॥ ५५ ॥ जयविमलगणीन्दोः स्फूर्तिः, किं०, अतिच्छित् पडिाऽपहारिणी, उच्चैरतिशयेन, विरेजे शुशुभे इत्यन्वयः। किं०, मुनिपपदस्य गच्छेशपदव्याः, समेष्यन्ती आगमिष्यन्ती सौख्यलक्ष्मीर्यस्यां सा, केवेति दृष्टान्तद्वयीमाह-इव यथा, हरेरिन्द्रस्य हरिद् दिग् पूर्वेत्यर्थः, किं०, सद्यो भाविनी भानूदयस्य श्रीर्यस्यां सा, पुनरित्यध्याहार्यम् , तेन पुनर्यथा सुरसरिद् गङ्गा, किं०, भाविनी स्कन्दस्य स्वामिनः शीघ्रप्रसूतिर्यस्यां सा, एतावता यथा आसन्नसूर्योदया पूर्वा दिग् भाति, पुनरासन्नकार्तिकेयप्रसवा यथा गङ्गा भाति, तथा शीघ्रमागमिष्यद्गच्छेश्वर्यसुखश्रीः श्रीजयविमलगणेः स्फूर्तिरपि शोभते स्मेति भावार्थः। अत्र सर्गे वसन्ततिलकाख्यं छन्दस्तल्लक्षणं चोक्तपूर्वम् , अन्त्यवृत्तद्वयच्छन्दोऽपि पूर्वप्रोक्तलक्षणमतो नाभिहितम् ॥ ५५ ॥ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
इतीति सर्व सुबोधम् । इति सुविहितसभासार्वभौमसमानसकलपण्डितमण्डलीमौलिमालीयमानपण्डितश्रीकमलविजयगणिशिष्यमुख्यपण्डितपुरन्दरमख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकगुणविजयगणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां
षष्ठः सर्गोऽर्थतः समर्थितः ।
Page #281
--------------------------------------------------------------------------
________________
अहम् अथ सप्तमः सर्गः।
अथ सप्तमः सर्गः प्रारभ्यते, तस्येदमादिकाव्यम्अन्येारानन्दितचित्तवृत्तिना ___जयादिसिंहेन विनेयभूभुजा। युक्ता जयेनेव गदाग्रजाग्रजा__स्ते सूरिसिंहा व्यहरन् भुवस्तले ॥१॥
अन्येधुरिति एकदा डीसाऽख्यनगरात् , ते मूरिसिंहा भुवस्तले भूतले, व्यहरन् विहरन्ति स्मेत्यन्वयः । ते किं०, युक्ताः सहिताः, केन , जयादिसिंहेन विनयभूभुजा जयसिंहशिष्यराजेनेति, किंलक्षणेन, आनन्दिता हर्षिता गुरुहितदृशा चित्तवृत्तिर्यस्य तेन, क इव केनेत्याह--गदाग्रजाग्रजा अच्युताग्रजा इन्द्राः, यथा जयेन वपुत्रेण जयदत्तेन, युक्ता इवेत्युत्प्रेक्षा वा, दृष्टान्तो वेति ॥१॥ अथ काव्यत्रयेण शिष्यं वर्णयतिशिष्योऽथ स श्रीजयसिंहसंज्ञकः
प्रज्ञाप्रकर्षात् परभागपेशलः । अम्भोरुहं भृङ्गयुवेव पादयो
ईन्दं गुरूणां भजमान आदरात् ॥ २॥ लक्ष्मीलतामण्डपमङ्गमण्डनं
स स्फूर्तिकीर्तिभ्रमरीसरोरुहम् । विद्यासरिद्वाहधराधरं धरन् ।
Page #282
--------------------------------------------------------------------------
________________
सप्तमः सर्गः।
२५७
नित्यं प्रभूतं विनयं लसन्नयम् ॥ ३ ॥ अष्टाभिरुत्कृष्टतमैर्धियां गुणै
युतः स्वकीयेतरशास्त्रसन्ततीः । सिद्धीः समृद्धा इह हारिमूर्तिभिः
प्रीतः पिनाकीव वशीचकार सः ॥ ४॥ अथ सः श्रीजयसिंहसंज्ञकः शिष्यः, किं०, प्रज्ञाप्रकर्षात प्रतिमोत्कर्षात् , स्वकीयेतरशास्त्रसंततीः स्वकीयपरकीयग्रन्थवीथीः, प्रीतः सन् वशीचकारत्यन्वयः। स किं०, परभागपेशल: गुणोत्कर्षप्रियः, पुनः किं कुर्वाणः, भजमानः सेवमानः, किं, गुरूणां श्रीहीरविजयसूरीणां पादयोर्द्वन्दं चरणयुगं, इव . यथा, भृङ्गयुवा अम्भोरुहं कमलमिति ॥ २॥ पुनः किं कुर्वनित्याह-विनयं धर्ममूलं विनयगुणं, किं०, लसन्नयं न्यायोपपन्न, पुनः किं०, प्रभूतं वहुं धरन् , पुनर्विनयं किं०, लक्ष्मीलतायाः संपवल्लमण्डपं, तदाऽऽधारत्वात् पुनः, अगस्य मण्डनं, शरीरशोभाहेतुत्वात् । पुनः, सस्फूर्तिकीर्तिभ्रमर्याः सरोरुहं सरोज, पुनः. विद्युव सरिद्वाहो नदीप्रवाहस्तस्य धराधरं पर्वतं, तदुत्पादकत्वादिति ॥ ३ ॥ पुनः स शिष्यः किं०, युतः संयुक्तः, कैः, धियां गुणैः, किं०, उत्कृष्टतमैरत्युत्कृष्टः, पुनः कतिभिः, अष्टाभिः शुश्रूषाश्रवणग्रहणधारणोहापोहार्थज्ञानलक्षणैः, अमीभिरष्टभिबद्धिगुणैः, स शिष्यः, स्वपरशास्त्रश्रेणीः वशीकुरुते स्म यथा पिनाकी महादेवः, हारिमूर्तिभिरष्टभिर्मनोज्ञमूतिभिः, अष्टौ सिद्धीर्वशीकुरुते, तथेति दृष्टान्तः । अत्रान्ते पुनः सशब्दस्तस्य पुनः पुनः प्रसिद्धिवाचकः, अथवा सशब्दो दृष्टान्तीकृते पिना. किनि योज्य इति त्रयाणां युगपद्याख्यानम् ॥ ४॥
Page #283
--------------------------------------------------------------------------
________________
२५८ विजयप्रशस्त्याम् । अथैकादशभिः काव्यैः शास्त्राध्ययनमाह
निःशेषशास्त्रार्थसमर्थनात्मकं ___ विचक्षणो लक्षणनाम वाङ्मयम् ।
जग्राह शीघ्रं खगुरोः समीपतः ___ कूपादिवाऽपः पथिकस्तृषाऽऽतुरः ॥ ५ ॥ स विचक्षणः, लक्षणनाम वाङ्मयं व्याकरणाख्यं शास्त्रं, किं०, निःशेषशास्त्रार्थसमर्थनात्मकं समस्तग्रन्थार्थसमर्थनस्वरूपं, स्वगुरोः समीपतो जग्राह गृहीतवान् , यथा कूपात् तृषातुरः पथिकः पान्य इव, अपः पाथांसि, इति दृष्टान्तः ॥ ५॥ .
व्यक्तिः प्रदीपैरिव यैर्दुतं भवे___दाकोटकोटिध्वजमुख्यवस्तुनः । स रूढमिश्रान्वयिनां च संग्रहान्
नाम्नामभाणीद् भगवद्विनयराट् ॥ ६ ॥ कीटं मर्यादीकृत्य आकोट, आकीटं च कोटिध्वजमुख्य च यद् वस्तु तस्य आकीटकोटिध्वजादिवस्तुनः, नाम्नां यः प्रदीपैरिव व्यक्तिर्भवेदित्यन्वयः । स भगवद्विनेयराट् गुरोः शिप्यराजः, अत्र तच्छब्दोऽध्याहार्यस्तन तान् नाम्नां संग्रहान् , नाम्नां कि०, रूढमिश्रान्वयिनां रूढमिश्रयौगिकाणां, संग्रहान् नाममालाऽऽख्यग्रन्थान् , अभाणीद् भणति स्मेति ॥ ६ ॥
गुणाश्च दोषाश्च भजन्ति दृक्पथं
गिरां पथामर्ककरैरिवाशु यैः।। काव्यानुशास्तिप्रभृतीन् बहून् सुधी
ग्रन्थानलङ्कारपटून् पपाठ सः ॥ ७ ॥
Page #284
--------------------------------------------------------------------------
________________
सप्तमः समः ।
२५९
यैर्यन्यैर्गिरां वाचां गुणा औदार्यसमताकान्त्यादयः, च पुनः, दोषा अनर्थकश्रुतिकटुमभृतयः, दृक्पथं भजन्ति ज्ञानगोचरमायान्तीत्यन्वयः । दृष्टान्तमाह- इव यथा पथां मार्गाणां गुणाश्च दोषाश्च अर्ककरैः सूर्यकिरणैः, दृक्पथं नेत्रपर्थ, भजन्ति; सः सुधीः शिष्यस्तान् ग्रन्थान् बहून्, पुनः, अलङ्कारपटून् चित्राद्यलङ्कृतिपाटवयुक्तान् पुनः किं०, काव्यानुशास्ति: काव्यानुशासनं, तत्प्रभृतीन् काव्यानुशासनकाव्यप्रकाशवाग्भटालङ्कारकाव्यकल्पलतादीन्, पपाठाऽपठत् ॥७॥
यैश्छन्दसां व्यक्तिरुदेति दोषभूः स्वादैरपि स्वाच्छ्यजुषामिवाम्भसाम् । छन्दोऽनुशास्ति सृजतः सुधीर्बहून्
ग्रन्थाननैषीद् विषयं धियामयम् ॥ ८ ॥
छन्दसामार्यावृत्तादीनां, यैः करणभूतैः, दोषभूर्व्यक्तिः उदेति प्रकटीभवतिः छन्दोदोषजा निर्णीतिर्यैर्ज्ञायत इति शेषः । किं च तनिर्णीतौ गुणनिर्णीतिस्तु जातैव, विधिप्रतिषेधयोरेकतरनिषेधेऽन्यतरसद्भावस्याऽवश्यंभावादिति छन्दोगुणव्यक्तेरुपादानं न कृतमिति प्रेक्ष्यम् । कैः केषामिवेति दृष्टान्तमाहस्वाच्छयजुषामपि अम्भसां स्वच्छानामपि पानीयानां स्वादैमधुर्य क्षारत्वादिरसास्वादरूपैः, यथा जलदोषोद्भवा व्यक्तिर्ज्ञायत इति पूर्वार्धम्, तान् मात्रागणादिभेदानां छन्दसां अनुशास्ति शिक्षां, सृजतः कुर्वतः बहून्, छन्दोनुशासनच्छन्दोरत्नावलीवृत्तरत्नाकरादीन् ग्रन्थान्, अयं विनेयो धियां विषयं अनैषीत् ज्ञानगोचरीकृतवानिति ॥ ८ ॥
. कान्ताननेकान्तमतावलम्बिनः स्याद्वादरत्नाकरवाङ्मयादिकान् ।
Page #285
--------------------------------------------------------------------------
________________
२६०
विजयप्रशस्त्याम् । ग्रन्थान् स निर्ग्रन्थपतिप्रियः पृथून्
सुधीरधीते स्म विनेयवासवः ॥ ९ ॥ स सुधीः सद्बुद्धिः विनेयवासवः शिष्येन्द्रः, पुनः कि०, निग्रन्थपतेर्गुरोः प्रियः इष्टः, स्याद्वादरत्नाकरवाङ्मयादिकान् स्याद्वादरत्नाकरनामा अणहिल्लपुरपत्तने श्रीसिद्धराजजयसिंहदेवप्रमुखमहासभ्यसमक्षं कुमुदचन्द्राख्यदिगम्बराचार्येण सह विवादं कुर्वाणैर्लब्धजयवादैर्वादिश्रीदेवमरिपादैः कृतश्चतुरशीतिसहस्रप्रमाणः, प्रमाणग्रन्थ इति शेषः; स आदौ येषां संमत्यनेकान्तजयपताकारत्नाकरावतारिकाप्रमाणमीमांसान्यायावतारस्याद्वादकलिकादिग्रन्थानां ते स्याद्वादरत्नाकरवाङ्मयादिकास्तान् , पुनः किं०, कान्तान् वल्लभान् , विदुषामिति शेषः, पुनः किं०, अनेकान्तमतावलम्बिनः स्याद्वादायिणः जैनप्रमाणरूपान् ग्रन्थान् , पुनः किं०, पृथून विस्तीर्णान् , अधीते माऽध्येष्टेति ॥९॥ वित्तं विनेवौकसि पण्यमुभ्रवां
विना यदभ्यासममार्दवात्मकम् । अभ्यस्तकाव्यादिकशास्त्रसन्तते. रपि प्रवेशः परदर्शने न हि ॥ १० ॥ पण्यसुचवां वेशानां, ओकसि गृहे, यथा वित्तं बिना प्रवेशो न स्यात् , वित्तं किं०, अमार्दवात्मकं काठिन्यात्मकं, यदूचे प्राचीन:"रोचते यदि ते लक्ष्मीस्तदमार्दवमाश्रय ।
पुत्रस्यापि हि विश्वासमकुर्वाणः पिता धनी" ॥१॥ इति वचनात् । तथा यदभ्यासं किं०, अमार्दवात्मकं कदिनं, यदभ्यासं विना अभ्यस्तकाव्यादिकशास्त्रसन्ततः अभ्या
Page #286
--------------------------------------------------------------------------
________________
२६१
सप्तमः सर्गः। सविषयीकृतसाहित्यादिकसकलशास्त्रश्रेणेरपि पण्डितस्य, परदर्शने, शैवशासने प्रवेशो न स्यादिति ॥ १० ॥ प्रेक्ष्येति पूज्यैः परमार्थकाङ्क्षिभि
स्तैः प्रेरितोऽध्यैष्ट कुशाग्रधीः सुधीः। प्रमाणसंज्ञानि बहूनि सत्वरं ___ शास्त्राणि चिन्तामणिमुख्यकानि सः ॥११॥ , इति पूर्वोक्तं, प्रेक्ष्य विचार्य, तैः पूज्यैः, किं०, परमार्थकातिभिस्तत्वार्थाभिलाषिभिः, स सुधीः, किं०, कुशाग्रधीदर्भाग्रतीक्ष्णबुद्धिः, पुनः किं०, प्रेरितः सन् चिन्तामणिमुख्यकानि श्रीमद्गङ्गेश्वरोपाध्यायविरचिततत्त्वचिन्तामणिमुख्यो येषु किरणावलीवर्द्धमानप्रशस्तपादभाष्यशशधरादिषु तदादीनि चिन्तामण्यादीनि, प्रमाणसंज्ञानि शैवतर्करूपाणि शास्त्राणि, सोऽध्यैष्टाऽधीतवानित्यर्थः । इति युग्मव्याख्या ॥ ११ ॥
ग्रहोदयास्ताहववैरसौहृदा
तिचारमुख्यप्रचुरोक्तिसूचकान् । ग्रन्थान् महाज्योतिषपण्डितप्रियान्
प्राज्यानपाठीदशठः स शिष्यराट् ॥ १२ ॥ ग्रहाणां अङ्गारकादीनां उदयश्चाऽस्तश्च आहवश्च वैरं च सौहृदं घ अतिचारश्च ग्रहोदयग्रहास्तग्रहाहवग्रहवैरग्रहसौहदग्रहातिचाराः, अत्र द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकं संबन्धात् ग्रहशब्दस्यादौ प्रत्येकं संग्रहस्तेन ग्रहोदयास्ताहवरसौहृदातिचारमुख्या याउक्तयः किं०, प्रचुरा बड्यः, प्रचुरोक्तयस्तासां सूचकान् , पुनः, महाज्योतिषपण्डितप्रियान् महाज्योतिर्विद्वल्लभान्, पुनः, प्रा. ज्यान प्रभूतान , स शिष्यराट् अशठः सन् अपाठीत् पपाठेति॥१२॥
Page #287
--------------------------------------------------------------------------
________________
२६२ विजयप्रश्नस्त्याम् ।
संख्यासु नैकद्विमुखासु यैर्जना___ मुह्यन्ति वित्तैरिव गेहिकर्मसु । जज्ञेऽन्तिषत् स त्रिशतीमुखान् बहून्
ग्रन्थान् गरिष्ठान् गणितप्रपञ्चिनः ॥ १३ ॥ - येर्जना एकद्विमुखासु एकद्व्याद्यासु परार्द्धान्तासु संख्यासु न मुह्यन्ति, इव यथा, गेहिकर्मसु गृहस्थकृत्येषु, वित्तैः समृद्धजना न मुह्यन्ति, स अन्तिषत् शिष्यः, त्रिशतीमुखान् ग्रन्थान् किं०, गणितपपश्चिनः संख्याविस्तारिणः , तान् बहून् , जज्ञे ज्ञातवानिति ॥ १३ ॥ अर्थो भवद्भूतभविष्यदात्मको
जनेन यैर्ज्ञानवतेव वीक्ष्यते । विवेद शास्त्राणि स शाकुनानि सद्
वसन्तराजप्रमुखाणि भूरिशः ॥ १४ ॥ भवद्भूतभविष्यदात्मकोऽर्थः वर्तमानातीतानागतस्वरूपः पदार्थः, यर्जनेन लोकेन, ज्ञानवतेव ज्ञानिनेव, वीक्ष्यते ज्ञायत इति स शिष्यः, तानि वसन्तराजः शकुनशास्त्रविशेषस्तत्मभुखाणि वसन्तराजशकुनार्णवशकुनरहस्यशकुनपश्चाशिकाशकुनमदीपादीनि शास्त्राणि, विवेद वेत्ति स्मेति ॥ १४ ॥ चित्ते तदीये स्फटिकोपमे स्फुटं
सर्वात्मना सर्वविदां वचोऽहुतम् । पुरः स्थितं रूपमिवात्मदर्शके __ सद्यो विनाऽऽयाममवाप संक्रमम् ॥ १५ ॥ तदीये चित्ते, किं०, स्फटिकोपमे विशदत्वादच्छत्वाच्च,
Page #288
--------------------------------------------------------------------------
________________
सप्तमः सर्गः।
२६३ सर्वविदां वचः सर्वज्ञवाक् सर्वात्मना सर्वप्रकारेण टीकाटिप्पनकपञ्जिकाभाष्यचूर्णिसंग्रहणीनियुक्तिप्रभृतिना प्रकारेण, सर्वोऽपि सिद्धान्त एकादशाङ्गद्वादशोपाङ्गादिः, आयासं विनाऽक्लेशेन, संक्रमं समवाप प्रतिविम्बं प्राप, यथाऽऽत्मदर्शके दर्पणे, पुरःस्थितं रूपमिति दृष्टान्तः॥१५॥
खेनाऽन्यसत्केन च तत्त्वहारिणा
शास्त्रेण शाली भयकृद् बभूव सः। असद्गतीनां कुदृशां कुवादिनां
__पक्षद्वयश्रीः फणिनामिवाऽहिभित् ॥ १६ ॥ . स शिष्यः स्वेन स्वकीयेन अन्यसत्केन च परकीयेण शास्त्रेण, किं०, तत्त्वहारिणा सतत्त्वेन, अधीतेनेति शेषः, शाली शोभितः सन् भयकृद् बभूव । केषामित्याह-असद्गतीनां दुर्गतीनां असज्ज्ञानिनां वा, 'गतिाने' इत्युक्तेः । कुदृशां मिथ्यादृष्टीनां, पुनः, कुवादिनां दुर्वादिनां, स्वशास्त्रेण जैनागमलक्षणेन मिथ्यादृशां भयकृत , पुनः, परेण शैवशास्त्रेण, दुर्वादिनां भयकृद् बभूवेति भावार्थः। इव यथाऽहिभिद् गरुडः। किं०, पक्षद्वयस्य श्रीर्यस्य सः, शिप्यपक्षे स्वपरशास्त्रवेत्तृत्वलक्षणपक्षद्वयस्य श्रीर्यस्येति, पक्षे असती गतिर्गमनं येषां कुटिलगतित्वादिति, तेषां फणिनां सर्पाणां भयाय भवतीति दृष्टान्तः ॥ १६ ॥ विशुद्धनानाविधशास्त्ररत्नभूः
कर्पूरपूरोपममूर्तिरतिहत् । विनेय एष प्रभुपूज्यपुङ्गवै
मैनेतमां मूर्त्तिमती सरस्वती ॥ १७ ॥ एष विनेयः प्रभुपूज्यपुङ्गवः श्रीहीरविजयमरिगुरुमित्रै
Page #289
--------------------------------------------------------------------------
________________
२६४
विजयप्रशस्त्याम् । मंतिमती साक्षात् , सरस्वती मेनेतमामित्यन्वयः । कि०, विशुद्धानां नानाविधशास्त्ररत्नानां व्यावर्णितरूपाणां भूः स्थानं, शिष्यस्तदाश्रयत्वात् , सरस्वती तु तदुत्पादकत्वात् , पुनः किं०, कर्पूरपूरोपमा शिष्यस्य सुगन्धित्वेन, निर्मलत्वन, सरस्वत्यास्तु शुभ्रत्वेन मूर्तिर्यस्य सः, अतिहृदिति विशेषणं द्वयोस्तु'ल्यम् ॥ १७ ॥
अलीव पाथोरुहि पाण्डुनीडजः
स्वर्गापगाया इव कूलयोः पदे । रेमे सदामोदिनि पुण्यजीवने
तेषां गुरूणां हृदये स शिष्यराट् ॥ १८ ॥ पाारुहि कमले, अलीव भृङ्ग इव, पाण्डुनीडजो राजहंसइव स्वर्गापगाया गङ्गायाः कूलयोः पदे स्थाने, यथा रमत, तथा तेषां गुरूणां हृदये स शिप्यराट् रेमे अरमत । पाथारुहि कि०, सदामोदिनि सत्परिमलशालिनि, गङ्गाकूलपदे किं०, पुण्यं जीवनं पानीयं यत्र तत्र, गुरूणां हृदये किं०, सदामोदिनि सदाहपिणि, पुनः किं०, पुण्यस्य वा पुण्यं वा जीवनं वृत्तियत्र तत्रेति ॥ १८ ॥
पूज्या अथ मां हिमवालुकाकणै
रिवाञ्चयन्तः पदपद्मपांसुभिः। श्रीस्तम्भतीर्थ नगरं समागताः
सन्मन्दिरं बन्दिरमिन्दिराऽऽस्पदम् ॥ १९ ॥ अथ ते पूज्याः पदपद्मपांसुभिश्चरणकमलरेणुभिः, हिमवालुकाकर्णः कर्पूरलवैरिव, क्ष्मां पृथिवीं, अञ्चयन्तस्सन्तो विहरन्तइति यावत् । श्रीस्तम्भतीर्थ कि०, नगरं स्थलपथसद्भावात् , पुनः
Page #290
--------------------------------------------------------------------------
________________
सप्तमः सर्गः ।
२६५
किं०,
बन्दिरं जलपथ सद्भावात्, पुनः किं०, सन्मन्दिरं प्रशस्यगृह, पुनः किं०, इन्दिराया लक्ष्म्या आस्पदं पदं, समागता आगतवन्त इति ।। १९ ॥
तत्राथ पुण्यैः प्रमना अगारिणी पूनीतिनाम्नी शुचिशीलधारिणी । महोत्सवोत्साहमयैः श्रियो व्ययै
रहेत्प्रतिष्ठां सुघटामजीघटत् ॥ २० ॥ अथ तत्र नगरे स्तम्भतीर्थे, पुण्यैः प्रमना हर्षितमानसा, पूनीतिनाम्नी अगारिणी गृहस्था, अस्तीत्यन्वयः । किं०, शुचिशीलधारिणी, सा पूनी नाम श्राविका श्रियो व्ययैः, किं०, महोत्सवोत्साहमयैः प्रचुरोत्सवैः प्रचुरोत्साहैश्व, अईत्प्रतिष्ठां किं०, सुघटां मनोशरचनां, अजीघटत् कारयामासेति ॥ २० ॥ पूज्याः ! प्रतिष्ठा विबुधत्वसंपदामस्मिन् गणीन्दौ जयसिंहनामनि । शिष्यर्षभे स्वे प्रविधीयतां दुतं
"
गुरौ गुरुत्वं त्रिदशैरिवोत्तमम् ॥ २१ ॥
हे पूज्याः ! अस्मिन् जयसिंहनाम्नि, गणिचन्द्रे, पुनः किं०. शिष्यर्षभे विनेयवृषभे, स्वे स्वकीये, विबुधत्वसंपदां पण्डितपदश्रीणां प्रतिष्ठा विधीयतामित्यन्वयः । यथा गुरौ बृहस्पतौ, त्रिदशैर्देवैः, गुरुत्वं प्रविधीयते; तस्य हि सुरगुरुरित्यभिधानादिति ।। २१ ।।
इत्याग्रहं कुर्वति कृत्यकोविदे सङ्केऽनघे तीर्थनिवासिनि स्फुटम् ।
३५
Page #291
--------------------------------------------------------------------------
________________
२६६
विजयप्रशस्त्वाम् । वैद्योपदिष्टं स्वयमिष्टमित्यतो __. न्यायादभूवन् गुरवो मुदश्चिताः ॥ २२ ॥
इति उक्तरूपं आग्रहं कुर्वति सति तीर्वनिवासिनि स्तम्भतीर्थवास्तव्ये, सङ्के, पुनः किं०, कृत्यकोविदे कार्यडे, “इष्ट वैघोपदिष्टम् " इति न्यायात् गुरवस्ते पूज्या मुदश्चिता हर्षान्विता अभूवनिति । अर्थतो युग्मं व्याख्यातमिति ॥ २२ ॥
वर्षे रसाक्षिक्षितिपेऽथ फाल्गुने ___ मासे दशम्यां तुहिनविषिविषि । मूलेऽनुकूले त्रिजगन्मनोमुदा
मस्मिन् प्रतिष्ठाहनि लग्नशालिनि ॥ २३ ॥ सङ्घानघप्रेमपयोजभास्करे ।
शिष्ये सवैराग्यरसे मुनीश्वराः। अस्थापयन् पण्डिततामिह स्वयं
प्रमोदतः कन्दमिवालवालके ॥ २४ ॥ अथ वर्षे, कि०, रसाः षद्, अक्षिणी द्वे, क्षितिपा राजानः षोडश, एतेऽङ्का यत्र तत्र वर्षे, सं० १६२६ वर्षे, पुनः, फाल्गुने मासे, पुनः, दशभ्यां तिथौ, किं०, तुहिनविषिः चन्द्रस्तस्य विद्कान्तिः श्वेतपक्षत्वाद्, यस्यां तस्यां तुहिनविषित्विषि, पुनः, अस्मिन् प्रतिछाहनि प्रतिष्ठाया दिने, किं०, लमशालिनि शोभनलम, पुनः कि०, विजगन्मनोमुदां अनुकूले मूले हर्षानुकूलहेतादिति ।। २३ ॥ अत्र किं कृतवन्त इत्याह-शिष्ये, कि०, समानधोभपयोजभास्करे चतुर्विधसङ्घस्नेहसरोजसूर्ये, पुनः०, सबैराग्यरसे, ते मुनीश्वरा गुरवः, पण्डिततां अस्था
Page #292
--------------------------------------------------------------------------
________________
सप्तमः सर्गः ।
२६७
पयन् पाण्डित्यं स्थापयामासुः, आलवाले स्थानके कन्दमिवेति दृष्टान्तो वोत्प्रेक्षा वा । युग्मव्याख्या || २४ ॥ संप्रापुषि प्रीतिपदं सुधीपदं विनेयरत्नेऽत्र पवित्रपद्धतौ ।
महात् प्रतिष्ठाप्रभवात् पुनस्तया
श्राद्धाऽथ पून्या विदधेऽधिकोत्सवः ॥२५॥ अस्मिन् विनेयरत्ने, किं०, पवित्रा पद्धतिवारित्रप्रवृत्तिरूपा यत्र तत्र, प्रीतिपदं सुधीपदं, संप्रापुषि सति पण्डितपदवीं प्राप्ते सति प्रतिष्ठामभवात् महाद् महोत्सवात् अपि तया श्राया पून्या पुनरधिकोत्सवो गुर्वङ्गपूजाशिष्याङ्गपूजासङ्घपूजारूप्यकमभावनारूपो, विदधे चक्रे ॥ २५ ॥
9
आनन्दसाम्राज्यमभूत्तदा सुधीपदं विनेयेऽत्र गणावुपेयुषि ।
चित्रं किमत्राभ्युदिते दिवाकरे पद्मोत्सवो यद्वचसामगोचरः १ ॥ २६ ॥
अत्र विनेये जयविमलगणौ, सुधीपदं उपेयुषि सति, आनन्दसाम्राज्यं हर्षाद्वैतत्वलक्षणं, अभूत् सर्वेषामिति शेषः । अत्र किं चित्रं, यत् दिवाकरेऽभ्युदिते सति वचसां अगोचरो वचनाविषयकः पद्मोत्सवोऽम्भोजोत्सवो भवतीति ।। २६ ।।
तेऽथर्षिमुख्याः सुदृशां दृशां श्रियं
सद्यः सृजन्तो मुनिराजिसंयुताः । भूमौ विहारं विदधुर्गवां भरै
स्तमो हरन्तस्तपना इवाम्बरे ॥ २७ ॥
Page #293
--------------------------------------------------------------------------
________________
१६८ विजयमनस्त्वाम् । .. अथ स्तम्भतीर्थतोऽयदा ते ऋषिमुख्याः , कि०, मुनिराजिभिः संयुताः परिवृताः, पुनः०, सुदृशां सम्यग्दृष्टीनां, दृशां नेत्राणां, श्रियं शोभा, सृजन्तः कुर्वन्त इति भूमौ विहारं विदधुर्विजहारिति । के इव केत्याह-तपनाः सूर्या इवाम्बरे गगने ते च तपनाश्च किं कुर्वन्तः, तमो हरन्तः, एकत्र पापं, अन्यत्र वान्तम् , कैः, गवां भरैः, एकत्र गवां वाचां, अन्यत्र गवां किरणानां भैरैरिति ॥ २७ ॥ • सुपर्वपूर्ण वृषभावभासुरं
सुधामयं वैश्रमणास्पदं सदा। अहम्मदावादपुरं पुरन्दर
द्रकोपमं प्रापुरथर्षिशेखराः ॥ २८ ॥ ____ अथ ऋषिशेखरा वाचंयमवतंसाः अहम्मदावादपुरं प्रापुरित्यन्वयः । किं०, पुरन्दरद्रगोपमं इन्द्रपुरोपमं, इत्युत्तराद्धम् । पूर्वार्द्धन द्वयं श्लेषालङ्कारेण वर्णयति-पर्वपूर्ण शोभनोत्सवपूर्ण, अन्यत्र देवपूर्ण, पुनः, वृषभावेन धर्मरागेण भामुरं; अन्यत्र पा शकस्तस्य भावःसद्भावस्तेन भासुरम् , पुनः, सुधामयं सुधा गृहादिलेपकारी द्रव्यविशेषः, तन्मयम् , यतस्तत्र भूयसां सुशाधवलीकृतानां सौघानां सद्भावात् आधाराधेययोरभेदोपचारादिति । अन्यत्र सुधामयं पीयूषमयं अमृतप्रचुरं, देवभोज्यत्वात् सुधाया इति । पुनः, वैश्रमणास्पदं, एकत्र वै निश्चित श्रमणास्पदं साध्वास्पदं, अन्यत्र वैश्रमणास्पदं कुबेराख्यलो. कपालस्थानम् । इति द्वयोः श्लेषः ॥ २८ ॥
अहम्मदावादसमीपवर्तिनि
श्रियां क्लिासैककुले जनाकुले । अहम्मदाहेऽध पुरे मुनीश्वरा
Page #294
--------------------------------------------------------------------------
________________
सप्तमः सर्गः।
२६९ चार्वी चतुर्मासभवां स्थितिं व्यधुः ॥ २९ ॥ अथाऽहम्मदपुरे, किं०, अहम्मदाबादाख्यनगरस्य समीपवर्तिनि शाखापुरे, पुनः किं०, श्रियां विलासस्य एककुलेऽद्वितीयगृहे, पुनः, जनाकुले लोकसङ्कुले, मुनीश्वरागुरवः, चतुर्मासभवां चातुर्मासिकी स्थिति, चावी रम्या, निर्विघ्नत्वाद् व्यधुअक्रिरे ॥२९॥ अथैकदैषां गणचिन्तनात्मनां
सूरीश्वराणां कृतधर्मकर्मणाम् । श्रीसूरिमन्त्राधिपतिः सुपर्वराट् ___ समेत्य भूयोऽभिदधेऽभिरामगीः ॥ ३० ॥
एकदा तत्पारणके तत्रैव पुरे, एषां सूरीश्वराणां, किं०, कृतधर्मकर्मणां विहितपौरुषीपाठनादिसुकृतकृत्यानाम् , पुनः किं०, गणचिन्तने आत्मा येषां तेषां गच्छचिन्ताविचारिणां, निशीथे सुप्तानामिति शेषः । श्रीमूरिमन्त्राधिष्ठायकः सुपर्वराद् सुरवरः, किं०, अभिरामगीर्मनोज्ञवाक्, भूयः पुनः, समेत्यागत्य, आभेदधेऽवक् ॥ ३०॥
विद्वन्मणेः श्रीजयसिंहवाग्मिनः ___ पट्टप्रदाने किमियं विलम्बधीः ? । 'भावी यतो वीरपरम्पराब्जिनी
दिवाकरः पट्टधरः स्फुरन्नयम् ॥ ३१ ॥ हे पूज्याः! इत्यध्याहार्यम् विद्वन्मणेमनीपिश्रेष्ठस्य, जयसिंहवाग्मिनो जयविमलाख्यपण्डितस्य, पट्टप्रदाने, इयं किं विलम्बधीः अनुत्सुकता, भवतां दृश्यत इति, यतः कारणात् अयं पधरः, किं०, वीरपरम्पराजिन्यां दिवाकरो भावी इत्यवधार्यम् ॥३१॥
Page #295
--------------------------------------------------------------------------
________________
६७०
विजयप्रशस्त्याम् ।
:
उक्त्वेत्यदृश्यस्त्रिदशः स जातवान् मुदं मुनीनामधिपाश्च भेजिरे । स्वेष्टार्थसिद्धौ समताजुषामपि
प्रेष्येव मुत् स्याद् यदरं पुरःसरा ॥ ३२ ॥
इत्युक्त्वा स त्रिदशः सुरः, अदृश्यो जातवान् गत इति यावत् । च पुनः, मुनीनां अधिपाः गुरवो मुदं भेजिरे हर्षमा पुरिति । तद्धेतुमेवाह- समताजुषामपि साधूनामपि, स्वष्टार्थसिद्धौ जातायां, अरं अत्यर्थ, मुत्येव किंकरीव, पुरःसरा स्यादिति ॥ ३२ ॥ अथान्यदा सूरिसभोग्रधन्वनोऽभ्येत्येति भून्यस्तसहस्तमस्तकाः । श्रीवाचकाधीश्वरपण्डितोत्तमाऽऽ
दयः समस्ता ऋषयो बभाषिरे ॥ ३३ ॥
अथ रिसभोग्रधन्वनः आचार्यपर्षदिन्द्रान् श्रीगुरून्, वाचकाधीश्वरा उपाध्यायोत्तमाः पण्डितांत्तमाश्च, गीतार्थमुख्यास्तदादयस्तत्प्रमुखाः समस्ता ऋषयः, किं०, भून्यस्तसहस्तमस्तकाः पृथिवीस्थापितसपाणिशीर्षाः कृताञ्जलय इति यावत् । अभ्येत्य इति बभाषिरेऽवदन् ॥ ३३ ॥ यदब्रुवंस्तदाह
पूज्याः ! अनूचानपदैकगोचरा सङ्घस्पृहा श्रीजयसिंहमण्डपे । ऊकेशवंशप्रभवेऽधिरोहणात्
फलेग्रहिर्बल्लिरिवास्तु सत्वरम् ॥ ३४ ॥ हे पूज्याः ! अनूचानपदैकगोचरा आचार्य पदस्थापनाविष
,
Page #296
--------------------------------------------------------------------------
________________
सप्तमः सर्गः।
२७१ यिणी सहस्पृहा श्रीजयसिंहमण्डपे श्रीजयविमलरूपमण्डपे, किं., उकेशवंशप्रभवेधिरोहणात् वल्लिरिव सत्वरं शीघ्रं, फलेग्रहिरस्तु स्तात् । वल्लिरपि वंशजे मण्डपे चटिता सती फलवती भ. वति, तथेयमपीति तत्त्वम् ॥ ३४ ॥
खाकूतदेवोक्तिसमस्तसङ्घदृक्__ साङ्गत्यसन्तुष्टहृदोऽथ सूरयः। ओमित्युदारां गिरमानने स्मिता
म्भोजे निविष्टां वरटामिवाकरन् ॥ ३५ ॥ अथ सूरयः, कि०, स्वाकूतं निजाभिमायः, देवोक्तिर्देववाणी, समस्तसङ्कस्य वाचकपण्डितादिकस्य, दृग् दृष्टिर्बुद्धिर्वा, स्वाकूतं च देवोक्तिश्च समस्तसङ्घ च स्वाकूतदेवोक्तिसमस्तसङ्घदृशः, तासां साङ्गत्यमव्यभिचारित्वेन यन्मिलनं तेन सन्तुष्टहृदः हर्षितहृदयाः सन्तः, आनने मुखे, ओमिति गिरं अकरन् कुर्वन्ति स्म, इवोत्सेक्ष्यते-वरटा कलहंसी स्मिताम्भोजे निविष्टां कुर्वन्ति स्म, अत्र आननस्य स्मिताम्भोजोपमाऽऽरोपणात् स्मितमुखीभूय तद्वचस्तैः प्रतिपत्रमिति रहस्यम् ॥ ३५॥
अत्याग्रहात् सङ्घभवादनुग्रहाऽऽ___ ग्रहा अथो सूरिसमाजकुञ्जराः । अहम्मदावादपुरं पुरोत्तम __ ते प्राविशन्नुत्सवपालिपेशलम् ॥ ३६ ॥
अथ ते मूरिसमाजकुञ्जरा आचार्यसभासिन्धुराः, उत्सवानां पालिःश्रेणिस्तया पेशलं रमणीयं, पुरोत्तमं अहम्मदावादपुरं, पाविशन् प्रविशन्ति स्मेति । कस्मात् सङ्घभवात् अत्याग्रहात् सङ्घजनघनाग्रहात् , ते किं०, अनुग्रहाग्रहा अनुग्रहस्य ग्राहिणः इति ।।
Page #297
--------------------------------------------------------------------------
________________
२७२
विजयप्रशस्त्याम् । अथ नवभिनगरप्रवेशाईशकुनान् वर्णयतिपुरप्रवेशे प्रथमं सुभूषणा
सकङ्कणा पुण्ड्रवती सुहासिनी। सूरीश्वराणाममिलद् मृगेक्षणा ___ मूर्धा दधाना घटमम्भसा भृतम् ॥ ३७ ॥
पुरप्रवेशे सति, तेषां मरीश्वराणां, प्रथमं मृगेक्षणा स्त्री अमिलत् . किंलक्षणा, सुभूषणा सुशृङ्गारा, अनेन सभर्तकत्वमसूचिः भर्तारमन्तरा शृङ्गारस्यैवाभावादिति । पुनः किं०, सकङ्कणा कराभरणवती, पुनः, पुण्ड्वती सतिलका, पुनः, सुहासिनी स्मितमुखी, पुनः किं कुर्वाणा, मृा शिरसा, अम्भसा भृतं घटं. पानीयन पूर्ण कुम्भं, दधाना । अत्र मृगेक्षणाया विशेपणपञ्चकं उत्तरोत्तरमङ्गलवाचकम् । यतः-शृङ्गारादपि कङ्कणं बलवन्मङ्गलमूचकं, कङ्कणादपि भाले तिलकं बलवत् , ततोऽपि मुखे स्मितं बलवत् , ततोऽपि पूर्णकुम्भधारणं बलवदिति हृदयम् ॥ ३७॥
जगर्ज पर्जन्य इवावनौ गतो
महाननड़ानथ दक्षिणः पुरः। सदेव वोढाऽहमिवैष पण्डितो
धुरं गणस्यास्य वदन्निवेत्यलम् ॥ ३८ ॥ अथ ततः पुरो दक्षिणो गुरोर्दक्षिणकरदिशि महान् अनहान् महावृषभः, जगर्ज गर्जितनादमकरोत् । इवोत्प्रेक्ष्यते- “प. र्जन्यो गर्जदम्बुदें" इत्यनेकार्थवचनात् , अवनौ पृथिव्यां, पर्जन्यो गर्जन्मघा. गतः प्राप्त इव अहमिव एष पण्डितोऽपि, अस्य गणस्य तपगच्छस्य, धुरं वोढा इति अलं बाढस्वरण वदनिवेति भावः।।३८॥
Page #298
--------------------------------------------------------------------------
________________
· सप्तमः सर्गः। २७३ अभ्यापतन्नास्पदमेकमर्चिषां
पूज्यैर्विशर्दिदृशेऽथ दर्पणः । यन्मे तुलामति तदस्ति कीशं
द्रष्टुं किमस्यास्यमितीन्दुरीयिवान् ? ॥३९॥ अथ पूज्यैर्नगरं प्रविशद्भिर्दर्पणो ददृशे दृष्ट इत्यन्वयः । कि कुर्वन् , अभ्यापतन् संमुखमागच्छन्, पुनः किं०,अर्चिषां रोचिषां, एक अद्वितीयमास्पदं इति पूर्वार्द्धम् । यद् मे मम तुला मदुपमामेति तत्कीदृशमस्ति इति हेतोः अस्य गुरोरास्यं मुखं, द्रष्टुं किं दर्पणच्छलादिन्दुश्चन्द्रमा, इयिवान प्राप्त इति ॥ ३९ ॥ गोण्यः पुरस्तात् सुमृदामुदीक्षिता .
बढ्यो नवानां किमुपागता इति । वक्तुं यथा स्मो जगतां वयं तथा
शिष्योऽपि वो भाव्ययमत्र मङ्गलम् ॥४०॥ ततः पुरस्तात् नवानां नूतनाना, सुमृदां शोभनमृदां तत्क्षणोत्खातानामिति शेषः। बढ्यो घना गोण्यो गुरुभिरुदीक्षिता दृष्टा इत्यन्वयः । इति किं वक्तुं कथयितुं उपागताः १, इतीति किं, यथा जगतां वयं मङ्गलं स्मः, तथा वो युष्माकमयं शिष्योsपि मूरिपदस्थः सन् मङ्गलं भावीति भावार्थः ॥ ४० ॥ स्पर्धी मया यः कुरुते यशोभरैः
पश्यामि तस्यास्यमिति त्वरात्मकम् । दध्यौषधीवल्लभदीप्तिसन्निभं
तदाऽमिलत्तत्पुरगोपुरे पुरः ॥ ४१ ॥ यो गुरू, यशोभरैः कीर्तिपुजैः, मया सह स्पर्दा कुरुते तस्य
Page #299
--------------------------------------------------------------------------
________________
१७४
विजयाशस्त्यार। आस्यं मुखं पश्यामि इति त्वरात्मकं औत्सुक्यभृत् , दघि तदा तत्पुरगोपुरे नगरप्रतोल्या, अमिलत् । कि०, औषधीवल्लभदीप्तिसंनिभं चन्द्ररश्मिसदृशं, धवलवर्णत्वादिति ॥४१॥ सिद्धान्नपात्रं परिपूर्णमापतत्
पन्थानमक्ष्णोः स्म नयन्ति सूरयः । सिद्धाः प्रसिद्धाः खमनोरथा इति
प्रोल्लासि चिह्नं किमु मूर्तमागतम् ? ॥४२॥ ततः सूरयः सिद्धानपात्रं अक्ष्णोः पन्थानं नयनपथं, स्म नयन्ति नयन्ति स्मेत्यन्वयः । सिद्धानपात्रं किं०, परिपूर्णमन्यूनं, पुनः, आपतत् संमुखमागच्छत्, किमु उत्प्रेक्ष्यते-प्रसिद्धाःप्रतीताः, खमनोरथाः सिद्धाः सिद्धिमाप्ता इति प्रोल्लासि चिह्न मूर्त मूर्तिमत् आगतम् ॥ ४२ ॥
सौत्रो गुरुग्रन्थिरुदैक्षि सूरिभिः
सभर्तृकस्त्रीशिरसा धृतः पुरः । . मेने तदैवं च यशोविधायिने
. चिकीर्षितं कृत्यमिदं गुणाय नः ॥४३॥ ततः पुरः सौत्रः सूत्रसंबन्धी ग्रन्थिर्गुरुर्महान्, पुनः किं०, सभर्तकस्त्रीशिरसा सधववधूशीर्षेण, धृतः मूरिभिरुदैक्षि दृष्टः,. च पुनः, सूरिभिरेवं तदा मेनेऽमानि । एवमिति किं, इदं चिकीर्षितं कर्तुमीप्सितं, कृत्यं सूरिपदभदानरूपं कार्य, नोऽस्माकं, यशोविधायिने श्लाध्यताकारिणे, गुणाय भावीतिशेषः ॥४३॥ 'दृति वहन्नहिरलं भृतं द्वयो
स्भ्यर्णयोस्तैर्वृषभो निरीक्षितः ।
Page #300
--------------------------------------------------------------------------
________________
सममः सर्गः।
२७५ शिष्यं तमीक्षेऽहमिवातिवीवघं
वोढा खपृष्ठे य इवेत्यभीयिवान् ॥ ४॥ ततो गुरुमिस्तैदृषभो निरीक्षित इत्यन्वयः । सपमा कि०, कुर्वन् वहन् , कं, दृति, किं०, भृतं, काभिः, अद्भिः पानीयः, कयोः, अभ्यर्णयोः पार्थयोः, किं०, द्वयोरितिपूर्वार्दम् । तं शिष्यं ईक्षे। तं कमित्याह-यः अहमिवातिवीवधं भूरिभारं गच्छभाररूपं स्वपृष्ठे वोढा इति हेतोरिवोत्सेक्ष्यते अभीयिवान् अभ्यागात् ॥४४॥
अभ्यापतन् पेशलपुष्पभृत्स्रज__स्तेषां गुरूणां विशतां पुरं पुरः। वक्तुं किमेता इति शिष्य एष वो .
लोकं विधाता सुरभिं वयं यथा ? ॥ ४५ ॥ - तेषां गुरूणां पुरं विशतां पुरोऽअतः, पेशलपुष्पभृत्स्रजः कमनीयकुसुममाला अभ्यापतन् संमुखमागता इत्यन्वयः । इति किं वक्तुं एताः प्राप्ताः । इतीति किं, तदाह-वो युष्माकं एषशिष्यः लोकं सुरभि धर्मेण रम्यं विधाता, यथा वयं लोकं. सुरभि सुगन्धिं कुर्मस्तथाऽयमपीति ।। ४५ ॥ इत्यादिभिर्भूरिभविष्यदक्षय
क्षेमस्य चिह्नः शकुनैश्च शोभनैः। उत्साहभाजो नगरं गुरूत्सवं
सङ्घवृताः स्म प्रविशन्ति सूरयः ॥४६॥ इत्यादिभिर्वर्णितस्वरूपैः भूरिभविष्यदक्षयक्षेमस्य बहागमिप्यदखण्डकुशलस्य चिरैर्निमित्तैः, च पुनः, शोभनैः शकुनैः सद्भिः अत एवोत्साहभाजः सन्तः सूरयो गुरूत्सवं महोत्सवं, नगरं राजनगरं, सङ्घ सहिताः प्रविशन्ति स्मेति ॥ ४६॥ ।
Page #301
--------------------------------------------------------------------------
________________
३७६
विजयमशस्त्याम् ।
मुत्प्रह्ववीपाह्वगृहस्थहस्तिनः सोत्कर्ष भूषाभिरलङ्कृतं गृहम् ।
पूज्या अलंचक्रुरुदारवृत्तयः
सभां सुधर्मामिव वज्रपाणयः ॥ ४७ ॥
मुदा हर्षेणाथवा मुदि हर्षे महः परायणो यो बीपाहो गृहस्थहस्ती श्राद्धसिन्धुरस्तस्य गृहं किं०, अलङ्कृतं शृङ्गारितं काभिः, सोत्कर्षाः सविशेषा या भूषा मण्डनलेपनधूपनदीपनधवलनस्वस्तिकस्थासकार्पण तोरणचन्द्रोदयादि निर्मापणरूपास्ताभिः पूज्या अलञ्चक्रुः, किं०, उदारवृत्तयः स्फाराचाराः । अत्र दृष्टान्तमुत्प्रेक्षां वा माह--सुधर्मा सभां वज्रपाणय इन्द्रा इवेति ॥ ४७ ॥
अथास्तिकैरस्तिधनैर्गुरुत्तमा
.
भिप्रायविज्ञानविचक्षणैः क्षणात् । प्रचक्रिरेऽस्मिन्नगरे महोत्सवा
किं. १
अथाऽस्मिन्नगरे आस्तिकैः किं०, अस्तिधनैर्धनवद्भिः पुनः गुरूत्तमानां योऽभिप्रायोऽध्यवसायः पट्टस्थापनारूपस्तस्य विज्ञाने ज्ञाने विचक्षणैर्निपुणैः, महोत्सवा महामहाः, प्रचक्रिरे । अत्र दृष्टान्तमाह- केलिकाने क्रीडोद्याने, ग्राम्यैर्दाक्षिणात्यैः, समीरैर्मलयानिलैः, तरुलताकुसुमगुल्मादिवृद्धिहेतवो महोत्सवा महोत्सेका महोत्कर्षा विधीयन्त इति ॥ ४८ ॥ अथाचार्यपदोत्सवं वर्णयति--. स मण्डपोऽमण्डि मनोज्ञकुम्भभृ
याम्यैः समीरैरिव केलिकानने ॥ ४८ ॥
Page #302
--------------------------------------------------------------------------
________________
२७७
सतमः सर्गः।
२७७ त्तस्मिन्महे मौक्तिकमजुजालकः। पराजितं येन सपूर्णपूर्णिमा- ...
चन्द्रं शरत्तारकतारमम्बरम् ॥ ४९ ॥ तत्र महे तस्मिन्महोत्सवे स मण्डपः अमण्डि मण्डित इत्यन्वयः । किं०, मनोज्ञं माङ्गल्यं कुम्भं शीर्षे बिभर्तीति सः, पुनर्मण्डपः किं०, मौक्तिकानां मञ्जूनि चारूणि जालकानि रचनाविशेषा यत्र सः, स क इत्याह-येन मण्डपेन अम्बरं आकाशं, पराजितं जिग्ये । अम्बरं किं०, सपूर्णपूर्णिमाचन्द्रं सह पूर्णेन कृत्स्नेन ग्रहणाद्यभावात् अखण्डितेन पूर्णिमाचन्द्रेण राकामृगाङ्केण वर्तते यत् तत्, पुनः, शरत्तारकैस्तारं मनोहरम् । अत्र पूर्णकुम्भस्य चन्द्रोपमा मौक्तिकजालकानां तारकोपमा चेति ॥ ४९॥ कालं विनाऽऽविर्भवदम्बुभृन्नवा
म्भोवाहभूत्साहवता समन्ततः । धूमेन दग्धागुरुधूपजन्मना .
रेजे पुरं तत्र महोत्सवे महत् ॥ ५० ॥ तत्र महोत्सवे तत् पुरं महत् बहु, रेजे भृशं शुशुभे इत्यन्वयः । केन धूमेन, किं०, दग्धागुरुधूपजन्मना निर्दग्धकृष्णागुरुधूपोद्भवेन, पुनधूमेन किं०, कालं वर्षाकालं विना आविर्भवन् प्रकटीभवन् , पुनः अम्बुभृत् पानीयवान् यो नवाम्भोवाहो नूतनमेघस्तद्भूर्य उत्साहस्तद्वता, सजलजलधरो. त्साहकारिणा लोकानामिति ॥ ५० ॥ रेजुः पुरे दुन्दुभिवल्लकीलस
न्मृदङ्गचङ्गादिकवाद्यनिखनाः ।
Page #303
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याए । तत्रोत्सवे पूरितरोदसीपदा ___ . गर्जारवास्तोयमुचामिवाम्बरे ॥ ५॥
तत्रोत्सवे दुन्दुभिवल्लकीलसन्मृदङ्वचादिकवाधनिस्वना भेरीवीणासन्मर्दलचङ्गादिवाबध्वनयो रेजुर्भान्ति स्मेत्यन्वयः । कि०, पूरितं भरितं, रोदसीपदं द्यावाभूम्यास्पदं यैस्ते, अमरे गगने तोयमुचां मेघानां, गर्जारवा इवेत्युत्प्रेक्ष्यते ॥ ५१ ॥ सुवर्णमुक्ताफलरत्नभूषणा
बभुः पुरे तत्र महे मृगीदृशः । नन्तुं मुनीनामधिनायकस्य किं
क्रमद्वयीमप्सरसः समागताः ? ॥ ५२ ॥ तत्र महे मृगीहशो हरिणीलोचना बभुरित्यन्वयः । किं०, सुवर्णमुक्ताफलरत्नभूषणाः कनकमौक्तिकमण्याभरणाः; किमित्युत्प्रेक्ष्यते-मुनीनां अधिनायकस्य यतीनां पत्युः, क्रमद्वयीं नन्तुं अप्सरसः स्वर्वेश्याः, समागता इति ॥ ५२ ॥ वीथ्यो व्यवस्तत्र महे मृगीदृशां .
गीतैः स्फुरन्मञ्जुलमङ्गलागमैः । पिकाङ्गनानामिव काननान्तराऽ___ वन्यो वसन्ते प्रियपञ्चमस्वरैः ॥ ५३ ॥ तत्रोत्सवे मृगीदृशां स्त्रीणां, गीतः वीथ्यो राजमार्गत्रिकचतुष्कचत्वरादिकमार्गाः, वभुः शोभन्ते स्मेत्यन्वयः । गीतैः किं०, स्फुरन्मञ्जुलानि यानि मङ्गलानि तेषामागमो येभ्यस्तैः, वसन्ते चैत्रवैशाखरूपे ऋतुविशेष, पिकाङ्गनानां कोकिलानां प्रियपञ्चमस्वरैः मनोज्ञपञ्चमध्वनिभिः, काननान्तराज्वन्यो वनमध्यभूमय इवेत्युत्मेक्षादृष्टान्तौ ॥ ५३ ।।
Page #304
--------------------------------------------------------------------------
________________
8
सप्तमः सर्गः। श्रीसवात्सल्यविलासकौशलं - तत्तत्पुरे तत्र महोत्सवेऽभवत् । लोका अभूवन्नमरद्रुमाः समे
भुक्तिः सुधाभाऽजनि येन येन च ॥ ५४ ॥ तत्पुरे तत्रोत्सवे तत्सवात्सल्यविलासकौशलं चतुर्विधसङ्घभक्तिलीलानैपुणमभवत् , लोकेष्विति गम्यम् । तत् किमिमित्याहोत्तरार्द्धन--येन सङ्घवात्सल्यविलासकौशलेन लोकाः समे सर्वे, अमरद्रुमाः कल्पवृक्षा अभूवन् , च पुनः, भुक्तिर्येन सुधाभा पीयूषकल्पा स्वादेनाऽजनि जातेत्यर्थः ॥ ५४॥ दानैरमानैघुसृणैर्महारुणै
गीतैर्विनीतैर्नटनैः सभाऽटनैः। प्रत्यट्टमार्गालयमुत्सवोत्सुक
स्तदा पुरेऽभूत्प्रमनाः सना जनः ॥ ५५ ॥ अमानैः अप्रमाणैः, दानैर्वितरणैः, याचकादीनामिति शेषः। पुनः, महारुणैर्बहुरङ्गः, घुसृणैः कुङ्कुमैः, च पुनः, विनीतर्निभृतैः, गीतैर्देवगुरुगुणगानः, पुनः, नटनैः, किं०, सभाः सभ्यास्तेषां अटनं द्रष्टुमागमनं येभ्यस्तैर्नटनैः राजसभादियोग्यपात्रनृत्यैरिति, प्रत्यट्टमार्गालयं, अत्र प्रतिशब्दस्त्रिषु प्रयोज्यस्तेन प्रत्यर्ट प्रतिमार्ग प्रत्यालयं, मध्यपदलोपी समासोऽत्र; तेन प्रत्यट्टमार्गालयं उत्सवोत्सुको महोत्सवदिदृक्षुस्तदा तत्र पुरे सना सदा जनो लोकः, प्रमनाः प्रहृष्टचेता अभूत् ॥ ५५ ॥
अपामिवाब्धिः पदवी दिवौकसां
भानामिवाऽहर्पतिरर्चिषामिव ।
Page #305
--------------------------------------------------------------------------
________________
#co
विजयप्रशस्त्वाम् ।
इन्दुः कलानामिव सुन्दरश्रिया
मेवं महानां पदमस्ति तत् पुरम् ॥ ५६ ॥
तत् पुरं नगरं एवं महानामुत्सवानां पदमस्ति इत्यन्वयः । एवमिति किमित्याशङ्काव्यपोहायाह--अपां पानीयानां अब्धिरिव समुद्र इव दिवौकसां पदवी देवमार्ग आकाशमिति यावत्; भानां नक्षत्राणां, पुनः, अहपतिः सूर्य इव अर्चिषां किरणानां, इन्दुश्चन्द्रः कलानामिव तथा तत्पुरं सुन्दरश्रियां मनोहरशोभानां, महोत्सवानां पदमस्तीति ।। ५६ ।।
इति सङ्केन विधीयमानमुत्सवमुक्त्वा पदस्थापनाकारिणं श्रेष्ठिनं तन्निर्मितोत्सवं च वर्णयति
अहम्मदावादभवेभ्यसंसदां मुख्यो ग्रहाणामिव पद्मिनीपतिः । सदा सदादेयवचा वचः कलाविलासशीलोऽधिपतिर्गिरामिव ॥ ५७ ॥
उदारचेतास्तपनात्मभूरिव
श्रियोऽधिभर्त्ता च गदाग्रभूरिव । मूलाभिधो मूलमिव स्फुरन्मुदां
श्रेष्ठीति दध्यौ हृदि धर्मधीरथ ॥ ५८ ॥ अहम्मदाबादभवेभ्यसंसदां श्रीराजनगरीयव्यवहारिसदसौ मुख्यो, यथा ग्रहाणामङ्गारकादीनां पद्मिनीपतिरिव रविरिव, पुनः सदा नित्यं सद्भिरादेयं वचो यस्य स सदादेयवचाः, पुनः, गिरामधिपतिरिव बृहस्पतिरिव, वचःकलाविलास एव शीलमस्येति सः, चाक्कलावानित्यर्थः ॥ ५७ ॥ पुनः, तपनात्मभू
Page #306
--------------------------------------------------------------------------
________________
सतमः सर्गः।
२८१ रिव कर्ण इव उदारचेताः, पुनः, गदाप्रभूरिव हरिरिव थियोऽधिभर्ता लक्ष्याः पतिरितिः ईदृक् मूलाभिधानः श्रेष्ठी, किं०, स्फुरन्मुदा मूलमिव, पुनः कि०, धर्मे धीर्यस्य सः, हदि इति वक्ष्यमाणं दध्यौ ध्यातवान् । इति युग्मव्याख्या ।। ५८ ।। न्यायार्जितानां ननु संपदामिदं
फलं प्रतिष्ठादिविधानमर्हताम् । अपापमापं खयमुप्तवीरुधा
मिवाहमासां तदशेषततकृतेः ॥ ५९॥ न्यायेनार्जितानां संपदा श्रीणां, इदं फलं प्रोक्तम्-यत् अर्हतां तीर्थकृता, प्रतिष्ठादिविधानं आदिशन्दात् प्रासादपूजादिग्रहः, तत् फलं स्वयमुप्तवीरुधां निजरोपितवल्लीनामिव, अहं अपापं निष्पापं यथा स्यात्तथा, आपं पापम् । कुत इत्याहअशेषतत्कृतेः समस्ततत्कार्यकरणात् यतः श्रीशत्रुञ्जये मुख्यशृङ्गे मुख्यचैत्ये, श्रीकृषभदेवमासाददक्षिणपाश्चात्यान्तर्वर्तिदिग्भागे, मूलश्रेष्ठिकारितं चैत्यं सांपतमस्तीति श्रेष्ठ्यभिप्रायो विशेषणद्वारेणासूचीति ॥ ५९॥ पुनर्यद् दध्यौ तदाह
गृह्णामि तासां तपगच्छगच्छराट. पदप्रतिष्ठोत्सवतः पुनः फलम् । ध्यात्वेत्यसौ श्रेष्ठिसभापुरन्दरः
सद्योऽभवत्तत्र महे कृतादरः ॥ ६ ॥ तासां संपदा पुनः फलं गृह्णामीत्यन्वयः । कुतस्तपगच्छगच्छरादपदप्रतिष्ठोत्सवतस्तपागच्छाचार्यपदस्थापनामहोत्सचविधानात् , अथेति ध्यात्वा ज्ञात्वाऽसौ मूलाख्यः श्रेष्ठिस
Page #307
--------------------------------------------------------------------------
________________
२८२
विजयाशस्त्वाम् ।
भायां पुरन्दरस्तन्मुख्यत्वाद, तत्र महे तदुत्सवविधौ, कृतादरः सज्जोऽभूत् तत्परो जातवान् । इति अर्थतो युग्मम् ॥ ६० ॥ दत्ते स्म वित्तानि यथेच्छमार्थना
मपस्तडित्वानिव कान्तकीर्तिमान् । समौक्तिकैः स्वस्तिकमण्डनं पुनः
पुनर्व्यधात् पूज्यपुरः पुरोगवाक् ॥ ६१ ॥ स श्रेष्ठी, किं०, कान्तकीर्तिमान् मनोहरयशोभृत् , तडित्वानिव मेघ इव, अपः पानीयानि, यथेच्छं यथारुचि, अर्थिनां वित्तानि दत्ते स्मेति । पुनः स किं०, पुरोगवाक् मुख्यवचाः, पूज्यपुरः मौक्तिकैः स्वस्तिकं व्यधादुपदेशद्वारेति भावार्थः ॥६१॥ ताम्बूलपूगीफलनालिकेरको
मिकादुकूलादिकदानकौशलात् । सङ्केषु वात्सल्यमयं विनिर्ममे . ... वृक्षेष्विवाक्षीणबलो बलाङ्गकः ॥ ६२ ॥
ताम्बूलानि नागलतापत्राणि, पूगीफलानि प्रतीतानि, नालिकेराण्यपि प्रसिद्धानि, ऊर्मिका मुद्रिकाः, दुकूलानि पट्टकूलानि इत्यादीनां यद् दानं तस्य कौशलात् पाटवात् , अयं श्रेष्ठी, सङ्केषु वात्सल्यं विनिर्ममे कृतवान् , यथा अक्षीणबलः पूर्णचलो बलाको वसन्ततुक्षेषु पत्रपुष्पफलादिदानतो वात्सल्य कुरुते इति दृष्टान्तः ।। ६२॥ गीतान्यगीयन्त तदोकसि स्फुर
न्मङ्गल्यमूलानि कुलाङ्गनाजनैः।। पिकीमिरुद्यानभुवीव मन्मथ
Page #308
--------------------------------------------------------------------------
________________
'सममा सर्मः।
२८३. स्थामस्थिराणि.स्वरजृम्भितान्यलम् ॥ ६३ ।। तदोकसि तस्य श्रेष्ठिनो गेहे कुलानाजनैः गीतानि, किं०, स्फुरन्मङ्गल्यमूलानि लसत्कल्याणहेतूनि, अगीयन्त गानगोचरीकृतानि, इव यथा, उद्यानभुवि वनभूमौ, पिकीभिः स्वरजृम्भितानि पञ्चमकूजितविलसितानि, किं०, मन्मथस्थाना स्मरबलेन स्थिराणि निश्चलानि गीयन्ते स्मेति दृष्टान्तः ॥६३॥ वित्तार्पणैस्तृप्तमनोमनोरथा
महस्यगायन्निह गायना भृशम् । नानाप्रसूनव्रजगन्धबन्धिनः
सुमञ्जु गुञ्जन्त इवालिनो वने ॥ ६४ ॥ इह महसि उत्सवे, गायना भृशं अगायन् , गीतानि गायन्ति स्मेत्यन्वयः । गायनाः किं०, वित्तार्पणैः प्रार्थितधनप्रदानैस्तृप्ता मनोमनोरथा येषां ते, अवापि उत्प्रेक्षया द्रढयतिनानाप्रसूनानां यो व्रजः पुञ्जस्तस्य यो गन्धः सौरभ्यं, तद्वन्धिनस्तल्लीना इति । इवोत्प्रेक्ष्यते-बने कानने, अलिनो भ्रमरा गुञ्जन्तः कथं सुमञ्जु इति क्रियाविशेषणम् ॥ ६४ ॥ धत्ते स्म गान्धर्वगणस्य कर्णयो
रसावतः काश्चनकुण्डलद्वयीम् । गुणान् गुरूणां यदनेन गायता
व्यधायि मुन्मे श्रवसोः सुवर्णजाः ॥ ६५ ॥ असौ श्रेष्ठी, अतो हेतोः गान्धर्वगणस्य कर्णयोः काञ्चनकुण्डलद्वयीं धत्ते स्मेति पूर्वार्द्धनान्वयः । उत्तरार्दैन तहेतुमेवाह-यत् कारणात् अनेन गान्धर्वगणेन गुरूणां गुणान् गायता
Page #309
--------------------------------------------------------------------------
________________
२८४
विजयस्वास्। सता, मे मम, श्रवसोः श्रोत्रयोः, सुवर्णजा मुद् व्यवायि गान्धर्वगणेन सुवर्णजा शोभनाक्षरोत्पन्ना मुद् व्यधायि तेन श्रेष्ठिनाऽपि तत्कर्णयोः सुवर्णकुण्डलयुगली दत्तेति नि॥६५॥
. इति प्रभृतैर्जगतां जयावहै
महैमहद्भिर्गृहमस्य तद्वभौ। लक्ष्मीसुखोल्लासबिलासशालिनी
किं राजधानी प्रमदक्षमापतेः ? ॥ ६६ ॥ इति व्यावर्णितैर्महेरुत्सवैस्तस्य श्रेष्ठिनस्तद् गृहं बभौ शोभते स्मेत्यन्वयः । महैः किं०, प्रभूतैर्भूयोभिः, पुनः, जगतां जयावहैर्जयङ्करैः, पुनः, महद्भिविस्तीर्णैः । उत्प्रेक्ष्यते--प्रमदक्षमापतेः प्रमोदमेदिनीभर्तुः किं राजधानी साम्राज्यस्थानं, किं०, लक्ष्मीसुखोल्लासाः प्रतीतास्तेषां विलासेन शालिनी शो- . भमानेति भावः ॥६६॥
अथ काव्यचतुष्टयेन गुरोः पदस्थापनावर्षमासतिथिलग्नादिनिर्णीतिमाह
अब्देऽथ दन्ताबलबाहुभूमिभृ
मिते तिथौ चन्दिरभासि सप्तमे। मासे तपस्येऽहनि शीतरोचिषो
लग्ने वृषाख्ये शशिना विभूषिते ॥ ६७ ॥ अन्दे वर्षे, किं०, दन्ताबला दिग्गजा अष्टौ तेनाष्टाङ्कः, पाहू भुजौ द्वौ तेन व्यङ्कः, भूमिभृतो राजानः षोडश तेन पोडशाः , एतैर्वामगतिगणितैर्मिते वर्षे, संवत् १६२८ प्रमाणे इत्यागतम् । पुनस्तियो सलमे, किं लक्षणे, चन्दिरचन्द्रस्तस्त्र
Page #310
--------------------------------------------------------------------------
________________
सप्तमः सर्गः । .
२८५
मासः कान्तयो यस्मिंस्तस्मिंश्वन्दिर भासि शुक्ले इति यावत् । पुनः, मासे तपस्ये फाल्गुने, पुनः, अहनि दिने शीतचिषः शीतांशोर्वासरे सोमवार इति, मृगशीर्षनक्षत्रे चेति योगः, पुनः, शशिना चन्द्रेणालङ्कृते वृषाख्ये द्वितीये वृषलने वहमाने उदयिनि सतीति भावः ॥ ६७ ॥ अथ ग्रहस्थित्या कुण्डलिकामाह - विधुन्तुदे चन्द्रगृहं समागते
रवेः पृथिव्याश्च सुते तुलाऽऽश्रिते । कुम्भस्थयोः पङ्कजिनीप्रियज्ञयोमनौकसोर्भार्गवशक्रमन्त्रिणोः ॥ ६८ ॥
२ चं.
विधुन्तुदे राहौ चन्द्रगृहं कर्कलग्नं समेते सति, पुनः, रवेः सुते शनैश्वरे पृथिव्याः सुते मङ्गले च तुलाऽऽश्रिते तौल्यां गते सति, पुनः पङ्कजिनीप्रियज्ञयोः सूर्यबुधयोः कुम्भस्थयोः सतोः, पुनर्भार्गवशक्रमन्त्रिणोः शुक्रगुर्वीः, मीनौकसोमनलग्नस्थितयोरिति ग्रहसंस्थितिः स्थापना; यथा - द्वादशभवनविभागेन कुण्डलिका । एतद्ग्रहाणां फलादिविचारस्तु व्यवहारचर्यागतराज्याभिषेकमकीर्णकादवधार्योऽत्र तु ग्रन्थगौरवभीरूणा मया न लिख्यत इति ॥ ६८ ॥
पुनराह -
४ रा.
༥
६
७ श.
श्रीः ११ बु. सू.
१०
८
शु १२ बृ
अन्तर्विशद्वायुनि वामनासिकारन्ध्रे च रन्धैरहिते समारुते ।
Page #311
--------------------------------------------------------------------------
________________
२८६
विजयाशस्त्याम् ।
तत्त्वे घराया वहमान ऊर्जिते ... कार्यस्य सौभाग्यविधानपूर्वहे ॥ ६९ ॥
च पुनः, वामनासिकारन्ध्रे सति, कीदृशे, रन्धेश्छिद्रः रहिते निर्दोषे इति यावत् । पुनः कि०, अन्तर्मध्ये विशन् प्रविशन्. वायुर्यस्मिंस्तस्मिन् ; पुनर्धरायाः पृथिव्यास्तत्त्वे समारुते वायुना पूरिते वहमाने सति; यतः- “सर्वेभ्योऽपि हि तत्त्वेभ्यः पृथ्वीतत्त्वं महाबलम्" इत्युक्तेः। पुनर्धरायास्तत्त्वे कि०, कार्यस्य कर्तुमारब्धस्य, सौभाग्यविधाने धूर्वहे समर्थे इति । यदुक्तमारम्भसिद्धौ"कार्याणि भूमिजलतत्त्वगतौ कृतानि निर्दम्भमाभ्युदयिकी प्रथयन्ति लक्ष्मीम्" इत्यादिवचनात् , अर्जिते वलवति पृथ्वीतत्त्वे ॥ ६९॥ यत् कृतं तदाहअथो जगहोधिपयोधिचन्द्रमाः
स्थानं जयानां जयसिंहपण्डितः । श्रीमानुपाध्यायपदे खमूर्तिव
न्यधायि सूरीन्द्रपदे च सूरिभिः ॥ ७० ॥ अथास्मिन् मुहूर्ते जयसिंहपण्डितः, किं०, जगद्बोधिपयोघो विश्वोद्बोधसमुद्रे चन्द्रमाः, पुनः, जयानां स्थानं, श्रीउपाध्यायपदे न्यधायि, पूर्वमिति गम्यम् । च पुनः, तदनु तत्कालमेव, तेः मूरिभिः श्रीहरिविजयाचार्यैः, सूरीन्द्रपदे न्य. धायि स्थापितः । किंवत् , स्वमूर्तिवत् स्वमूर्तिप्रतिबिम्बमेव कृतमिति भावार्थः । इति काव्यकलापकव्याख्या ॥७०॥ अथास्य नामवर्णनमाहश्रीसुन्दरीहृदयसंवननक्रियाया
Page #312
--------------------------------------------------------------------------
________________
सप्तमः सर्गः॥ २८७ मन्त्रः सदक्षर इवाशु फलाप्तिमूलम् ।
सूरीन्द्रहीरविजयैः प्रमदादमुष्य .... चक्रेऽभिधा विजयसेन इति प्रसिद्धा ॥७॥
सूरीन्द्रहीरविजयैः, अमुष्य अस्याचार्यस्य, विजयसेन इति प्रसिद्धाऽभिधा संज्ञा, चक्रे कृतेत्यन्वयः । उत्प्रेक्षामाह-श्रीरेव सुन्दरी स्त्री, तस्या हृदयस्य संवननक्रियाया वशीकारस्य, सदक्षरो वर्ण्यवर्णो, मन्त्र इव, पुनमन्त्रः किं०, आशु शीघ्रं, फलाः फलप्राप्तः, मूलं कारणमिति तत्त्वम् ॥ ७१ ॥ वर्णा अनूचानपतेविरेजिरे .
पञ्चाऽस्य नाम्नि त्रिजगन्मनोहरे । खखांशसंपद् निदधे किमद्धता
भूतैः प्रभूता भुवनोपकारिणी ? ॥ ७२ ॥ अस्यानूचानपतेर्विजयसेनसूरेः, नान्नि, कि०, त्रिजगन्मनोहरे जगत्त्रयचेतोहरे, पञ्च वर्णा अक्षराणि, विरेजिरे शुशुभिरे इत्यन्वयः। उत्प्रेक्षामाह-कि०, पञ्चभिर्भूतैर्महाभूतैः पृथ्व्यप्तेजोवायुगगनलक्षणैः, स्वस्खांशसंपत निजनिजांशसंपत्तिः, किं०, प्रभूता बही, पुनः, अद्भुताऽऽश्चर्यकारिणी, पुनः, भुवनोपकारिणी लोकोपकारकृद् , निदधे स्थापितेत्यर्थः ॥ ७२ ।। नामाक्षरेष्वस्य गुरोः प्रपञ्चितं
पश्चत्वमप्यहुतभृहभूव नः । मूलं मुदां यन्निखिलात्मनामभू
दगोचराणां वचनैर्विपश्चिताम् ॥ ७३ ॥ अस्य गुरोर्नामाक्षरेषु प्रपञ्चितं रचितं, पञ्चत्वं निधन
Page #313
--------------------------------------------------------------------------
________________
२८८ विजयाशस्त्याम् । मपि, नोऽस्माकं, अद्भुतभृत् घनाश्चर्यकारि, बभूव संजातमित्यन्वयः । तदेव उत्तरार्धेन द्रढयति--यत् कारणात् निखिलात्मनां सर्वजीवानां, मुदा मूलमभूत , मुदां किं०, विपश्चितां पण्डितानां, वचनरगोचराणामतिप्रभूतानामिति, अद्भुताविर्भावने तु पनत्वं पञ्चसंख्याकत्वमिति भावार्थः ।। ७३ ॥ पञ्चेप्सितां द्राक सृजति श्रियं गुरो
र्नाम्न्यस्य वर्णाः सुभगा व्यभुस्तमाम् । औदार्यवर्यास्तरवः सुधाऽन्धसां __वर्णत्वमेत्येव गुरौ समागताः ॥ ७४ ॥
अग्य गुरोर्नानि, कि०, कुर्वति सृजति, कां श्रियं, किं०, ईप्सितां कामिता, वाञ्छितश्रीविधातरि अस्य नाम्नि पञ्च वर्णाः सुभगाः सौभाग्यवन्तो, व्यभुस्तमां अतिशयेन भान्ति स्मेत्यन्वयः। इबोत्सेक्ष्यते-सुधाज्यसां देवानां, तरवो देवद्रुमाः,वर्णत्वं एत्य अक्षरतां प्राप्य, गुरौ समागताः। वर्णाः सुरद्रुमाश्च कीहशाः, औदार्येण स्फारत्वेन वर्णपक्षे, सुरद्रुमपक्षे च औदार्येण दातृत्वेन, वर्याः श्रेष्ठाः। अथवा द्वयोरप्येकोऽर्थ एवात्रेति॥७४॥ हर्षान्तिमाः श्रीविमलादयो बुधो
त्तमा उपाध्यायपदे तदैव च । संस्थापिताः श्रीतपगच्छनायकैः
सुधीपदे षड् गणयस्तथाऽपरे ॥ ७५ ॥ तदेव तस्मिन् क्षणे, श्रीविजयसेनसरीणां मरिपदपदानादनु श्रीविमलादयो हर्षान्तिमाः श्रीविमलहर्षाः; किं०, बुधोतमाः पण्डितोत्तमाः श्रीविमलहर्षपण्डिताः, श्रीतपगच्छनायकैः उपाध्यायपदे स्थापिताः, च पुनः, अपरे षड् गणयो व्यूढषा
Page #314
--------------------------------------------------------------------------
________________
समः सर्गः ।
मासिकयोमा मणिनामधारिणस्तदा गणिपद्मसागरलब्धिसागरममुखाः सुधीपदे पण्डितपदे, स्थापिता इति ॥ ७५ ॥ श्रेष्ठी सुहृष्टो हृदि मूल इत्यथो निःशेषलोकाय ददौ तदा मुदा । एकैकां द्राग् महमुन्दिकामसौ स्वभावसंपद्वरवर्णिकामिव ॥ ७६ ॥
ret मूलश्रेष्ठी सुहृष्टः सन् निःशेषलोकाय तदा तत्र मिलिताय समस्तजनाय, एकैकां महमुन्दिकां गुर्जरदेशमसिद्धां रूप्यमयीं ददौ दत्तवान्, प्रभावनयेति शेषः । स्वभावसंपदः स्वचित्तश्रद्धासंपत्तेः, वर्णिकामिवेत्युत्प्रेक्षा ॥ ७६ ॥
स्वर्णोर्मिकाभिर्वसनैश्च शोभनै
दिव्यैर्दुकूलैश्व तदर्पितैस्तदा । बभुस्तमामर्थिजना विकखरै
२८९
र्नानापयोजप्रकरैरिवान्धयः ॥ ७७ ॥
स्वर्णस्य ऊर्मिकाभिर्मुद्रिकाभिः च पुनः, शोभनैर्वसनैश्रीवरैर्दुकूलादिभिर्दिव्यैश्च तदर्पितैर्मूल श्रेष्ठ्यर्पितैः, तदाऽर्थिजना याचकाः, बभुस्तमां अति भ्राजन्ते स्म । दृष्टान्तमाह-यथा विकस्वरैर्विनिद्रैः, नानापयोजप्रकरैर्विचित्रसरोरुहव्यूहैः, अब्धयः सरांसि, “ अब्धिः सरसि सागरे " इत्यनेकार्थत्वादत्राधिकारादर्थप्रतिपत्तिरिति सरोजाधिकारादत्र अन्धयः सरोवराणि गृह्यन्ते ॥ ७७ ॥
ज्येष्ठाग्रग्रो मूल इवैष कान्तिमान् पद्मोत्सवः श्रीगुरुरेष चार्यमा ।
३८
Page #315
--------------------------------------------------------------------------
________________
२९० विजयप्रशस्त्याम् । स्थानेऽनयोः सङ्गम एतदस्ति यत्
कल्याणमस्मिन् महसि प्रमोदकृत् ॥ ७८ ॥ एष मूलश्रेष्ठी, किं०, कान्तिमान् , पुनः किं०, ज्येष्ठाग्रगो ज्येष्ठानक्षत्रं एकत्र, अन्यत्र ज्येष्ठा वृद्धाः, तेन ज्येष्ठाग्रगत्वेन मूल इव नक्षत्रविशेष इव ज्ञेयः; च पुनः, पद्मोत्सवः पद्मानां पङ्कजाना एकत्र, अन्यत्र पद्मानां श्रीणां उत्सवो यस्मादिति पद्मोत्सवः, श्रीगुरुरेष अर्यमा सूर्य इव ज्ञेयः; तेन अनयोः मूलमर्ययोः, सङ्गमे सति यत् कल्याणं अस्मिन् महसि वर्त्तते । अत्र जात्यपेक्षया एकत्वम् , अन्यथा कल्याणानि भूयांसि सन्तीत्यूह्यम् । तत्स्थाने उचितमेव । यतो "मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारणम्" इति श्रीहेमाचार्यवचनात् मूलार्कयोगमहत्त्वमवधेयम् ॥ ७८ ॥
अस्मिन्ननूचानपतौ पृथौ गुणैः
स्वयं गुरोरोज इयाय संक्रमम् । लसद्दशे वृन्दमिव त्विषां दुतं ___ दीपस्य दीपे तमसा प्रणाशकृत् ॥ ७९ ॥
अस्मिन् अनूचानपतौ, कि०, विशाले, कैः, गुणैः मूरिगुणः, स्वयं यत्नं विनापि, गुरोः ओजो वलं, संक्रमं इयाय संक्रान्तिमाप। दीपस्य त्विषां वृन्दं यथा दीपे, किं०, लसन्ती दशा वनिर्यस्य तस्मिन् , अनूचाने किं०, लसन्ती दशाऽवस्था यस्य तस्मिन् , ओजः त्विषां वन्दं च कीदृशं, तमसां पापानां एकत्र, अन्यत्र ध्वान्तानां प्रणाशकृदिति ॥ ७९ ॥
बभार शोभामधिकामिहर्षिराट___ पदं पदं शस्तमुदां ससंपदां । गुरौ कमाजन्मनि वैरिविषं
Page #316
--------------------------------------------------------------------------
________________
सप्तमः सर्गः। भटोहटे खडुलतेव दीप्तिभृत् ॥ ८॥ इह कमाजन्मनि गुरौ श्रीविजयसेनसूरी, ऋषिराट्पदं मूरिपदं, किं०, ससम्पदा सश्रीणां शस्तमुदा, पदं स्थानं, अधिकां शोभा वभारेत्यन्वयः । पुनः किं० पदं, वैरिशोर्विषमिव विषं, तदुःखदायित्वात् यथा भटोटे महासुभटे, दी प्तिभृत् कान्तिमती, खड्गलता कपाणवल्लिः, शोभते, साऽपि वैरिदृग्विषमिति तुल्यं विशेषणम् ॥ ८० ॥
जना अनूचानपतिं गुरुं च तं ___ दृष्ट्रेत्यवोचन मुदिताः परस्परम् । अथास्य गच्छस्य धुरं धरिष्यतः
समाविमौ सवृषभाविवानसः ॥ ८१ ॥ तं गुरुं तं चाऽनूचानपतिं दृष्ट्या परस्परं मुदिताः सन्तो जना इत्यवोचनित्यूचुः । उत्तरार्दैन तदेवाह-अथाऽस्य तपागच्छस्य धुरं इमौ गुरुशिष्यो, समौ तुल्यौ, धरिष्यतः, काविव कस्येत्याह-सवृषभौ अनसः शकटस्येवेति दृष्टान्तः ॥ ८१॥
असावनूचानपतिः पदं श्रिया- मेषां गुरूणां शुशुभे समीपगः ।
एकालवालस्थितिभाग् नवोद्गमः - संतानशाखी हरिचन्दनेन किम् ? ॥ ८२ ॥
श्रियां पदं स्थानं, असौ अनूचानपतिः श्रीविजयसेनाचार्यः, एषां गुरूणां श्रीहीराविजयसूरीणां, समीपगः पार्थवी, शुशुभे इत्यन्वयः । किमुत्प्रेक्ष्यते--हरिचन्दनेन कल्पद्रुणा सह एकालवालस्थितिभाग एकस्थानस्थायी, पुनः, नवोद्गम उद्गच्छन् सन्तानशाखी पञ्चमः कल्पद्रुम इवेति ॥ ८२ ।।
Page #317
--------------------------------------------------------------------------
________________
२९२ विजयमवस्त्याम् ।
एनं विनेयं युवराजमूर्जितं . दृष्ट्रा प्रहृष्टास्तदमी दमीश्वराः । गच्छस्य गुर्वी दधतां धुरं हि नः
पदावलम्ब्येष बभूव शक्तिमान् ॥ ८३ ॥ एनं विनेयं युवराजं, किं०, अर्जितं बलवन्तं, दृष्ट्वा तदिति तस्माद्धेतोः, अमी दमीश्वरा गुरवो हृष्टा इत्यन्वयः । हेतुमाहयदित्यध्याहार्यम् ; यतः कारणात् , गुर्वी गरीयसी, गच्छस्य धुरं नोऽस्माकं, दधतां एष शक्तिमान युवराजः पदावलम्बी बभूव सारणावारणादिगच्छव्यवसायविधायित्वेन विश्रामस्थानीयोऽभूदिति ॥ ८३ ॥
श्रीमाननूचानपतिः कथं दधौ ___ कलाविलासादनुकूलनेतृताम् ? । गच्छश्रिया संवसताऽमुना हठा
दादायि संपत् परिपन्थिवेश्मतः ॥ ८४ ॥ असौ श्रीमाननूचानपतिः, कलाविलासात् अनुकूलनेततामनुकूलनायकत्वं, कयं दधौ ? अपि तु नाभूदनुकूल इति तदेव स्पष्टयति-स्वगच्छश्रिया सह संवसताऽमुनाऽनूचानपतिना, परिपन्थिवेश्मतो वैरिगृहात् , संपत् हठादलात्कारेण, आदायि पृहीतेति हेतोरनुकूलः कथं भवति ? । यदुक्तम्
“ स्वस्वीभिरेव सन्तुष्टः परस्त्रीभ्यः पराङ्मुखः ।
शास्त्रेषु गीयते पाझैरनुकूलः स नायकः " ॥ १ ॥ वाग्भटालङ्कारेऽपि-" नीलीरागोऽनुकूलः स्यादनन्यरमणीरतः" इति लक्षणोऽनुकूल उच्यते, अयं तु तल्लक्षणविलक्षण इति; अत्रानुकूलनेतृताभावशब्दश्लेषेण परवादिसंपद्ग्रहणशक्तिः
Page #318
--------------------------------------------------------------------------
________________
सप्तमः सर्गः।
२९५ सूचिवा, अन्यथा. तु अनुकूलनेतृत्वमविपरीतस्वामित्वं सर्वसंमतमस्त्येवेति कथं तदभावकयनमिति ध्येयम् ।। ८४ ॥
गुणी गणस्यैष पतिः समुल्लसन् __ रेजेतमां दक्षिणनेतृभावभाक् । भुञ्जन्नसौ खां गुरुदत्तसंपदं
प्राप्तां परेषां कमलां हि नारुणत् ॥ ८५ ॥ एष गुणी गुणवान् , गणस्य पतिर्गच्छेशः समुल्लसन् देदीप्यमानः, दक्षिणनेतृभावभाक् दक्षिणनायकत्वं दधत् रेजेतमामित्यन्वयः । तदेव प्रकटयति-हि यतः कारणात् , असो स्वां गुरुदत्तसंपदं भुञ्जन् गच्छश्रियं भुञ्जन् , परेषां कमलां प्राप्तां सती नाऽरुणत् परश्रियमपि न निषिद्धवान् , स्वीचकारेति दक्षिणत्वं प्रादुश्चकार । यद्वाग्भट:--"दक्षिणश्चान्यचित्तोऽपि यः स्यादविकृतः स्त्रियाम्" इति वचनादक्षिणनायकोऽभूदिति भावार्थः॥ ८५॥
अयं विनेयः प्रतिमेव गौरवी
बभौतमां द्राग् गुरुलक्ष्मिसंक्रमात् । किमत्र चित्रं सुदृशां सुखं दध
द्विम्बेन साम्यं प्रतिबिम्बमेति यत् ? ॥८६॥ अयं विनेयों गुरुलक्ष्मिसंक्रमात् गौरवी प्रतिमेव गुरुमतिरूपमिव, बभौतमामित्यन्वयः । अत्र किं चित्रं यत् प्रतिविम्ब बिम्बेन साम्यं तुलामेति; "बिम्बानुसारि प्रतिबिम्बमेव" इति बालभारतवचनात् । किं० प्रतिबिम्ब, सुदृशां सम्यग्दृशां, सुखं दधत् : पक्षे सुदृशां शोभनचक्षुषां सुखकृदिति ।। ८६ ॥
असौ नवीनो युवराजचन्द्रमा
Page #319
--------------------------------------------------------------------------
________________
२९४
विजयप्रशस्त्याम् ।
गच्छेशमूध्नह रुचां पदं बभौ । सद्यः कलाभिः सकलाभिराश्रितः
सदाऽभवद् यत्तमसां विनाशकृत् ॥ ८७ ॥ असौ युवराजचन्द्रमा नवीनो गच्छेशमूर्ध्नि बभौ, किं०, रुचां पदं ज्योतिर्गृहम् | नवीनत्वमेवाह - यत् कारणात् सकलाभिः कलाभिः सद्य एवाश्रित इति नूतनत्वम्; पुनः सदा तमसां विनाशकृत् अभवत् । चन्द्रमास्तु सद्यः सकलकलाभृन्न स्यात्, पुनः, सदा तमसां अन्धकाराणां विनाशकृन्न स्यादिति नूतनत्वम् ।। ८७ ।।
द्राग् राजसंपद् युवराजि संक्रम चन्द्रस्य मूर्त्तिर्जलधाविवागमत् । चित्रं न चापल्यमिताऽस्ति यद्गता
नचापि दोषोदयकृत्कदाऽप्यभूत् ॥ ८८ ॥ अस्मिन् युवराज द्राग् शीघ्रं, राजसंपत् श्रीहीरविजयसूरिराज्यश्रीः, जलधौ चन्द्रस्य मूर्त्तिरिव संक्रमं अगमत् संक्रान्तेत्यन्वयः । इदं चित्रमस्ति, इदमिति किं तदेवाह--यद्वता युवराज गता, संपत् चापल्यं चपलत्वं, न इताऽस्ति, स्थिराऽभूदितिः च पुनः कदापि दोषोदयकृत् नाभूत् गुणाभाववती न जाता, चन्द्रमूर्त्तिस्तु जले संक्रान्ता सती चापल्यमायाति दोषोदयो रात्रेरुदयस्तमपि कुरुते इति चित्रम् ॥ ८८ ॥ विनयनयविराजत् केसरस्तोमरम्ये कुमतिमतमतङ्गध्वंसधीरेऽतिवीरे ।
श्रितवति शुभशोभां श्रीअनूचानपञ्चा नन इह बहु रेजे श्रीतपागच्छकुञ्जः ॥८९॥
Page #320
--------------------------------------------------------------------------
________________
सप्तमः सर्गः ।
२९५
इह श्रीअनूचानपञ्चानने आचार्यकेसरिणि, किं० विनयनयावेव विराजन्तौ यौ केसरस्तोमो स्कन्धजटाकलापों, ताभ्यां रम्ये, पुनः किं०, कुमतिमतरूपो यो मतङ्गो गजस्तस्य ध्वंसो नाशस्तत्र धीरे धैर्यवति निपुणे वा, अत्र मातङ्गान्मतङ्गशब्दोऽप्यस्ति । यच्छब्दप्रभेदः --" गजे मतङ्गमातङ्गौ ” इति । अत एवाऽतिवीरेऽतिश्रेष्ठेऽतिशूरे वा ईदृशे श्रीअनूचानपञ्चानने शुभशोभां श्रितवति सति शोभमाने सति, श्रीतपागच्छ एव कुञ्जो विविधवृक्षलतागुल्मादिवृतान्तरस्थानविशेषो निकुञ्ज इति बहु रेजे भृशमशोभिष्टेत्यर्थः ॥ ८९ ॥
अस्मिन् सर्गे इन्द्रवंशावंशस्थयोर्द्वयोश्छन्दसोर्मिलनरूपीपजातिकं छन्द इति; उपजातिलक्षणं तु पूर्वमभिहितमस्ति; सर्गान्त्यंवृत्ते तु मालिनीवृत्तं; तल्लक्षणमप्युक्तपूर्वमिति ।
इतीति भव्यम् !
इति सकलसुविहितसभासार्वभौमसमान पण्डितमण्डलीमौलिमाँलीयमानपण्डितश्रीकमलविजयगणिशिष्य मुख्यपण्डितपुरन्दरमख्यपण्डित श्रीविद्याविजयगणिविनेयवाचक श्रीगुणविजयगणिविरचितायां विजयमदीपिकाऽभिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां सप्तमः सर्गोऽर्थतः समर्थितः ।
Page #321
--------------------------------------------------------------------------
________________
अहम्
अथाष्टमः सर्गः।
अथाष्टमः सर्गः समारभ्यते तस्येदमादिकाव्यम्प्राप्तप्रतापास्तपगच्छरत्ना
करैकपीयूषकरा मुनीन्द्राः। पूज्या अनूचानयुताः पृथिव्या
मथो विजहूर्जगतां हिताय ॥ १ ॥ अथाचार्यपदमदानादनु कियन्ति दिनानि तत्र स्थित्वा ते पूज्या अनूचानयुताः सन्तो विजहर्विहारं चक्रुरित्यन्वयः । ते कि०, प्राप्तः प्रतापो यैस्ते, पुनः कि०, तपगच्छ एव रत्नाकरः समुद्रस्तत्र एके द्वितीयाः पीयूषकराश्चन्द्राः, तत्समुल्लासहेतुत्वादिति । शेषं सुगमम् ॥१॥
आचार्यधुर्येण सहर्षिमुख्ये
पुस्यां क्षमायां विहरत्वमीषु । शावेन सिंहेष्विव जम्बुकाना
‘मासीत् प्रचारो न कुपाक्षिकाणाम् ॥ २॥ अमीषु ऋषिमुख्येषु श्रीहीरविजयसूरिषु, आचार्यधुर्येण स्वपट्टधरेण सहाऽस्यां क्षमायां पृथिव्यां, विहरत्सु सत्सु कुपाक्षिकाणां कुतीथिकानां, प्रचारो नासीत् , कोऽर्थः वादादिविधित्सयाभिमुखागमनरूपः प्रचारो नाभूत् । अत्र दृष्टान्तः--यथा सिंहेषु शावेन बालकेन सह विचरत्सु जम्बुकानां शृगालानां प्रचारो न स्यात् किन्तु तिरोभूय गहनवनादिष्वेवावस्थानं भवति, परं कश्चिद् युद्धाय नोपतिष्ठते तथेति ॥२॥
Page #322
--------------------------------------------------------------------------
________________
अष्टमः सर्गः।
२९७ अथैकदाऽत्रावसरे विहारैः __ श्रीगूर्जरत्राऽऽभरणीभवत्सु । पूज्येषु सत्पुत्रगयौवराज्या
नुभावतो लब्धघनर्द्धिमुत्सु ॥ ३ ॥ दुर्लोपलुम्पाकमताधिकारी __ यो मेघजीत्यस्त्यनवद्यविद्यः । दत्तान्ध्यमात्मीयमतं मुमुक्षुः
खयं स निर्मोकमिवाहिरासीत् ॥ ४ ॥ अथाऽस्मिन्नवसरे एकदा पूज्येषु श्रीगूर्जरत्राभरणीभवत्सु श्रीगूर्जरदेशवसुधाभूषणेषु जायमानेषु, पुनः, सत्पुत्रगयौवराज्यानुभावतः सुशिष्यप्रदत्ताचार्यपदप्रभावात् , लब्धा घनश्चि मुद् हर्षश्च यैस्तेषु विहरत्सु, किमभूदय तदग्रेतनेन वृत्तेनाह ॥३॥ दुर्लोपं पाप्मभिर्दुस्त्यजं यल्लुम्पाकमतं तस्याऽधिकारी तन्मुख्य इति यो मेघजीतिनामा लुम्पाकाचार्यः, किं०, अनवद्या विद्या यस्यासौ महाविद्यावानस्तीति । स मेघजीनामर्षिः आत्मीयमतं लुकामतं, किं०, दत्तं आन्ध्यं जिनप्रतिमाद्यालोकशां अन्धत्वं येनेति तत् , मुमुक्षुर्मोक्तुकामः, आसीत् , कथं, स्वयं स्वयमितिसकलशास्त्रवाचनोद्भूतसन्मतित्वेन न तु परप्रेरणयेति इव यथा, अहिः सर्पः, निर्मोकं कञ्चुकमिति दृष्टान्तः । युग्मव्याख्या ॥४॥ उदन्तमत्यन्तनवीनमेनं
प्राप्तं सुधापानमिवर्डिहेतुम् । - अध्यानमानन्दमया अनैषुः
Page #323
--------------------------------------------------------------------------
________________
१९८
विजयमशस्त्याम् । स्वकर्णयोस्तेऽथ सकर्णमुख्याः ॥ ५॥ ते सकर्णमुख्याः सूरयः, एनं पूर्वोक्तमुदन्तं मेघजीनामर्षेः स्वमतमोचनखरूपनिरूपकं, पुनः, अत्यन्तनवीनं पूर्वमभूतत्वात् । स्वकर्णयोरध्वानं श्रोत्रपयं, अनैषुः नयन्ति स्म, श्रुतवन्त इति । कि०, आनन्दमयाः सन्तः, किमिवेत्याह-सुधापानं प्राप्तमिव, कि०, ऋद्धिहेतुं, उदन्तपक्षे गच्छसमृद्धिमूलं, सुधापानपक्षे शरीरारोग्यवलादिसमृद्धिमूलमिति ॥ ५॥
विहारमाचार्यवरेण युक्ताः . सुखं सृजन्तः शमिनामधीशाः। प्रोच्चैः प्रमोदं स्म नयन्ति लोकान्
कोकानिवार्का महसां निवासाः ॥६॥ आचार्यवरेण युक्ता विहारं सृजन्तः कुर्वन्तः सन्तःशमिनामधीशा गुरवः लोकान् प्रमोदं नयन्ति स्मेति । दृष्टान्तमाहकोकांश्चक्रवाकानिव यथा अर्काः सूर्याः; किं०, महसां निवासा आवासाः, गुरुपक्षे महसां उत्सवानां, अन्यत्र तेजसाम् । अथवोभयेषामपि तुल्यं विशेषणमिदम् ॥६॥ अकबरे राज्यसुहृद्वधूनां
वैधव्यदीक्षाविधिदानदक्षे । क्षोणीमलङ्कति सप्रतापे
वर्मेव वायोस्तमसां विपक्षे ॥ ७ ॥ अकबरे राशि पातिशाहिश्रीमदकब्बरसुरत्राणे, क्षोणीमलकुर्वति सति विजयमानराज्ये सति, किं०, असुहृद्वधूनां वैरिनारीणां, वैधव्यदीक्षाविधिदानं रण्डात्वव्रतरूपं तत्र दक्षे, बबईसहारणा : तत्कृतिकृतिनि, पुनः, समतापे प्रतापवति ।
Page #324
--------------------------------------------------------------------------
________________
अष्टमः सर्गः।
२९९ दृष्टान्तमाह-यथा वायोर्वर्त्य गगनमिव तमसा विपक्षे ध्वान्तशत्रौ, सूर्ये, सतीति शेषः ॥७॥ महोत्सवोल्लासविलासहर्म्य
महम्मदावादपुरं प्रधानम्। श्रीपूज्यपादाः पुनरीयिवांसो
मनो मुनीनामिव मैत्र्यभावाः ॥ ८॥ अहम्मदावादपुरं, किं०, महोत्सवोल्लासानां विलासहर्म्य केलीगृहं, पुनः, श्रीपूज्यपादा ईयिवांसः समागताः, मुनीनां मन इव मैन्यभावाः साम्याध्यवसाया इति दृष्टान्तः । अर्थतो युग्पव्याख्या ॥ ८॥ लुम्पाकपक्षं प्रविमुच्य रुच्य
चेताः सचेताः प्रसभं प्रचेताः।। स मेघजीः खैर्यतिभिः परीतः
सूरीननूचानयुताननंसीत् ॥ ९॥ तत्रागमनादनन्तरं स मेघजीनामर्षिः खैर्यतिभिः पण्डितैः सप्तविंशतिसंख्यैः, परीतः सन् लुम्पाकपक्षं लुकाख्यमतं, प्रविमुच्य अनूचानयुतान् श्रीविजयसेनसूरिपरिवृतान्, सूरीन् श्रीहीरविजयसूरीन् , अनंसीचमति स्मेति । स किं०, रुच्यं चारु चेतो यस्य सः, पुनः किं०, सचेताः सहृदयः, पुनः किं०, प्रचेता पहष्टात्मेति ॥९॥
लुम्पाकपक्षक्षितिसेकमेघः - श्रीमेघजीस्तैर्मुनिभिर्वृतः स्वैः। संस्थापितः प्राथमकल्पिकत्वे
Page #325
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् |
श्रीपूज्यपादैः स महोत्सवेन ॥ १० ॥
लुम्पाकपक्षक्षितिसेके लुङ्काख्यकुमतमेदिनीसेचने, मेघस्तद्वृद्धिकत्वादिति इदं विशेषणं प्रागवस्थामाश्रित्योक्तम् । तैः स्वैनिजैर्मुनिभिर्वृतः श्रीमेघजनामर्षिः महोत्सवेन शाहिश्रीअकब्बर सुलतानजलालदीमदत्तातोद्यवादनादिनोत्सवेन श्री पूज्यैः प्राथमकल्पिकत्वे नवीन शैक्षत्वे संस्थापित इति ॥ १० ॥
लुम्पाकपक्षाधिपतिः सुमेधाः स मेघजीनामऋषिर्विनीतः ।
३००
पूज्यांह्निपाथोरुहपर्युपास्ति
परायणो भृङ्ग इवाऽजनिष्ट ॥ ११ ॥
स मेघजनामऋषिः, किं०, लुम्पाकपक्षाधिपतिरपि पुनः सुमेधाः धीमान् पुनर्विनीतः सन् भृङ्ग इव भ्रमर इव पूज्यांहिपाथोरुहपर्युपास्तौ गुरुचरणकमलसेवने, परायणस्तत्परोऽजनिष्ट जातवानिति महाद्भुतं सर्वेषामिति शेषः ॥ १.१ ॥ विहृत्य तस्मात् पुरतो वृतास्तैस्तैः साधुभिः साघुघुरन्धरास्ते । हंसा इवाब्जैः सर उत्सवौषैः
पूर्ण पुरं पत्तनमाप्तवन्तः ॥ १२ ॥
तस्मात् पुरतो राजनगरात् विहृत्य तैस्तैराचार्योपाध्यायपण्डितप्रधानैः पुनर्नवदीक्षितैस्तैः साधुभिर्व्वतास्ते साधुधुरन्धरा गुरवः, क्रमेण पचनं पुरं अणहिलपाटकनामकं नगरं, किं०, पूर्ण, कैः, उत्सवौधैर्महसमूहैः, अब्जैः कमलैः पूर्ण सरस्तटाकं हंसा इव आप्तवन्तः माता इति ॥ १२ ॥
"
Page #326
--------------------------------------------------------------------------
________________
अष्टमः सर्गः। चक्रुश्चतुर्मासकमाप्तमुख्या __ अस्मिन् पुरे पत्तननाम्नि पूज्याः। तेषामथो पारणके गुरूणां ___ हृदुत्सुकं वन्दनकोत्सवेऽभूत् ॥ १३ ॥
आप्तेषु मुख्यास्ते पूज्याः, अस्मिन् पुरे पत्तने, चतुर्मास चक्रुरित्यन्वयः। अथ चतुर्मासकपारणके तेषां गुरूणां, हृन्मनः, वन्दनकोत्सवे निजपट्टभृत्पादवन्दनद्वयप्रदानोत्सवे, उत्सुकं . अमूदिति ॥ १३॥ ___अष्टभित्तैर्वन्दनोत्सवं वर्णयन्ति
वर्षे नभःपावकभूपसंख्ये _मासे सहस्ये च तिथौ चतुर्थ्याम् । सितेतरायां सुखवृद्धिका
लग्ने मनोज्ञेऽहनि दोषमुक्ते ॥ १४ ॥ ___वर्षे, किं०, नभो बिन्दुःशून्यं, पावका अग्नयः त्रयः, भूपाः षोडश, एते अङ्का वामगत्या मीलिता यत्र तत्र १६३० प्रमाणे संवत्सरे, पुनासे सहस्ये पौषे मासे, च पुनः, चतुर्थ्या तिथौ, किं०, सितेतरायां श्यामायां, पुनः किं०, सुखदृद्धिका, पुनः, लग्ने राश्युदये मनोज्ञे सति, पुनरहनि दिने, दोषमुक्त निर्दोषे सति ॥ १४ ॥ . खजन्मभूजन्मफलाभिलाषा
. दुल्लेखिहल्लेखिनि लेखवन्ये । : नैपुण्यपुण्यात्मनि साधुसाध्वी
सार्थे समेते परितः प्रभूते ॥ १५॥ .
Page #327
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । पुनः, परितः सर्वतः, प्रभूते बहो, साधुसाध्वीसार्थे समते मिलिते सति, किं०, स्वजन्म एव भूजन्मा पादपस्तस्य फलाभिलाषात् फलमाप्तिमनोरथात् , उल्लेखी उत्कृष्टो यो हल्लेख
औत्सुक्यं यस्य तस्मिन् , पुनः किं०, लेखानां देवानां वन्ये वन्दनीये, पुनः किं०, नैपुण्यपुण्यात्मनि प्रावीण्यपवित्रात्मके, इति साधुसाध्वीसार्थविशेषणानि ॥ १५ ॥ निःशेषनेपथ्यसनाथकायैः
प्रोत्फुल्लपाथोरुहपेशलास्यैः । भूयिष्ठदेशागतभव्यलोक
सुरैः पुरेऽत्र त्रिदिवायमाने ॥ १६ ॥ पुनः अस्मिन् पुरे पत्तने त्रिदिवायमाने सति, कैरित्याहभूयिष्ठा बहवो ये देशा मरुस्थलीमालवमेदपाटसौराष्ट्रकच्छकुङ्कणादयस्तेभ्य आगता ये भव्यलोकास्त एव सुरा देवास्तैः, स्वर्गसमाने सति, तैः किं०, निःशेषनेपथ्यैः स्वस्वसमस्तवषैः, सनाथः संयुक्तः कायो येषां तैः, पुनः कि०, प्रोत्फुल्लपायोरुहाणीव पेशलानि गुरुमुखवीक्षणात् कमनीयानि आस्यानि येषां तैरिति ॥ १६ ॥ सकर्णकर्णोत्सवदानद:
गीतैः सुगान्धर्वगणप्रणीतैः। मत्ताप्रमत्तखरकोकिलस्य ___ पुरे श्रियां गच्छति काननस्य ॥ १७ ॥ पुनः, पत्तने पुरे, गान्धर्वगणप्रणीतैर्गायनवजोक्तगीतेः, पुनः कि०, सकर्णकर्णोत्सवदक्षैः चतुरनरश्रोत्रोत्सवकारिभिः, काननस्य वनस्य, श्रियं गच्छति बनशोभा यति, किंलक्ष
Page #328
--------------------------------------------------------------------------
________________
अष्टमः सर्गः।
३०३ णस्य बनस्येत्याह-मत्ता आम्रमञ्जरीरसाखादादुन्मत्ताः पुनरममत्तखराः पुनः काकलीरूपपश्चमोद्गारकारिध्वनयः, कोकिलाः पिकाः यत्र तस्य वनस्योपमा गच्छति सतीति ॥१७॥ द्राग रोदसीरन्ध्रमधिश्रयहि
र्नानाविधाऽऽतोद्यविनोदिनादैः । पर्जन्यगर्जारववर्यदेव
मार्गोपमां गच्छति पत्तनेऽस्मिन् ॥ १८ ॥ पुनः, अस्मिन् पुरे पत्तने, पर्जन्यगर्जारववर्यदेवमार्गोपमा मेघध्वनिमनोज्ञगगनतुला, गच्छति सति; करित्याह-नानाविधातोद्यविनोदिनादैःविचित्रवादित्राडादकृच्छब्दैः, किं कुर्वद्भिः, रोदसीरन्ध्र अधिश्रयद्भिर्नभोभूम्यन्तरालपूरकैरिति ॥ १८ ॥
श्राद्धाम्बुवाहेषु सुवस्त्रवित्त__ स्वर्णादिदानैरतिमानमानैः। वर्षत्सु नीरैरिव चार्थिसार्थ
सारङ्गमोदाय यथेष्टमिष्टैः ॥ १९ ॥ च पुनः, अर्थिसार्थसारङ्गमोदाय याचकचातकममोदाय श्राद्धाम्बुवाहेषु श्रावकजलधरेषु, नीरैः जलैरिव सुवस्त्रवित्तस्व
दिदानैः शोभनवसनधनकाश्चनादिप्रदानैः, किं०, अतिमानमानैः अप्रमाणबहुमानैः, पुनः, इष्टैर्वल्लभैः, यथेष्टं यथारुचि तथा वर्षत्सु सत्स्विति ॥ १९॥
संसूत्रितोल्लासविलासलास्य.. कलाखकुण्ठे कलकण्ठकण्ठे । . रामाजने मञ्जुलमङ्गलश्री
Page #329
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
स्फीतानि गीतानि च गायतीह ॥ २० ॥ पुनः, इहास्मिन् पुरे, रामाजने नारीगणे, किं०, संमूत्रितोलाविलासा निर्मितोत्साहोत्कर्षा या लास्यकला नृत्यकलास्तासु, अकुण्ठे निपुणे, पुनः, कलकण्ठकण्ठे कोकिलध्वनौ, मञ्जुलानि यानि मङ्गलानि धवलध्वनिरूपाणि तेषां श्रिया स्फीतानि वृद्धिमन्ति, गीतानि गायति सति ।। २० ।। संघानघोत्साहलतावितान
द्रूणामनूचानपुरन्दराणाम् ।
सानन्दनन्द्युत्सव गुच्छगच्छानुज्ञा मुनीन्द्रद्विरदैरदायि ॥ २१ ॥
इति महोत्सवेषु सत्सु मुनीन्द्रद्विरदैर्मुनिमतङ्गजैः, गुरुभिः अनूचानपुरन्दराणां आचार्येन्द्राणां किं०, सङ्घस्य श्रमणसइस्य योऽनघोत्साहः स एव लतावितानस्तस्य द्रणां तरूणां, तदाधारत्वात् : सानन्दा ये नन्द्युत्सवा नन्दिरूपोत्सवास्तद्रूपा ये गुच्छाः पुष्पस्तबकास्तत्स्थानीया या गच्छानुज्ञा गणसारणावारणाचोदनाप्रतिचांदनाऽऽदेशोपदेशपदप्रदानरूपा, गच्छेश्वर्य साम्राज्यानुमतिरदायि दत्तेत्यर्थः । अष्टभिरन्त्यक्रियं कुलकं व्याख्यातम् ।। २१ ।।
ददुर्गणस्यास्य यदाऽनघस्याऽनुज्ञामनूचानवराय पूज्याः । तदा प्ररोहावसतां सतां च चेतस्यभूताममुदां मुदां च ॥ २२ ॥
अनघस्य अस्य गणस्य यदा अनूचानवराय पूज्या गुरुमिश्राः, अनुज्ञां ददुर्दत्तवन्तः तदा किं जातमित्युत्तरार्द्धेनाह
३०४
Page #330
--------------------------------------------------------------------------
________________
अष्टमः सर्गः।
३०५ सदा तत्र क्षणे, असतां सतां च चेतसि क्रमेण अमुदा मुदा च परोही अभूतां बभूवतुः, इति ॥ २२ ॥
आचार्यधुर्यो महधाम गच्छा
नुज्ञामुपेत्याऽतिबभौ प्रतापी । स्तोमैर्गवां क्लुप्तजगत्प्रकाशो
भर्चेव भासां नभसोऽन्तरालम् ॥ २३ ॥ भाचार्यधुर्यः गच्छानुज्ञां किं०, महधाम महानां तेजसा पाम शालां, उपेत्य प्राप्य, अतिवभौ भृशमशुभव , किं०, प्रतापी प्रतापवान् , यथा भासां भर्ता भानुः, नभसोऽन्तरालं गगनमध्यं, उपेत्य शोभते, किं०, क्लुप्तो जगति प्रकाशो येन; कैर्गवां स्तोमैः गुरुपक्षे गवां वाचां रविपक्षे गवां किरणानां स्तोमैर्वृन्दैः, इति ॥ २३ ॥
उक्त्वेत्यमाभ्यां तरणेरिवाहः
श्रिया च कान्त्या च तवाऽस्तु संगः। लक्ष्मीमनुज्ञां च विनेयरले
द्वे अप्यमुष्मिन्निदधे गुरुः खे ॥ २४ ॥ अमुग्मिन् विनेयरत्नेऽस्मिन् शिष्योचमे, गुरुर्लक्ष्मी सूरिपदवीरूपां, अनुज्ञां च सर्वकार्यानुमतिपदानरूपां, दे अपि निदधेऽस्थापयत्, किं०, कृत्वा इति उक्त्वा कथयित्वा इति, किं०, तदाह-आभ्यां गच्छाधिपत्यलक्ष्मीगच्छानुज्ञाभ्यां, अमा सह, तव संगोऽस्तु भूयादिति, काभ्यामिव कस्येत्याह-तरणेः सूर्यस्य, इव यथा, अहाश्रिया वासरलक्ष्या, कान्त्या रुचा च, इति भावः ॥ २४ ॥ .
वर्णाः किमेते.लिखिता ललाट
Page #331
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
पट्टेऽस्य वासान् गुरुभिः सृजद्भिः । आजन्म जिष्णो रमयेव तेऽस्तु गच्छश्रिया सार्द्धमविप्रलम्भः ॥ २५ ॥
अस्याचार्यस्य, वासान् सृजद्भिः वासक्षेपं कुर्वद्भिर्गुरुभिः, किं०, एते वर्णा ललाटपट्टे लिखिता इति एते क इत्याह-- हे शिष्योत्तम ! ते तब, आजन्म आभवं, गच्छश्रिया सार्द्ध अविमलग्भोऽस्तु वियोगो मा भूयादिति, कयेव कस्येत्याह- जिष्णोर्विष्णोः, लक्ष्म्येवेति दृष्टान्तः ॥ २५ ॥ गुरोरनुज्ञामधिगम्य सम्यक्
स्थितं तमागात् सकला गणर्द्धिः ।
२०६
वेगादपाचीपवनप्रपचं
वसन्तलीलेव वनस्य मध्यम् ॥ २६ ॥
गुरोरनुश अधिगम्य प्राप्य, सम्यग् स्थितं तं सूरिं सकला गणर्द्धिर्गच्छसंपत्तिः, आगात् प्राप्तेति यथा वसन्तलीला अपाचीपवनमपञ्च दक्षिणानिलविस्तारं, अधिगम्य वनस्य मध्यं काननान्तरालं, वेगादागच्छतीति दृष्टान्तः ॥ २६॥
सुधर्मजम्बूप्रभवादिसूरि
सिंहैर्धृता याऽस्य गणस्य धुर्वी ।
बहन्नयं तां सुमनः सुखाय स्वर्गाधिपत्यं मघवेव जज्ञे ॥ २७ ॥
याऽस्य गणस्य धुर्वी धूः, सुधर्मजम्बुप्रभवादिरिसिंहै:पूर्व घृतेति तां गणधुरं अयं वहन् मघवेव इन्द्र इव, स्वर्गाविपत्यं वहन् सुमनः सुखाय सुमनसां पण्डितानां एकत्र,
Page #332
--------------------------------------------------------------------------
________________
अष्टमः सर्गः
३०७ अन्यत्र व सुमनसा सुराणां, सुखाय जज्ञे जात इति दृष्टान्वः॥ २७॥ न्यक्षर्षिभर्ना गुरुणाऽमुना च
शिष्येण चानेन नवोदयेन । द्वाभ्यां गणोऽसौ शुशुभे वसन्त ___ इवोल्लसंश्चैत्रिकमाधवाभ्याम् ॥ २८ ॥
न्यक्षर्षिभर्ना समस्तसाधुखामिना, अमुना गुरुणा च पुनरनेन नवोदयेन शिष्येणेति अत्र द्वौ चकारौ योस्तुल्यत्वसूचको द्वाभ्यामेताभ्यां असौ गणः शुशुभे, यथा वसन्त - पैत्रिकमाधवाभ्यां चैत्रवैशासाभ्यामिव, इति दृष्टान्तः ॥२८॥
अस्मिन्ननूचानपतौ गणस्या
नुज्ञामुपेते ववृधे विशेषात् । श्रीदर्शनज्ञानचरित्रमूलं
वेलेव चन्द्रेऽभ्युदयं पयोधेः ॥ २९ ॥ अस्मिन् आचार्यपतौ मणानुन उपेते मासे, सति दर्शनहानचरित्रमूलं दर्शन सम्यक्त्वं ज्ञानं मतिश्रुताभ्यासरूपं चरित्रं संयमस्तेषां मूलं बीजं श्रीस्तपगच्छसंपत्, वधे वृद्धिमती जाता, पयोधर्वेलेव चन्द्रेऽभ्युदयं मासे सति यथा वृद्धिपती तथेति दृष्टान्तः ॥२९॥ श्रीमत्यनूचान इते गणस्या
नुज्ञां मनोज्ञामुदयैकमूलम् । गच्छोऽयमुल्लासभृदाशु चासीत्
पूर्वाद्रिमंशाविव जीवलोकः ॥ ३०॥
Page #333
--------------------------------------------------------------------------
________________
३०८
विजयमशस्त्वाम् । . अस्मिनित्यध्याहार्य अस्मिन् श्रीमति अनूचाने गणस्याऽनुज्ञां कि०, मनोज्ञां पुनः, उदयैकमूलं गच्छाभ्युदयहेतुं, इते प्राप्ते, संति अयं गच्छः उल्लासभृत् आसीत् । यथा पूर्वाद्रिमुदयाचलं, अंशौ सूर्ये, पाले सति जीवलोको मर्त्यलोक इवेति ॥ ३०॥
अनुज्ञया साकमथात्र गच्छ
चिन्तात्मको भार इयाय शिष्ये । ज्योत्स्नागमः शीतमरीचिबिम्बे
. त्रियामयेवानुगरागमय्या ॥ ३१ ॥ अधानाऽस्मिन् शिष्ये, अनुशया साकं गच्छचिन्तात्मको भार इयाय आगतवानित्यन्वयः। अनुज्ञया किं०, अनुगानां सेवकानां यो रागस्तन्मय्या यथा शीतमरीचिबिम्बे चन्द्रमण्डले त्रियामया यामिन्या, किं०, अनुगच्छतीत्यनुगः सार्वदिको यो रागो रक्तिमा स्नेहः तन्मय्या तत्प्रचुरपा, साकं ज्योत्स्नागमः कौमुदीसंगमः, इवेवि दृष्टान्तः ॥ ३१ ॥ कृतौ महावीरपरम्परैक
महारथस्योहहनाय धात्रा। गुरुमहौजाश्च विनेय एष
धुरन्धरौ द्वौ वृषभाविवेमौ ॥ ३२ ॥ घात्रा वेषसा, द्वौ धुरन्धरौ गच्चपूर्वहौ, इमौ वृषभाविव कृतौ इमौ कावित्याह-एको गुरुच पुनरेष महौजा महाबलवान् , विनय इति कस्मै उदहनाय कस्य महावीरपरम्परामहारथस्य बर्द्धमानजिनशासनशकटस्येति ॥ ३२ ॥
गुरुं च शिष्यं च निरीक्ष्य गच्छ
Page #334
--------------------------------------------------------------------------
________________
अष्टमः सर्गः : 1
चिन्तोद्यतौ सङ्घजनो जहर्ष ॥ स्वस्वेषु कार्येषु शुभेषु वामावामाविवात्मीयभुजौ प्रसक्तौ ॥ ३३ ॥
गुरुं च शिष्यं च द्वाविमौ गच्छाचिन्तोद्यतौ निरीक्ष्य सजनश्चतुर्विधोऽपि सङ्घलोकः, जहर्ष हृष्टः, यथा स्वस्वेषु निजनिजेषु, शुभेषु वर्येषु कार्येषु वामाऽवामौ सव्यापसव्यौ, आत्मीयभुजौ निजवाहू प्रसक्तौ परौ, दृष्ट्रा लोको हर्षवान् भवति तथेति दृष्टान्तः ॥ ३३ ॥ खगच्छचिन्तोद्भवभूरिभार
क्षमं निरीक्ष्यात्मविनेयमेनम् ।
हृदीति दध्यावथ सूरिसंसत्सिंहोऽन्यदा हीरगुरुर्गरिष्ठः ॥ ३४ ॥
३०९
एनं आत्मविनेयं, स्वगच्छचिन्तोद्भवभूरिभारक्षमं गच्छचिन्तानिर्वाहसमर्थ, निरीक्ष्य अन्यदा सुरिसंसत्सिंहः आचासभाकेसरी, हीरगुरुः श्रीहीरसूरिः, हृदि मनसि इति वक्ष्यमानं दध्यौ ध्यातवान् ॥ ३४ ॥
नेत्रे श्रतस्याब्जविलोचनानां स्यादञ्जनस्येव निजाङ्कमुक्तेः 1
लक्ष्मीरनूचानपतेरमुष्य
देशान् बहून् भूषयतो विहारैः ॥ ३५ ॥
यथा अञ्जनस्य कज्जलस्य, निजाङ्कमुक्तेः स्वास्पदमोचनात् कज्जलकुम्पकात् पृथग् भवतः, अब्जविलोचनानां स्त्रीणां, नेत्रे श्रितस्य लक्ष्मीः स्यात् तथाऽमुष्याऽनूचानपतेरस्याचार्यधुर्यस्य,
Page #335
--------------------------------------------------------------------------
________________
३१०
बिजयमशस्त्याम् |
निजाइयुक्तेः अस्मदुत्सङ्गास्पदमोचनात् बहून् देशान् बिहारैः भूषयतः सतो लक्ष्मीः स्यादिति ॥ ३५ ॥ ध्यात्वेत्यथो व्याकरणादिविद्याविद्याधरी भोगनभोगमानाम् ।
आज्ञामनुज्ञातगणेन्दिराणा
मेषां विहाराय ददुर्दमन्द्राः ॥ ३६ ॥
अथेति ध्यात्वा इति मनसि निश्चित्य, एषां, आचार्याणां किं०, अनुज्ञाता गणेन्दिरा गच्छलक्ष्मीः येषां तेषां विहाराय आज्ञां विहारादेशं, दमीन्द्रा गुरवः, ददुर्दत्तवन्त इति । एषां किं०, व्याकरणादिर्या विद्या आदिशब्दात् साहित्यतर्कज्योतिश्छन्दोलङ्कृतिमभृतिग्रहः सैव विद्याधरी खेचरी, तस्या भोगे नभोगमानां विद्याधराणामिति ॥ ३६ ॥
आदाय दामेव गुरोर्निदेशं मूर्ध्नाथ मूर्द्धन्य ऋषीश्वराणाम् ।
क्रमेण सोऽपापमवाप चम्पा -
नेरं पुरं दुर्गमदुर्गमूर्त्तिः ॥ ३७ ॥ ऋषीश्वराणां मूर्द्धन्यः श्रीआचार्यः, गुरोः श्रीहीरविजयसूरेः, निदेशं विहारादेशं, दामेव मालामिव, मूर्ध्ना आदाय लात्वा, क्रमेण गुरुपार्श्वाच्चलन् चम्पानेरं पुरं दुर्ग, अवाप प्राप्तः किं० अपापं निष्पापमिति क्रियाविशेषणं नगरविशेषणं वा स किं०, अदुर्गाऽचण्डा मूर्त्तिर्यस्य सः सौम्यमूर्त्तित्वादिति ॥ ३७ ॥
श्रेष्ठीभ्यसभ्यो जयवन्तनामा तत्रोत्सवैर्दत्तजगत्प्रमोदैः ।
Page #336
--------------------------------------------------------------------------
________________
अष्टमः सर्गः। ३११ धनान्यपोऽम्भोद इवैष वर्ष
नकारयत् प्रौढतमा प्रतिष्ठाम् ॥ ३८ ॥ तत्र चम्पानेरदुर्गे जयवन्तनामा श्रेष्ठी कि०, इभ्येषु ध. निषु, सभ्यो मुख्य इति, दत्तजगत्प्रमोदैः जगत्कृताहादैः, उत्सवैः प्रौढतमा प्रतिष्ठां अकारयत् आचार्यधुर्यद्वारेतिशेषः किं०, कुर्वन् वर्षन् कानि धनानि वित्तानि, अपः पानीयानि, अम्भोदो मेघ इवेति दृष्टान्तः ॥ ३८ ॥ __ आचार्यवर्याः पुरि तत्र शुभ्रे
त्रयोदशाहेऽह्नि च मासि राधे । . अब्देऽथ दृक्पावकभूपसंख्ये
कृला प्रतिष्ठां विदधुर्विहारम् ॥ ३९ ॥ तत्र पुरि नगरे, मासि राधे वैशाखे मासे, पुनः, शुभ्रे त्रयोदशीतिथौ पुनः अन्दे कि०, दृक्पावकभूपानां ययङ्कषोडशाङ्कानां क्रमेण वामगतिविन्यस्तानां १६३२ इति संख्या यत्र तत्रान्दे वर्षे प्रतिष्ठां कृत्वा विहारं विदधुश्चक्रिरे ते सूरय इति शेषः ॥ ३९॥ क्ष्मां पावयन्तः पदपद्मपांसु.
पूरैरनूचानशिरोवतंसाः। क्रमादलंचक्रुरलङ्कृताब्धि
श्रीपूरितं सूरतिबन्दिरं ते ॥४॥ क्रमात् अनूचानशिरोवतंसा आचार्यशीर्षशेखराः, पदपनपांसुपूरैः चरणकमलरेणुगणैः, क्ष्मां भूमि, पावयन्तः पवित्रीकुपन्तः चलन्त इति यावत् , अलङ्कृतो विभूषितोऽन्धिः समुद्रो
Page #337
--------------------------------------------------------------------------
________________
३१२
विजयप्रशस्त्याम् ।
येन तत् तदुपकण्ठवत्तित्वादितिः पुनः, श्रीपूरितं सुरतिबन्दिरं तेलञ्चकुः प्राप्ता इति ॥ ४० ॥ पौरैरथास्मिन्नगरे प्रवेशो
त्सवा अतुच्छा विहिता यथेच्छम् । ज्येष्ठस्थितिं ते गुरवोऽथ तस्थु
स्तत्रैव धर्मा इव मूर्तिमन्तः ॥ ४१ ॥ अथाऽस्पिनगरे पौरैर्नगरमहाजनैः, प्रवेशोत्सवाः यथेच्छं यथारुचि, तथा विहिता इति तत्रैव नगरे सूरतिबन्दिरे ते गुरवोऽथ ज्येष्ठस्थितिं चतुर्मासीं तस्थुः इवोत्प्रेक्ष्यते मूर्तिमन्तो धर्मा इव शरीरिणः साधुधर्मा इति ॥ ४१ ॥
अथ तत्र किं जातमित्याह
श्रीभूषणो नाम दिगम्बरेशस्तेषां गुरूणां कमलोत्सवानाम् । तत्राथ शोभामसहिष्णुरुष्णभासामिवोलूकयुवा बभूव ॥ ४२ ॥
अथ चतुर्मासकानन्तरं तत्रैव तस्थुषां तेषां गुरूणां उभासां सूर्याणामिव कमलोत्सवानां गुरुपक्षे कमलाया लक्ष्म्याः उत्सवो येभ्यस्तेषां सूर्यपक्षे कमलानां कजानां उत्सव इति । शोभां श्रियं, असहिष्णुः अक्षमिता, क इत्याह- श्रीभूषणो नाम्ना दिगम्बरेशो दिक्पटाचार्यः, इति क इव बभूवेति प्राह--उलूकयुवा घूक इवेति ॥ ४२ ॥ तेषां प्रभूणां प्रतिभाप्रकर्षप्रद्योतनोद्योतिमुखाम्बुजानाम् ।
Page #338
--------------------------------------------------------------------------
________________
अष्टमः सर्गः ।
संघाशिषा मञ्जुलमङ्गलालीमूलेन सज्जीकृतसाहसानाम् ॥ ४३ ॥
श्रीमिश्रचिन्तामणिमुख्यभट्ट
सभ्येषु पौरेषु च सत्सु सत्सु । वादे सहानेन दिगम्बरेण
३१३
जयोऽभवल्लोकमुदब्धिचन्द्रः ॥ ४४ ॥
9
तेषां प्रभ्रूणां गुरूणां, किं०, प्रतिभाप्रकर्षप्रद्योतनोद्योतिमुखाम्बुजानां प्रज्ञोत्कर्षादित्योद्योतवद्वदनकमलानां पुनः किं०, सज्जीकृतं साहसं सवं यैस्तेषां कया, संघाशिषा चतुर्विधसङ्घसंबन्धिमङ्गलशंसनेन, किं०, मञ्जुलमङ्गलालीमूलेन कमनीकल्याणश्रेणिकारणेनेति ॥ ४३ ॥ पुनः केषु पौरेषु नागरेषु, किं०, सत्सु पण्डितेषु साधुषु वा, किं०, श्रीमिश्रचिन्तामणिनम्ना मुख्यो भट्टः सभ्यो येषु तेषु श्री मिश्रचिन्तामणिमुख्यभट्ट सभ्येषु सत्सु भवत्सु, अनेन दिगम्बरेण सह, वादे जायमाने सति, जयोऽभवद् बभूव किं०, लोकमुदब्धौ जनप्रमोदपयोषौ चन्द्रस्तदृद्धिकारित्वादिति युग्मव्याख्येयम् ॥ ४४ ॥
"
दृष्ट्टुनमेनं सरसीजपाणि पद्मोत्सवं द्रागुदयं प्रपन्नम् । श्रीभूषणो कैरविणीसमूह
इवाभवद् मुद्रितवत्रकोशः ॥ ४५ ॥
एनं इनं स्वामिनं सूर्ये वा, उदयं प्रपन्नं दृष्ट्रा, किं०, सरसीजवत् पाणी यस्य तं, पक्षे सरसीजं पाणौ यस्य तं पुनः
४१
Page #339
--------------------------------------------------------------------------
________________
३१४
विजयप्रशस्त्वाम् ।
कि०, पनाया रमायाः, पक्षे पद्यानां कमलानां उत्सवो यस्मात् तं, श्रीभूषणो दिक्पटः, कैरविणीसमूह इव मुद्रितो वक्त्रकोशो मुखकुड्मलं यस्य सः, अभवद् जातवानिति ॥ ४५॥
शास्त्रज्ञविज्ञद्विजभूरिभट्टै
यत्तद् वदन् पर्षदि भूषितायाम्। श्रीभूषणः दिग्वसनस्तदानी
हास्यास्पदं बाल इवाजनिष्ट ॥ ४६ ॥ "शासनसामर्थ्येन तु सन्त्राणवलेन वाऽनवद्येन ।
युक्तं यत्तच्छास्त्रं तच्चैतत् सर्वविद्वचनम्" ॥१॥ इत्युक्तेः शास्त्राणि सर्वज्ञवचनानि जानन्तीति शास्त्रज्ञाः जैनपण्डिताः, पुनर्विज्ञा द्विजाः पञ्चकाव्यादिदक्षविभाः, पुनः, भूरिभट्टास्तार्किकास्तैर्भूषितायां पर्षदि यत्तद् अपसिद्धान्तरूपं, वदन् तदानीं श्रीभूषणो दिग्वसनोऽबालोऽपि बाल इव मूर्खइच, हास्यास्पदं अजनिष्ट जातः, सर्वेषां सभ्यानामिति शेषः ॥ ४६॥
अस्मिन्ननूचानवितानशके
जयाङ्किताङ्के सुमनोमनोज्ञे। श्रीभूषणस्य स्मयतुङ्गशैलः
समन्ततः स्राक् कणशो बभूव ॥ ४७ ॥ अस्मिन् अनूचानवितानशके आचार्यद्वन्देन्द्रे, किं०, जयाहिताङ्के गुरुपक्षे जयेन वादिविजयरूपेण, पक्षे जयेन जयदत्तेनेन्द्रपुत्रेण अङ्कितोऽलड्कृतः अङ्क उत्सङ्गो यस्य तस्मिन् जयवति जाते सति, पुनः किं०, सुमनोभिः पण्डितैः, पक्षे देवमनोझे मनोहरे, श्रीभूषणस्य प्रतिवादिनः, मयतुशैल:
Page #340
--------------------------------------------------------------------------
________________
अष्टमः सर्गः1 गर्वोत्तुगिरिः, साक् शीघ्र, कणशः शतखण्डमः, बभूवेतिभावः॥४७॥ दुर्वादिदर्पज्वरशान्तिवैद्यैः
कुर्वन्ननूचानवरैर्विवादम्। श्रीभूषणाशावसनोऽजनिष्टा
नाभिधश्चात्ममतार्थनामा ॥ ४८ ॥ अनूचानवरैः, कि०, दुर्वादिदर्प एव ज्वरो रोगस्तस्य शान्तौ शमने वैयैः, विवादं कुर्वन् श्रीभूषणाशावसनः श्रीभूषणनामा आशावसनो दिगम्बरः, किंलक्षणोऽभूदित्याह--अनर्या निरर्यिका अभिधा संज्ञा यस्य सः, श्रीभूषणपदेऽश्रीभूषणोऽभूत, पुनः, आत्ममतार्य खमतार्थतुल्यं नाम यस्य सः दिगम्बरमतभृत्त्वेन दिगम्बरो ननोऽभूदिति भावार्थः ।। ४८ ॥
चतुर्दिगुच्चैश्चतुरस्रिकायां
वने जयश्रीः सतताऽवियोगा। श्रीभूषणाहंकृतिदारुदाह
दीप्तप्रतापानलसाक्षिकं तैः॥ १९ ॥ तैः सूरिभिः, तत्र जयश्रीः वत्रे इत्यन्वयः। किं०, सततं अवियोगा सदा संयोगवतीत्यर्थः, कस्यां, चतुर्दिश एवोच्चैरत्युच्चा या चतुरस्रिका मङ्गलकलसाङ्किता लोके 'चउरी' इति प्रसिद्धा तस्यां चतुर्दिगुच्चैश्चतुरसिकायां, पुनः कथमित्याह-श्रीभूषणस्य अहङ्कतिरहङ्कारः स एव दारुदाहः काष्ठज्वालनं तेन दीप्तो यः प्रतापानलः तेजःपावकस्तस्य साक्षिकम् , यतो लोकेऽमिं विना कन्यावरणं न स्यादिति ॥ ४९ ॥
खोकभूलोकभुजङ्गलोक
Page #341
--------------------------------------------------------------------------
________________
३१६
विजयप्रशस्त्याम् |
विलासिनीगीतविनीतगीतः । अयं जयश्रीकरपीडनाह्वो
महो महांस्तत्र पुरे प्रजातः ॥ ५० ॥
स्वर्लोको अमर्त्यलोकः भूलोको मर्त्यलोकः भुजङ्गलोकः पाताललोकः तेषां विलासिनीभिः खीभिः गीतानि गानगोचरीकृतानि विनीतानि विनयगर्भितानि गीतानि गुणावदातरूपाणि यस्य सः जयश्रीकरपीडनाहः जयलक्ष्मीकरग्रहाख्यः, -अयं उक्तलक्षणः, महः किं०, महान् तत्र पुरे, प्रजातोऽ भूत् ।। ५० ।।
विचित्रवादित्र पवित्रपात्रविस्तारिशब्दैर्बधिरीकृताध्वा ।
भूयस्तमानन्दनिदानदान
प्रह्वाखिल श्रावकदत्तमानः ॥ ५१ ॥
सद्यो नवोढां जयकन्यकां तां
कान्तामनूचानवरो वरास्याम् |
कुलाङ्गनागीतमनोज्ञगीतो
लावा निजोपाश्रयमाजगाम ॥ ५२ ॥
विचित्राणि नानाप्रकाराणि यानि वादित्राणि भेरीमृदवीणावेणुप्रमुखाणि पुनः पवित्राणि च यानि पात्राणि राजनर्त्तकरूपाणि तेषां शब्दैः बधिरीकृतः अध्वा मार्गो यस्य सः, - पुनः किं०, भूयस्तमो अतिघनो य आनन्दो मोदः तन्निदानं कारणं यद्दानं तत्र प्रहैः आसक्तः अखिलैः सर्वैः श्रावकैः दतं मानं पूजालक्षणं यस्य सः ॥ ५१ ॥ एवंविधः कः किं च कृतवा
Page #342
--------------------------------------------------------------------------
________________
३१७
अष्टमः सर्गः । नित्याह-सोनूचानवरः श्रीमदाचार्यवर्यः, तां जयकन्यकां, किं०, नवोढां नवपरिणीतां, पुनः किं०, कान्तां अभीष्टां सर्वेषामिति शेषः । पुनः किं०, वरास्यां रम्यमुखीं, लात्वा किंलक्षणः सन्, कुलाङ्गनागीतमनांझगीतः सन् कुलस्त्रीगीतध्वनिपूर्वकमिति, निजोपाश्रयं स्वं स्थानं, आजगाम आगतवानिति युग्मव्याख्या ।। ५२ ॥
देशात् प्रभुः कुङ्कणदेशधात्रीलताविलासैककलावसन्तः ।
दुर्वादिवृन्दद्रुममत्तदन्ता
बलो बलाढ्यो ववलेऽथ तस्मात् ॥ ५३ ॥
I
अथ तस्माद् देशात्, स प्रभुर्ववले पश्चाद् वलितो गुर्जरत्रां प्रतीत्यन्वयः । किं०, कुङ्कणदेशस्य या धात्री पृथ्वी सैव लता वल्ली तस्या विलासैककलायां वसन्तः तच्छोभासंपाद कत्वात् पुनः किं०, दुर्वादिवृन्दान्येव दुमास्तरवस्तेषु मतदन्ताबलः प्रभिन्नगजस्तद्भञ्जकत्वात्, अत एव बलाढ्यः श्रुतबलादिपरिपूर्ण इति ॥ ५३ ॥
शस्तैः समस्तां सुखयन् धरित्रीं गोभिः पयोवाह इव स्वकीयैः ।
श्रीपत्तनं पत्तननाम तुङ्गं
दङ्गं क्रमात् प्रावृषि सोऽधिष्ठौ ॥ ५४ ॥
क्रमात् स गुरुः, ततो देशाद् विहरन कालान्तरेण स्वकीयगौभिर्वाग्भिः, पयोवाह इव गोभिर्जलैः, धरित्रीं सुखयन्, गोभिः किं०, शस्तैः प्रशस्तैः, गोशब्दस्य पुंस्त्रीलिङ्गत्वादिदं पुंविशेषणम्,
Page #343
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । पत्तनं नाम तुझं द्रों, किं०, श्रियः पत्तनमिव श्रीनगरमिति, प्राषि वर्षाचतुमासके, अधितष्ठौ स्थित इति ॥ ५४ ॥
इतश्च रङ्गत्तरतुङ्गगाङ्ग
तरङ्गतुल्याऽतुलकीर्तिकीर्त्या। शुभ्रीकृताशेषककुष्प्रपञ्चः
पूर्वर्षिपन्थाम्बुधिपूर्णिमेन्दुः ॥ ५५ ॥ सौभाग्यभूीरगुरुगरीयः
श्रीभ्राजि गन्धारपुरे वरेण्ये । तस्थौ जगल्लोकमनःप्रदत्त
हर्षासु वर्षासु सुखाब्धिमीनः ॥ ५६ ॥ इतश्चेति अधिकारान्तरे, रगत्तराश्च तुझाच ते गाङ्गतरकागङ्गॉर्मयस्तैस्तुल्यस्तत्तुल्यः, पुनरतुलोऽनुपमः कीर्तिर्विस्तारो यस्याः “कीर्तिर्यशसि विस्तारे” इति श्रीहेमसरिवचनात् , तया रगत्तरतुङ्गगाङ्गतरङ्गतुल्यातुलकीर्तिकीा ; शुभ्रीकृतो धवलितः अशेषककुषपञ्चो निःशेषदिगाभोगो येन सः, पुनः, पूर्वषिपन्थाम्बुधिपूर्णिमेन्दुः प्राचीनमुनिमागणिवपूर्णचन्द्र इति, पथवत् पन्थशब्दोऽप्यस्तीति ध्येयम् ॥५५॥ इदृक् कः किं च विहितवानित्याह-पुनः सौभाग्यभूः सुभगत्वगेहं, हीरगुरुः श्रीहीरविजयसूरिः, गरीयाश्रीभ्राजि महीयोलक्ष्मीशालिनि, पुनः, वरेण्ये श्रेष्ठ, गन्धारपुरे वन्दिरे, तस्थौ, कासु, वर्षासु, किंलक्षणासु, जगल्लोकमनसां प्रदत्तो हर्षो याभिस्तासु, गुरुः किं०, सुखाब्धौ सौख्यसमुद्रे मीनस्तत्र मग्नत्वादिति युग्मव्याख्या ॥ ५६ ॥ साम्पतं काव्यचतुष्टयेन सर्गमुपसंहरतिसति सुरतरौ धाम्नीवाऽऽतिर्न दौःस्थ्यसमुहवा
Page #344
--------------------------------------------------------------------------
________________
____ अष्टमः सर्गः।
३१९ वसति सति भीः सौपर्णेये न पन्नगरिव । . अभवदसुखं सत्यासन्नं न हीरगुरौ गुरौ
जलधिसविधे श्रीगन्धारे पुरे परमोदये ॥ ५७ ॥ इव यथा, धाम्नि गेहे, सुरतरौ कल्पपादपे सति, दौःस्थ्यसमुद्भवा दारिद्रयजाता, अर्तिः पीडा, न स्यात् । तथा सौपर्णेये गरुडे, वसति सति, इव यथा, पन्नगभूः भीः सर्पोद्भवा भीतिः, न स्यात् । तथा जलधेः समीपं यत्र तत्र जलधिसविधे समुद्रान्तिकवर्तित्वात् श्रीगन्धारे पुरे, पुनः किं०, परः प्रकृष्टः मायालक्ष्म्या उदयो वाहनादीनां क्षेमेणाऽऽगमनाद् यत्र, अथवा परमः प्रकृष्ट उदयो यत्र तत्र, हीरगुरौ किं०, गुरौ महति सति चतुर्मासीमासीने सति असुखं आसन्नं नाभवत् सातमेव जातमिति ॥ ५७॥
अथानूचानान् वर्णयतितपति तपने याऽम्भोजानां सरस्यतलार्णसि
प्रणयिनि मृगीनेत्राणां या निशान्तिकवर्तिनि । अजनि जनितामन्दानन्दा सदा रतिरङ्गिनां स्थितवति सुखं साऽनूचाने पुरोत्तमपन्तने ॥ ५८ ॥ ___ तपने भानौ, तपति सति, सरसि तटाके, किं०, अतलानसि अगाधजले, या अम्भोजानां भवति, पुनर्मगीनेत्राणां स्त्रीणां, या निशान्तिकवर्तिनि निशायां अन्तिकवतिनि, अथचाऽनिशं नित्यं अन्तिकवर्तिनि समीपस्थायिनि सति, प्रणयिनि भईरि भवति, सा रतिः प्रीतिः, सदा निरन्तरं, पुरोत्तमपत्तने अनूचाने श्रीविजयसेनसूरौ स्थितवति सति, सुखमिति कियाविशेषणं, अजनि जाता, केषां, अङ्गिनां तत्रत्यसङ्घजनानां,
Page #345
--------------------------------------------------------------------------
________________
१२०
विजयप्रशस्त्याम् ।
रतिः किं०, जनिताऽमन्दानन्दा निर्मितानल्पाहादेति ।। ५८ ॥ सलिलललिते तापव्यापो दिवीव घनोदये । वनभुवि हरौ लीलाले स्थितिः करिणामिव । इह पुरि मुधीप्रीतिश्रीवाङ्मयाम्बुधिकुम्भजे .. न हि सति महानूचानेन्द्र कुपाक्षिकभीरभूत् ॥१९॥ - इव यथा, दिवि आकाशे, सलिलललिते जलापूर्णे, घनोदये मेघोदये सति, तापव्यापो न स्यात् । पुनः, यथा वनभुवि काननावनौ, हरी सिंहे, लीलाशीले क्रीडाशालिनि सति, करिगां हस्तिनां, स्थितिर्न स्यात् ; तथा इह पुरि पत्तननगरे, महानूचानेन्द्र श्रीमदाचार्ये सति, किं०, सुधीनां पण्डितानां प्रीतिश्रीयस्माद् एवंविधो यो वाङ्मयाम्बुधिः सिद्धान्तसमुद्रस्तत्र कुम्भजेऽगस्त्ये, कुपाक्षिकभीः कुमतिलोकभीतिः, नाऽभूत् ॥५९॥ गगनसदने नक्षत्राणामिवामलरोचिषां
शरदि सुहृदि प्राप्तायां मातलान्तरपामिव । सुकृतिकृतिदृग्व्यापारश्रीविलासविधायिना
मजनि महिमाऽनूचानानां भृशं पुरि पत्तने ॥६०॥ - इव यथा, शरदि प्राप्तायां शरत्काले जाते सति, गगनसदने व्योमागणे, अमलरोचिषां निर्मलत्विषां,नक्षत्राणां महिमा स्यात् । पुनः शरदि कि०, सुहृदि मित्रानुकारिण्यां, लोकानामाहाददायित्वादिति प्राप्तायां, क्ष्मातलान्तभूमध्ये, अपां पानीयानां, इव यथा, महिमा स्यात् ; तथा पत्तने पुरि नगरे, अनूचानानां श्रीआचार्याणां, किं०, सुकृतिषु पुण्यात्मसु कृतिषु च पण्डितेषु दृग्'व्यापारेण निरीक्षणरूपेण श्रीविलासविधायिनः कमलोल्लासकारिणस्तेषां, महिमा माहात्म्यं, अजनि ॥ ६० ॥ ..
ना
Page #346
--------------------------------------------------------------------------
________________
नवमः सर्गः ।
अत्र सर्गे इन्द्रवज्रोपेन्द्रवज्रयोः पादोद्भवोपजातिनामकं छन्दः, तल्लक्षणं तु प्रागभिहितम् । अन्त्ये वृत्तचतुष्टये हरिणीच्छन्दः, तल्लक्षणमपि पूर्व प्रतिपादितमिति ।
"
इतीति कण्ठ्यम् ।
इति सकलसुविहितसभा सार्वभौमसमानपण्डितमण्डलमौलिमौलीयमानपण्डितश्रीकमलविजयगणि सुशिप्य मुख्य पण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकगुणविजय
गणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां अष्टमः सर्वोऽर्थतः समर्थितः ।
३२१
अर्हम् अथ नवमः सर्गः ।
४२
अथ नवमः सर्गः समारभ्यते, अयं सर्गः श्री अकन्नरपातिशाहि श्रीडीरविजयसूरिचरितरूपः तेनाऽऽदावेकादशभिईचैः सामान्येन पातनाहि श्रीमदकन्चरं कविर्वर्णयति - इतश्च तीव्रातपतीव्रदीधितिप्रभप्रतापानलदीप्तदिग्मुखः ।
अकब्बरः शत्रुनितम्बिनीदृशामनञ्जनीकारकृती विराजते ॥ १ ॥ इतवेत्यस्मिन्नत्रसरे, अकब्वरो नाम्ना पावशाहिः, विरा
Page #347
--------------------------------------------------------------------------
________________
३२२ विजयपशस्त्याम् । जत इत्यन्वयः । कि०, तीव्रः खर आतपो यस्याऽसौ तीव्रदीधितिः सूर्यस्तत्पभो यः प्रतापानलस्तेन दीप्तं भासितं दिग्मुखं येन सः, पुनः किं०, शत्रुनितम्बिनीदृशां वैरिनारीनयनानां, अनञ्जनीकारे कजलवत्त्वाभावकरणे कृती दक्षस्तद्भर्तृणां व्यापादकत्वादिति ॥ १॥ .. चतुर्दिशां राज्यमरातिभूभुजां
यशश्चयोल्लासिविधौ विधुन्तुदः। फतेपुरे स्फूर्तिमति स्थितः स्थिर. स्थितिर्दिवीवोष्णरुचिर्बिभर्ति यः॥ २॥
यः पातिशाहिः, चतुर्दिशां राज्यं विभीत्यन्वयः । कि०, अरातिभूभुजां वैरिनृपाणां, यशश्चयोल्लासिविधो कीर्तिवितानचन्द्रमसि, विधुन्तुदो राहुस्तद्ग्रासकृत्त्वात् , पुनः किं०, स्थितः, कस्मिन् , फतेपुरे लोके 'सीकरी' इति प्रसिद्धे, किं०, स्फूर्तिमति देदीप्यमाने, यः किं०, स्थिरा स्वाधीनत्वेन निश्चला स्थितिर्यस्य सः, यथा दिवि गगने, उष्णरुचिः सूर्यः, अपरेषां चन्द्राङ्गारकादीनां ग्रहाणां दीप्त्यभावाच्चतुर्दिशां राज्यं बिभर्तीति दृष्टान्तः ॥२॥
वलक्षपक्षद्वयराजहंसमृद्
यदीयसेना सुरवाहिनी नवा । महाबलोत्सर्पितुरङ्गमोमिभाग
विगाहते स्माऽखिलदिग्मुखानि या ॥ ३ ॥ वलक्षं धवलं पक्षद्वयं येषां ते वलक्षपक्षद्वयास्ते राजहंसाः कलहंसा नृपोत्तमा तान् बिभर्तीति वलक्षपक्षद्वयराजहंसमृद् , यस्याऽकब्बरस्य सेना मूर्यदीयसेना, नवा
Page #348
--------------------------------------------------------------------------
________________
नवमः सर्गः।
३२३ सुरवाहिनी गङ्गा जातेति योगः । नवीनत्वे हेतुमाह-या सेना सुरवाहिनी अखिलदिग्मुखानि विगाहते स्म, सा गङ्गा त्वेकदिग्मुखमवगाहते इयं तु चतुर्दिग्मुखानीति नवीनत्वे हेतुः; या किं०, महाबलाश्च ते उत्सर्पिणश्च अथवा महाबलवद् वायुवत् उत्सर्पिणो धावन्तो ये तुरनमा अश्वा एवोर्मयः कल्लोलास्तान् भजतीति महाबलोत्सर्पितुरखमोर्मिभान वायुवेगाश्वकल्लोलवतीति, गापक्षे महाबलेन वायुना उत्सर्पिणइतस्ततो वजन्तः पुनः तुरङ्गमाः शीघ्रङ्गमा ये ऊर्मयस्तान् भजतीति भावार्थः ॥ ३ ॥ स्वप्रेतयादःखपतिस्मयक्षयः
कृतोऽमुना दिग्विजयं वितन्वता । बलोडतं येन यशस्विना रजो
न्यधायि यदिग्दयिताऽलकेषु यत् ॥ ४ ॥ अमुनाऽकब्बरण, दिग्विजयं वितन्त्रता दिग्विजयकारिणा, स्व:प्रेतयादःस्वपतीनां अत्र पतिशब्दः प्रत्येकं चतुर्णा पुरः प्रयोज्यः, तेन स्व:पतिप्रेतपतियादःपतिखपतीनामिन्द्रयमवरुणकुवराणां स्मयक्षयो गर्वध्वंसः कृतः । कयं ज्ञातमित्युत्तरार्धेनाह-यत्कारणात् , येन यशखिना कीर्तिशालिनाऽकबरेण, बलोद्धतं बलेन कटकेनोद्धतं, रजो यद्दिगदयिता येषां दिशः पूर्वदक्षिणपश्चिमोत्तरास्ता एव दयिताः स्त्रियस्तासां अलकेषु केशेषु, न्यधायि क्षिप्तमिति । येन हि यत्कामिनीकुन्तलेषु धूलिदत्ता तेन तद्भगर्वापहारः सुतरां कृत इति निर्गलितार्थः ॥ ४ ॥
समं समा दिग्महिला रजखला
यदीयसैन्ये वसुधासु सर्पति ।
Page #349
--------------------------------------------------------------------------
________________
विजयप्रशस्त्वाम् । पतिं युवानं यमवाप्य भोगिनं __ जयं प्रसूताः सुतमङ्कशायिनम् ॥ ५ ॥
यदीयसैन्ये यत्कटके, वसुधासु पृथ्वीषु, सर्पति चलति सति, समं समकालं, समाः सर्वाः, दिग्महिला रजस्वलाः पांसुमत्या स्त्रीधर्मवत्यश्च जाता इति योगः । ततः किं जातमित्याह-यं भोगिनं पतिं भर्तारं, अवाप्य अङ्कशायिनं उत्सङ्गस्थायिनं, जयं वैरिजयरूपं, सुतं प्रसूता जनयांचक्रुरिति ॥ ५ ॥
न पेशलं कौशलमस्य सैन्यजं .. वयं विधातुं विषयं गिरामलम् । विरोधिपाथोनिधिमेखलाभुजां ___ यदाऽऽददे द्रागसती जयश्रियम् ॥ ६ ॥
अस्याऽकब्बरस्य, सैन्यजं कटकोद्भवं, कौशलं नैपुण्यं, किं०, पेशलं मनोज्ञ, गिरां विषयं विधातुं वाग्गोचरीकर्तु वक्तुमिति यावत् , वयं नाऽलं न समर्थाः, स्म इति शेषः । तत्कारणमेवाऽऽविष्कुरुते यत्कारणात् , विरोधिपाानिधिमखलाभुजां वैरिणां राज्ञां, असती अविद्यमानां, जयश्रियं जयलक्ष्मी, आददेग्रहीत् ॥ ६॥
खस्मिन्नसद् येन भयं वितीर्यते
विरोधिनां येन जयो न सन्नपि । इत्युग्रचिन्ताचकितात्मनां जहु
दृशो निमेषांस्त्रिदिवौकसां किमु ? ॥ ७ ॥ येनाऽकब्बरेण खस्मिन् असत् आत्मन्यविद्यमानं, भयं विरोधिनां वैरिणां, वितीयते दीयते इत्यन्वयः। पुनः, येन सबपि
Page #350
--------------------------------------------------------------------------
________________
३.२५
विद्यमानोऽपि, जयो न वितीर्यते इति द्वितीयोऽन्वयः । किम्वित्युत्प्रेक्ष्यते, इत्युग्रचिन्तया चकितात्मनां आकुलीभूतानां, त्रिदिवौकसां देवानां दृशो नेत्राणि, निमेषान् जहुस्त्यजन्ति स्मेति ॥ ७ ॥
नवमः सर्गः
1
तुरङ्गलालापटलैः सुधोज्ज्वलैमैदैर्गजानां शितिभिश्च भूरिभिः ।
नभःसरित्सूर्यसुतासमागमा
दिवाऽभवत् तीर्थमदः पताकिनी ॥ ८ ॥
तुरङ्गाणां अश्वानां लालापटलैः किं०, सुधोज्ज्वलैः पीयूषभैर्धवलैरिति, पुनः गजानां मदैः किं०, शितिभिः श्यामैः, नभःसरित्सूर्यसुतयोर्धवलाघवलयोर्गङ्गायमुनयोः समागमात् तुरङ्गलालारूपा गङ्गा गजमदरूपा यमुना तयोः संयोगात् ; अदः पताकिनी अस्याऽकब्बरस्य पताकिनी सेना, तीर्थमेवाऽभवत् ; यतः " गङ्गायमुनयोर्योगे महातीर्थमुदाहृतम् " इति पुराणवचनात् ॥ ८ ॥
यशो यदीयं कुमुदेन्दुसुन्दरं जगुस्तमामित्यहिराजयोषितः ।
धरन् धरां नः पतिखेदमुल्वणं
जहार यः क्ष्माभरभारसंभवम् ॥ ९ ॥
"
यस्याऽकब्बरस्य संबन्धि यदीयं यशः किं०, कुमुदेन्दुसुन्दरं कैरव कैरवबन्धुबन्धुरं, इति कारणात् अहिराजयोषितः शेषनागनार्यः, जगुस्तमां गायन्ति स्मेत्यन्वयः । इतीति कुत इत्याहयः शाहि, घरां भूमिं धरन् सन् नोऽस्माकं, पतिखेदं भर्तश्रमं किं०, क्ष्माया भरेणाऽतिशयेन यो भारस्तत्संभवं, जहार
Page #351
--------------------------------------------------------------------------
________________
३२६
विजयप्रशस्त्याम् । हृतवान् ॥९॥
पुरेषु शून्येषु यदीयविद्विषां - भृशोच्चसौधाग्रतृणाङ्कुराप्तितः । महोदरो द्राक् पिदधद् विधं मृगो
न्यहन् खभर्तुस्तमसो भवं भयम् ॥ १० ॥ यदीयविद्विषां यस्याऽकबरस्य वैरिणां, शून्येषु पुरेषु भृशोच्चानि यानि सौधाग्राणि तेषु ये तृणाङ्कुराः, षदमरोहास्तेषां आप्तितः प्रापणात् , मृगो मृगलाञ्छनलाञ्छनीभूतो महोदरः सन् , विधुं चन्द्रं, पिदधत् आच्छादयन् , स्वभर्तुश्चन्द्रस्य, तमसो भवं राहुजं, भयं न्यहन् हन्ति स्मेति ॥ १० ॥
अभूदगारातिकृतान्तपाशभृ. __ इनाधिपेभ्योऽपि हि यो बली बहु । दधुर्दिशां भारममी यमुटं
बिभर्ति चैष खयमेक एव तम् ॥ ११ ॥ योऽकब्बरः, अगाऽरातिः इन्दः कृतान्तो यमः पाशभृद्वरुणः धनाधिपः धनदः एभ्योऽपि, बहु अतिशयेन, वली बलवान् अभूदित्यन्वयः। बलवत्त्वे हेतुमाह-यस्मादित्यध्याहार्यम् . यं उद्भटमुत्कटं, चतुर्दिशां भारं अमी चत्वारोऽपि लोकपालाः, दधुर्धरन्ति स्म, तं दिशां भारं, एष शाहिः, एक एव स्वयमात्मना बिभर्तीति भावः ॥ ११ ॥
अथैकदा सोऽवनिजानिचन्द्रमा ___ नमन्नृपश्रेणिनिषेवितक्रमः । परत्रसंपत्सुकृतस्य वर्त्मनो
Page #352
--------------------------------------------------------------------------
________________
- नवमः सर्गः।
३२७
ऽभवत् परीक्षासु विचक्षणेक्षणः ॥ १२ ॥ अत्यधुना, सोऽवनिजानिचन्द्रमा अकबरो राजेन्दुः, किं०, नमन्नृपश्रेणिभिनिषेवितौ क्रमौ यस्य सः, एकदा कदाचिदेकस्मिन् दिने, परत्र परलोके संपद् यस्मादेवंविध सुकृतं पुण्यं यस्मिन् तस्य, वर्त्मनो मार्गस्य, परीक्षासु विचक्षणं प्रवीणं ईक्षणं ज्ञानलोचनं यस्य सः, पारलौकिकपुण्यमार्गपरीक्षायां परीक्षकोऽभूदिति भावार्थः ॥ १२ ॥
श्रीमान् हमाऊतनयोऽरिपार्थिव
प्रियाश्रुपूरैरभिषिक्तविक्रमः। स दर्शनानामतिदर्शनीयदृग्
जनान् समस्तान् मतिमानमीमिलत् ॥१३॥ सः श्रीमान् हमाऊतनयोऽकब्बरः, किं०, अरिपार्थिवनियाश्रूणां वैरिराजनारीनयननीराणां पूरैः, अभिषिक्तो विक्रमः पराक्रमो यस्य सः, समतिमान् पुनः, अतिदर्शनीयदृग् धर्मप्रियत्वात् अतिदर्शनीयं विलोकनाई दृग् दर्शनं यस्य सः, दर्शनानां जनान् इत्यत्र धर्मधर्मिणोरभेदोपचाराद् बौद्धादीनां पञ्चानां दर्शनानां दर्शनिनः समस्तान् अमीमिलत् , आदौ पञ्चदर्शनजनान् संमील्य धर्माधर्मपरीक्षां कृतवानिति ॥ १३ ॥
अमीष्वसौ वस्त्रमतार्थवादिषु
प्रियं न पन्थानमपश्यदात्मनः । .. मणीमिवोच्चावकरेषु सद्भुचिं
रजस्तृणाश्मच्छगणादिपङ्किषु ॥ १४ ॥ असौ शाहिः, स्वस्वमतार्थवादिषु निजनिजमताभिमतभाव
Page #353
--------------------------------------------------------------------------
________________
३२८
विजयप्रशस्त्याम् । भाषणपरेषु, अमीषु दर्शनिषु परीक्षितेषु सत्सु, आत्मनः प्रियं पन्थानं नाऽपश्यत् । दृष्टान्तमाह-रजस्तृणाऽश्मच्छगणादीनां पतयो येषु तेषु, उच्चाऽवकरषु प्रोढसंकरेषु, सद्रुचिं स्फुरत्कान्ति, मणीमिव रत्नमिवेति, अत्र मणिवद् मणीशब्दोऽप्यस्तीनि ध्येयम् ॥ १४ ॥ तदा मुदा तत्पदपद्मषट्पदो
ऽतिमेतखानः शुभगीरदोऽवदत् । इहाऽस्ति शस्ताकृतिराप्तवार व्रती
महामतिहीर इति अतिप्रभुः ॥ १५ ॥ तदा शाहिना परीक्षितेषु सर्वेष्वपि पाखण्डिषु तथाविधं देवापि मनोनं मुनिमपश्यता पृष्टः सन् अतिमेतखाननामा गूर्जरत्रासत्कः श्रीगुरून् दृष्टपूर्वी महामुद्गलः, किं०, तत्पदपझयोस्तस्य शाहेश्वरणकमलयोः षट्पदो रोलम्बः, पुनः किं०, शुभगीर्वरवचाः, अदो वक्ष्यमाणम् , अवददित्यन्वयः । इह जगति, हीर इति पदैकदेशे पदसमुदायोपचाराद् हीरो हीरविजयमूरिरिति, व्रतिप्रभुर्मुनीन्द्रः, किं०, शस्ताकृतिः रुचिराकारचारित्वात् , पुनः, आप्तवाक् सत्यभाषित्वात् , पुनः, महामतिः शास्त्रपारगत्वात् , अस्ति वर्तत इति ॥ १५ ॥ स एव देवाऽम्बुजबन्धुवच्छुभा
शुभाध्वनोस्त्वत्प्रिययोः प्रकाशकः । स चाधुना केत्युदितेऽथ शाहिना
स शाहिमाह स्म पुनः पटिष्ठवाक् ॥ १६ ॥ स एव नाऽन्य इति अत्रैवकारोळ्ययोगव्यवच्छेदकः, हे देव राजेन्द्र ! अम्बुजबन्धुवर सूर्य इव, त्वत्मिययोः परीक्षां
Page #354
--------------------------------------------------------------------------
________________
नवमः सर्गः।
३२९ कर्तुमिष्टयोः, शुभाशुभाऽध्वनोः सत्यासत्यमार्मयोः, प्रकाशकोऽस्तीत्यन्वयः । अधुना इदानीं, स हरिगुरुः कास्तीति शाहिना श्रीअकबरेण, उदिते सति, पुनः, सोतिमेतखानः, किं०, पटिष्ठवाक् प्रगल्भवचाः सन् , आह स्माऽभाषतेति ॥ १६ ॥ यदाह स्म तदाहपयोजिनी हंस इवाऽच्छपक्षभाक्
स गूर्जरत्रामधुनाऽधितिष्ठति । निशम्य तद्वाचमदम्भजृम्भितां
मुदं दधौ शाहिरहार्यधर्मधीः ॥ १७ ॥ .. पयोजिनी हंस इव स गुरुः, गूर्जरत्रामधुनाऽधितिष्ठति अधुना गूर्जरदेशे स्थितोऽस्तीति । हंसः स च कीदृशः, अच्छपक्षभाक् हंसपक्षेऽच्छौ पक्षौ छदौ, गुरुपक्षे मातृपितृलक्षणी पक्षौ भजतीति सः, अथ तद्वाचं किं०, अदम्भजृम्भितां नास्ति दम्भजृम्भितं कैतवविलसितं यस्यां तां निष्कपटां, निशम्य शाहिः किं०, अहार्या धर्मे धीर्यस्य सः, मुदं दधौ हर्षितवानित्यर्थः ॥ १७॥ वितीर्य पत्रं फुरमानसंज्ञक
समानमाह्वानकृते कृती गुरोः । घनादरेणाऽऽत्मजनान् स मेवडा
भिधानथ स्म प्रहिणोति भूपतिः॥१८॥ अथ स भूपतिरकब्बरपातिशाहिः, समानं सबहुमानं, गुरोराह्वानकृते आकारणाय, फुरमानसंई पत्रं वितीर्य दत्त्वा, घनादरेण बहाग्रहेण, मेवडाभिधान् आत्मजनान् स्वागावलगकसेवकान् , पहिणोति स्म भैषीत् प्रत्यकमिपुरस्थं श्रीशाहि
Page #355
--------------------------------------------------------------------------
________________
३३०
विजयप्रशस्त्याम् ।
बखानाख्यं नृपमुख्यम्, अथ सोऽपि ज्ञातोदन्तः श्रीगुरून मन्धारबन्दिरे स्थितान् मत्वा तान् शाहिसेवकान् गुरुपार्श्वे प्राहिणोदिति शेषः ॥ १८ ॥
जातावतारा जगतां हिताय ते मुनीश्वराः कल्पितकल्पपादपाः ।
हवं नरेशस्य निशम्य सादरं तदाऽभवंस्तत्र विहर्तुमुत्सुकाः ॥ १९ ॥
तदा तच्छाहिफ़रमानं चाचयित्वा ते मुनीश्वरा गुरवः, किं०, जगतां हिताय जातावताराः, पुनः, कल्पिते कल्पपादपाः नरेशस्याऽकब्बरस्य, हवं आह्वानं, निशम्याऽऽकर्ण्य, तत्र विह उत्सुका अभवन् गन्धारवन्दिराच्चतुर्मासकपारणके इति शेषः ॥ १९ ॥
अथ काव्यकलापकेन फतेपुरागमनं वर्णयति— पदे पदे प्रौढमहोत्सवोत्सुकैर्जनैः प्रदत्ताद्भुतमानसंपदः । पदे पदे खस्तिकमुक्त मौक्तिकैर्वधूजनैर्मण्डितमङ्गलालयः ॥ २० ॥
पदे पदे सत्वरसंमुखागतैर्षराधिपैः सूत्रितसुन्दरादराः । पदे पदे प्राप्तघनार्थ संचयैः
सदर्थिभिर्गीतमनोज्ञगीतयः ॥ २१ ॥ रजोभिरंहयुच्छलितैर्भुवस्तलं
Page #356
--------------------------------------------------------------------------
________________
नवमः सर्गः।
३३१ विभूषयन्तो द्युसदामपि प्रियैः। महाव्रतिप्रीतिकलैर्जलैनभः
सरित्प्रवाहा इव विश्वपावनाः ॥ २२ ॥ सदा समुल्लासभृतः सुपर्वभि__ स्तापं हरन्तो जगतां गुरुत्तमाः । क्रमादलञ्चक्रुरभङ्गवैभव
फतेपुरश्रीत्रिपुरारिमस्तकम् ॥ २३ ॥ अथ क्रमाद् गन्धारबन्दिराद् मार्गशीर्षासितसप्तम्यां पुष्पायोगे विशे रवियोग राजयोगे च सति शुभे मुहूर्ते प्रशस्तशकुननिमित्तसञ्जातसद्विक्रमा गुरूत्तमाः किं०, पदे पदे स्थाने स्थाने वा पादन्यासरूपे पदे पदे वा, प्रौढमहोत्सवोत्सुकैर्महामहोत्सवकरणपरायणः, जनेर्लोकः, प्रदत्ताद्भुतमानसंपदः कृतबहुमानश्रियः, पुनः किं०, पदे पदे स्वस्तिकेषु मुक्तानि मौक्तिकानि यस्तैः, वधूजनै रीगणैः, मण्डिता मङ्गलालिर्येषा ते ॥२०॥पुनः किं०, पदे पदे सत्वरं शीघ्रं संमुखागतैरभिमुखागतैः, घराधिपैनरेन्द्रः, मृत्रितः कृतः सुन्दर आदरो येषां ते, पुनः किं०, पदे पदे प्राप्ता घनो महान् अर्थसंचयो धनसमूहो यस्तैः, सदथिभिर्गान्धर्वभट्टप्रभृतिभिरर्थिभिर्याचकैः, गीता मनोज्ञा गीतिः कीर्तिरूपा येषां ते ॥ २१ ॥ पुनः किं कुर्वन्तः, विभूषयन्तः, किं०, भुवस्तलं पृथ्वीतलं, कै, अंइयुच्छलितैवरणात्यै रजोभिः, किं०, घुसदामपि देवानामपि, प्रियः, पुनः किं०, विश्वपावनाः, क इवेत्याह-नभासरित्सवाहा गङ्गाप्रवाहाइव जगत्पावित्र्यकारकाः, कैः, जलैः, किं०, युसदामपि प्रियैरिदं तुल्यं विशेषणम् , पुनः कि०, महाव्रतिनो महादेवस्य पीतेः
Page #357
--------------------------------------------------------------------------
________________
३३२
विजयप्रशस्त्वाम् ।
कला येभ्यस्तैः रजःपक्षे महाव्रतिनां महामुनीनां प्रीतिकला येभ्यस्तैः ||२२|| पुनः किं० गुरूत्तमाः गङ्गाप्रवाहाच, सुपर्वभिः समुल्लासभृतः गुरुपक्षे सुपर्वभिः शोभनोत्सवैः, गङ्गाप्रवाहपक्षे सुपर्वभिर्देवैः पुनः, तापं संतापं, हरन्तो जगतां जगद्वर्तिजनानां, क्रमेण गुर्जरदेशाद् मरुस्थलीदेशमध्ये भूत्वा विहरन्तः सन्तः, अभङ्गवैभवं फतेपुर श्री त्रिपुरारेरीश्वरस्य मस्तकमलञ्चरिति चतुर्णां व्याख्येति ॥ २३ ॥ त्रिभिः प्रवेशोत्सवं वर्णयति —
अथाङ्कहव्याशनभूपवत्सरे त्रयोदशीवार इन्दुवर्जिते । शुक्रे च मासे त्रिजगन्मनःसुखप्रदे प्रभाते त्रिदशेशमन्त्रिणि ॥ २४ ॥
दधत्सु शृङ्गारिसुहासिनीजनप्रणीतगीतैरतिमेदुरां मुदम् । ददत्सु दानं घनकाञ्चनाऽम्बरोर्मिकातुरङ्गद्विपमुख्यवस्तुनः ॥ २५ ॥
दुकूलदिव्याम्बररत्नकाञ्चनाद्यलङ्कृतिस्तोममनोज्ञमूर्त्तिषु ।
जनेषु कुर्वत्सु महोत्सवान् बहून् पुरे प्रवेशं विदधुर्दमीश्वराः ॥ २६ ॥
अथ दमीश्वरा गुरवः फतेपुरपुरे प्रवेशं विदघुरित्यन्वयः । कस्मिन् अड्डा नव, हव्याशना अग्नयस्त्रयः, भूपा- राजानः षोडश, एतेऽङ्कन वामतो गत्या मीलिता यत्र
9
Page #358
--------------------------------------------------------------------------
________________
नवमः सर्गः ।
"
तत्र अङ्कहव्याशनभूपवत्सरे १६३९ वर्षे पुनः, त्रयोदशीवासरे किं०, इन्दुवर्जिते श्यामायां त्रयोदश्यामिति, पुनर्मासे, किं०, शुक्रे ज्येष्ठाख्ये, पुनः, प्रभाते प्रातर्वेलायां प्रथमयामे, पुनः, त्रिदशेशमन्त्रिणि गुरुवारे ॥ २४ ॥ पुनः, बहून् महोत्सवान् जनेषु कुर्वत्सु जनेषु किं कुर्वन्सु, दधत्सु विभ्रत्सु, कां, अतिमेदुरां मुदं हर्ष, कैरित्याह-शृङ्गारिसुहासिनीजनप्रणीतगीतैः शृङ्गारी शृङ्गारवान् यः सुहासिनीजनः सधववधूजनस्तेन प्रगीतानि यानि गीतानि तैः पुनर्जनेषु किं०, दानं ददत्सु, कस्येत्याह-धनकाञ्चनाम्बरोमिंकातुरङ्गद्विपमुख्य वस्तुनः अत्र धनकाञ्चनाम्बरादिभ्यो द्विपदानं सर्वोत्तममभूतपूर्वत्वात् तत्तु मेडताद्रङ्गवासिना सा० - सदारङ्गाभिधानेन श्राद्धेन दत्तमिति ॥ २५ ॥ पुनर्जनेषु कीदृशेषु, दुकूलदिव्याम्बररत्नकाञ्चनाद्यलङ्कृतीनां पट्टकूलमवरवस्त्रमणिसुवर्णप्रमुखालङ्काराणां स्तोमेन समूहेन मनोज्ञा मूर्तयोऽङ्गानि येषां तेषु लोकेषु मिलितेषु, साडम्बरं श्रीगुरवः सीकरीद्रङ्गे प्रवेश चक्रुरिति । इति त्रयाणां व्याख्या ।। २६ ॥
,
विपक्षसंपत्तटिनीपयोधिना
नयाम्बुजोल्लास सहस्ररश्मिना ।
विधाय पूर्वं मिलनं महीभुजा प्रतिश्रये नः प्रतिगन्तुमर्हति ॥ २७ ॥
समर्थनिर्ग्रन्थगृहस्थसार्थसत्
परिच्छदोपा सितपादपङ्कजाः । विचार्य चित्तान्तरिति व्रतीश्वरा अकब्बरोवींश्वरसौधमभ्यगुः ॥ २८ ॥
३३३
Page #359
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । म भुजाऽकब्बरशाहिना. किं०. विपक्षसंपत्तटिनीपयोधिना वैरिलक्ष्मीनदीसमुद्रण, पुनः कि०. नयाम्बुजाल्लाससहस्ररश्मिना न्यायनलिनविकासनमूर्येण सह साई. पूर्व प्राग .मिलनं विधाय ततः पश्चान्नोऽस्माकं, प्रतिश्रये वसतो, गन्तुमहतीति शमनं योग्यतामेतीति भावः ॥ २७ ॥ इति विचिन्त्य किं चक्रुस्तदग्रेतनवृत्तंनाह- इति चित्तान्तर्मन स, विचार्य व्रतीश्वरा गुरवः, किं०, समर्था द्विधाऽपि श्रुतशरीरबलेन संपन्ना ये निन्था अधिकारात समीपवर्तिनः सैद्धान्तिकशिरोमणिवाचकश्रीविमलहर्षगणिसकलाष्टावधानशतावधानाद्यनेकराजरञ्जनकलाकुमुदिनीचन्द्रवाचकश्रीशान्तिचन्द्रगणिपण्डितसहजसागरगणिपण्डितसिंहविमलगगिवतन्त्रकवि चकलाश्रीहेमाचार्यानुकारिप्रस्तुतकाव्यकारिपण्डिन हमविजयगणियाकरणचूडामणिपण्डितलाभविजयगणिश्रीगुरुप्रधानधनविजयगणिप्रमुग्वाः साधवः, पुनगृहस्थाः श्रावका ये साधुश्रीथानसिङ्घसा- मानसिंघसा०कल्याणप्रमुखास्तेषां ये सार्थाः समूहास्तपां सन् श्रेष्ठो विद्यमानो वा यः परिच्छदः परिवारस्तेन उपासित सेवितं पादपङ्कजं येषां ते समर्थनिग्रन्थगृहस्थसार्थसत्परिच्छदोपासितपादपङ्कजाः, श्रीहीरविजयमूरिपादा अकबरांवीश्वरसाधं शाहिसोधं, अभ्यगुः प्राप्तवन्त इति । इदमर्थता युग्मम् ॥ २८ ॥
इमं समायान्तमदभ्रविभ्रमं __ त्रयोदशर्षिप्रमुखैर्वृतं गुरुम् । अकब्बरः प्रेक्ष्य मुदं दधौतमां
शिखीव पाथोमुचमुन्नतं दिवि ॥ २९ ॥ इमं गुरुं किं०, अदभ्रविभ्रमं भूरिशोभं, पुनः किं०, त्रयोदश ये केचिदुक्ताः केचिच्चाऽनुक्ता ऋषिप्रमुखा मुनिमुख्याः “प्रमुख
Page #360
--------------------------------------------------------------------------
________________
नवमः सर्गः
३३५
9
प्रथमे मुख्ये" इति वचनात् तैत्रयोदशर्षिप्रमुखैः, वृतं परिकरितं; समायान्तं प्रेक्ष्य अकब्बरः शाहिः, मुदं दधौतमां अतिहर्षितवान् । दृष्टान्तमाह-यथा पाथोमुचं मेघं दिव्याकाशे, उन्नतं प्रेक्ष्य शिवी मयूर इवेति ॥ २९ ॥ नृपोऽभिगच्छन् सुमनोमनोरमो भाति स्म साक्षादिव वासवस्तदा । विधाय सुस्वागतमागतोचितं
मुदाऽनमस्यच्च गुरोः पदद्वयीम् ॥ ३० ॥
तदा गुरून् प्रति अभिगच्छन् संमुखं व्रजन् नृपोऽकब्बर- शाहिः, भाति स्मेत्यन्वयः । इवोत्प्रेक्ष्यते - साक्षाद्वासवः शक्रइव, किं०, सुमनोमनोरमः, नृपपक्षे सुमनसा शोभनचित्तेन मनोरमः, अथवा सुमनोभिः प्राज्ञैर्मनोरमस्तत्परिवृतत्वात् ; शऋपक्षे सुमनोभिः सुरैर्मनोरम इति, आगतोचितं सुस्वागतमित्यादिप्रश्नं विधाय, गुरोः श्रीहीरविजयसूरेः पदद्वयीं मुदा - नमस्यत् प्राणमत् ॥ ३० ॥ शार्नमतो गुरुः किं बभाणेत्याहअजय्यचेतोजतमोभवान्तकृद् वृषाङ्कवैकुण्ठविरञ्चिसन्निभः । नृपाय कल्याणलतापयोमुचा
तदाऽभ्यनन्दत् सुकृताशिषा गुरुः ॥ ३१ ॥
गुरुः किं०, अजय्योऽजेयो यश्चेतोजः स्मरस्तथा तमः पापं भवथ संसारस्तेषां चेतोजतमोभवानां अन्तकृद्विनाशकारी, अत एव वृषाङ्कत्रैकुण्ठविरश्चिसंनिभः हरहरिहिरण्यगर्भतुल्य
Page #361
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
स्तयाहि-चेतोजान्तकृत्त्वेन वृषाङ्कः; तमसा गुणविशेषस्य राहोवा अन्तकृत्त्वेन वैकुण्ठो विष्णुः, भवान्तकृत्त्वेन विरश्चितुल्यश्चेतिः ईदृग्गुरुस्तदा तन्नमनावसरे, नृपायाऽकब्बराय, कल्याणलतापयोमुचा मङ्गलबल्लिजलधरण, सुकृताशिषा धर्मलाभरूपाशीवादेन, अभ्यनन्द तोषयामासेत्यर्थः ॥ ३१ ॥ त्रयोऽप्यथ खात्मभुवो भुवोमिल
ललाटपट्टाः सुखिताखिलप्रजाः । तदेरिताः मापतिना गुरूत्तमान्
हिमोष्णवर्षासमया इवाऽनमन् ॥ ३२ ॥ अथ त्रयोऽपि स्वात्मभुवः निजनन्दनाः शेखूजीपाहडीदानीआरनामानः कुमाराः, किं०, भुवः पृथ्व्या मिलन् ललाटपट्टो येषां ते, पुनः किं०, सुखिताः सुखीकृता अखिलाः प्रजा लोका यस्ते, पुनः किं०, क्ष्मापतिनाऽकब्बरेण, इरिताः सन्तः, गुरूत्तमान् , हिमोष्णवर्षासमयाः शीतकालग्रीष्मकालवर्षाकालाइव, किं०, सुखिता अखिलप्रजाः स्वस्वगुणेर्यैस्ते, त्रयोऽपि अनमन् प्रणताः, इवेत्युत्लेक्षा ॥३२॥
त्रयोऽपि शेखूप्रमुखा नृपाङ्गजा
स्त्रिलोकलोका इव पुण्यवृत्तयः । तदा गुरोर्दर्शनतोऽतिशायिनी ___ मुदं समीयुर्वसुधासुधाञ्जनात् ॥ ३३ ॥
तदा तत्र क्षगे, गुरोर्दर्शनतः, किं०, वसुधाया भूमेरुपचारात्तद्वासिनो जनस्य सुधाञ्जनादमृताञ्जनभूतात् , ते शेखूप्रमुखा नृपाङ्गजाः शाहिमूनवस्त्रयोऽपि, इवोत्प्रेक्ष्यते-त्रिलो. कलोकाः स्वर्गमत्यपाताला इव, पुण्यवृत्तयः पवित्राचाराः,
Page #362
--------------------------------------------------------------------------
________________
नवमः सर्गः। अतिशायिनी मुदं समीयुर्महाह ला जाता इति ॥ ३३ ॥ तदा च तेषां क्षितिपात्मजन्मनां
गुरुस्त्रयाणामपि पुण्यतेजसाम् । वृषाशिष द्राग् व्यतरद् हुतिं हवि
र्भुजां द्विजन्मेव महाप्रदायिनीम् ॥ ३४ ॥ तदा तेषां क्षितिपात्मजन्मनां पातिशाहिपुत्राणां, त्रयाणामपि, किं०, पुण्यतेजसा पवित्ररुचां, तदा गुरुर्वृषाशिष धर्मलाभ, व्यतरद् दत्तवान् । दृष्टान्तमाह-यथा द्विजन्मा ब्राह्मणः, हविर्भुजा वहीनां, हुतिं किं०, महाप्रदायिनी तेजःपदायिनी, वृषाशिषं कि०, महपदायिनी उत्सवपदायिनी, वितरति ॥ ३४ ॥
चरित्रमाहारविहारसंलया
श्रयोपवासासनपानगोचरम् । अथ स्वयं प्रेषितपूरुषाननाद्
निशम्य सूरेर्मुमुदे महीपतिः ॥ ३५ ॥ अथ स्वयं प्रेषिताः पूर्व ये मेवडाभिधाना गुरूणामाकारणाय प्रेषितास्तेषामाननाद् मुखात् , सूरेश्चरित्रं वृत्तं, किं०, आहारविहारसंलयाश्रयोपवासासनपानगोचरं आहारो नित्यैकभक्तरूपः, विहारः सूर्योदये सत्येव पादचाररूपः, संलयस्त्रियामायास्तृतीये यामे निद्राकरणरूपः, आश्रयो याचितवसतिवसनरूपः, उपवासा एकस्मिन् मासि जघन्यतः षड्डपवासकरणरूपाः, आसनं मासाष्टके भूमावेवोपवेशनरूपं, पानं तप्तस्यैव पानीयस्येति गोचरं एतद्विषयं, गुरुवृत्तं निशम्य, महीपतिः शाहिः, मुमुदे हर्षमधात् ॥ ३५ ॥
Page #363
--------------------------------------------------------------------------
________________
३३८
विजयप्रशस्त्याम् । अथैकतः संयमिलोकनायको . स्थितौ व्यभातामभितः प्रकाशको । विधेर्वशात् संगमितौ क्षमाधरौ
सुरारिजिच्छैलहिमालयाविव ॥ ३६ ॥ अथैकतो विजने सभामण्डपदेशे, संयमिलोकनायको संयमिनायकलोकनायको गुरुभूपी, स्थितौ पीठोपविष्टौ, पुनः, अभितः सर्वतः, प्रकाशको व्यभातां भातः स्मेति । इवोत्प्रेक्ष्येते-विधेवंशाद् दैववशात् , सुरारिजिच्छैलहिमालयौ संगमितो मेरुहिमाचलो, किं०, मिलितो; किं०, क्षमाधरौ एकत्र क्षमाश्रमणत्वात् क्षमा शान्तिः, अन्यत्र क्षमा पृथ्वी पृथिवीपतित्वादिति ॥३६॥ विशारदवातवृतस्य धर्मिणौ
गुरोः पुरःस्थः स्थिरदृक् स्थिरेश्वरः । अपृच्छदच्छं परमात्मनः प्रभोः
खरूपमास्तिक्यसमं सविस्तरम् ॥ ३७॥ स्थिरा पृथिवी तस्या ईश्वरः स्थिरेश्वरो राजाऽकब्बरशाहिः, किं०, स्थिरदृक् निश्चलदृष्टिः, पुनर्गुरोः पुरःस्थः, गुरोः किं०, विशारदवाततृतस्य पण्डितपटलपरिकरितस्य, पुनः, धर्मिणो यतिधर्मधारिणः, परमात्मनः प्रभोः परमेश्वरस्य, स्वरूपं अपृच्छत अच्छं निर्मलमिति, क्रियाविशेषणं वा, पुनः किं०, सविस्तरं, क्रियाविशेषणं वा; पुनः कथं आस्तिक्येन श्रद्धया तुल्यमित्यास्तिक्यसमम् ॥ ३७॥ पुरातनाचार्यवरैर्निरूपितं
न्यरूपि पूज्यैस्तदशेषमुत्तमम् ।
Page #364
--------------------------------------------------------------------------
________________
नवमः सर्गः। ३३९ पिबन् श्रुतिभ्यां तदतुष्यदुर्वरा
पतिश्च वीणाक्कणितं फणीव सः ॥ ३८ ॥ तत्परमात्मनः स्वरूपं, किं०, अशेषं समस्तं, पुनः, उत्तममुत्कृष्टं, यथा पुरातनाचार्यवरैः प्राचीनानूचानेन्द्रः श्रीसिद्धसे. नदिवाकरकलिकालसर्वज्ञविरुदधारकश्रीहेमाचार्यादिभिः श्रीविक्रमार्कश्रीकुमारपालादीनां पुरो निरूपितं तथा तैरपि पूज्यैHरूपि प्रोक्तमिति, तत्स्वरूपं श्रुतिभ्यां कर्णाभ्यां, पिबन् अत्यादरेण शृण्वन् , उर्वरापतिःशाहिः, अतुष्यत् तुतोष । दृष्टान्तमत्राह-यथा वीणाकणितं वल्लकीनादं, शृण्वन् फणी भुजङ्गइवेति ॥ ३८ ॥ निशम्य सम्यक् प्रविचार्य चात्मना
यथास्थितं तन्मुदमाप भूपतिः । मनःसुखामुक्तिमवाप्य धीमतां ____ न कस्य हर्षः खलु जायतेतमाम् ? ॥३९॥
भूपतिस्तद् यथास्थितं गुरूदितं, निशम्य श्रुत्वा, च पुनः, आत्मना स्वयं, प्रविचार्य मुदमाप हर्ष प्राप्तवान् , खलु निश्चितं, धीमतां पण्डितानां, उक्तिं वाणी, कीदृशी, मनःसुखां चेतःसौख्यकारिणी, अवाप्य कस्य सकर्णस्य पुंसो हर्षो न जायतेतमां न भवतितराम् , अपि तु सर्वस्यापि जायते इति ॥३९॥
अभूद निजे धामनि वाङ्मयं पुरा
द्विधाऽऽत्म जैनं च यदैश्वरं च यत् । गुरोस्तदुर्वीपतिराश्वदर्शयद्
वदन् वरीयो विनयाश्चितं वचः ॥ ४० ॥
Page #365
--------------------------------------------------------------------------
________________
विजयमयस्त्वाम् । निजे धामनि शाहेः समनि, पुरा पूर्व, यद् वाङ्मयं शास्त्रं, किं०, जैनं जिनागमरूपमङ्गोपाङ्गमूलसूत्रादि, च पुनः, ऐश्वरं यत् शिवशासनसंबन्धि भागवतभारतपुराणरामायणादि, इति द्विधात्म द्विप्रकारकं नागपुरीयतपापक्षीयपद्मसुन्दर श्वेताम्बरसत्कं, अभूत् तत् उर्वीपतिः शाहिः, गुरोरदर्शयत् गुरोः पुरःप्राभृतीकृतवान् , पुनर्विनयाश्चितं वचो वदन् यूयं पुस्तकमिदं गृहीतेति वाक्थं ब्रुवन् , आशु शीघ्रं, तदा दर्शयामासेति भावः ॥४०॥ विदन्नदस्तद्गुरुराददे च ना
धुनैतदादानमकीर्तिकारि नः । नृपो विशेषाद् मुमुदे निरीहतां
निरीक्ष्य सूरेरतिशायिनीमिमाम् ॥४॥ अधुनेदानीम्, एतदादानं पुस्तकग्रहणमपि, नोऽस्माकं, अर्कार्तिकारि राढाकृद् नेति, अदो विदन् इति जानन् , गुरुस्तद् नाऽऽददे न गृहीतवान् , ततः कारणादिमां अतिशायिनीं निरीहतां पुस्तकस्यापि मुक्तिरूपां निःस्पृहता, निरीक्ष्य नृपो विशेषाद् मुमुदेऽतिमुदितोऽभूद्; अहो ! एते निःस्पृहा यदि पुस्तकमपि न गृह्णन्ति तदा मया दीयमानममानधनकाञ्चनकाश्यपीप्रमुखं कथं गृह्णन्तीति मुनिदानम् ॥४१॥
आगृह्य भूयोऽपि ददौ नृपस्तदा
तहारतीगेहमिवापरं परम् । अकब्बरीयाभिधया च कोशगं
तत्पुस्तकं सर्वमचीकरद् गुरुः ॥ ४२ ॥ .. तदा तस्मिन् पुस्तके गुरुणागृहीते सति, भूयो
Page #366
--------------------------------------------------------------------------
________________
नवमः समः।
३४१ ऽपि पुनरपि, आगृह्य निर्बन्धं विधाय, नृपस्तद्भारतीगेहमिव अपरं सरस्वतीगृहमिव, परं प्रकृष्टं केवलं वा, ददौ दत्तवान् , गुरुर्निरीहः सन् यच्चकार तदुत्तरार्धेनाह-गुरुस्तत्पुस्तकं सर्व द्विप्रकारमपि, अकब्बरीयाभिधया अकबरशाहिनाम्ना, कोशगं भाण्डागारगतं, अचीकरत् कारयामास, आगराख्ये नगरे भाण्डागारे स्थापितवानिति शेषः॥ ४२ ॥ नृपेण दत्त्वा बहुमानमानम
न्महीमहेन्द्रव्रजसेवितांहिणा।
गुरुर्विसृष्टो निरगात् तदोकसः . पयोधराभ्रादिव धर्मदीधितिः ॥ ४३ ॥
गुरुर्नुपेण बहुमानं दत्त्वा विसृष्टोऽनुज्ञातः सन् , तदोकसस्तद्गृहाद् , निरगादित्यन्वयः। नृपेण किं०, आनमन्महीमहेन्द्रव्रजसेवितांहिणा प्रणमद्भूपालजालजुष्टचरणेन । दृष्टान्तमाह-इव यथा, पयोधराभ्राद् मेघवादलाद् , धर्मदीधितिः सूर्यइवेति ॥४३॥ विलोक्य मेने नृपगोपुरे पुरः
समेतमेतं गुरुमास्तिकैरिति । किमन्तिमार्हजनिराशितोऽद्य दु
ग्रहोऽवरूढः खलु भस्मनामकः ॥ ४४ ॥ नृपगोपुरे राजद्वारमतोल्यां, एतं गुरुं पुरः समेतं विलोक्य आस्तिकैरिति मेने इत्यचिन्ति । तदेवाह-खलु इति निश्चयार्थे, अद्य किं अन्तिमाईज्जनिराशितः श्रीमहावीरजन्मराशेः, भस्मनामको दुर्ग्रहः अवरूद. इति उचीर्णो मेने ॥४४॥
Page #367
--------------------------------------------------------------------------
________________
३४२ विजयप्रशस्त्याम् । धराधिपाज्ञागतभूरितूरसत्
खनैर्भवद्भिर्बधिरीकृताम्बरे । ददहिर्थिप्रकरेभ्य ईप्सितां __ श्रियं महेभ्यैरतिचारुचत्वरे ॥ ४५ ॥ महोत्सवे गायनगीतगौरवे
प्रभूतपद्माढयमलञ्चकार तम् । विमानमानदिमुपाश्रयं गुरुः
स मानसौका इव मानसं सरः ॥ ४६ ॥ धराधिपस्य अकबरस्याऽऽक्षया आगतानि भूरीणि यानि तुराणि वादित्राणि तेषां सत्वनैः शोभनध्वानः, बधिरीकृतमम्बरमाकाशं यस्मिन् तस्मिन् , महोत्सवे जायमाने सतीतिशेषः । पुनर्महोत्सवे कीहो, अर्थिप्रकरेभ्यो याचकव्रजेभ्यः, ईप्सितां वाञ्छितो. श्रियं ददद्भिर्महेभ्यरतिचारूणि मनोहराणि चत्वराणि यत्र तत्र ॥४५॥ पुनर्महोत्सवे किं०, गायनगीतानां गौरवं यत्र तत्र, गुरुस्तमुपाश्रयं अलञ्चकार, किं०, प्रभूतपनाढ्यं भूरिशोभाढ्यं, अन्यत्र भूरिपङ्कजाढ्यं, पुनः, विमानमाना स्वर्भवनप्रमाणा ऋद्धिर्यत्र तं, दृष्टान्तमाह-मानसौका राजहंस इव, मानसाख्यं सर इवेति यथा । इति युग्मव्याख्या ॥ ४६॥ दिनान्युषित्वा कतिचित् फतेपुरे
प्रजाप्रभुप्रेमपयोनिधौ विधुः । स आगराख्ये नगरे गरीयसि
Page #368
--------------------------------------------------------------------------
________________
नवमः सर्गः।
३४३ क्रमाच्चतुर्मासकमासितो गुरुः ॥ ४७ ॥ स गुरुः फतेपुरे कतिचिद् दिनानि उषित्वा स्थित्वा, ततो योजनत्रिकान्तरिते आगराख्ये नगरे शाहिसाम्राज्यराजधानीरूपे, पुनः, गरीयसि महति, चतुर्मासकं आसितः स्थितः, गुरुः किं०, प्रजाप्रभुरकब्बरस्तत्प्रेमपयोनिधौ विधुश्चन्द्रस्तदुल्लासद्धिकारित्वादिति ॥ ४७॥ निरन्तरं श्रीगुरुवज्रिणो व्यधात्
प्रशंसनं शाहिरिति खपर्षदि । क्रियासु वाक्येषु च तुल्यमीदृशं
न चान्यमद्राक्षमहं मुनि क्वचित् ॥ ४८ ॥ . श्रीगुरुवज्रिणः सूरीन्द्रस्य, शाहिः स्वपर्षदि इति प्रशंसा व्यधात् , इति कथं तदेवोत्तरार्धेनाह-क्रियासु धर्मकर्त्तव्यरूपासु, वाक्येषु सत्यभाषणरूपेषु, तुल्यं इदृशं अन्यं मुनि तिनं, अहं नाद्राक्षं नाऽपश्यामिति ॥ ४८॥
अथो गुरूणां पुरि तत्र तस्थुषां
निशम्य शाहिमहिमानमहुतम् ।। दधद् मुदं पर्युषणादिनाऽभय. प्रदेशनाख्यान् पटहानवीवदत् ॥ ४९ ॥
तत्र पुरि आगराख्ये, तस्थुषां तेषां गुरूणां, अद्भुतं महिमानं निशम्य मुदं दधत् शाहिः पर्युषणादिनाऽभयप्रदेशनाख्यान् संवत्सरपर्वसम्बन्धिवासरामारिप्रवर्तकान् पटहान् अ. वीवदत् सेवकैर्वादयामास, पर्युषणापर्वसत्कामष्टाहिकां याबज्जीचामारिं कारयामासेति भावार्थः ॥ ४९ ॥
Page #369
--------------------------------------------------------------------------
________________
३४४ विजयाशस्त्याम् ।
विधाय शौरीपुरपुर्यथो यदू.. द्वहस्य यात्रामतिमात्रसंघभृत् । जिनप्रतिष्ठां प्रचकार पारणे
पुरेऽथ तत्रैव पवित्रदृग् गुरुः ॥ ५० ॥ अयो गुरुः, किं०, अतिमात्रसंघभृद् भूरितरसंघसंयुतः सन्, चतुर्मासकपारणे जाते सति शौर्यपुरे कुशावर्त्तदेशस्थे श्रीनेमिजन्मभूमौ यदहस्य नेमेः, यात्रां विधाय, पुनस्तत्राऽऽगत्य जिनप्रतिष्ठां श्रीचिंतामणिपार्श्वनाथप्रतिष्ठां, कुतवान् ॥ ५० ॥ उपोयवांसोऽथ पुनः फतेपुरं
गुरुप्रबर्हाः स्वपरिच्छदान्विताः । तमो हरन्तः सुरराजदिक्शिलो
च्चयोच्चमूर्धानमिवाब्जबन्धवः ॥ ५१ ॥ अयोग्रसेनपुरात् पुनः गुरुमबर्दा गुरुमुख्याः , स्वपरिच्छदेन पूर्वोक्तपण्डितपरिकरणान्विताः, अन्जबन्धवः सूर्याइव तमो हरन्तः तमः पापं ध्वान्तं चेति हरन्तो दूरीकुर्वन्तः सन्तः, सुरराजदिक्शिलोच्चयोच्चमूर्धानं पूर्वपर्वतशृङ्गमिव, फतेपुरं शाहिनाऽलङ्कृतं सीकरीतिनामकं नगरं उपेयिवांसः प्राप्ता इति ॥ ५१ ॥ निशम्य सूरि पुनरागतं पुरे
फतेपुरे द्राग् मिलनोत्सुकोऽच्छदृग् । बभूव भूपः सुकृताभिलाषुको
गुरुर्गरिष्ठोऽप्यजनिष्ट तन्मनाः ॥ ५२ ॥
Page #370
--------------------------------------------------------------------------
________________
३४५
नवमः सर्गः। पुनः फतेपुरे पुरे, सूरिं श्रीहीरमूरिं, आगतं निशम्य भूपः किं०, सुकृताभिलाषुकः पुण्यार्थी, पुनः किं०, अच्छदृक् निर्मलमतिः, गुरोमिलनोत्सुको बभूव गरिष्ठो गुरुरपि तन्मनास्तन्मिलनोत्सुकः, अजनिष्ट मात इति ।। ५२ ॥
अथ प्रभूतप्रतिभाट्यपण्डित
व्रतिव्रजालङ्कृतसंनिधिः सुधीः । अगच्छदत्यच्छमनाः स गच्छराड्
धराधिभूधाम निकामवामदृक् ॥ ५३ ॥ . अथ शाहिनाऽऽकारितः सन् स गच्छराद्, कि०, प्रभूतमतिभाढ्या महामतिमन्तो ये पण्डिता वतिनो गीतार्थमुनयस्तेषां ब्रजेनाऽलङ्कृतो भूषितः संनिधिः समीपं यस्य सः, एतावतान्यान् मुनीनुपाश्रये संस्थाप्य केवलं कोविदैरेव परितः, पुनः किं०, अत्यच्छमनाः प्रसन्नचेताः, पुनः किं०, निकामं प्रकामं वामा मनोज्ञा दृग् यस्य चित्तोत्साहेन हसितनयन इति, धराधिभूधाम राजेन्द्रगृहं, अगच्छद् गतवानिति ॥ ५३ ॥
जनाक्षिनीलोत्पलपङ्क्तिकान्तिकृद् : - दयोदधेः वृद्धिकरः कलानिधिः । सूरेण राज्ञा ददृशे प्रमोदकृत् . - स सप्ततिश्चन्द्र इवर्षिभिर्युतः॥ ५४ ॥ जनाक्षिनीलोत्पलपङ्क्तिकान्तिकृद् लोकनयनकुवलयश्रेणिशोभाकरः तद्विस्मरताकरणात् , पुनः, दयोदधेः कृपासमुद्रस्य, वृद्धिकरः तदुल्लासित्वात् , पुनः, कलानिधिरिति प्रतीतं चन्द्रइव, स गुरुः, सूरेण सूर्येण, गुरुपक्षे सुभटेन राज्ञाऽनेन शाहिना, चन्द्रपक्षे सूरेण ग्रहेण ददृशे, किं०, सप्तभिः ऋषिभिः
Page #371
--------------------------------------------------------------------------
________________
३४६
विजयः शस्त्याम् ।
युतस्तदानीं स्थानकसप्तकस्य सद्भावात् चन्द्रपक्षेऽपि सप्तर्षिभिर्युतः इति, प्रमोदकुदिति विशेषणं सूर्यस्य चन्द्रमित्रत्वेन न्याय्यमिति "चन्द्रस्याऽर्कबुधौ मित्रे " इति ज्योतिःशास्त्रवचनात् ॥५४॥ सदस्सदुल्लासविलासकोविदैर्वचोभिराचार्यसभाशिरोमणेः ।
गुरोर्मुदं प्रापदपापदृग् नृपः प्रसेनजित्सूनुरिवान्तिमाऽर्हतः ॥ ५५ ॥
नृपः शाहिः, किं०, अपापदृक् निष्पापमतिः निष्पापनेत्रो वा. आचार्यसभाशिरोमणेः सूरिपर्षच्चूडामणेः, गुरोर्वचोभिः सदसोऽर्थाद् राजसभायाः सदुल्लासः शोभनोल्लासस्तद्विलासे कोविदैः निपुणैः, मुदं प्रापत् । कः कस्येवेत्याह- अन्तिमार्हतो महावीरस्य, वचोभिः प्रसेनजित्सूनुः श्रेणिक इव, इति दृष्टान्तोत्प्रेक्षे ।। ५५ ।।
गुरोर्गिराऽथावनिजा निरब्जिनी -
प्रियप्रमाहः फुरमानपत्रकम् ।
समस्तजीवाभयदायि तत्क्षणा
दलीलिखत् खाखिलमण्डलेष्वपि ॥ ५६ ॥ अथ गुरोगंरा अवनिजानिः शाहि, अब्जनीप्रियप्रमाहः फुरमानपत्रकं द्वादशदिवसानां फुरमानपत्रं, किं०, समस्तजीवाभयदायि सर्वजन्तुभयनिवृत्तिकारि, तत्क्षणाद् गुरुवाक्याकर्णनादनन्तरमेव, अलीलिखद् लेखयामास । केष्वित्याहस्वाखिलमण्डलेष्वऽपि निजाज्ञावर्तिषु सकलेष्वपि देशेषु, मेवढाख्यकिङ्करैः प्रतिदेशं प्रैषीच्चापिशब्दादिति गम्यम् ॥ ५६ ॥ अमूमुचद् गुप्तिगृहाच्च बन्दिनो
Page #372
--------------------------------------------------------------------------
________________
नवमः
सर्गः
विहङ्गवृन्दं दृढपञ्जरात् पुनः । निशानिबद्धान् मधुपानिवाऽम्बुजोदरादुदारोऽम्बुजिनीजनिः स्फुरन् ॥ ५७ ॥
च पुनः, गुप्तिगृहात् कारागारात् बन्दिनो नियन्त्रितनरान्, अमूमुचत् शाहिरिति, गुरुगिरेति गम्यम्; पुनः, दृढपखराद् विहङ्गवृन्दं अमृमुचत् । दृष्टान्तमाह- इव यथा, अम्बुजोदरात् पद्ममध्यात्, निशानिवद्धान् रात्रिवद्धान् मधुपान् भृङ्गान्, अम्बुजिनीज निरिव र विर्यथेति ॥ ५७ ॥ मदाधिपत्यं भुवि यावदस्त्यदो
न हन्ति कोऽप्यत्र झषादिदेहिनः । वदन्निति क्षोणिपतिः पुरो गुरोरुपप्रदानेऽकृत डाबरं सरः ॥ ५८ ॥
,
३४७
,
भुवि भूमौ अदो मदाधिपत्यमेतद् मत्साम्राज्यं यावदस्ति वर्तते तावदत्र कोऽपि झषादिदेहिनो मीनमकर शिशुमारकुर्मकुलीरादिप्राणिनो जलचरविशेषान् न हन्ति इति क्षोणिपतिरकब्बरः, गुरोः पुरो वदन् डाबरं नाम सरोवरं सीकरीसमीपस्थं योजनत्रयीप्रमाणं नैकलक्षजालजालपतन्मत्स्य संहारसंजायमानामानधनागममपि, उपप्रदानेऽकृत ढौकनीकृतवा - नित्यर्थः ।। ५८ ।।
नभोऽशुनेवातिविभासुरं जगत् सदाऽमुना श्रीगुरुणेति जल्पता ।
अतिप्रभूताद्भुतमानदानत
स्तदाऽयमुच्चैः सदकारि भूभुजा ॥ ५९ ॥
Page #373
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
अंशुना सूर्येण, नभ इव, अमुना श्रीगुरुणा, जगद् विश्व, अतिविभासुरं कृतमिति शेषः, इति जल्पता भूभुजा अति प्रभूतमतिशयेन बहु पुनरद्भुतमाश्चर्यकारि यन्मानं तस्य दानतः, तदा तत्र क्षणे, अयं गुरुः, उच्चैः सदकारि सच्चक्रे ।। ५९ ।। अथो चतुर्मासमुल्लसत्सुखे फतेपुरे दत्तजयोत्सवे गुरुः । निरस्तमन्युर्गणभृद् महाव्रती
हरः शिवाया मनसीव तस्थिवान् ॥ ६० ॥
अथो गुरुः उल्लसत्सुखे दीप्तिमत्साते, फतेपुरे, पुनः किं०, दत्तो जयोत्सवोऽकब्बरशाहे : श्रीगुरोश्च येन तस्मिन्, शिवायाः पार्वत्याः, मनास किं०, दत्तजयोत्सवे दत्तो जयायास्तत्सख्याउत्सवो येन तत्र, हर इव किं०, निरस्तो गुरुपक्षे मन्युः क्रोधो येन, हरपक्षे मन्युर्यागो येन स हि मखध्वंसीति श्रुतेः पुनः किं०, गुरुपक्षे गणं गच्छं विभर्तीति, हरपक्षे “प्रमथाः पार्षदा गणाः" तान् विभर्तीति गणभृत् पुनः किं०, महाव्रती गुरुभ्र हरवेति प्रतीतं चतुर्मासकं तंत्र तस्थिवान् स्थित इति ॥ ६० ॥
अथ छन्दःपरावृत्या सर्गमुपसंहरतिअरिधरणिपतिस्त्रीदृग्जलासारधारानिकरकरणवर्षोत्कर्षखडाग्रधारे । लसति सति हमाऊनन्दने राज्ञि तत्र
३४८
स्थितिमकृत कृतद्धि ज्यायसीं सूरिराजः ॥ ६१ ॥
तत्र सीकरीनगरे, हमाऊनन्दने राशि शाहिश्रीमदकब्बरे, लसति सति, किं०, अरिधरणिपतिस्त्रीणां वैरिराजयो
Page #374
--------------------------------------------------------------------------
________________
नवमः सर्गः। षितां यो दृग्जलासारधारानिकरो नयननीरवेगवद्वर्षणधारासमूहस्तत्करणे तदुत्पादने वर्षोत्कर्ष इव वर्षाकालप्रकर्ष इव खड्गारधारा यस्य तस्मिन् अरिधरणिपतिस्त्रीगजलासारधारानिकरकरणवर्षोत्कर्षखड्गारधारे, सूरिराजः ज्यायसी ज्येष्ठस्थिति, किं०, कृता ऋद्धिः यश समृद्धिरूपा यया तां, अकृत अकरोत् ॥ ६१॥
कमलकुवलयानां कोकघूकाङ्गनाना- . ___ महिममहसि पूर्वे पर्वते प्रापुषीव । स्थितवति पुरि तस्यामोजसां धाम्नि सूरि
द्युसदि सदसतां द्राग् भूत्यभूती अभूताम्॥६२॥ __ ओजसांबलानां तेजसा वा, धाम्नि गेहे, सूरिासदि मूरिदेवे, तस्यां पुरि सीकरीनाम्न्यां, स्थितवति सति, सदसतां हिताहितजनानां, भूत्यभूती संपदाऽऽपदे, यथाक्रमं अभूतां बभूवतुरित्यन्वयः। दृष्टान्तेन द्रढयति-पूर्वे पर्वते उदयाचले, अहिममहसि सूर्ये, प्रापुषि सति यथा कमलकुवलयानां पङ्कजोत्पलानां, भूत्यभूती स्यातां-कमलानां स्मेरतारूपा श्रीः, कुवलयानां च म्लानिरूपाऽश्रीः पुनः कोकघूकाङ्गनानां यथा भूत्यभूती स्यातां-कोकानानां चक्रवाकस्त्रीणां तद्वल्लभसंगमादिष्टापत्तिरूपा श्रीः, घूकानानां चाऽन्धत्वाऽऽगमादनिष्टापत्तिरूपाऽश्रीवेति ॥ ६२ ॥ कारुण्याम्भोनिधिमधि पतच्चित्तवृत्त्यण्डजेन स्फूजनीतिस्मितनयनयाऽऽश्लिष्टवक्षःस्थलेन । नित्यं नीतो हृदयपदवीं श्रीहमाऊसुतेन द्रले तत्र स्थितिमधिगतो हीरसूरिः श्रिये वः ॥६॥
Page #375
--------------------------------------------------------------------------
________________
३५० विजयप्रशस्त्याम् । __ श्रीहमाउसुतंन अकबरशाहिना. किं०. कारुण्याम्भोनिधि करुणारसाणवं, अधि लक्षीकृत्य, पतच्चित्तवृत्तिरेव अण्डजो मत्स्यो यस्य तेन दयोदधिनिमग्नमनोमीनेनेत्यर्थः; पुनः किं०, स्फूर्जन्नीतिस्मितनयनया चश्चन्यायप्रवृत्तिकामिन्या आश्लिष्टमालिङ्गितं वक्षःस्थलं यस्य तेन, हृदयपदवीं नीतो मनसि स्थापितः, हीरमूरिस्तत्र दङ्गे फतेपुरे, स्थितिमधिगतश्चतुमौसीमासीनः, वो युष्माकं, श्रिये संपदे, स्तादिति शेषः॥६३।। ___ अत्र सर्गे भून्ना वंशस्थं नाम च्छन्दः “जतो तु वंशस्थमुदीरितं जरौ" इति लक्षणा ; कुत्राऽप्युपजातिरपि । अन्त्ये वृत्तत्रये द्वे वृत्ते मालिनीच्छन्दसा, तल्लक्षणं तूक्तपूर्वम् ; तृतीयं तु मन्दाक्रान्तावृत्तम् , तल्लक्षणं यथा-पन्दाक्रान्ता जलधिषडगम्भी नतो ताद् गुरू चेत्" इति । • • • • • • • • • • • • • • • • • • • • • • •
इतीति सर्व सुगमम् । इति सुविहितसभासार्वभौमसमानसकलपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकगुणविजयगणिविरचितायां विजयपदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटी
कायां नवमः सर्गोऽर्थतः समर्थितः ।
Page #376
--------------------------------------------------------------------------
________________
अर्हम्
अथ दशमः सर्गः ।
अथ दशमः सर्गः प्रारभ्यतेआचार्यवर्यो विजहार पत्तनादन्यत्र धात्रीषु पवित्रपद्धतिः । भृङ्गा इवामोदनिमग्नमानसा
स्तिष्ठन्ति नैकत्र चरित्रिणो यतः ॥ १ ॥ आचार्यवर्येऽष्टमसर्गव्यावर्णित स्वरूपोऽनूचानमुख्यः श्रीविजयसेनमूरिः, किं०, पवित्रा पद्धतिः संयमप्रवृत्तिरूपा यस्य सः, पत्तनाद् नगराद् अन्यत्र धात्रीषु गूर्जरत्रादेश एवान्यग्रामनगरानीषु, विजहार विहृतवान्; यतः कारणात्, चरित्रिणां भृङ्गा इव किं०, आमोदे निमनं मानसं येषां ते, चरित्रिणः किं०, आमोदनिमग्नमानसा हर्षमग्नमानसाः, भृङ्गाः किं०, आमोदे गन्धे मनं मनो येषां ते; एकत्र स्थाने, न तिष्ठन्तीति ॥ १॥ वक्षोजवेदसुधांशुसंमिते
वर्षे सुखोत्कर्षणि हर्षवर्षिणि । लोकेहितायाऽर्क इत्र प्रतापभृत्
सूरिः स एतः पुनरेव पत्तने ॥ २ ॥ वक्षोजौ स्तनौ द्वौ, बेदा ऋग्यजुःसामाऽथर्वणाख्याश्चत्वारः, ऋतवो हिमशिशिरवसन्तग्रीष्मवर्षाशरत्संज्ञकाः षट्, सुधांशुचन्द्रमा एकः तेनैतैरङ्गैर्वामगतिविन्यस्तैः संमिते वर्षे
Page #377
--------------------------------------------------------------------------
________________
'३५२
विजयप्रशस्त्याम् ।
१६४२ इतिसंख्ये संवत्सर, कि०, सुखस्योत्कर्षो यस्मिन् तस्मिन् सुखोत्कर्षिणि, पुनः, हर्षवर्षिणि प्रमोददायिनि, लोकहिताय लोकानामीहिताय वाञ्छितपूरणाय, अथवा लोके लोकविषय, हितायाऽऽनुकूल्याय, स मूरिराचार्यः, पुनः चतुर्मासकद्वयादनन्तरं, तृतीयं चतुर्मासकं कर्तुकामः पत्तने नगरे, पुनरेतः प्रा. तः, किं०, अर्क इव प्रतापभृत् तेजस्वित्वात् ॥ २ ॥ दुष्पाक्षिकोलूकसहस्ररश्मिभिः
श्रीसागरैर्वाचकधर्मसागरैः । क्लप्तस्य शास्त्रस्य हरेरिव श्वभिः
सूरेविवादः सममौष्ट्रिकैरभूत् ॥ ३ ॥ वाचकधर्मसागरैः, किं०, दुष्पाक्षिकाः कुपाक्षिका एव उलूका घूकास्तेषु सहस्ररश्मिभिः, पुनः, शास्त्रादिश्रियः सागरैः, क्लप्तस्य शास्त्रस्य प्रवचनपरीक्षाभिधानस्य, विवादः सूरेः श्रीविजयसंनस्य, औष्ट्रिकैः खरतरैः, सममभूत् । कैः सह कस्येवेत्याहहरेः सिंहस्य, इव यथा, श्वभिःश्वानरिति दृष्टान्त उत्प्रेक्षा वा ॥३॥ ततो विवादे किं जातमित्याहपार्षद्यहृद्ये सदसि क्षमेशितु
दत्रियामारमणैर्दिनैर्महान् । श्रीस्मेरराजीवगेककार्मणं
तत्राऽप्यनूचानपतेरभूज्जयः ॥ ४ ॥ क्षमेशितुर्भूपस्य, सदसि, कि०, पार्षद्यैः सभ्यैहृद्ये रम्ये, अत्र सदःशब्दस्य स्त्रीक्लीबलिङ्गत्वाद् विशेषणमिदमदुष्टमिति, दिनः किं०, वेदाश्चत्वारः, त्रियामारमणश्चन्द्रश्चैकः, ततो वामगतिमीलितेवेंदचन्द्राश्चतुर्दशभिः, दिनैर्विवादं कुर्वतो
Page #378
--------------------------------------------------------------------------
________________
दशमः सर्गः ।
३५३
अनूचानपतेः श्रीविजयसेनसूरीन्दोः, तत्र पचने नगरे, जयो चादिविजयरूपः किं०, श्रीः शोभा सैव स्मेरराजीवदृक् कामिनी तस्याः कार्मणं शोभाया एकहेतुर्वादे जयोऽभूदिवि ॥४॥ वत्साभिधस्याऽथ नृपाधिकारिणः कल्याणराजापरनामधारिणः ।
कक्षां प्रविष्ठैः सुमहानहम्मदा
वादे विवादः पुनरौष्ट्रिकैः कृतः ॥ ५ ॥ अथ वत्साख्यस्य नृपाधिकारिणः, किं०, कल्याणराजेस्यपरनाम्नः, कक्षां प्रविष्टैस्तद्गृह्मीभूय, औष्ट्रिकैः खरतरैः, पुनरहम्मदाबादे नगरे, सुमहान् विवादः कृत इति ॥ ५ ॥ अथ तत्रापि यज्जातं, तत् त्रिभिर्वृत्तैः प्राह
तेषामनूचानवितानवज्रिणां
धाम्ना महिम्ना च वचोऽतिशायिना । स्फीतस्फुरद्वाङ्मयवित्तिवित्तमैः
शिष्योत्तमैः सचमशक्तिशालिभिः ॥ ६ ॥ श्रीखानखानासदसि प्रबुद्धधीविप्रोम्बरामुख्यजनैर्विराजिनि । . तद्वाङ्मयव्यक्तविचारिवाचन
व्यक्तैः सभाविस्मयकारिवाग्भरैः ॥ ७ ॥ कल्याणराजस्य तथैौष्ट्रिकाध्वभृ
त्संघस्य निर्मूलमहारि विभ्रमः । चन्द्रस्य तारानिकरस्य चाभितो
Page #379
--------------------------------------------------------------------------
________________
३५४
विजयप्रशस्त्याम् । ध्वान्तं हरहिः किरणे वेरिव ॥ ८ ॥ अनूचानवितानवज्रिणां आचार्यव्रजवज्रपाणीनां, तेषां धाम्ना तेजसा, च पुनः, वचोऽतिशायिना वचनागोचरेण, महिम्ना माहात्म्येन, शिष्योत्तमैविनेयमुख्यैः, किं०, स्फीतानि च स्फुरन्ति च यानि वाङ्मयानि शास्त्राणि तेषां या वित्तिर्विचारणा ज्ञानमिति तत्र वित्तमैश्चतुरतरः, अत एव सत्तमशक्तिशालिभिः अतिश्रेष्ठशास्त्रादिसामर्थ्यधारिभिः ॥६॥ पुनः केत्याह-श्रीखानखानाख्यमहाराजेन्द्रसदसि, कि०, प्रबुद्धधियो ये महापाज्ञा विप्रास्तार्किकभट्टाः पुनर्ये च उम्बरा राजविशेषाः सामन्तादिस्थानोयास्तन्मुख्यजनैस्तत्प्रमुखानेकराजलोकनागरलोकैः,विराजिनि भ्राजमाने, पुनः, शिष्यैस्तस्य वाङ्मयस्य प्रवचनपरीक्षाख्यस्य व्यक्तं स्फुटं यद् विचारि विचारवद् वाचनं तत्र व्यक्तैर्निपुणैः, अत एव समाविस्मयकारिवाग्भरैः पर्षदाश्चर्यद्वाक्यप्रकः ॥ ७॥ ईदृग्विधैस्तैः शिष्यैर्यत्कृतं तदाह-तस्य कल्याणराजस्य तथा औष्ट्रिकाऽध्वभृत्संघस्य च खरतरसंबन्धिपक्षस्य च, निर्मूलमिति क्रियाविशेषणं समूलं, विभ्रमोऽहारि हतइति । चन्द्रस्य तारानिकरस्य च रवेः किरणैः, किं०, ध्वान्तं हरद्भिः सद्भिरिव यथेति दृष्टान्तः । इति काव्यत्रयीव्याख्या ॥८॥ अथ खरतरान् विजित्य श्रादेष्टैर्यत् कृतं तदाहश्रीखानखानार्पितवाद्यवादन
र्वाचालतानीतसमस्तदिग्मुखैः। शास्त्रं प्रति स्थानमनीयताऽखिल
श्राद्वैस्तदुत्साहकृदुत्सवोत्सुकैः ॥९॥
श्रीखानखानापितैर्वादिध्वनिभिर्वाचालतां मुखरत्वं नीतानि समस्तानि दिग्मुखानि येस्तैः, श्रादैस्तच्छास्त्रं स्था
Page #380
--------------------------------------------------------------------------
________________
दशमः सर्गः।
३५५ नं प्रति अनीयत आनीतं, श्रादैः कि०, उत्साहकारी य उत्सवस्तत्रोत्सुकैः ॥९॥ एषा जयोतिर्जिनशासनस्थिति
स्मेरेक्षणाभालमणीविशेषकः । पृथ्वी पृथिव्यां प्रथिमानमासदत्
तैलस्य बिन्दुः पयसीव तत्क्षणात् ॥ १० ॥ एषा वर्णिता, जयोक्तिर्विजयवाग् , कि०, जिनशासनस्थितिरेव स्मरेक्षणा स्त्री तद्भाले मणीविशेषको रत्नतिलकं, स्त्रीलिङ्गवाच्यस्य शब्दस्य पुंलिङ्गवाच्यं विशेषक इति विशेषणमदुष्टं 'लिङ्गभेदं तु मेनिरे' इति वचनात् पुनर्जयोक्तिः किं०, पृथ्वी विस्तीर्णा, अत एव पृथिव्यां प्रथिमानं विस्तारभावं आसदद, यथा तैलस्य विन्दुः पयसि वारिणीति दृष्टान्तः ॥१०॥ सर्वोऽपि संघो जिनशासनोन्नते
रुक्त्याऽनया प्रीतिमवाप निर्भरम् । अप्रीतिमुच्चैश्च कुपाक्षिकव्रजः
कोकश्च घूकश्च वेरिवोदये ॥ ११ ॥ जिनशासनोभतेरनया उक्त्या सर्वोऽपि संघस्तपागच्छसत्कः, प्रीतिमवाप प्राप्तवान् , च पुनः, कुपाक्षिकवजः कुतीर्थिकनिकरः, अप्रीतिमवाप, यथा रवेरुदये सति, कोकघूको चक्रवाकोलूकी, प्रीतिमप्रीतिं च क्रमेण प्राप्नुत इति दृष्टान्तदयम् ॥ ११ ॥ मत्वाऽनयोक्त्याऽत्यमलामहम्मदा
वादं पुरी द्राक् शरदेव दीर्घिकाम् ।
Page #381
--------------------------------------------------------------------------
________________
३५६ विजयप्रशस्त्याम् ।
आसीद् वलक्षद्विजवत् सुपक्षभाक् ___ पद्मोदयेच्छुर्गुरुरेतुमुत्सुकः ॥ १२ ॥
शरदा शरत्कालेन, दीर्घिकां वापीमिव, अनया जयोक्त्या वादजयवाचा, अमलां विशदा, अहम्मदाबादं पुरी मत्वा गुरुर्विजयसेनसूरिः, वलक्षद्विजवत् कलहंस इव, किं०, सुपसभाक् शोभनच्छदभृत् , गुरुपक्षे सुपक्षो धर्मपक्षस्तद्वानिति, पुनः कि०, पद्मोदयेच्छुः हंसपले पदानां पङ्कजानां, गुरुपक्षे पद्माया लक्ष्म्या उदयाभिलाषी इति, एतुं आगन्तुं, उत्सुकोऽभूदिति ॥ १२ ॥
क्ष्मां पावयन् पादपयोजपांसुभि___ोङ्ग प्रवाहोऽहिरिवर्षिशेखरः।
प्राप क्रमेण प्रमना अहम्मदा___ वादं पुरं हर्ष इवर्षिमानसम् ॥ १३ ॥
ऋषिशेखरः सरिः, पादपयोजपांसुभिश्चरणकमलरेणुभिः, बद्रिः पानीयैः, गार प्रवाह इव क्ष्मां पृथ्वी, पावयन् क्रमेण प्रमना मानसः सन् , अहम्मदावादं पुरं प्राप, ऋषिमानसं सर्वदा शान्तरसपूर्णत्वाद् हर्षः प्रमोद इवेति दृष्टान्तो वोत्नेमा बा ॥ १३॥ श्रीसूरिसूरस्य समागमोल्लस
नेत्रास्यपद्मा भृशमास्तिका अथ । साफल्यमिच्छन्तमुपार्जितश्रिय
चक्रुः प्रवेशोत्सवसूत्रणामिति ॥ १४ ॥ ... भय मास्तिकास्तत्रत्याः भादलोकाः, किं०, श्रीमरि
Page #382
--------------------------------------------------------------------------
________________
दशमः सर्गः।
३५७ सूरस्य गुरुमूर्यस्य, समागमेन उल्लसन्ति नेत्रास्यपदानि नयनानननलिनानि येषां ते, उपार्जितायाः श्रियो लक्ष्म्याः , साफल्यं इच्छन्तः सन्तः, प्रवेशोत्सवस्य सूत्रणां निष्पत्ति, इति वक्ष्यमाणखरूपां, चक्रुरिति ॥ १४ ॥
अथ सप्तदशभित्तैः प्रवेशोत्सवं वर्णयतिश्रीखानखानावनिजानिवज्रिणा __ दत्ताऽतिमत्तद्विरदैः पुरस्सरैः । सिक्ता धरित्री पतता मदांम्भसा .
कस्तूरिकाकर्दमसंचयेन किम् ? ॥ १५ ॥ श्रीखानखानाख्येन अवनिजानिवज्रिणा राजेन्द्रेण, तदा तदाधिपत्यशालिना, दत्ताऽतिमत्तैरिदैर्गजैः, पुरस्सरैरग्रेसरैः, पतता मदाम्भसा मदवारिणा, धरित्री भूः, सिक्ता । किमित्युत्नेक्ष्यते-कस्तूरिकाकर्दमसंचयेन मृगमदपङ्कपानीयेनेवेति ॥ १५ ॥ वाऽभवद् मत्तविहस्तहस्तिनां
घण्टाटणत्काररवैमनोहरम् । कासारकूलं तपनोदयादिव. __ त्यक्तप्रमीलार्जुनवाजिकूजितैः ॥ १६ ॥
मत्ता अत एव ये विहस्ता व्याकुला हस्खिनो मदव्यग्रगजेन्द्रास्तेषां, घण्टाटणत्काररवैः नगरवर्त्म मनोहरं अभवत् । - इव यथा, तपनोदयात् सूर्योदयात् , त्यक्तप्रमीला गतनिद्रा ये अर्जुनवाजिनो धवलविहामाः “वाजी हये खगे" इत्यनेकार्थत्वाव, अर्जुनवाजिनो राजहंसास्तेषां कूजितैः शब्दितैर्जााद्राजहंसस्तैः, कासारकूलं तटाकतट, यथा मनोहरं भवति तथेति ॥१६॥
Page #383
--------------------------------------------------------------------------
________________
३५८
विजयाशस्त्याम् ।
धत्ते स्म धात्री पुरि तत्र दन्तिनां
सिन्दूरपूरैर्निपतहिरिन्दिराम् । खाहाऽशनानां पदवीव नूतन
प्रद्योतनस्योस्रभरैरिवोषसि ॥ १७ ॥ तत्र पुरि दन्तिनां सिन्दूरपूरैनिपतद्भिः सद्भिः, धात्री भूमिः, इन्दिरां श्रियं, धत्ते स्माधात् ; यथा उपसि प्रभाते, नूतनप्रद्योतनस्य उद्यद्भानोः, उसभरैः किरणगणैः, स्वाहाशनानां पदवी गगनमिवेति दृष्टान्तः ॥ १७ ॥
शृङ्गारिभृङ्गारमनोज्ञमस्तका- अग्रे ब्रजन्त्यो व्यभुरब्जलोचनाः । किं संचरन्त्यो भुजगेश्वरस्त्रियः
कुम्भं सुधायाः प्रविधाय मूर्धनि ? ॥ १८ ॥ तदा अग्रे गुरोः पुरः, व्रजन्त्योऽजलोचनाः खियः, व्यः शोभन्ते म । किं०, शृङ्गारी शृङ्गारवान् यो भृङ्गारः पूर्णकुम्भस्तेन मनोझं मस्तकं यासां ताः, किं०, भुजगेश्वरस्त्रियो नागेन्द्रनार्यः, सुधायाः कुम्भं मूर्धनि प्रविधाय संचरन्त्यः सन्ति, किमित्युत्भेक्षा ॥ १८ ॥ सौवर्णरानाभरणा विरेजिरे
श्राद्धास्तदा तत्र करीन्द्रकुम्भगाः । आगाद् गजस्थस्त्रिदिवाद् विवन्दिषू
रूपैरनेकैरिव नाकिनायकः ॥ १९ ॥ तदा तत्र पुरे, श्रादाः किं०, सौवर्णानि सुवर्णसंबन्धीनि
Page #384
--------------------------------------------------------------------------
________________
दशमः सर्गः।
३५९ रात्नानि रत्नसंबन्धीनि आभरणानि येषां ते, पुनः किं०, करीन्द्रकुम्भगा हस्तिशीर्षस्थाः, विरेजिरे रेजुः । इवात्प्रेक्ष्यतेनाकिनायकः शक्रः, किं०, गजस्थः, पुन किं०, विवन्दिषुगुरुवन्दनेच्छुः सन् , त्रिदिवात् स्वर्गात् , अनेकै रूपैरागात् आगत इति ॥ १९ ॥ पर्याणवर्यास्तुरगाः पुरो व्यभु
भूयिष्ठभूर्याभरणा असादिनः । खिन्ना इवोत्तेरुरमी भ्रमिश्रमा___चन्द्रार्यमस्यन्दनगा नभस्तलात् ॥ २०॥
पुनस्तत्र पर्याणैर्वर्याः सपर्याणाः, पुनः किं०, भूयिष्ठानि भूर्याभरणानि स्वर्णाभरणानि येषां ते "भूरि सुवर्णे" इति, पुनः किं०, असादिनः अश्ववाररहितास्तुरगाः, पुरोऽग्रतः, व्यमुर्भान्ति स्म । इवोत्प्रेक्ष्यते-नभस्तलाचन्द्रार्यमस्यन्दनगाचन्द्रसूर्यरथसत्कास्तुरगाः, भ्रमिश्रमात् खिना इव, उत्तररुत्तीर्णा इति ॥ २०॥ निःस्वानभेरीमुखभूरितूरभू
खानैश्च गन्धर्वरवैश्च गीतजैः।। कोलाहलैश्चातुललोकसम्भवै- .
रेजे तदा शब्दमयीव रोदसी ॥ २१ ॥ तदा रोदसी द्यावाभूरूपा, शब्दमयीव रेजे इत्यन्वयः। कै- ... रित्याह-निःस्वानभेरीप्रमुखबहुतूर्योत्थस्वानैः, पुनः, गीतजैः गान्धर्वरवैः गायनध्वनिभिः, च पुनः, अतुललोकजैः कोलाहलैः, शब्दमयी घौभूमिश्च तदा जातेति ॥ २१ ॥
मुक्ताफलस्वर्णमणीविभूषणे
Page #385
--------------------------------------------------------------------------
________________
२६० विजयपत्र त्याम् ।
दिव्यैर्दुकूलैर्वसनैश्च शोभनाः। एणीदृशो गीतसृजस्तदा व्यभु
नत्यै गुरोरप्सरसः किमागताः ? ॥ २२ ॥ मुक्ताफलस्वर्णमणीविभूषणमौक्तिककनकरत्नाभरणैः, च पुनः, दिव्यैर्दुकूलवसनः पकूलपरिधानः, शोभना रम्याः, गीतसृजो गानकारिण्यः, एणीदृशः स्त्रियः, व्यभुः शोभन्ते स्म, वदोत्सवे गुरोर्नत्यै नमनाय, कि०, अप्सरसः स्वर्गाङ्गनाआगता इति ॥ २२ ॥ श्राद्धैर्ददगिर्धनमर्थिनां तदा
यहालतोऽलोपि लिपिः सदथिता । स्वःसन्मणीगोद्रुमुखाग्रतोऽपि यत्
तैस्तत्प्रभृत्यत्र न जातमर्थिभिः ॥ २३ ॥ तदा श्रादैर्जनैः, अर्थिनां याचकाना, धनं ददद्भिः यद्भालतः सदर्थिता लिपिः विद्यमानार्थित्वलिपिः, अलोपि लुप्ता । उत्तरार्धेन तदेतुमेव व्यञ्जयति-स्वःसन्मणीगोद्रुमुखाणामपि सुरमणिसुरगवीसुरतरुपमुखाणामपि, अग्रतः पुरः, तैरर्थिभिः, तत्प्रभृति तद्दिनात् , यदिति यस्मात् कारणाव, अर्थिभियोचनाकृद्भिः, न जातं, अथिभिः पुनरथिभिर्न बभूवे इति भावः ॥ २३॥ रेजुर्ध्वजाः पुष्कलवर्णपेशला
उत्तम्भिता हट्टगृहावर्त्मसु । किं केतवोऽमी युगपत्कुपाक्षिका
हङ्कारधिक्कारकृते समुद्गताः ? ॥ २४ ॥
Page #386
--------------------------------------------------------------------------
________________
दशमः सर्गः।
३६१ पुष्कलैबहुभिर्वर्णैः पेशला रम्याः, पुनहट्टगृहाष्ट्रवमसु उत्तम्भिता ऊर्वीकृताः, ध्वजा रेजुर्व्यभुः । किमित्युत्प्रेक्ष्यतेकेतवो धूमग्रहविशेषाः, अमी युगपत् समकालं, कुपाक्षिकाहङ्कारधिक्कारकृते समुद्गता उदिता इवेति ॥ २४ ॥
मुक्ताफलैस्तत्र परस्पराहति__ स्त्रीस्तोमहारात् पतितैर्मही बभौ । । कर्तु स्वयं स्वस्तिकपक्तिमागता
किं ताम्रपर्णीतटिनी स्वमौक्तिकैः ? ॥२५॥ तत्र पुरे, परस्परं आहतिः संघट्टो यासां ताः परस्पराहतयो याः स्त्रियस्तासां यः स्तोमो व्रजस्तद्धारादित्यत्र जात्यपक्षया एकत्वम् ; तेन हारेभ्यो निपतितैर्मुक्ताफलैः, मही भूः, बभौ; किं ताम्रपर्णीतटिनी मुक्ताफलनदी, खमौक्तिकैः स्वस्तिकपक्तिं कर्तु खयमागतेति ॥ २५ ॥ वक्रभुवस्तत्र गवाक्षसंगता
लाजान् गुरोर्मूर्ध्नि वरानवाकिरन् । वर्षन्त्यमूरप्सरसः परस्परा
हंपूर्विकोत्का इव मौक्तिकोत्करैः ॥ २६ ॥ तत्र गवाक्षसंगता वातायनस्थिताः, वक्रभुवो नार्यः, गुरोमर्षि वरान् लाजान् अक्षताक्षतान्, अवाकिरन् क्षेपयामासुः । इवोत्प्रेक्ष्यते-परस्परमन्योन्यं अहंपूर्वमहंपूर्वमितिरूपाऽहंपूर्विका तया उत्का उत्सुकाः परस्पराहपूर्विकोत्का इव, अमः अप्सरसः, मौक्तिकोत्करैर्मुक्ताफलपटलैः, वर्षन्ति ॥ २६ ॥
वध्वो बभुस्तत्र विलोललोचनैः
'
७
Page #387
--------------------------------------------------------------------------
________________
३६२ विजयाशस्त्याम् ।
सेहं गुरोर्दर्शनवृत्तवृत्तयः । नीलोत्पले: फुल्लतमैरिवाप्सरः
श्रेण्योऽर्चयन्त्यः पथि संस्थिता इमाः॥ २७ ॥ तत्र विलोललोचनैश्चपलनेत्रः, वध्वो नार्यः, बभुः; कि०, गुरोर्दर्शने वृत्ता प्रवृत्ता वृत्तिश्चित्तवृत्तियांसां ताः, कथं, सेह सस्पृहं यथा स्यात् तथेति गुरुदर्शनाभिलाषित्वाद्, द्विधापि चपलेक्षणाः स्त्रियो भान्ति स्मेति । इवोत्प्रेक्ष्यते-इमा अप्सरःश्रेण्यः नीलोत्पलः, किं०. फुल्लतमः स्मेरतरः कुवलयैरर्चयन्त्यः पथि संस्थितास्तस्थुरिव ॥ २७ ॥ हृष्टाननैः सूरिसमागमाज्जनै
राभात् पुरं तहरवेषकल्पनैः । पाथोजिनीप्राणपतेरिवोदयात्
सद्यः प्रफुल्लैः सरसीरुहैः सरः ॥ २८ ॥ · मूरिसमागमाद् गुवागमात् . जनेः कि०, दृष्टाननः हर्षितमुखेः, अत एव पुनर्जनः किं०. वरवेषकल्पनः श्रेष्ठनेपथ्यरचनैः, तत् पुरं नगरं. आभात भाति स्म । इवेति यथावा, उत्प्रेक्ष्यते वा। पाथोजिनीमाणपतेः सूर्यस्य, उदयात् प्रफुल्लर्निर्निद्रः, सरसीरुहैः कमलेः. सरः कासार इवेति दृष्टान्तोत्नेक्षे ॥ २८ ॥
चामीकरं द्राक् क्रियमाणमर्थिसा
दालोक्य लोकाङ्गगतं च पुष्कलम् । ध्यातं तदेत्यन्यपुरागतैर्जनै
ङ्गेऽत्र किं वर्षति काश्चनो घनः ? ॥२९॥ तदा चामीकरं कनकं, अर्थिसाद् याचकाधीनं क्रियमाणं
Page #388
--------------------------------------------------------------------------
________________
दशमः सर्गः।
३६३ याचकानां दीयमानं, आलोक्य, च पुनः, लोकाङ्गगतं व्यवहारिनरनारीशरीरमाप्तं च, पुष्कलं पूर्ण, आलोक्य, तदाऽन्यपुरागतै नैरन्यस्थानीयैरागन्तुकैः लोकः, इति ध्यातमित्यचिन्ति । तदेवाह-किं अत्र द्रले राजनगरे, काश्चनो घनो हेममयो मेघः, वर्षतीति ॥ २९ ॥ गेहे गवाक्षेऽध्वनि चत्वरे तदा
तस्थुर्गुरोर्दर्शनमिच्छवो जनाः । शीते प्रभाते कपयो दिदृक्षवः
सूर्य द्रुमो-धरमेदिनीष्विव ॥ ३० ॥ तदा गुरोर्दर्शनमिच्छवो जना गुरुं द्रष्टुकामा लोकाः, गेहे गवाक्षे अध्वनि वर्त्मनि, चत्वरे वर्त्मचतुष्करूपे, तस्थुः, यथा शीते हिमसमये सति, प्रभाते प्रातलायां, सूर्य दिदृक्षवः कपयो वानराः, द्रुमोर्वीपरमेदिनीषु भूरुहभूधरभूमिषु, तिष्ठन्तीति - टान्तः॥३०॥
भूयानभूत् तत्र पुरे कुपाक्षिक__ वातैककाकारिदिवाकरोदयः । एवं प्रवेशोत्सव एष लोकदृग्
वल्ल्यालिचञ्चन्मलयाचलानिलः ॥ ३१ ॥ . .तत्र पुरे एवमिति व्यावर्णितप्रकारः, एष प्रवेशोत्सवो गुरुपवेशमहः, भूयान् महीयान् , अभूदित्यन्वयः। कि०, कुपाक्षिकवाताः कुतीथिसार्था एव काकारयो घूकास्तेषु दिवाकरोदयः सूर्योदयतुल्यः, तेषामन्यत्वरूपदुःखापादनात् , पुनः किं०, लोकहग्वल्ल्यालिचञ्चन्मलयाचलानिलः लोकश एव वल्ल्यालयो लतापतयः तासां तासु वा चञ्चन्मलयाचलानिलः लसन्
Page #389
--------------------------------------------------------------------------
________________
३६४ विजयाशस्त्याम् । दाक्षिणात्यां वात इवेति, लोकदृग्लतानां लास्यकारित्वात् ॥ ३१॥
साडम्बरं मौक्तिकमजुजालकं
नानावितानैः कृतवर्यविभ्रमम् । साश्चर्यचर्य बहुबद्धकुट्टिमं
धर्माभिधक्षोणिपतेरिवाश्रमम् ॥ ३२ ॥ कामप्रमोदं सुमनोमनोरमं
शश्वद् वृषानन्दनिदानमुन्नतम् । रम्यं सुधर्मानुजमागताः कमात्
पूज्या अलञ्चक्रुरुपाश्रयं वरम् ॥ ३३ ॥ सहाऽऽडम्बरेण शृङ्गारलक्षणेन वर्तते यस्तं, पुनः कि०, मौक्तिकैमजूनि जालकानि यत्र तं, पुनः किं०, नानावितानेविचित्रचन्द्रोदयैः कृता वर्या विभ्रमाः शोभा यत्र तं, पुनः कि०, सह आश्चर्यचर्यया वर्तते यस्तं, पुनः किं०, बहुबद्धं कुट्टिमं यत्र तम् । इवात्प्रेक्ष्यते-धर्माभिधक्षोणिपतेः सुकृतभूभर्तुः, आश्रमं स्थानमिति ॥३२॥ पुनः कि०,सुधमायोः शक्रसभाया अनुजं लघुभ्रातरं, तत्तुल्यत्वात् । सुधर्मानुजत्वमेव विशेषणत्रयेण व्यञ्जयति-कामेति। कार्म प्रमोदो यत्र, पक्षे कामस्य स्मरस्य प्रमोदो यत्र तं; पुनः कि०, सुमनोभिः पण्डितैः, पक्षे सुमनोभिः सुरेः मनोरमं पुनः कि०, वृषस्य धर्मस्य आनन्दस्य च हर्षस्य निदान बीजं, पक्षे वृषानन्दस्य इन्द्राडादस्य निदानं, पुनः, उन्नतमुत्तुङ्गं, भूमिचतुष्कसद्भावात् । अत एव रम्यम् , क्रमाद् नगरमध्यमागताः सन्तः पूज्या उपाश्रयमलचक्रुः । इति युग्मग्याल्वा ॥३३॥
Page #390
--------------------------------------------------------------------------
________________
दशमः सर्गः।
३६५ अग्रे गुरोश्चक्रुरदभ्रविभ्रमाः ____पीठे भुवोऽङ्के घुसणार्णसारुणे । मुक्ताक्षतैः स्वस्तिकपतिमङ्गना ___ रूपश्रिया निर्जितनिर्जराङ्गनाः ॥ ३४ ॥
गुरोरने अङ्गनाः, किं०, अदभ्रा बहवो विभ्रमा भूविलासाः षोडशकाररूपशोभा वा यासां ताः, पुनः किं०, रूपश्रिया निर्जिता निर्जराङ्गनाः सुराङ्गना याभिस्ताः, पीठे पादपीठपट्टिसादौ, पुनः, भुवोऽङ्के भूत्सङ्गे, किं०, घुसणाऽणसाऽरुणे कुटुमपानीयेनाऽरुणे पाटले विहिते सति, मुक्ताक्षतैः खस्तिकपहिं चक्रुः ॥ ३४ ॥ पुष्पैः प्रभूतैस्तपनीयजन्मभि
वर्धापयन्ति स्म गुरुं मृगीदृशः। फुल्लैः प्रफुल्लैरिव चारुचाम्पकै___ऋत्वब्जनेत्राः स्मरराजमागतम् ॥ ३५ ॥
प्रभूतैः बहुभिः, तपनीयजन्मभिः सौवर्णैः, पुष्पैः गुरूं मृगीशो वर्धापयन्ति मेत्यन्वयः । उत्प्रेक्षामाह-इवोत्प्रेक्ष्यतेचारुचाम्पकैः चश्चञ्चम्पकसंबन्धिभिः, फुल्लैः पुष्पैः, किं०, प्रफुल्लः, मेरैः, ऋतुखिय आगतं स्मरराजं कामभूपं, वर्धापयन्ति स्मेति । पुष्पवाचकफुल्लभन्दोऽपि लिङ्गानुशासनविवरणगतोऽस्तीति ध्येयम् ॥ ३५॥
आनर्च चामीकररूप्यनाणकैः ___ संघस्तदा श्रीगुरुराजमादरात् । लब्धप्रसादः स्मितरम्यमालती
Page #391
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् |
पुष्पैः वसन्तेशमिव दुमोत्करः || ३६ ||
"
तदा संघ आदरात् श्रीगुरुराजं चामीकररूप्यनाणकैरानर्चेत्यन्वयः । यथा दुमोत्करस्तरुनिकरः किं०, लब्धः प्रसादो विभूतिप्राप्तिरूपो येन सः स्मितरम्यमालतीपुष्पैविकसितजात्यजातीकुसुमैः, वसन्तेशं स्वस्वामिनं, पूजयतीति दृष्टान्तः ।। ३६ ।।
श्रेयः फलश्रीफलरूप्यनाणकैः
३६६
श्राद्धा व्यधुः कीर्तिकरीः प्रभावनाः । वृष्टीः पयोदा इव पुण्यजीवनास्तोयैर्जगत्प्रीतिलतामहोदयैः ॥ ३७ ॥
श्रीफला नालिकेराः, रूप्यनाणकानि प्रतीतानि तैः किं०, श्रेयसां मङ्गलानां धर्माणां वा फलैः, श्राद्धाः कीर्तिकरीः प्रभावना व्यधुश्चक्रुः इव यथा, पयोदा मेघाः तोयैः जलैः, किं०, जगत्प्रीतिरेव लता तस्या महोदयोद्गमो येभ्यस्तैः, दृष्टीः किं०, पुण्यं जीवनं यासु ताः, प्रभावनाः किं०, पुण्यस्य जीवनं यासु ताः, कुर्वन्तीति दृष्टान्तः ।। ३७ ।। पूजाः प्रमोदात् प्रतिचैत्यमर्हतां
श्राद्धैः क्रियन्ते स्म तदाऽतिबन्धुराः । संपत्तयो द्राक् प्रतिकाननं सुखोल्लासैरपाचीपवनैरिवाभितः ॥ ३८ ॥
तदा श्राद्धैः प्रतिचैत्यमर्हतां पूजाः क्रियन्ते स्म यथा - पाचीपवनैर्दक्षिणाशात्रातैः किं०, सुखोल्लासैः सौख्योलासिभिः प्रतिकाननं वनं वनं प्रति, संपत्तयः कुसुमादिरूपाः, क्रियन्तेऽभितः सर्वत इति ॥ ३८ ॥
Page #392
--------------------------------------------------------------------------
________________
दशमः सर्गः ।
श्राद्धा व्यधुः प्रत्यहमुन्नतोन्नतं सङ्गेषु वात्सल्यमतुच्छमुत्सुकाः ।
प्राज्यप्रजाप्रीतिपरैरपांभरैः
पाथोधराश्वातकपोतकेष्विव ॥ ३९ ॥
प्रत्यहं निरन्तरं, संघेषु वात्सल्यं, किं०, उन्नतोन्नतं द्रव्यतोऽपि भावतोऽपि च, श्राद्धा व्यधुः । दृष्टान्तमाह-इव यथा, पाथोधरा जलदाः, अपांभरैः जलप्राग्भारैः किं०. प्राज्या याः प्रजा लोकास्तत्मीतिकरणे तत्परैः, चातकपतकेषु बप्पीहबालकेष्विति ॥ ३९ ॥
कुर्वत्सु हृत्प्रीतिमखण्डितान्तरां धर्मेष्वमीषु प्रसभं भवत्विति ।
३६७
तत्र प्रतापः सुगुरोरभूत्तमां
धर्मस्य घस्रेषु तमोरिपोरिव ॥ ४० ॥ अखण्डितान्तरां निरन्तरां, हृत्प्रीतिं कुर्वत्सु अमीषु उक्तलक्षणेषु धर्मेषु पुण्यकृत्येषु, इति प्रसभं अहंपूर्विकया हठेनैव, भवत्सु जायमानेषु सत्सु तत्र नगरे, सुगुरोः प्रतापोऽभूत्तमाम् । दृष्टान्तो यथा - धर्मस्य ग्रीष्मस्य, घस्रेषु दिवसेषु, तमोरिपोः सूर्यस्य इवेति ॥ ४० ॥
गच्छत्खतुच्छोत्सवशालिषु प्रति
स्थानं गुरोर्द्राग् महिमा दिनेष्वभूत् । पुण्यैकपाथोनिधिवृद्धिदायिनः
पक्षस्य शुक्लस्य निशापतेरिव ॥ ४१ ॥ दिनेषु किं०, अतुच्छाः पूर्णा ये उत्सवास्तच्छालिषु,
Page #393
--------------------------------------------------------------------------
________________
३६८
विजयाशस्त्याम्
गच्छन्सु सत्सु, गुरांमहिमा प्रतिस्थानमभूद् , गीयमान इति शेषः । यथा निशाएतेश्चन्द्रस्य, कि०, पुण्येकपायोनिधिद्धिदायिनः सुकृतसिन्धुद्धिकतुः, शुक्लस्य पक्षस्य दिनेषु गच्छत्सु तंजीमहत्त्वरूपी महिमा भवेत् ।। ४१ ॥
अत्यर्थमानन्दिमना मनस्विराट
श्रीखानखानाऽवनिजानिकुञ्जरः । जज्ञे गुरोर्दर्शनीमच्छुरुत्सुको ___ ज्योत्स्नाप्रियः शीतरुचेरिवाऽन्यदा ॥ ४२ ॥ श्रीखानखानाख्योऽवनिजानिकुञ्जरः राजेन्द्रगजेन्द्रः, कि०, अत्यर्थं आनन्दिमना मुदितचेताः सन् , पुनः किं०, मनविराट् सहृदयमुख्यः, अन्यदा उत्सुकः सन् गुरोर्दर्शनमिच्छुः जहं जात इति । दृष्टान्तमाह-यथा शीतरुचेः शशिनः, ज्योत्स्नाप्रियश्चकोर इति ॥ ४२ ॥
आकारितः श्रीगुरुरादरस्पृशा
श्रीखानखानाऽवनिजानिना ययौ । सौधं तदीयं बहुमानमञ्जुलं
वित्तेशितेव स्फटिकावनीघरम् ॥ ४३ ॥ आदरस्पृशा भक्तिमता, श्रीखानखानावनिजानिना बहुमानमञ्जुलं यथा स्यात् तथा, आकारित आहूतः सन् , श्रीगुरुस्तदीयं सौधं ययो, वित्तेशिता धनद इव, स्फटिकावनीधरं कलासम् इति दृष्टान्तोत्क्षे ॥ ४३ ॥ तडाम्नि लेभे सुमनोभिरावृतः
सद्दक्षजाते स महत्त्वमहृतम् ।
Page #394
--------------------------------------------------------------------------
________________
दशमः सर्गः। ३६९ उच्चैः पदं राजनिकेतने गुरुः
प्राप्नोति यत् तद् नहि विस्मयावहम् ॥४४॥ तद्धानि तद्गहे, स गुरुमहत्त्वं माहात्म्यं, लेभे लब्धवान् , स किं०, सुमनोभिः पण्डितैरावृतः, अन्यत्र सुमनोभिर्देवैः, वदाम्नि किं०, सद्विद्यमानं साधु वा दक्षजातं विद्वद्वन्दं यत्र तत्र। अमुमेवार्थ श्लेषदारा समर्थयति--राजनिकेतने गुरुर्यदुचैः पदं मामोति तद्विस्मयावहं नहि; यतो गुरुर्ब्रहस्पतिः, राज्ञः शशाइस्य निकेतने कर्कलगे, किं०, सहक्षजाते सत्यो दक्षजाता दाक्षायिण्यो यत्र तत्र, गतः सन् उच्चत्वं यत् मामोति न तचित्रमिति ॥४४॥ - धर्मस्य मार्गोऽभिदधेऽथ सूरिणा
शुद्धो धराधीशमनोमनोहरः । सर्वाऽपि संसद् मुमुदे निशम्य तं
कामं मयूरीव पयोदगर्जितम् ॥ ४५ ॥ अथ तत्र गतेन सरिणा धर्ममार्गोऽभिदधे उक्तः, किं०, शुदः सर्वज्ञोक्तः, पुनः किं०, घराधीशमनोमनोहरो राजेन्द्रचेतःप्रियः, सर्वाऽपि संसत् सभा, तं धर्ममार्ग, निशम्य मुमुदे । पयोदगर्जितं मेघध्वनि, श्रुत्वा यथा मयूरीति दृष्टान्तः ॥४५॥ अखपशाखीव मरौ निरन्तर
च्छायो महानन्दफलप्रदः सदा । पन्थाः प्रशस्तोऽत्र समस्तशस्तकृत्
खामिन्नसौ वः परमेश्वराप्तिकृत् ॥ ४६ ॥ हे स्वामिन् गुरो! असौ वो युष्माकं, पन्थाः, किं०, अत्र
Page #395
--------------------------------------------------------------------------
________________
३७०
विजयप्रश त्याम् । कली, प्रशस्तः प्रकर्षेण श्लाघ्यो वर्तत इति, किं०, समस्तशस्तकृत् सर्वमङ्गलकारी, पुनः, परमेश्वराप्तिकृद् जगदीशमापकः सिद्धिस्थानापक इति, पक्षे भावप्रधानत्वाद् निर्देशस्य परमेश्वरशब्दन परमेश्वरत्वं प्रकृष्टधनित्वं तस्य आप्तिकृत् । दृष्टान्तो-' ऽत्र यथा--मरौ मरुस्थलीदेशे, अस्वमशाखी कल्पवृक्षः, किं०, निरन्तरं छाया शोभाऽनातपो वा यस्य सः, पुनः, महानन्दो मोक्षः, महानानन्दो वा तद्रूपं फलं प्रददातीति यः सः ॥४६॥
राज्ञाऽमुनैवं विनुतः प्रतिश्रयं
प्राप्तस्तदा ख्यातिमवाप भूयसीम् । किं चित्रमत्रात्मनिवासगो गुरु
हात्म्यमाप्नोति गिरामगोचरम् ? ॥ ४७ ॥ अमुना राज्ञा खानरवानाभिधानेन, एवं विनुतः सन् , पतिश्रयं प्राप्तस्तदा ख्याति भूयसीमवाप प्राप्तवान् , अत्र किं चित्रम् ?. यदात्मनिवासगः स्वभवनस्थो गुरुर्माहात्म्यं किं०, गिरामगोचरं वचनाविषयं, आप्नोति स्वक्षेत्रगो हि गुरुर्महाबली इति ज्योतिर्विदां मतमिति युग्मव्याख्येति ॥४७॥ श्रीमन्महावीरपरंपरादिवि
प्रद्योतनोद्योत इव प्रभास्वरः। तिष्ठत् पुरे तत्र पवित्रहग्गुरु__श्चक्रे चतुर्मासकपूर्तिमतिभित् ॥ ४८ ॥ प्रद्योतनोद्योत इव सूर्यालोक इव, प्रभास्वरोऽतिभासुरः, कस्यामित्याह-श्रीमन्महावीरस्य परम्परादिवि वंशाकाशे, पुनः कि०, पवित्रदृक् पुण्यदर्शनः, गुरुस्तत्र पुरे राजनगरे, तिष्ठन् चतुर्मासकपूर्ति चक्रे, किं०, अर्तिभित् पीडापहारीति ॥४८॥
Page #396
--------------------------------------------------------------------------
________________
दशमः सर्गः।
३७१
इतश्चश्रीराजदेशावनिवामलोचना
भालस्थलस्थूलललामलक्ष्मिकृत् । आसीदिलादुर्गपुरी वरीयसी
भोगावतीवाऽतुलभोगिभासुरा ॥ ४९ ॥ इतश्चेत्यव्ययपदेनाथ भाविनो गुरुपट्टधरस्य श्रीविजयदेवसूरेश्वरित प्रपश्चयवि-इलादुर्गपुरी आसीदित्यन्वयः। कि०, वरीयसी वरिष्ठा, पुनः किं०, श्रिया स्वर्गखण्डस्पर्धिन्या विचित्रचित्रारामकामकेलिवनानेककेलीवनवापीकूपतटाकतटिनीगिरिवरतरुवरतरुणतरतरुणीरामणीयकेन निखिललोकलोचनाडादवर्धिन्या युक्तोराजदेशनामा योदेशस्तस्याऽवनिवामलोचनाया भूभामिन्या भालस्थले स्थूलां पीनां ललामलक्ष्मि तिलकलक्ष्मीं करोतीति श्रीराजदेशावनिवामलोचनाभालस्थलस्थूलललामलक्ष्मिकृत , लक्ष्मीवल्लक्ष्मिशब्दः शब्दप्रभेदनामकोशगतोऽवसेय इति । इवोसेक्ष्यते-भोगावतीव नागपुरीव, किं०, अतुलभोगिभिर्बहुप्रधानलोकः, पक्षेऽतुलभोगिभिभूरिभुजङ्गमैर्भासुरा दीप्लेति॥४९॥ तत्राऽभवत् सभ्यमहेभ्यमण्डनः
श्रेष्ठी स्थिराख्यः स्थिरधीः शुभाऽध्वनि । स्फूर्जप्रभः पुण्यजनेषु विश्रुतः
श्रीदोऽलकायामिव संपदां पदम् ॥ ५० ॥ .. तत्रेलादुर्गे, स्थिराख्यः श्रेष्ठी अभवदित्यन्वयः । कि०, सभ्येषु सभाऽऽस्तारेषु पुनर्महेभ्येषु महाधनिषु मण्डनोऽ लङ्कारः, तभूषणत्वात् , पुनः किं०, स्थिरधीनिश्चलमतिः,
Page #397
--------------------------------------------------------------------------
________________
विजयमशस्त्याम् ।
कत्याह-शुभाऽध्वनि पुण्यमार्गे, इव यथा. अलकायां श्रीदः कुबेर इव. किं०, संपदां श्रीणां पदं, इदं विशेषणं द्वयोस्तुल्यं; पुनः किं०, स्फूर्जत्पभो लसत्कान्तिः, पक्षे स्फूर्जन्ती प्रभा अलकानगरी यस्य “पुरी प्रभा" इति नाममालायां भणनात् , पुनः किं०, पुण्यजनेषु धर्मिलोकेषु विश्रुतः, पक्षे पुण्यजनेषु यक्षेषु विश्रुत इति ॥ ५० ॥
लक्ष्मीर्मुरारेरिव काममुत्प्रदा
स्वामिप्रसादा गिरिजेव धूर्जटेः। . रूपाइसंज्ञाऽजनि तस्य गहिनी __ सौभाग्यभाग्यादिगुणौघशालिनी ॥ ५१ ॥
तस्य श्रेष्ठिनः, रूपाइसंज्ञा गेहिनी गृहिणी, अजनि जातेत्यन्वयः। कस्य केवेत्याह-मुरारेविष्णोः,लक्ष्मीरिव, किं०, कामं अत्यर्थ मुत्पदा हर्षदा सर्वेषामपि, लक्ष्मीपक्षे कामस्य स्वपुत्रस्य मुत्पदा, पुनः, धूर्जटेमहादेवस्य, गिरिजा पार्वतीव, किं०, स्वामिनो भर्तुः प्रसादो यस्याः सा, पार्वतीपक्षे खामिनि स्वपुत्रकार्तिकेये प्रसादो यस्याः सा, पुनः किं०, सौभाग्यभाग्यादिगुणोधेन शालिनीति ॥ ५१॥ सिंहेन सिंह्येव समुद्यतौजसा
नित्यात्मरूपेण सदाऽवियोगिना । सार्ध स्वभा रममाणयाऽनया ___ बभ्रेऽथ गर्भो वनभूविभूषणः ॥ ५२ ॥
अनया रूपाइनाम्न्या, स्वभ; साध रममाणया सिंथा सिंहिकया इव, सिंहन केसरिणा, किं०, समुद्यतं सोधममोजो बलं यस्य तेन, पतिपक्षे सोघमं ओजो धातुतेजो यस्य
Page #398
--------------------------------------------------------------------------
________________
३७३
दशमः सर्गः। तेन, पुनः किं०, नित्यमात्मरूपेण स्वतुल्येनेति, पुनः सदाऽवियोगिना वियोगवर्जितेन, गर्भो बभ्रे धृतः, किं०, वनभूविभूषणः पुत्रपक्षे वनभुवो गेहभूमेः, सिंहपक्षे वनभुवः काननभूमविभूषणः "वनं गेहे काननेऽपि" इत्यनेकार्थत्वादिति ॥ ५२ ।। अथ त्रिभित्तैर्गुरुजन्मवर्षमासंग्रहाद्याहवर्षे चतुष्पावकपार्थिवे त्रयो
दश्यां दशाश्वद्युतिदीप्रदिग्भृति । लमे वृषे वासरराजवासरे ___ मासे सहस्ये विधिभे विधौ सति ॥ ५३ ॥ इन्दौ विलग्ने युवतौ च वाक्पतौ ___ माहेयदैत्यार्चितयोरलौ सतोः। राशौ झषाख्ये च तथा विधुन्तुदे __ चापे बुधकोडसहस्ररश्मिषु ॥ ५४ ॥ प्राचीव बिम्बं तरणेस्तमोपहं
राकेव चन्द्रं कुमुदुन्नतिप्रदम् । आमोदमूलं सुषुवेऽथ सा सुतं
पुत्रीव जह्नोस्तपनीयपङ्कजम् ॥ ५५ ॥ वर्षे, किं०, चत्वारः, पावकास्त्रयश्च, पार्थिवाः षोडश च, एतेऽङ्का यमिस्तस्मिंश्चतुष्पावकपार्थिवे वामगतिमीलिते १६३४ वर्षे इति, पुनस्त्रयोदश्यां तिथौ, किं०, दशाश्वश्चन्द्रस्तस्य धुत्या कान्त्या दीमां दिशं बिभर्तीति तत्र, पुनः, लग्ने वृषे वृषनाम्नि लग्ने वहमाने सति, पुनः, वासरराजस्य वासरे रविवार सति, पुनः, सहस्ये पोषै मासे सति, पुनः, विधिमे रोहिणीनामके
Page #399
--------------------------------------------------------------------------
________________
३७४
विजयप्रशस्त्याम् |
नक्षत्रे, विधौ चन्द्रे सति ।। ५३ ।। अथ ग्रहसंस्थितिमाहविल मूर्तिस्थाने दृषलनरूपे प्रथमं भवने, इन्दौ चन्द्रे सति च पुनः, वाक्पती बृहस्पतौ युवतौ कन्यायां पञ्चमे भवने सति, पुनः, माहेयो मङ्गलः, दैत्यार्चितश्च शुक्रस्तयोर्माहेयदैत्यार्चियोभमशुक्रयोः, अलौ वृश्चिके सप्तमे भवने स्थितयोः, पुनः, झपारुये मीनराशाबेकादशे भवने, विधुन्तुदे राहौ सति, पुनश्चापे धनुषि अष्टमे भवने, बुधक्रोडसहस्ररश्मिषु ज्ञशनिसूर्येषु सत्स्वति ।। ५४ ।। ग्रहस्थितिकुण्डली यथा
"
४
५
६. के. बृ.
२ चं.
श्रीः
१
११
८. ९ ७ श. शु. मं. श. र. बु.
१२
स.
१०
,
अथ सा रूपाइनाम्नी, सुतं सुषुवे सूते स्मेत्यन्वयः । केवेत्याह- प्राची यथा तरणेर्विम्बम् किं०, तमोपहं, पुत्रपक्षे पापापहं, रविविम्बपक्षे तमोऽपरं ध्वान्तापहं, राकेव पूर्णिमेव, चन्द्र, किं०, कुमुदुन्नतिमदं पुत्रपक्षे कोः पृथिव्याः सुदुन्नतिप्रदं हर्षोन्नतिदायिनं, चन्द्रपक्षे कुमुदां कैरवाणासुमतिमदं 'कुमुदं च कुमुच' इति शब्दमभेदे, जहोः पुत्री गङ्गेव, तपनीयपङ्कजं स्वर्णकमलं, किं०, आमोदमूलं, सुतपक्षे आमोदस्य हर्षस्य, कमलपक्षे आमोदस्य गन्धस्य मूलं "आमोदो गन्धहर्षयोः" इत्यनेकार्थत्वादिति । इति श्रयाणां व्याख्या ॥५५॥ कृत्वा महोत्साहमयं महोत्सवं
तस्याऽभिघानं तनुजन्मनस्तदा ।
Page #400
--------------------------------------------------------------------------
________________
दशमः सर्गः। ३७५ चक्रे पितृभ्यां दिवसेऽतिशोभने
वासेति नित्यं सुहृदां मुदां पदम् ॥ ५६ ॥ महान् य उत्साहश्चित्तोत्कर्षलक्षणस्तन्मयं तत्सधानं चिचोत्साहानुसारिणं, महोत्सवं कृत्वा तस्य तनुजन्मनः सूनोः, अतिशोभने दिवसे पितृभ्यां वासाख्य इत्यभिधानं चक्रे, कि०, सुहृदां मित्राणां, मुदा पदं हर्षस्थानमिति ॥ ५६ ॥
उज्झन् वयः शैशवभुन्मना अयं
प्राज्ञः कुमारः प्रपठन्नशाठयधीः । प्राप्नोति वृद्धि पितृनेत्रकैरवो
ल्लासी शशीवाशितिपक्षगः क्रमात् ॥ ५७ ॥ . अयं वासाख्यकुमारः, वैशवं वय उज्झन् वाल्यमतिकामन् , पुनः किं०, उन्मनाः सन् प्रपठन् , पुनः, अशाव्यधीनिर्मायमतिः, पुनः, अशितिपक्षगः शशीव शुक्लपक्षगतचन्द्र इव, किं०, पितृनेत्रकैरवोल्लासी जनकजननीनयनकुमुदोल्लासकर , क्रमादनुक्रमेण, रदि मामोतीति ॥ ५७ ॥ तातेऽन्यदा सद्विधिना समाधिना
खःकामिनीनामतिथित्वमीयुषि । वैराग्यवान् वासणकः कुमारराड्
रूपाइसंज्ञां निजगाद मातरम् ॥ ५८ ॥ अन्यदा ताते स्थिरास्ये श्रेष्ठिनि, सद्विधिनाऽनशनादिना, पुनः समाधिना मनोवाक्तनुस्वास्थ्यरूपेण, स्वाकामिनीनां देवानानां, अतिथित्वमीयुषि स्वर्ग गते सति, वासाकः कुमारराद् , कि०, वैराग्यवान् सन् रूपाइसंज्ञां मातरं निज
Page #401
--------------------------------------------------------------------------
________________
३७६
विजयमश त्याम् ।
गादाऽब्रवीत्, यदब्रवीत्तदग्रेतनवृत्ते प्राह ॥ ५८ ॥ भक्तं बुभुक्षार्त इवाहमम्बिके ! दीक्षां जिघृक्षुः शिवशर्मकारणम् । मत्वाऽत्मसूनोर्नियमस्थितौ स्थिरं
चेतः प्रचेता वचनं जनन्यवक् ॥ ५९ ॥
हे अम्बिके मातः !, बुभुक्षार्तः पुमान्, भक्तं भोज्यमिव, अहं दीक्षां जिघृक्षुरस्मीति योगः । किं०, शिवशर्मकारणं मोक्षसुखनिदानं इति आत्मसूनोः स्वपुत्रस्य, नियमस्थितौ दीक्षायां, चेतः स्थिरं मत्वा प्रचेता हृष्टमना जननी, अवक् जगौ । यज्जगौ दाह ।। ५९ ।।
त्वं नन्दन ! द्रागनुगंस्यसे मया घश्रियाऽऽदित्य इव स्फुरत्प्रभः ।
एतां निशम्याऽऽत्ममनोरथोचितां वाचं स्वमातुर्मुमुदे शिशुर्भृशम् ॥ ६० ॥ हे नन्दन ! मया त्वं घत्रश्रिया बासरलक्ष्म्या, आदित्य इव, किं०, स्फुरत्मभः लसत्कान्तिः, इदं द्वयोरपि तुल्यं विशेषणम् ; अनुगंस्य से अन्वागमिष्यसे त्वया सार्धमनुमत्रजिष्यामीत्यर्थः । एतां आत्ममनोरथोचितां स्वमातुर्बाचं निशम्य शिशुबसाख्यः, भृशं मुमुदे ऽत्यमोदिष्ट ॥ ६० ॥ रत्नं सुवर्णस्य समीपभाक् श्रियं धत्तेऽवगत्येति सुतान्विता सती ।
गन्तुं मनः सा स्म दधात्यहम्मदावादे पुरे पूज्यपदाब्जपाविते ॥ ६१ ॥
Page #402
--------------------------------------------------------------------------
________________
दशः सर्गः। रत्नं सुवर्णपार्थस्थायि सत्, श्रियं शोभा, धत्ते; तथा वर्णस्थानीयस्य गुरोः पार्षे पुत्ररत्नमिदमहतीत्यवगत्य ज्ञात्वा, सा सती रूपाईनानी, अहम्मदावादे पुरे किं०, पूज्यपदाब्जैः श्रीविजयसेनहरिचरणकमलैः पाविते, गन्तुं मनो दधाति स्माऽकरोत् ॥ ६१ ॥ श्रेष्ठिस्थिराह्वानमहेभ्यभामिनी
रूपाइसूर्वासणनामनन्दनः । सद्योऽथ हृद्यईिजनाकुलादिला
दुर्गाद् गुरोः पार्थमगात् सहाऽम्बया ॥६२॥ श्रेष्ठी स्थिराहानो यो महेभ्यस्तद्भामिनी भार्या या रूपाईनानी तत्स्स्वत्सुतो वासाभिधानो नन्दनः, अयेलादुर्गादीडरनगराद, कि०, हृद्यर्द्धयो मनोजसंपत्तयो ये जनास्तैराकुलात् संकीर्णाद , अम्बया सह गुरोः पार्थमगाद् राजनगरे प्राप्त इति ॥ ६२ ॥ सौम्याननं स्कारविलोचनद्वयं
दृष्ट्राऽय साक्षाजयमेनमागतम् । इत्यात्मचिचे निरणायि सूरिणा
भाव्येष शिष्योऽखिलसंघतोषकृत् ॥ ६३ ॥ अथैनं वासकुमारं, आगतं दृष्ट्रा, किं०, सौम्याननं स्मितमुखत्वात् प्रसन्नवदनं, पुनः किं०, स्फारं विस्तीर्ण विलोचनद्वयं यस्य तं, आयतनेत्रत्वात् , साक्षात् प्रत्यक्षं, जयं शक्रपुत्रम् , इवेत्याध्याहार्य, सूरिणा गुरुणा, आत्मचित्ते इति निरणायि निश्चिक्ये । इतीति किमित्याह-एष शिष्योऽखिलसंघतोषकृद् भावीति ॥ ६३ ॥ . . .
Page #403
--------------------------------------------------------------------------
________________
३७८ विजयाशस्त्याम् । पुनगुरुणा यदचिन्ति तदाहकिं दस्रयारेकतमोऽयमाययो ___किं प्रीतिभृद् मूर्त इवाथवाऽत्मभूः ? ।
निध्यायतैनं च मुहुर्मुहुः शिशुं __मेने मनोऽन्तर्मुनिमेदिनीभुजा ॥ ६४ ॥
दत्रयोरश्विनीपुत्रयोर्द्वयोर्मध्यात् , एकतम एकः, किमयमाययो ?, रूपवचे हि तयोरुदाहरणं काव्यकल्पलतादौ प्रतीतमिति, अथवा प्रीतिभृत्लीतिशाली, आत्मभूः कामः, कि०, मृत इति मूर्तिमान् , आययौ ? एनं शिशुं मुहुर्वारं वारं, निध्यायता पश्यता, मुनिमेदिनीभुजा सरिराजेन, मनोऽन्तश्चित्तान्तः, इति मेनेऽमानि ॥ ६४॥
जन्मग्रहैरङ्गगतैश्च लक्षणै
श्चित्ते व्यचिन्ति व्रतिनायकेन च । बालोऽयमुच्चैर्भविता तिथिप्रणी
र्धिष्ण्येष्विवोल्लासिमहा जनेष्विह ॥ ६ ॥ च पुनः, जन्मग्रहादशभवनस्थितैहरुञ्चपरमोचत्रिकोणादिभिः, पुनः, अङ्गगतेलक्षणैर्लाञ्छनमपीतिलकादिभिः, द्वात्रिंशत्संख्या दृष्टेः सनिः, गुरुणा इति चित्ते व्यचिन्ति-धिष्ण्येषु नक्षत्रेषु, इव तिथिपणीश्चन्द्रमा इव, कि०, उल्लासिमहा उल्लासवत्तेजाः, अयं बालो जनेषु उच्चविता महान् भावीति भावार्थमा६५॥ मात्रा समं काममिवाब्जवासया
ज्ञात्वा तपस्योधतमेनमर्भकम् । गुर्वी गुरुः प्रापदपापडग् मुदं
Page #404
--------------------------------------------------------------------------
________________
दशमः सर्गः।
. ३७९ दृष्टा शुभं स्वप्नमिवोदये रवेः ॥ ६६ ॥ . अन्जवासया लक्ष्म्या, समं काममिव एनं अर्भकं बालकं, मात्रा रूपानाम्न्या, समं तपस्योधतं दीक्षोत्सुकं, ज्ञात्वा गुरुः, किं०, अपापहम् निरवद्यमतिर्निष्पापदर्शनो वा, गुवी महतीं, मुदं प्रापत् , रवेरुदये शुभं स्वमं दृष्ट्रा यथा मुद् भवतीति दृष्टान्तः, यतो 'दृष्टः सूर्योदये खमः सद्यः फलति' इति नियमात् ॥६६॥
सोऽनघोऽसावथ वासणं व्रता
दानोचतं वीक्ष्य शिशुं सहाऽम्बया । लेभे मुदं स्वर्लतया समं दुमं
कल्पं पुलोमारिरिवोद्गमोद्यतम् ॥ ६७ ॥ असौ राजनगरीयः संघः, अथाऽम्बया सह वासणं शिशुं व्रतादाचोयतं वीक्ष्य मुदं लेमे, यथा कल्पं दुमं स्वर्लतया समं कल्पवल्ल्या सह, उद्मोद्यतं वीक्ष्य पुलोमारिरिन्द्रः, मुदं मामोतीति ॥ ६७॥
सप्तार्चिरम्भोधिकलाङ्कवत्सरे
माघे दशम्यां तुहिनांशुतेजसि । द्राग् दीक्षयामास घनैर्महोत्सवैः ।
सारं कुमारं सममम्बया गुरुः ॥ ६८ ॥ सप्ताषिः कृशानवस्त्रयः, अम्भोधयश्च चत्वारः, कलाः षोडश, एभिरकैमिगत्या विन्यस्तैर्यः संवत्सरो भवति तस्मिन् सप्ताचिरम्भोधिकलाइवत्सरे१६४३वर्षे, पुनः, माघे मासिं, पुनः, दशम्यां तिथौ, किं०, तुहिनांशोश्चन्द्रस्य तेजो यस्यां तस्यां शुक्लायामिति, पुनर्महोत्सवैः कुमारं, किं०, सारं शृाररूपाभ्यां
Page #405
--------------------------------------------------------------------------
________________
३८०
विजयमशस्त्याम् ।
विशेषतः प्रधानम् , अम्बया समं गुरुः श्रीविजयसेनमूरिः, दीक्षयामासेति ॥ ६८ ॥
तस्य स्थिराहानमहेभ्यजन्मनः
शिष्यस्य निःशेषगुणैकवारिधेः । सूरिर्जगल्लोकसुखप्रथाप्रपा
नामाऽथ विद्याविजयेति निर्ममे ॥ ६९ ।। तस्य स्थिराख्यमहेभ्यपुत्रस्य शिष्यस्य, पुनः किं, नि:शेषगुणेकवारिधेः समस्तगुणार्णवस्य, विद्याविजयेति नाम, कि०, जगलोकसुखस्य प्रथायाः प्रपां जगज्जनसौख्यकारित्वात् , मूरिर्निर्ममेकरोत् ॥ ६९॥
सौरूप्यरूपढिसमृद्ध उल्लस
विद्यः स विद्याविजयोऽन्तिषन्मणिः । भूतं प्रभूतं विनयं सृजन् गुरोः
शास्त्राण्यपाठीदशठो मठो धियाम् ॥ ७० ॥ स विद्याविजयोऽन्तिषन्मणिः शिष्यरत्नं, किं०, सौरूप्यं सुरूपवत्त्वं तद्रूपा या ऋद्धिः, अथवा सौरूप्यं पाण्डित्यं, रूपं च सुन्दराकृतिमत्त्वं तयोयो ऋद्धिरुत्कर्षस्तया समृद्धः संपन्नः, पुनः, उल्लसन्ती विद्या यस्य सः,पुनः, गुरोर्भूतं सत्यं पुनः, प्रभूतं भूयिष्ठ, विनयं सृजन् कुर्वन् , पुनः कि०, धियां बुद्धीनां, मठ आश्रयः, पुनः, अशठो निष्कपटः सन् , शास्त्राणि अपाठीदपठत् ॥७॥ छायाकृदुल्लासपलाशसन्ततः
स्फूर्जद्यशःपुष्पकलापसंपदः । विद्या अवद्यार्तिहृतः स आसदत्
Page #406
--------------------------------------------------------------------------
________________
एका
दशमः सर्गः ।
३८१ पूज्यांहिसेवासुरवीरुधः फलम् ॥ ७१ ॥ स शिष्यः, पूज्यांहिसेवासुरवीरुधः गुरुचरणोपास्तिकल्पवल्लेः, किं०, छाया शोभाऽनातपश्च, ततश्छायां करोतीति छायाकृत् य उल्लासश्चित्तानन्दरूपस्तद्रूपा पलाशसन्ततिः पत्रपतिर्यस्यास्तस्याश्छायाकृदुल्लासपलाशसंततेः, पुनः, स्फूर्जयशोरूपस्य पुष्पकलापस्य प्रमूनजातस्य संपद् यस्यास्तस्याः स्फूर्जद्यशःपुष्पकलापसंपदः, पुनः, अवद्यार्तिहृतः पापपीडापहारिण्याः, विद्याः फलं शास्त्रज्ञानरूपं फलं, आसदत् प्राप्तवान् ।। ७१ ।।
सौभाग्यभाजोऽहिवदेऽभिधानभृ
च्छ्राध्यास्त्रिवेद हिमांशुवत्सरे । एकादशे चन्द्रयुतेऽह्नि फाल्गुने . प्रौढां प्रतिष्ठां विदधेऽथ सूरिराट् ॥ ७२ ॥ .
अथेत्यस्मिन्नवसरे, तत्रैव राजनगरे,अहिवदेऽभिधानभृत्श्राख्या अहिवदेनाम्न्याः श्राविकायाः,किं०, सौभाग्यभाजः सुभगत्ववत्याः, गृहे इति शेषः। कस्मिन्, त्रयश्च वेदाश्च ऋतवश्व हिमांशुश्च त्रिवेदतुहिमांशवस्तैर्वामगतिगणितैर्यः संवत्सरस्तस्मिन् १६४३संवत्सरे, पुनरह्नि दिने तिथौ, किं०, एकादशे ११ तिथौ कि०, चन्द्रयुते शुक्ले, पुनर्मासे फाल्गुने, प्रौढां प्रतिष्ठां जिनविम्बस्थापनां, मूरिराड् विदधेऽकरोत् ॥ ७२ ॥ गन्धारवास्तव्यजनेन्द्र इन्द्रजी
नामा महेभ्यः सुगुरोर्नमस्कृते। अभ्यागमत् प्रीतमना अहम्मदा
वादं पुरं प्राञ्जलिरभ्यधत्त च ॥ ७३ ॥ गन्धारबन्दिरवास्तव्या ये जनास्तविन्द्रस्तन्मुख्यत्वात् ,
Page #407
--------------------------------------------------------------------------
________________
३८२
विजयप्रशस्त्याम् ।
इन्द्रजीनामा महेभ्यः, सुगुरोराचार्यपादस्य, नमस्कृते वन्दनाय, अहम्मदावादं पुरं, अभ्यागमत् ; च पुनः, माञ्जलिः कृताञ्जलिः सन्, अभ्यधत्ताऽवदत् ॥ ७३ ॥
स्वामिन्! महावीरविभोः प्रतिष्ठया कर्तास्मि जन्म स्वमहं स्फुरत्फलम् ।
तद् मङ्क्षु गन्धारपुरं पवित्रय
स्खैः पादपाथोरुहपांसुभिः प्रभो ! ॥ ७४ ॥
हे स्वामिन् गुरो ! महावीरविभोः प्रतिष्ठयाऽहं स्वं जन्म, किं ं, स्फुरत्फलं फलभाग कर्तास्मि जन्मफलं लातुकामोऽस्मीत्यर्थः । तत् तस्माद्धेतोः, गन्धारपुरं बन्दिरं, स्वैः पादपायोरुपांशुभिः हे प्रभो ! त्वं पवित्रयेति ।। ७४ ।। हृष्टो महेभ्यव्रजराजहस्तिन
स्तस्येति वाचा विनयप्रपञ्चया ।
सूरिर्महत्त्वैकपदं क्रमाद्गाद्
गन्धारमादित्य इवाश्विनीं पुरम् ॥ ७५ ॥
तस्येन्द्रजीनाम्नः, किं०, महेभ्यव्रजराजहस्तिनो व्यवहारिकुञ्जरस्य, वाचा, किं०, विनयस्य प्रपञ्चो यस्यां तया, हृष्टः सन् सूरिस्ततोऽहम्मदावादतश्चलन् क्रमात् अनुक्रमेण, आदित्य इवाऽश्विनी नक्षत्रं, गन्धारं पुरं नगरीं, किं०, महत्त्वस्य माहात्म्यस्य, सूर्यपक्षे महत्त्वस्योच्चत्वलक्षणस्य पदं स्थानं, अश्विनीस्थितो हि सूर्यो मेषराशिसद्भावादुच्च इति ज्योतिर्विदां मतम् ; अगाद् गतवानिति ।। ७५ ।।
वर्षेऽथ हव्याशनवेदपार्थिवे
Page #408
--------------------------------------------------------------------------
________________
३८३
दशमः सर्गः। ज्येष्ठाहमासे दशमे तिथौ सिते । शुद्धेऽह्नि तस्यां पुरि सूरिरिन्द्रजी
गेहे प्रतिष्ठां चरमाहतोऽकरोत् ॥ ७६ ॥ अथ वर्षे, किं०, हम्यामना अअयस्त्रयः, वेदाश्चत्वारः, पार्थिवाः पोडश, एते वामगतिजुषो यत्र तत्र हव्याशनवेदपार्थिवे वर्षे १६४३ प्रमाणे, पुनः, ज्येष्ठाख्ये मासे, पुनः, दशमे तिथौ, किं०, सिते शुक्ले, अथवा सिते शुके वारे सति, पुनः, अह्नि दिने, कि०, शुद्ध धवले, अथवा शुद्ध निर्दोषे दिने, तस्यां पुरि गन्धारनाम्न्यां, इन्द्रजीगेहे चरमाऽर्हतः श्रीवीरस्य, प्रतिष्ठां सरिरकरोत् ॥ ७६ ॥ अत्रैव वर्षे बहुहर्षवर्षिणि
श्रीस्तम्भतीर्थे नगरे गरीयसि । भूयोभिरुल्लासपयःपयोधरै
रानन्दिताशेषजनेक्षणैः क्षणैः ॥ ७७ ॥ एकादशाख्येऽथ तिथौ तिथिप्रणी
युक्तरे मासि च शुक्रसंज्ञके। प्रौढां प्रतिष्ठां पुनराहतीं गुरुः . श्राद्धीधनाईवरमन्दिरे व्यधात् ॥ ७८ ॥
अथाऽस्मिन्नेव वर्षे पूर्वकान्योक्त संवत्सरे, गन्धारतः क्रमजागत्य, क, श्रीस्तम्भतीर्थे नगरे, किं०, गरीयसि द्रव्यभावाभ्यां महति, भूयोभिर्बहुभिः, उल्लास एव पयः पाथस्तस्य पयोधरैर्मेधैः, पुनः, आनन्दितानि अशेषजनानामीक्षणानि नयनानि यैस्तैः, क्षणैरुत्सवः, जायमानैरिति शेषः ॥७७॥ पुनः, .
Page #409
--------------------------------------------------------------------------
________________
३८४ विजयाशस्त्याम् । एकादशाख्ये तिथौ, किं०, तिथिप्रणीश्चन्द्रमास्तयुक्तो धवलस्तस्मादितरः श्याम इति ११ दिनेऽशुक्लं च, पुनः, मासि शुक्रसंज्ञके ज्येष्ठमासे, श्राद्धीधनाइवरमन्दिर गुरुराईती प्रतिष्ठां, व्यधाच्चक्रं । इति युग्मव्याख्या ॥ ७८ ॥
अत्रैव तीर्थेऽथ विनिर्ममे चतु
मासी समासीनसुखार्थवृत्तिना । श्रीसूरिसिंहेन घनर्द्धिसङ्घदृक्
पाथोजिनीप्रीतिसहस्ररश्मिना ॥ ७९ ॥ अथाऽत्रैवाऽस्मिन् , तीर्थे स्तम्भतीर्थे, श्रीसूरिसिंहेन चतुमासी विनिर्ममे कृता, किंविशिष्टेन, समासीना स्थापिता सुखार्था सुखकारिणी वृत्तिराचरणरूपा येन तेन, पुनः किं०, घनर्दिः श्रीमान् यः संघस्तस्य हंगेव पायोजिनी पधिनी तस्याः प्रीतो सहस्ररश्मिना सूर्येणेति ॥ ७९ ॥
अथ स्तम्भतीर्थ गुरुं च वर्णयन् सर्ग चोपसंहरन् कविश्छन्दः परावर्तयतिलसदतिशयसंपत्सिन्धुभूसिन्धुरस्य
प्रविशत इह मध्ये स्पष्टुमंही मुनीन्दोः । मम भवति दुरन्तो विघ्न एषोऽन्तराभू
रिति जलधिरनिन्दद् यस्य सालं विशालम्॥८०॥ यस्य स्तम्भतीर्थस्य, विशालं विस्तीर्ण, सालं वर्म, जलधिः समुद्रः, इति हेतोः, अनिन्दत् निन्दाविषयीचकारेत्यन्वयः। पदत्रयेण निन्दाहेतुमेव व्यनक्ति-लसदिति । लसदतिशया या संपत् अथवा लसन्ती यातिशयानां संपत् समृद्धिः सैव सिन्धुभूनदीभूमिका अर्थाद् रेवा नाम नदीभूस्तत्र सिन्धुरस्य ग
Page #410
--------------------------------------------------------------------------
________________
दशमः सर्गः ।
३८५
जस्य, अस्य मुनीन्दोर्गुरोः, अंडी पादौ, स्पष्टुमिह मध्ये प्रविशतः नगरान्तरागच्छतः, मम एष दुरन्तोऽपारः, अन्तराभूर्विघ्नो भवतीति हेतोर्जलधिर्यत्र वयं निन्दतीति ॥ ८० ॥ कैलासौकोदिशमिव रुचामीश्वरस्यागतस्य स्वाहाजानेरिव पवनजप्राज्य साहाय्यभाजः । द्रङ्गं तीर्थं तमधिवसतः श्रीतपागच्छराजः स्फातिं स्फूर्जत्सवितृसवयाः प्राप पृथ्वीं प्रतापः ॥८१॥
"
यथा रुचामीश्वरस्य सूर्यस्य, कैलासौकोदिशं कौबेरी दिशमागतस्य, पुनः, यथा स्वाहाजानेः कृशानोः, किं०, पवनजप्राज्यसाहाय्यभाजः समीरसंबन्धि साहाय्यशालिनः तथा तं तीर्थे द्र श्रीस्तम्भतीर्थनगरं, अधिवसतः सतः श्रीतपागच्छराजः श्रीविजयसेनसूरेः, प्रतापः किं०, सवितृसवयाः सूर्यमित्रं तत्तुल्यत्वात् पृथ्वीं विशालां स्फातिं दृद्धिं प्राप ॥ ८१ ॥ क्लेशः पत्रप्रसूनाप्रथिमभव इव स्फीतशीतस्य चाऽसंल्लीलोल्लासे धरायामभिसरति जवाद् याम्यदिग्गन्धवाहे । नासीदु:स्थताया व्यसनशतसृजो नापि मिथ्यात्विराजः श्रीतीर्थे स्तम्भतीर्थे लसति सतेि सहोभाजि नव्यार्षराजि८२
1
यथा धरायां भूमौ याम्यदिग्गन्धवाहे दाक्षिणात्ये वाते, अभिसरति आगच्छति सति, किंलक्षणे, लीलायाः केलेरर्थाद् वसन्तक्रीडाया उल्लासो यस्मिंस्तस्मिन् दक्षिणानिले सति, पत्रप्रसूनानां पृथोर्भावः प्रथिमा न प्रथिमा मथिमाऽभावः पत्रप्रम्नानामप्रथिमभवः पत्रप्रसूनामथिमभवः कोऽर्थः - पत्रप्रसूनाभाबभवः क्लेशो यथा न स्यात् च पुनः, यथा स्फीतशीतस्य ले
,
५०
Page #411
--------------------------------------------------------------------------
________________
३८६
विजयप्रशस्त्याम् ।
शो न स्यात्, किं०, असन् अश्रेष्ठः, वसन्तागमे हि पत्राणां प्रसुनानां चांद्रमः शीतव्यपगमश्च स्यातां, तेन तयोरुपद्रवो न स्यात्, तथा स्तम्भतीर्थे, किं०, श्रीणां तीर्थे क्षेत्रे, अथवा श्रीमत् तीर्थ संघो वाऽर्हचैत्यादि यत्र तत्र, नव्यर्षिराजि नवीनाचाराजे लसति सति, किं०, सहोभाजि बलवति ज्ञानादिबलशालिनि, दुःस्थताया दारिद्र्यस्य, भीर्नासीत् परद्वीपान्तरात् प्रवहणानां क्षमणाऽऽगमात् पुनः, व्यसनशतसृजः कष्टशतकर्तुः, मिथ्यात्विराजः पूर्वोक्तकल्याणराजनाम्नोऽपि भीर्भयं नासीत् । अत्र सर्गे केवलमिन्द्रवंशाभिंषं छन्दः, " स्यादिन्द्रवंशा ततजैरसंयुतैः, इति लक्षणसद्भावात् । अन्तिमे वृत्तत्रये प्रथमं मालिनीवृत्तम्, द्वितीयं मन्दाक्रान्तावृत्तं, तयोर्लक्षणं तु प्रागुक्तम् । तृतीयं तु स्रग्धरादृत्तम्, तल्लक्षणं यथा-" म्रनैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” इति ॥ ८२ ॥
इतीति सकलं प्रकटम्
इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणेसुशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचक श्रीगुणवि
जयगणिविरचितायां विजयमदीपिकाऽभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां दशमः सर्गोऽर्थतः समर्थितः ।।
Page #412
--------------------------------------------------------------------------
________________
____ अहंम
...
अथैकादशः सर्गः।
अथैकादशः सर्गः समारभ्यते, अस्मिन् सर्गे पूर्व नवमसर्गनिर्मितवर्णनानां भट्टारकरीहीरविजयमूरिचरणानां कियच्चरितं रचयतिमेवातदेशादथ मारवक्ष्मा
लोलेक्षणालङ्करणीभवन्तः । अभ्याययुः श्रीगुरुहीरपादा
देशं सलक्ष्मीकसपादलक्षम् ॥ १ ॥ अथ मेवातदेशात् क्रमेणोग्रसेनपुरे, फतेपुरे, अभिरामावादे, पुनरुग्रसेनपुरे च, इति चतुर्मासकचतुष्टयं विधाय ततश्चलन्तः पुनौरवक्ष्मालोलेक्षणाया मरुस्थलीभूमिभामिन्या अलङ्करणीभवन्तः सन्तः, श्रीगुरुहीरपादाः पूज्यश्रीहीरविजयमूरयः, श्रीफलवर्धिपार्श्वनाथयात्रां कृत्वा, सलक्ष्मीकः सश्रीको यः सपादलक्षो नामा नागपुरनगरालङ्कृतो देशस्तं सलक्ष्मीकसपादलक्षं देशं, अभ्याययुरागतवन्त इति ॥ १ ॥ गङ्गाप्रवाहः किमु तापहारी
कल्पद्रुमः किं सकलोपकारी । श्रीसूरिसिंहः समुपागतोऽसा
वज्ञायि देशेऽत्र समस्तलोकैः ॥ २ ॥ श्रीसूरिसिंहः, किं०, तापहारी, ततः किं०, गङ्गाप्रवाहः, पुनः कि०, सकललोकानामुपकारी, ततः किं०, कल्पद्रुम इति,
Page #413
--------------------------------------------------------------------------
________________
३८८ विजयपस्त्याम् । असौ गुरुः, अत्र देशे सवालखनामके देखें, समुपागतः सन्, समस्तलाकैरज्ञायि मेने ॥२॥
आश्चर्यचर्याव्रजवर्यवीर्यै. भूयोभिरुत्साहभृदुत्सवौधैः । उल्लासवत्सां पुरि नागपुर्या
चक्रुश्चतुर्मासमृषीशमुख्याः ॥ ३ ॥ आश्चर्यचर्यानजस्याऽद्भुतोपलक्षितगमनस्य वयं वीर्य सामर्थ्य येभ्यस्तैः, पुनः, भूयोभिः बहुभिः, उत्साहभृतां महाजनानामुत्सवौघैः, उल्लासवत्यां नागपुर्या पुरि नागोरनान्नि नगर, ऋषीशमुख्यास्ते पूज्याश्चतुर्मासं चक्रुरिति ॥ ३ ॥
चित्तं चतुर्मासकपारणे श्री___ सूरैर्जगल्लोकहितार्थमिच्छोः। सज्जं सुहृज्जन्तुकगूर्जरत्रा
धात्रीपवित्रीकरणार्थमासीत् ॥ ४ ॥ अय तच्चतुर्मासकपारणे जाते सति, श्रीसूरेः, किं०, जगलोकहितार्थमिच्छोः जगजनानुकूल्याभिलाषिणः, चित्तं मनः, सज्जमुत्सुकं, आसीत् । किमर्थमित्याह-सुहृदः सस्नेहा जन्तवो लोका यत्र सा स्वार्थिके कप्रत्यये सुहज्जन्तुका सश्रद्धलोका या गूर्जरत्राघात्री गूर्जरधरा तस्याः पवित्रीकरणार्यमित्यर्थः ॥४॥
पुण्यात्मिकाभिर्वरदेशनाभि
रहिस्तडित्त्वानिव नुन्नतापः । वृद्धि नयन्नध्वनि बोधिबीजा
कूरानघासज्जनसज़नानाम् ॥ ५॥
Page #414
--------------------------------------------------------------------------
________________
एकादशः सर्गः।
३८९ विध्वंसयन् ध्वान्तमथाऽर्यमेव
जाड्यं हरन्नान्तरमङ्गभाजाम् । उद्बोधयन् भव्यपयोजपुञ्जान्
श्रीहरिसूरिर्विजहार भूमौ ॥ ६ ॥ श्रीहरिसूरिः, किं०, तडित्वानिव मेघ इव, अद्भिः पानीयैः, पुण्यात्मिकाभिः पवित्राभिः, सुकद्देशनाभिः नुन्नस्तापो मेघपक्षे ग्रीष्मकालजन्माऽऽतपो येन, गुरुपक्षे कषायादितापो येन सः, पुनः, अध्वनि मार्गे, मेडतादौ, अघे पापे असज्जना दुर्जना इवाऽघासज्जनाः पापपणाशकाः अघासज्जनास्ते च सजनाः सुहृज्जनाअर्थात् सम्यग्दृशस्तेषां, बोधिबीजाङ्क्रान् वृद्धि नयन् ॥५॥ पुनः, अर्यमेव सूर्य इव, ध्वान्तं पापरूपं विध्वंसयन् , पुनः, अर्यमेव,भाजां जन्तूनां जाड्यं हरन् , पुनः, भव्यपयोजपुञ्जान् संघलोकसरोजनजान् , उद्धोधयन् प्रतिबोधयन् , क्रमेण मरुकल्पतरुविरुदधारकसुश्रावकसा०- ताडाख्यमहाग्रहेण पीपाडनगरादौ मरुभूमौ, विजहार व्यहार्षीत् । इति युग्मव्याख्या ॥६॥ श्रीमत्सुधर्मप्रभुपादपद्म
सेवाषडंहीन सुभगानुभावान् । आगच्छतः श्रीगुरुहीरसूरीन् - जम्बूकुमारानिव नुन्नमारान् ॥ ७ ॥ .आकर्ण्य कर्णैकसुधायमान
नाम्नः सुधाम्नः प्रसरन्महिम्नः। आचार्यधुर्योऽजनि धैर्यवर्य
उत्साहवानन्छमनाः प्रणत्यै ॥ ८॥
Page #415
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् श्रीग्मिरीन . किं०. जम्कुमारानिव. किं०. श्रीमान् यः मुष्ट्र शांभनो धर्मः सुधर्मः सर्वज्ञोपज्ञश्रमणमार्गरूपः स एव प्रभुः स्वामी तत्पादपद्मसंवायां, जम्बृपक्षे श्रीमान् यः सुधर्मप्रभुः श्रीवीरपञ्चमगणभृत् तत्पादपद्मसंवायां, षडंहीन भ्रमरान् , पुनः कि०, सुभगाऽनुभावो येषां तान् सौभाग्यमयान् , पुनः किं०, नुन्नमारान् निरस्तकन्दर्पान् , अत एव श्रीजम्बूस्वामितुल्यान् ॥७॥ श्रीगुरुहीरमरीनागच्छतो नागपुराद् गूर्जरत्रां प्रत्यागमिप्यतः. आकर्ण्य श्रुत्वा, कि०, कर्णैकसुधायमाननाम्नः श्रोत्रामृतसमानाऽभिधानान् , पुनः कि०, सुधाम्नः सुप्रतापान , पुनः किं०, प्रसग्न्महिम्नः विस्तीर्णमाहात्म्यान् , आचार्यधुर्यः श्रीविजयसेनमरिः, किं०, धैर्येण वर्यः, पुनः किं०, अच्छमनाचोक्षचेताः, प्रणत्य श्रीहरिगुरुपणमनाय, उत्साहवानजनि उत्कण्ठाभृदभूत् । इदं युग्मव्याख्यानम् ॥ ८ ॥ संसेव्यमानः सकलर्षिमुख्यैः
श्रीसङ्घसङ्कल्पनकल्पकल्पः । आचार्यवर्यः शिवपुर्यहार्य
धैर्याननंसीदथ हीरसूरीन् ॥ ९॥ __ अथ गुजरदेशतश्चलन् आचार्यवर्यः, किं०, सकलर्षिमुख्यैः संसेव्यमानः, पुनः, श्रीसङ्घस्य सङ्कल्पनानि मनोभिलाषास्तत्र कल्पकल्पः सुरद्रुमसमः, तत्पूरकत्वात् , अथ शिवपुरि सीरोहीनगर्या, हीरसूरीन् , किं०, अहार्यधैर्यान् अजेयपराक्रमान् , अनंसीत् पाणमत् ॥ ९॥ हो सङ्गतौ तत्र पुरेऽन्वभूतां
शोभामनूचानगणाधिराजौ। गाम्भीर्यसारौ गुणरत्नवारौ
Page #416
--------------------------------------------------------------------------
________________
एकादशः सर्गः। ३९१ पूर्वापरौ नीरनिधी इवेमौ ॥१०॥ तत्र पुरे सीरोहीनगरे, द्वौ अनूचानगणाधिराजौ आचार्यभट्टारको, सङ्गती मिलितौ सन्तो, शोभामन्वभूताम् । इवात्सेक्ष्यते-इमौ पूर्वापरौप्राचीप्रतीचीसत्को, नीरनिधी समुद्रौ, किं०, गाम्भीर्येण सारौ, पुनः, गुणरत्नानां वारः समूहो ययोस्तौ॥१०॥
छायाभूतौ कान्तियुतौ हरन्ती ___ स्तोमर्गवां तामसमोघमुच्चैः। भट्टारकाचार्यवरावभातां
द्वौ पुष्पदन्ताविव तत्र पुर्याम् ॥ ११ ॥ . तत्र पुर्या, द्वौ भट्टारकाचार्यवरौ पुष्पदन्ताविव सूर्याचन्द्रमसाविव, अभातां शोभेते मंति योगः । किं०, छायाभूतों शोभाधरौ, पक्षे सूर्यभार्या छाया, चन्द्रस्य छाया प्रतीता, तद्धारिणौ, पुनः, कान्तियुतौ भासंयुतौ, पुनः, गवां वचनानां, पक्षे गवां किरणानां स्तोमैस्तामसमोघं पापनातं ध्वान्तवातं च हरन्तौ ॥ ११॥ धुर्याविमावाहतशासनैक
गन्त्र्याः कृते किं विहितौ विधात्रा । सूरीश्वरौ संगमितौ विलोक्य - लोकैः खचित्तान्तरिति व्यचिन्ति ॥ १२ ॥ .
तौ सूरीश्वरौ संगमितौ मिलितो, विलोक्य लोकैः स्वचित्तान्तर्मनोऽन्तः, इति व्यचिन्ति । तत् पूर्वार्धेनाह-आईतशासनैकगन्याः कृते जिनशासनरथवाहनाय, किमिमौ विधात्रा धुर्यों विहितौ कृताविति ॥ १२ ॥
भट्टारकोऽबोधि विनेयमेन
Page #417
--------------------------------------------------------------------------
________________
३९२
विजयाशस्त्याम् ।
मत्यन्तमीशं स्वमिवात्मपट्टे । पुत्रो मृगेन्द्रस्य मृगेन्द्र एव
यजायते तत्किमु चित्रमत्र ? ॥ १३ ॥ एनं विनेयमत्यन्तमीशं गच्छभारनिर्वाहकत्वात् समय, आत्मपट्टे स्वमिव भट्टारको हारसूरिः, अबोधि ज्ञातवान् । तदेव द्रढयति-मृगेन्द्रस्य सिंहस्य, पुत्रो यद् मृगेन्द्र एव जायते अत्रार्थे किमु चित्रं ?, अथवा, अत्र जगति तत्किं चित्रं ? अपि तु नेति ।। १३ ॥ आसीदनूचानपतेर्महिम्नो
भट्टारकस्थानमुपेयुषः श्रीः। स्यादस्य यातस्य गुरोः पदे श्री
धिष्ण्यस्य यत् सा न हि विस्मयोऽत्र ॥१४॥ अनूचानपतेः, किं०, भट्टारकस्थानं पूज्यपादमूलमुपेयुषः, महिम्नो महत्त्वस्य, श्रीरासीजाता । अस्य श्रीधिष्ण्यस्य कमलालयस्याऽऽचार्यस्य, गुरोः पदे यातस्य श्रीहीरगुरुपादमूले माप्तस्य, यत् सा श्रीर्भवति, अत्र को विस्मयः कोऽपि न हि; यतो गुरुपदान्तिके प्राप्तस्य शिष्यस्य श्रीः स्यादेवेति, पक्षे श्रीधिष्ण्यस्य श्रिया युक्तो यो धिष्ण्यः शुक्रस्तस्य श्रीशुक्रग्रहस्य, गुरोः पदे बृहस्पतेः स्थाने मीनराशौ, यातस्य या श्रीरुचत्वलक्षणा स्यात् , तत्र विस्मयः कः? अपि तु न कोऽपीति। एतदर्थसंवादि काव्यं यथा." आगतस्य निजगेहमप्यरेगौरवं विदधते महाधियः।
मीनमात्मसदनं समीयुषो भार्गवस्य गुरुरुचतां ददौ" ॥१॥ इत्याधुक्तः ॥१४॥
Page #418
--------------------------------------------------------------------------
________________
एकादशः समः। . १९३. भट्टारकाऽऽचार्यपुरन्दराम्यों। · भाति स्म भूयः शिवपुर्यमूभ्याम् । पुण्यात्मिकाभ्यां धुसरित्सतीभ्यां
नित्याऽनघा मूर्तिरिवाऽष्टमूर्तेः ॥१५॥ अमूभ्यां भट्टारकाचार्यपुरन्दराभ्यां शिवपुरी भूयो भाति स्मेत्यन्वयः । यथा, उत्प्रेक्ष्यते वेति-धुसरित्सतीभ्यां गङ्गागौ। रीभ्यां, किं०, पुण्यात्मिकाभ्यां पावनाभ्याम् ; अष्टमूर्तेः शम्भोः, वरिवेति दृष्टान्तोत्प्रेक्षे ॥ १५ ॥ सीरोहिका श्रीनगरी सुतीर्थ
द्वाभ्यां गुरुभ्यामभवत् तदाऽऽभ्याम् । क्षोणीव जनूष्णमहःसुताभ्या
मेकत्वभावेन सुसंगताभ्याम् ॥ १६ ॥ तदा आभ्यां द्वाभ्यां गुरुभ्यां, सीरोहिका नगरी सु. तीर्थमभवत् । दृष्टान्तोऽत्र-यथा जनूष्णमहःसुताभ्यां गङ्गायमुनाभ्यां, किं०, एकत्वं एकीभावस्तस्य भावेन सत्तया संगताभ्यां मिलिताभ्यां, क्षोणी सुतीर्थ स्यात् तथेति ॥१६॥
आज्ञामथ श्रीतपगच्छभर्तु___ रादाय दामेव जगाम शीघ्रम् । श्रीस्तम्भतीर्थ नगरं गरीया... श्रीमाननूचानमहीमहेन्द्रः ॥ १७ ॥
अथ श्रीतपगच्छभर्तुः श्रीहीरसूरेः, आज्ञा दामेव मालामिवादाय, शिरसेति शेषः। श्रीमान् अनूचानमहीमहेन्द्रः श्रीआचार्यराद् , श्रीस्तम्भतीर्थ नगरं जगाम शिवपुरीतः स्तम्भतीर्थ
५१
Page #419
--------------------------------------------------------------------------
________________
२९४
विजयमश्शस्त्याम् ।
प्राप्तवान्, तत्रत्यश्राद्धमुख्यपरीक्षकवजिआराजिभारूयकारिताईत्प्रतिष्ठा कृत्यायेति शेषः ॥ १७ ॥
इतश्च
अत्युच्छलद्वारिधिवीचिवीथीश्रीवाजि गन्धारपुरे प्रधाने ।
श्रीमालिवंशेऽथ परीक्षकाणां
मुख्य महेभ्योऽभवदाह्नणाः ॥ १८ ॥ इतचेति पदेनाधिकारान्तररूपां तयोरुत्पत्तिं वर्णयतिअत्युच्छलन्ती या वारिधेः समुद्रस्य वीचिवीथी कल्लोलमाला ततश्रीभ्राजि तच्छोभाशालिनि, गन्धारपुरे बन्दिरे, श्रीमालिनां वंश ज्ञातौ, अथ परीक्षकाणां मुख्य आढणनामा महेभ्योऽभवत् ॥ १८ ॥
जिष्णोरिवौजस्खिभुजो झषाङ्कस्तस्यात्मजोऽभूदथ देणाह्नः । तस्यापि पुत्रोऽथ मुहस्यभिख्या
ख्यातः सतां प्रीतिपदं बभूव ॥ १९ ॥
।
अथ तस्यात्मजो देढणनामाऽभूत् । कः कस्येवेत्याह-जिष्णोर्नारायणस्य, झषाको मीनाङ्क इव । किं०, ओजस्विनौ बलिष्ठौ भुजौ यस्य सः, मीनाङ्कपक्षे औजस्विभुज इव, जगजेतृत्वादिति । अथ तस्यापि पुत्रो मुहसी इति अभिख्यया ख्यातः मुहस्यभिख्याख्यातः पुनः किं०, सतां प्रीतिवदं सज्जनानां स्नेहपात्रं बभूव ॥ १९ ॥
सूनुस्तदीयः समराभिधोऽभूत् तस्याङ्गजन्माऽजनि चाऽर्जुनाहः ।
Page #420
--------------------------------------------------------------------------
________________
एकादशः सर्गः। भीमाभिधोऽभूत् तनयश्च तस्य
जाताऽस्य लालूरिति नाम जाया ॥ २० ॥ तदीयः सूनुः समराख्यस्तस्याङ्गजन्मार्जुनाख्योऽजनि जातः, तस्यार्जुनस्य तनयो भीमाऽऽख्योऽभूत् , अस्य च लालूरितिनाम्नी जाया पत्री जाता ॥ २० ॥ .. यहजयः शक्रपुलोमपुत्र्योः
पुत्रस्तयोः श्रीजसिआभिधोऽभूत् । तस्य स्मरस्येक रतिर्बभूव __ भार्या सदाऽऽर्या जसमुख्यमादेः ॥ २१॥ यद् यथा, शक्रपुलोमपुज्योरिन्द्रेन्द्राण्योः, जयो नामा सुतः, तथा तयोः श्रीजसिआख्यः पुत्रोऽभूत् । तस्य भार्या जसमुख्यमादेः जसमादेनानी, बभूवः रतिरिव यथा स्मरस्येवेति दृष्टान्तः ॥२१॥ . स्कन्दाऽऽखुयानाविव शम्भुगौर्योः
श्रेष्ठौ तयोडौं तनयावभूताम् । . ज्यायान् महेभ्यो वजिआभिधानः
श्रीराजिआहश्च ततो लघीयान् ॥ २२ ॥ __यथा शम्भुगोर्योरीघरपार्वत्योः, स्कन्दाऽऽखुयानौ कार्तिकेयगणेशौ पुत्री, तथा तयोर्जसिआजसमादेनाम्नोः, द्वौ तनयावभूताम् । तयोर्नान्नी माह-ज्यायान् वृद्धो वजिआभिधानो महेभ्यः, च पुनर्लघीयान् रजिआह इति ॥ २२ ॥
आभ्यां सुताभ्यां मुदमाप पित्रोश्चित्तं चिरं चित्तजशोभनाभ्याम् ।
Page #421
--------------------------------------------------------------------------
________________
३९०
विजयप्रशस्त्याम् ।
सद्योऽश्विनीभास्करयोरिवर्भुभर्तुर्भिषग्भ्यामतिरागवद्भ्याम् ॥ २३ ॥
अभ्यमेिताभ्यां सुताभ्यां किं०, चित्तजः स्मरस्तद्वत् शोभनाभ्याम् पित्रोजननीजनकयोः, चित्तं मुदमाप । दृष्टान्तो यथा-अश्विनीभास्करयोः ऋभुभर्तुः शक्रस्य भिषग्भ्यामश्विनीपुत्राभ्याम् किं०, अतिरागवद्भ्यां तयोर्भृशं स्नेहित्वादिदं विशेषणम् स्ववैद्याभ्यां यथाऽश्विनीसूर्ययांश्चित्तं मुदितं तथा ताभ्यां तयोरिति ॥ २३ ॥
ज्येष्ठस्य जाया विमलाऽभिघाऽभूदन्यस्य चासीत कमलाऽभिधाना ।
भ्रात्रोर्मिथः प्रीतिरभूद् वसन्तसंकल्पयोन्योरिव चातिबही ॥ २४ ॥ ज्येष्ठस्य वजिरूपस्य जाया भार्या विमलाऽऽख्याऽभूत्, अन्यस्य च लघोः कमलाऽऽख्याऽभूत् । च पुनः, तयोर्भ्रात्रोर्वसन्तसङ्कल्प यांन्यांमधुमन्मथयोरिव, मिथः अतिवडी प्रीतिरभूदिति ॥ २४ ॥
श्रीचक्रपाणेरिव पुष्पपत्री ज्येष्ठस्य पुत्रोऽजनि मेघजीति । एतः स्म गन्धारपुरादथ हौ
बन्धु च खम्भाइतबन्दिरं तौ ॥ २५ ॥ श्रीचक्रपाणेर्मारायणस्य यथा पुष्पपत्री कन्दर्पस्तथा ज्येष्ठस्य बजिआख्यस्य पुत्रो मेघजी इति नामाऽजनि । अथाऽस्यदा गन्धारपुरां तौ द्वौ बन्धू खम्भाइतबन्दिरं एतः स्म आगतौ ॥ २५ ॥
Page #422
--------------------------------------------------------------------------
________________
एकादशः सर्गः।
३९७
तत्रापि तावात्मभुजार्जितानां
.श्रीणां फलं धर्मनियोजनाख्यम् । सम्यक् समीहाविषयं सृजन्तौ
क्षेत्रेषु वित्तं वपतः स्म नित्यम् ॥ २६ ॥ तौ भ्रातरौ, तत्रापि स्तम्भतीर्थे, आत्मभुजार्जितानां वहस्तोपार्जितानां, श्रीणां धर्मनियोजनाख्यं धर्मकर्मव्ययकरणलक्षणं, फलं समीहाविषयं सृजन्तौ वान्छागोचरीकुर्वन्तौ, सप्तसु नवसु वा क्षेत्रेषु, वित्तं वपतः स्मेति ॥ २६ ॥ त्यागैः सरागैः सुकृतप्रियेषु
पात्रेषु दीनेषु दयात्मभिश्च । आसीत् प्रसिद्धिः प्रथमा नगर्या
तस्यां तयोर्बान्धवयोश्च बह्वी ॥ २७ ॥ सुकृतप्रियेषु पुण्यात्मसु, पात्रेषु त्यागैर्दानैः, किं०, सरागैधर्मरागयुक्तर्भक्तिदानैरिति, च पुनः, दीनेषु जनेषु दयाऽऽत्मभिर्दयादानैरिति, त त्यां नगर्या त्रम्बावत्यां, तयोबान्धवयोः प्रसिद्धिः ख्यातिः, किं०, वही, अत एव प्रथमा मुख्या, आसीत् ॥ २७॥ ख्याति वो भर्तुरकब्बरस्य
पर्षन्मृगाक्षीस्तनहारिहारः। जज्ञे पयोधौ च तयोः फरङ्ग
देशेशसंसल्ललनाललाम ॥ २८ ॥ तयोर्धात्रोः, अकबरस्य भुवो भर्तुर्भूपतेः श्रीअकबरशाहः, वर्षन्मृगाक्षीस्तनेषु हारी मनोहरो हारस्तत्तुल्या ख्यातिरभूत , च
Page #423
--------------------------------------------------------------------------
________________
३९८ विजयाशस्त्याम् । पुनः. फरदेशशस्य परतकालपातिशाहेः संसल्ललनायाः सभाभामिन्याः, ललाम तत्तुल्या ख्यातिरभूत् : एतावता कोयः ?, स्थलपथं श्रीअकबरपानिशाहिसभायां, पयोधी जलपथे च फरङ्गीश्वरपर्षदि, तयोः प्रसिद्धिर्जातेति ॥ २८ ॥ संसारनीराकरकुम्भजन्मा
धर्मस्तथाऽऽभ्यां बहु मन्यते स्म । हन्ति स्म शत्रू अपि नैष जातु
भ्रात्रीस्तयोरत्र यथाऽर्थकामौ ॥ २९ ॥ आभ्यां भ्रातृभ्यां, संसारनीराकरे भवार्णवे, कुम्भजन्माऽगस्तिस्तच्छोषकत्वात् भवार्णवशोषकद् धर्मस्तथा बहु मन्यते स्म यथा तयोभ्रात्रोरर्थकामो एष धर्मो न हन्ति स्म, कथं, जातु कदाचिदपि, अर्थकामौ कि०, शत्रू अपि विरोधिनावपिः एतावता तयोस्त्रयोऽपि पुरुषार्थाः स्वामीना इति सूचितम् ॥ २९ ॥
रूपेण दस्राविव पुष्पकाल
कामाविव स्निग्धतया हताघौ । द्वौ भ्रातरौ श्रीसुमनोऽभिरामौ ___ हृद् जहतुस्तौ युगपज्जनानाम् ॥ ३० ॥
तो हताची गतपापी, दो भ्रातरी रूपेण दसाविवाश्विनीनन्दनाविव, पुनः, पुष्पकालकामाविव स्निग्धतया सस्नेहत्वेन वसन्तस्मराविव, यतः किं०, श्रीसुमनोभिरामौ श्रिया युक्तः सुमनोभिः पुष्पर्वसन्तस्य सर्वस्वरूपैः कामस्य च शत्ररूपरभिरामौ मनाज्ञो दस्रो, किं०, सुमनोभिस्सुरैरिति, तो किं०, श्रीमत्सजनेः श्रीमत्पण्डितैश्वाभिरामो जनानां हृद् जइतुरिति ॥ ३० ॥
Page #424
--------------------------------------------------------------------------
________________
३९९
एकादशः सर्गः। श्रीहरिसूरीश्वरपट्टभानो
!भिर्गुरोः फुल्लमनःपयोजौ। अन्येचुरित्थं सहजौ महेभ्यो
तौ चिन्तयाश्चक्रतुरात्मचित्ते ॥ ३१॥ गुरोः, किं०, श्रीहीरसूरीश्वरपट्टे भानोस्तदुद्द्योतकत्वात् , गोभिर्वाग्भिर्मयूखैश्च, फुल्लं विनिद्रं मनःपयोजं ययोस्तो, तौ सहजो सोदरौ, महेभ्यो अन्येारेकदा, आत्मचित्ते चिन्तयाश्चऋतुरिति ॥ ३१॥
चैत्यप्रतिष्ठाप्रतिमादिपुण्य
क्षेत्रेषु बीजं धनरूपमुप्तम् । सूत्वा यशःपुञ्जपरागिपुष्पं .
सद्यो महानन्दफलं प्रसूते ॥ ३२ ॥ चैत्यप्रतिष्ठापतिमादिपुण्यक्षेत्रेषु जिनभवनाविम्बस्थापनाsईत्मतिमाप्रमुखसप्तक्षेत्रेषु, धनबीजमुप्तं सत् यशःपुञ्ज एव परागो यस्मिंस्तद् यशःपुष्पं सूत्वा प्रसूय, महानन्दफलं मुक्तिफलं, प्रसूते ॥ ३२॥
चैत्यं प्रतिष्ठा प्रतिमाऽर्हतां यत्
त्यागश्च पात्रेषु विधीयते यत् । संपहरस्याऽऽत्मभुजार्जितस्य
नित्यं निधिक्ष्मा भणितेयमेव ॥३३॥ च पुनः, चैत्यं जिनौकः, पुनस्तत्प्रतिष्ठा, पुनरर्हतां प्रतिमा, च पुनः, पात्रेषु साधुसाध्वीश्राद्धश्रादीरूपेषु, यत् त्यागो विधीयते
Page #425
--------------------------------------------------------------------------
________________
विजयमत्रस्त्याम् ।
आन्मभुजापार्जितस्य संपद्भरस्य लक्ष्मीसमूहस्य, निधित्मा निधानांवीं धनन्यासाहस्थानभूरिति, इयमेव भणितेति भावः।।३३॥ मत्वेति चित्तान्तरुदात्तचित्तौ
तो तत्र पुर्वा प्रथितात्मवित्तौ । सज्जो सलज्जौ सहजो महोभि. तो ततः कारयितुं प्रतिष्ठाम् ॥ ३४ ॥ ... इति चित्तान्तमत्वा, तौ कि०, उदात्तचित्तौ उदारमानसो, पुनः किं०, तत्र पुर्या तम्बावत्यां, प्रथितात्मचित्तौ प्रथितस्त्रधनौ, अथवा प्रथितात्मसु ख्यातिमत्सु वित्तो ख्यातो, पुनस्तो सहजो भ्रातरौ किं०, सलज्जो, ततः कारणात् प्रतिष्ठां कारयितुं सज्जी जाती, महोभिरुत्सवैरिति ॥ ३४ ॥
अथ दशभिः काव्यैः प्रतिष्ठोत्सवं वर्णयतिदानान्यदीयन्त यथार्थमर्षि- ..
सार्थाय ताभ्यां धनकाश्चनानि । शीघ्र यथेमौ वसुवर्णरूपौ
श्रीदखरद्री दरितौ खनाशात् ॥ ३५ ॥ ताभ्यां भ्रातृभ्यां, अर्थिसार्थाय याचकनिकराय, यथार्थ अर्थस्य प्रयोजनस्याऽनतिक्रमेण यथार्थ यथेच्छम् , तथा धनकाशनानि दानानि स्वसुवर्णदानानि, अदीयन्त दत्तानीति, यथा इमो श्रीदस्वरद्री धनदमेरू, कि०, स्वसुवर्णरूपो धनकनकमयौ, स्वनाशादात्मनाशाद्, दरितो चकिती, दूरे प्रनष्टाविति गम्यम् ॥३५॥ नानाऽन्नपक्वान्नभरैर्जनौघा
आभ्यामभोज्यन्त तथा यथेच्छम् ।
Page #426
--------------------------------------------------------------------------
________________
'एकादशः सर्गः ।
तेषां यथा खर्दुमयुग्मधर्मिवीक्षासमीहा शिथिलीबभूव ॥ ३६ ॥
आभ्यां नानाsन्नपकान्नभरैस्तथा यथेच्छं जनौघा अभोज्यन्त भोजिताः, यथा तेषां भोज्यकृतां, स्वर्दुमयुग्मधर्मिवीक्षायाः स मीहा कल्पवृक्षयुगलिकदिदृक्षा, शिथिलीबभूवेति ॥ ३६ ॥ दिव्यैर्दुकुलैः परिधाप्यते स्म संघस्तथाऽऽभ्यां च सहोदराभ्याम् । व्यापारवृत्तिर्वसनैकमूला
मन्दा यथाऽजायत दौष्यिकाणाम् ॥ ३७ ॥
च पुनः तथाऽऽभ्यां सहोदराभ्यां दिव्यैर्दुकूलैः संघः परिधाप्यते स्म यथा दौष्यिकाणां वस्त्रव्यापारिणां वसनैकमूला व्यापारवृत्तिर्वस्त्र व्यापारा जीविका, मन्दा जातेति ॥ ३७॥ पौराय तस्यां पुरि दीयते स्म
ताभ्यां तदा श्रीफलपङ्किरिडा | पूर्वापराभ्यां सलिलेश्वराभ्यां
४०१:
पीयूषपूर्णा कलसाऽऽवलीव ॥ ३८ ॥
पुनः, तस्यां पुरि पौराय पुरीलोकाय, तदा तत्रोत्सवे, ताभ्यामिद्धा दीप्ता, श्रीफलानां लोकभाषया नालिकेराणां पक्तिः श्रेणिः, दीयते स्म दत्ता । उत्प्रेक्ष्यते - पूर्वापराभ्यां सलिलेश्वराभ्यां समुद्राभ्यां, पीयूपपूर्णामृतभरिता, कलसाऽऽवलीचेति ॥ ३८ ॥
सौधे तयोर्मङ्गलमञ्जुलानि गीतान्यगीयन्त च गायनौघैः ।
५२
Page #427
--------------------------------------------------------------------------
________________
१०२ विजयप्रशस्त्याम् । किं पुष्पकालावनिपालराज्ये
पुस्कोकिलैरूर्जितकूजितानि ? ॥ ३९ ॥ पुनः, तयोः सौधे मङ्गलमजुलानि कल्याणकारीणि, गीतानि गायनौधैरगीयन्त गानविपयीकृतानि । किमित्युत्प्रेक्षायाम्-पुष्पकालावनिपालस्य वसन्तभूपते राज्ये पुंस्कोकिलैः कोकिलवरैः, ऊर्जितानि दीप्तानि कूजितानि गीतानीति ॥ ३९ ॥ सत्कारपात्रास्तिकशस्तमेतद्
गेहं महामण्डपमञ्जु रेजे। मुक्ताफलश्रेणिलतावितान
रम्याऽमराढ्या मघवत्सभेव ॥ ४० ॥ पुनः, एतयोर्गेहमेतद्गहम् , किं०, सत्काराणां तत्मदत्तस्वर्णमौक्तिकमुद्रिकादीनां पात्रीभूता ये आस्तिकाः साधर्मिकश्रद्धालवस्तैः शस्तं श्लाघ्यम् , पुनमहामण्डपेन मञ्जु रम्यं, रेजे रराज । इवोत्प्रेक्ष्यते-मुक्ताफलानां श्रेणिभिः पुनस्तेषामेव लताभिः, पुनस्तेषां वितानैर्मुक्ताफलश्रेणिभिर्मुक्ताफललताभिर्मुक्ताफलवितानैश्च हारविशेषै रम्या मनोहरा येऽमरा देवास्तैराढ्या, मघवत्सभेव सुधर्मेवेति ॥ ४०॥ इत्यादिभिर्भूरिभिरुत्सवैस्त
द्गेहं जगाहे बहुमञ्जिमानम् । वाताभिघाताद् बहलीभवह्नि
स्तुङ्गैस्तरङ्गैर्जलधेरिवाम्भः ॥ ४१॥ इत्यादिभिावर्णितलक्षणैरुत्सवः तयोर्गेहं तद्नेहं, बहुमन्त्रिमानं भूरिरामणीयकं, जगाहे मनोम तामापेत्यर्थः । यथा
Page #428
--------------------------------------------------------------------------
________________
एकादशः सर्गः।
४०३ वाताभिघातात् पवनाहतेः, वहलीभवद्भिढीभवद्भिः, तुङ्गैस्तरङ्ग्रेजलधेः समुद्रस्य, अम्भः पानीयमिति दृष्टान्तः ॥४१॥
सोल्लासचेतस्यतुलैर्विलासै
मेंदखिनीच्छातिगतुष्टिपुष्टे । संघेऽनघे कुर्वति धर्मकर्म
कल्लोलि कृत्यं सतताऽतिसत्यम् ॥ ४२ ॥ शुद्ध शराम्भोधिकलामितेऽब्दे
तिथ्यामुतथ्याऽनुजभामितायाम् । पीयूषपादलिपि मासि शुक्र
दोपोज्झितेऽहन्यनघे च लग्ने ॥ ४३ ॥ आनन्दकन्दाङ्करनीरवाहः
सूरिय॑धाद् दत्तजगत्प्रमोदाम् । श्रीपार्श्वनाथस्य च वर्धमान
भर्तुश्च शम्भ्वोरुभयोः प्रतिष्ठाम् ॥ ४४ ॥ पुनः अनघे पुण्यात्मनि, संघे श्रमणश्रमणीश्राद्धश्राद्धीरूपे, पुनः किं०, सोल्लासचेतसि मुदितमनसि, पुनरतुलैनिरुपमैः, विलासैः पात्रनृत्यादिभिः, मेदस्विनि मेदुरिते सति, पुनः, इच्छाऽतिगाऽतिवह्वी या तुष्टिस्तया पुष्टे सति, पुनः, संघे धर्मकर्मकल्लोलि सहर्प सुकृतकृत्यं कुर्वति सति, किं०, सततमतिसत्यं सम्यक् ॥ ४२ ॥ पुनः, शुद्धे गुर्वस्त. शुक्रास्तायभावाद् निर्मले, अब्दे वर्षे, पुनः कि०, शराः पञ्च, अम्भोधयश्चत्वारः, कलाः पोडश, एभिरकैमिगत्या गणितैर्मिते १६४५ वर्षे, पुनस्तिथ्यां कि०, उतथ्यानुजो बृह
Page #429
--------------------------------------------------------------------------
________________
४०४
विजयप्रशस्त्याम् ।
स्पतिस्तस्य भाः किरणा द्वादश तन्मितायां द्वादश्यामिति, पुनः, शुक्रे ज्येष्ठे मासि, किं०, पीयूषपादस्य चन्द्रस्य विड् यत्र तत्र शुक्लपक्षे, च पुनः, लग्ने राश्युदये, अहनि च दिने, दोषोज्झिते निर्दोपे, अत एवाऽनघे मनोज्ञे ॥४३॥ सूरिः श्रीविजयसेनाचार्यधुर्यः, किं०, आनन्दकन्दाकरे हर्षकन्दलोद्गमे नीरवाहो मेघः, श्रीपार्श्वनाथस्य वक्ष्यमाणचिन्तामणीतिनामकस्य, पुनः, श्रीवर्धमानभर्तुरीरजिनस्य च, उभयोईयोः स्वामिनोः, प्रतिष्ठाम् , किं०, दत्तजगत्प्रमोदां वितीर्णविश्वहर्षा, व्यधादकरोत् । त्रयाणां व्याख्येति ॥ ४४ ॥
संस्थापितान्यन्यतमानि पूज्यै
बिम्बानि तस्यां चतुरस्रिकायाम् । भान्ति स्म सीमन्धरमुख्यतीर्थ
नाथाः समभ्येयुरिवाद्य साक्षात् ॥ ४५ ॥ तस्यां चतुरस्रिकायामन्यतमान्यपि विम्बानि जिनप्रति'मालक्षणानि, पूज्यैः संस्थापितानि प्रतिष्ठितानि भान्ति स्म । इवोपेक्ष्यते-प्रतिमाऽप्रतिमरूपाऽतिशयच्छलेनाद्य साक्षात्सीमन्धरप्रमुखतीर्थनाथाः समभ्येयुरिति ॥ ४५ ॥
क्लुप्तप्रतिष्ठोऽद्भुतजातरूप
रूपैर्गुरुः पूजित आबभासे । मध्यन्दिने श्रान्तिवशावरूद्वै.
धर्माशुबिम्बैरिव मेरुसानुः ॥ ४६ ॥ क्लुप्तप्रतिष्ठः कृतजिनप्रतिमास्थापनः, गुरुः; किं०, अद्भुतैर्जातरूपरूपैः स्वर्णरूप्यरूपकैर्नाणकविशेषः, पूजितः सन् , आवभासेऽशुभत् , धर्माशुविम्वैः सूर्यमण्डलैः, किं०, मध्यन्दिने
Page #430
--------------------------------------------------------------------------
________________
एकादशः सर्गः।
४०५ मध्याहे, श्रान्तिवादवरुदैरुत्तीर्णैः, मेरुसानुः सुमेरुशृङ्गमिवेति दृष्टान्तोत्नेक्षे ॥ ४६॥
अस्तोकलोके हितचिन्तितार्थ
चिन्तामणेभूर्यनुभावधाम्नः । श्रीपार्श्वनाथस्य जगत्प्रसिद्ध
नामाऽथ चिन्तामणिरित्यकारि ॥ ४७ ॥ श्रीपार्धनाथस्य; किं०, अस्तोकलोके भूरिजने, हिता ये चिन्तितार्थाः कल्पितपदार्थास्तत्र चिन्तामणेचिन्तारत्नस्य, तत्- . पूरकत्वात् , पुनः, भूर्यनुभावस्य प्रभूतप्रभावस्य धाम्नो वेश्मनः, नाम; किं०, जगत्मसिद्ध चिन्तामणिरित्यकारि, सूरिणेति शेषः ॥ ४७॥ पद्मावतीपन्नगपत्युपास्ति
पूजाप्रशस्ता मरुतां लतेव। दत्ते कुवेदाऽङ्गुलिसंमितैषा
चिन्तामणेमूर्तिरभीप्सितानि ॥ ४८ ॥ • पद्मावती शासनाधिष्ठायिका देवी, पन्नगपतिधरणेन्द्रस्तनिर्मिते ये उपास्तिपूजे उपास्तिपूजयोः का प्रतिविशेषः?, इत्याह-उपास्तिनित्यसेवारूपा, पूजा च कादाचित्की पुष्पार्चादिरूपा, ताभ्यां प्रशस्ता श्रेयसी, चिन्तामणेः पार्थस्य, मूर्तिः, किं०, कु: पृथ्वी एका, वेदाश्चत्वारस्तेनाइवामगत्या कुवेदसंमितानि ४१ यानि अङ्गुलानि तैः संमिता एकचत्वारिंशदङ्गुलीयेति, अभीप्सितानि वाञ्छितानि, मरुतां सुराणां, लतेव दत्ते ॥४८r दृष्टयेव विध्यापयितुं दुरन्ता
तङ्कप्रदीपानिव सप्त संपन् ।
Page #431
--------------------------------------------------------------------------
________________
४०६
विजयप्रशस्त्याम् ।
यः संततं सप्तफणान् दधान
आभाति चिन्तामणिपार्श्वनाथः ॥ ४९ ॥ यश्चिन्तामणिपार्श्वनाथः सप्त फणान् दधानः सन् , आमातीत्यन्वयः । इबोत्प्रेक्ष्यते-दुरन्ता ये आतङ्का रोगजलज्वलनादयः सप्त भयलक्षणास्तद्रूपान् प्रदीपान् दृष्टया विध्यापयितुं सप्त सपोनिवाऽऽदधानोऽस्तीति ॥ ४९ ॥ . लोकेषु सप्तस्वपि सुप्रकाशं
किं दीप्रदीपा युगपद् विधातुम् ? । यन्मूर्ध्नि सप्ताऽत्र फणा विभान्ति
रत्नविषा ध्वस्ततमःसमूहाः ॥ ५० ॥ यन्मूर्ति सप्त फणाः, किं०, रत्नानां फणमणीनां त्विषा ध्वस्तस्तमःसमूहो यैस्ते विभान्तीत्यन्वयः । किमिवोत्प्रेक्ष्यतेसप्तसु लोकेषु सुप्रकाशं विधातुं दीपदीपा इति भावः ॥ ५० ॥
आराधितः पूजित ईक्षितश्च ___ सूते ननस्कामितमर्थसार्थम् । मन्दारशाखीव लसत्रूलाढ्य
श्चिन्तामणियः सुमनोमनोज्ञः ॥ ५१ ॥ आराधितः सेवितः, पूजितः पुष्पादिभिः, इक्षितो विलोकितो नेत्राभ्यां, यश्चिन्तामणिः पार्थः, मन्दारशाखीव सुरतरुरिव, किं०, लसद्भिः फलैः पुण्यफलैश्चतुस्त्रिंशदतिशयादिभिः, अथवा-ऐहिकामुष्मिकमनोरथपूर्तिकरणरूपैः फलैराढयः, पुनः कि०, सुमनोभिर्देवैः पुष्पैर्वा मनोज्ञः, मनस्कामितमर्थसाथै सूत इति ॥ ५१॥
Page #432
--------------------------------------------------------------------------
________________
४०७
एकादशः सर्गः। चिन्तामणि पार्श्वमधीशमेनं ___दृष्टा जनानां मुदमाप चेतः। तिग्मद्युतबिम्बमिवाविलम्ब __ वृन्दं रथाङ्गाहविहङ्गमानाम् ॥ ५२ ॥
एनं चिन्तामणि पार्थमधीशं दृष्ट्वा जनानां चेतो मुदमाप हर्ष प्राप्नोति स्मेत्यन्वयः । उत्तरार्धन दृष्टान्तमाह-अविलम्ब शीघ्रं, तिग्मगुतेर्भानोः, विम्बं दृष्ट्रा रथाङ्गाहविहङ्गमानां चक्रवाकपक्षिणां, वृन्दं यथा मुदमामोतीति ॥ ५२ ॥
दीप्रादराभ्यामथ सोदराभ्या___ माभ्यां प्रदत्ताङ्गिमनःप्रमोदम् । चिन्तामणेश्चैत्यमकारि शक्र
पर्षप्रजेवाद्भुतपुण्यपात्रम् ॥ ५३ ॥ अथ, आभ्यां सोदराभ्याम् , किं०, दीपादराभ्यां उद्योगवयां, प्रदत्ताङ्गिमनाप्रमोदं कृतप्राणिचित्ताहादं, पुनः, अद्भुतपुण्यस्य पात्रं योग्यं वा स्थानं वा, चिन्तामणेः पार्थनाथस्य, चैत्यमकारि कारितम् । उत्प्रेक्ष्यते-शकपर्षद इन्द्रसभायाः सुधमायाः प्रजेवाऽपत्यमिवेति भावार्थः ।। ५३ ॥ किं राजधानी सुकृताभिधान
भूपस्य सोल्लासविलासवेश्म । . पार्श्वप्रभोरेतदुदारचित्रं
धत्ते श्रियं कामदनाम चैत्यम् ॥ ५४ ॥ पार्थप्रभोः कामदं नाम्ना चैत्यम् ; किं०, उदाराणि स्फाराणि चित्राणि यत्र तत् , श्रियं शोभां धत्ते इत्यन्वयः । सुक
Page #433
--------------------------------------------------------------------------
________________
विजयप्रवस्त्याम् । ताभिधानस्य भूपस्य धर्मरूपभूपस्येति, कि राजधानी ?, कि०, सोल्लासस्य विलासस्य लीलाया वेश्म गृहम् ॥ ५४॥
उत्तम्भिता इत्यादेसरभ्य त्रयोदशभित्तैस्तस्य चैत्यस्य तद्गतभूमिगृहस्य च वर्णनं यथा
उत्तम्भिता द्वादश यत्र चैत्ये
स्तम्भा विभान्त्युल्वणमूर्धमूलाः। स्तम्भखरूपाः प्रभुपार्श्वपादो
पास्त्यै समेता इव सभ्यमुख्याः ॥ ५५ ॥ यत्र चैत्ये द्वादश स्तम्भाः, किं०, उत्तम्भिता उर्वीकृताः पुनः कि०, उल्वणानि उत्कटानि अच्छेद्यत्वात् , मूर्धमूलानि शिरप्रदेशभूतानि येषां ते, विभान्तीत्यन्वयः । इवोत्प्रेक्षायाम्प्रभुपार्श्वपादयोरुपास्त्यै सेवायै, स्तम्भरूपा द्वादश सभानां पतयो द्वादशापि सभ्यमुख्या आगता इवेति ॥ ५५ ॥ द्वाराणि षड् दृग्दृशि दत्तशैत्ये
चैत्ये विभान्त्युत्तमतोरणानि । मार्गा इवर्तुयुसदां प्रवेष्टुं
पार्श्वप्रभूपास्तिहृदां समेषाम् ॥ ५६ ॥ यत्र चैत्ये षड् द्वाराणि; किं०, उत्तमतोरणानि, चैत्ये कि०, दृग्दृशि द्रष्दृजननेत्रे, दत्तं शैत्यं येन, तत्र विभान्ति । इवोसेक्ष्यते-समेषां सर्वेषां, ऋतुासदां पडतुदेवानां, कि०, पार्थप्रभोरुपास्तौ सेवने हृद् येषां तेषां, प्रवेष्टुं प्रवेशकृते, मार्गाः इवेति ।। ५६ ॥ द्वौ द्वारपालौ तपनीययष्टी
चैत्येऽत्र भूयःसुभगौ विभातः।
Page #434
--------------------------------------------------------------------------
________________
एकादशः सर्गः।
४.९ पूर्वापरेशाविव वज्रपाश
पाणी प्रभुं पार्श्वमुपेयिवांसौ ॥ ५७ ॥ अत्र चैत्ये द्वौ द्वारपालौ प्रतीहाररूपी, कि०, भूयःसुभगौ भृशं रम्यौ, पुनः किं०, तपनीयस्य सुवर्णस्य यष्टिदण्डो ययोस्तौ, विभातः शोभेते, पूर्वेशश्च अपरेशश्च पूर्वापरेशौ शक्रवरुणौ, किं०, वज्रं च पाशश्च पाणौ ययोस्तौ वज्रपाशपाणी, प्रभुं द्रष्टुमुपेयिवांसौ संपाप्ती, इवोत्प्रेक्षायामिति ॥५७॥ सप्ताऽतिभान्ति प्रसभाभिरामा- ...
चैत्येऽत्र देवात् कुलिका विशालाः। खर्गात् प्रभुं द्रष्टुमिवागताना
मास्यानिवासा द्युसदामृषीणाम् ॥ ५८ ॥ अत्र चैत्ये सप्त देवात् कुलिका देवकुलिकाः, अतिभान्ती. त्यन्वयः । इवोत्प्रेक्ष्यते-प्रभुं द्रष्टुं स्वर्गादागतानां घुसा ऋषीणां सप्तीणां, आस्यानिवासा आसनस्थानानीवेति ॥५८॥
अक्षाक्षिसंख्या भगवद्विहारे
भान्त्युत्तमा मङ्गलमूर्तयोऽस्मिन् । हर्षेण साधुव्रतभावनाह्व- ..
लक्ष्म्यः प्रभु सेवितुमागताः किम् ? ॥५९॥ अक्षाणीन्द्रियाणि पञ्च, अक्षिणी द्वे, वामगत्याऽक्षाक्षिसंख्याः २५ पञ्चविंशतिसंख्याः , अस्मिन् भगवद्विहारे मङ्गलमूर्तयो भान्ति; किं०, साधूनां व्रतानि पञ्च महाव्रतानि तेपां भावनाः प्रत्येकं भावनापञ्चकसद्भावात् पञ्च पञ्चगुणीकृताः पञ्चविंशति-- भवन्ति तेन साधुव्रतभावनारूपलक्ष्म्यः , किं प्रभु सेवितुमागताः.१, इति ॥ ५९॥
Page #435
--------------------------------------------------------------------------
________________
४१०.. . विजयप्रशस्त्याम् ।
संशोभते भूमिगृहं विशालं .. चैत्येऽत्र चारु प्रकटप्रकाशम् । पातालधाम्नां भवनं समेतं
द्रष्टुं मनोज्ञामिव चैत्यलक्ष्मीम् ॥ ६० ॥ अत्र चैत्ये विशालं, पुनश्वारु, पुनः प्रकटप्रकाशं भूमिगृह संशोभत इत्यन्वयः । चैत्यलक्ष्मी द्रष्टुं पातालधाम्नां दैत्यानां, भवन समेतमायातमिवेति ॥ ६० ॥
भूमीगृहे भान्ति खनेत्रसंख्या___ न्यारोहणान्यहुतसन्धिभाञ्जि । अङ्का अशङ्का दुरितक्रियाणां
हेलाहतानामिव चैत्यभ; ॥ ६१ ॥ खानि इन्द्रियाणि पञ्च, नेत्रे द्वे, वामतो गत्या खनेत्रसं. ख्यानि पञ्चविंशतिसंख्यानि, आरोहणानि सोपानानि, किं०, अद्भुतसन्धिभाञ्जि सुसन्धीनि, भूमीगृहे भान्तीत्यन्वयः । उत्प्रेक्ष्यते-चैत्यभो मूलनायकेन श्रीपार्श्वनाथेन, हेलाहतानां लीलातर्जितानां, दुरितक्रियाणां पञ्चविंशतिसंख्यानां सावचक्रियाणां, अङ्काश्चिह्नानीवेति ॥ ६१ ॥
विभ्राजते भूमिगृहे गणेशः __ सोपानपङ्क्त्युत्तरणे पुरःस्थः । अन्तःप्रवेशं सृजतां जनानां
प्रत्यूहहत्यर्थमिवागतोऽसौ ॥ ६२ ॥ सोपानपङ्क्त्युत्तरणे सति, पुरःस्थो भूमिगृहद्वारि, गणेशो विनायकः, विधाजत इत्यन्वयः । अन्तःप्रवेशं सृजता
Page #436
--------------------------------------------------------------------------
________________
एकादशः सर्गः ।
४.१.१
कुर्वतां जनानां प्रत्यूहहत्यर्थे विघ्नध्वंसकृते, आगत इवेत्यु
त्प्रेक्षा ॥ ६२ ॥
भूमीगृहं भाति लसत्प्रपञ्चं पञ्चप्रतीहारमुदाररूपम् । पञ्चापि भङ्क्तुं किमु पञ्चबाण
बाणानलं पञ्चमुखः समेतः ? ॥ ६३ ॥ .
भूमीगृहं किं०, लसत्प्रपञ्चं सविस्तारं, पुनः पश्च प्रतीहारा दौवारिकरूपाणि यत्र तत् पञ्चप्रतीहारम्, अतएवोदाररूपं किमु पञ्चापि पञ्चवाणवाणान् स्मरशरान् भङ्कं पञ्चमुखो महादेवः समेत इति ॥ ६३ ॥ धत्ते श्रियं तच्चतुरस्रमुच्चै - भूमीगृहं दिग्मितिभृत्रोच्चम् ! स्वामिप्रणामाय समागताना
मास्थानपृथ्वीव हरिद्वधूनाम् ॥ ६४ ॥
तद्भूमीगृहं किं०, चतुरस्रं चतुष्कोणेषु समं, पुनः किं०, दिग्मितिभृतः करान् हस्तान् यावदुच्चं दिग्मितिभृत्करोचं दश हस्तान् यावदुच्चत्वेनेति । इवोत्प्रेक्ष्यते - हरिद्वधूनां दिग्नारीणां स्वामिनः पार्श्वेशस्य प्रणामाय, समागतानाम्, आस्थान पृथ्वी निवासस्थानमिवेति ॥ ६४ ॥
मूले प्रतीहार उदारगर्भा
गारस्य सारस्य पयः पयोधेः । भूधानि तत्र प्रथमार्हतोऽस्ति मूर्तिस्तुरङ्गत्रिमिताङ्गुलीया ॥ ६५ ॥
Page #437
--------------------------------------------------------------------------
________________
४१२
विजयप्रशस्त्याम् ।
तत्र भूधानि उदारगर्भागारस्य, किं०, सारस्य, पयसः सहर्षित्ववारिणः पयोधेर्वारिष्ट्रीणामिति, मूले प्रतीहारे तत्र प्रथमाऽर्हतो नाभेयस्य, मूर्तिः किं०, तुरङ्गाः सप्त, त्रयश्चेत्यवामगतेः सप्तत्रिंशत् संख्यैरङ्गुलैर्मिताऽस्तीति ।। ६५ ।।
,
तदक्षिणस्यां दिशि वीरभर्तुर्मूर्तिस्त्रिवह्न्न्यङ्गुलसंमिताऽस्ति । तद्वामसामीप्यगताऽस्ति शान्तेमूर्तिश्च शैलाक्षिमिताङ्गुलीया ॥ ६६ ॥ ततो दक्षिणस्यां दिशि याम्यदिग्भागे, वीरभर्तुर्महावीरस्य मूर्तिः किं०, त्रयश्च वह्नयोऽपि त्रयस्तेन त्रिवहन्यङ्गुलैस्त्रयस्त्रिंशदङ्गुलैः, संमिताऽस्ति, पुनस्तद्वाभसानीध्यगता वामदिग्भागे शान्तेर्मूर्तिः किं० शैलाः सप्त, यदुक्तम्"महेन्द्रो मलयः सद्यः कैलासो गन्धमादनः । हिमवानुदयश्चैव सप्तैते कुलपर्वताः " ॥ १ ॥ इति वचनात् पर्वताः सप्त, अक्षिणी द्वे, तदयोर्वामगतिविन्यस्तयोः सप्तविंशतिर्भवन्ति, तेन तन्मिताङ्गुलीयाऽस्तीति भावः ६६ यत्र क्षमाधानि दश द्विपेन्द्रा
"
,
भान्ति प्रकामाद्भुतमूर्तिमन्तः । अभ्यागमन्नत्र दिशामधीशाः
किं पार्श्वभर्तुः पदपर्युपास्त्यै ? ॥ ६७ ॥ यत्र क्षमाधानि भूगृहे, द्विपेन्द्रा गजा दश; किं०, प्रकामाद्भुतमूर्तिमन्तोऽतिमनोहररूपशालिनः, भान्तीत्यन्वयः । किं पार्श्वभर्तुः पदपर्युपास्त्यै दिशामधीशा दश दिग्नायकाः, अभ्यागमन् प्राप्ताः १, इति ॥ ६७ ॥
Page #438
--------------------------------------------------------------------------
________________
एकादशः सर्गः। . ४१३ अधुना वर्णनोपसंहृति सृजन चैत्यप्रस्तावनां समर्थयतिचिन्तामणेश्चैत्यमिदं मनोज्ञं
नृणां दृशोरध्वनि तन्वतां च ।। नन्दीश्वराष्टापदमुख्यतीर्थ
चैत्येक्षणाशा श्लथभावमाप ॥ ६८ ॥ इदं चिन्तामणेः पार्श्वनाथस्य, चैत्यं नृणां नराणां, दृशोनेत्रयोः, अध्वनि पथि, तन्वतां पश्यतामिति यावत् , नन्दीश्वरोऽष्टमद्वीपः, अष्टापदश्च भरतचक्रवर्तिक्रीडागिरिः, तत्पमुखतीर्थचैत्यानामीक्षणाशा विलोकनस्पृहा, श्लथभावमाप शिथिलीभूतेति भावः ॥ ६८॥
. एतौ नितान्तं तनुतः प्रकाशं .
यावद् मरुद्वर्त्मनि पुष्पदन्तौ । स्तात् तीर्थपृथ्वीललनाललाम . तावञ्चिरं चैत्यमिदं मनोज्ञम् ॥ ६९ ॥
यावद् मरुद्वर्त्मनि गगने, एतौ पुष्पदन्तौ चन्द्राकौं, प्रकाशमालोकं, तनुतः कुरुतः, तावत्कालं चिरकालं यावत् , इदं कामदं नाम चैत्यं, किं०, तीर्थस्य स्तम्भतीर्थस्य पृथ्वीललमाया भूमिमहेलाया ललाम तिलकतुल्यं, स्तादस्तु, आचन्द्रार्क तिष्ठत्विति भावः ॥ ६९॥
चैत्यं प्रशंसाऽऽस्पदमित्युदारं
प्रातिष्ठिपत् सूरिरथोत्सवेन । आसीदधिष्ठायकदेवक्लुप्त
सांनिध्यमेतच्च बहुप्रभावम् ॥ ७० ॥
Page #439
--------------------------------------------------------------------------
________________
४१४
विजयप्रशस्त्याम् ।
इति वर्णितप्रकारेण, प्रशंसाssस्पदमिदं चैत्यं सूरिरुत्सवेन प्रातिष्ठिपत् च पुनः, एतद् चैत्यं, किं०, अधिष्ठायकदेवेन क्लृप्तं कृतं सांनिध्यं यस्य तत्, अत एव बहुप्रभावमासीदभूत् ॥ ७० ॥
,
चक्रे चतुर्मासकमाप्तमुख्यः श्रीसूरिसिंहोऽथ कृतप्रतिष्ठः ।
गन्धारपुर्या प्रचुर्यचर्या -
वर्यात्माने क्ष्मापतिपूजितांहिः ॥ ७१ ॥
"
अथ श्रीमूरिसिंहः किं०, आप्तमुख्यः पुनः कृतप्रतिष्ठः सन् गन्धारपुर्या, किं०, प्रचुरा प्रकृष्टा या आर्यचर्या पूज्यचर्या गमनं पूज्यपादावधारणमिति यावत् तया वर्ये आत्मा स्वरूपं यस्यास्तत्रेति शेषं सुगमम् ॥ ७१ ॥
तस्याः पुरीतोऽथ सुखं विहारं कुर्वन्ननूचानवितानवज्री | प्रापद् महत्त्वैकपदं समीपं
ब्राह्ममिवेन्दुः सुगुरोः कलाऽऽयः ॥७२॥
9
अथ तस्याः पुरीतो गन्गारवन्दिरात्, विहारं कुर्वन् सोSनूचानवितानवज्री आचार्यचक्रशक्रः, इन्दुश्चन्द्रः, ब्राह्मीमिव यथा रोहिणीं, तथा गुरोः श्रीहीरसूरेः समीपं किं०, महत्वैकपदं गुरुपक्षे महत्त्वं प्रसिद्धं, चन्द्रपक्षे महत्त्वमुच्चत्वलक्षणं, यतो रोहिणीगतश्चन्द्रो नृपराशिसद्भावादुच्च इति ज्योतिःशास्त्रमतम्, कलाssढ्य इति द्वयोरपि विशेषणं तुल्यम् ॥ ७२ ॥ सर्वासु दिवाभरणीभवन्तौ तौ पुष्पदन्ताविव दीप्तिमन्तौ ।
Page #440
--------------------------------------------------------------------------
________________
४१५
एकादशः सर्गः। श्रेयःपरीवारवृतौ वरेण्यौ . भट्टारकाचार्यवरौ क्रमेण ॥ ७३ ॥ अङ्कापगारासशर्वरीश___ संख्येऽथ वर्षे क्षतशोकलोके । श्रीराजधन्याह्वपुरे प्रधाने __ ज्येष्ठां सदास्यामधितष्ठिवांसौ ॥ ७४ ॥
अथ तौ भट्टारकाचार्यवरौ श्रीहीरविजयमूरिश्रीविजयसेनमूरिवरौ, क्रमेण सर्वासु दिक्षु आभरणीभवन्तौ सन्तो, पुनः किं०, पुष्पदन्ताविव दीप्तिमन्तौ कान्तिकान्तौ, पुनः किं०, श्रेयःपरीवारवृतौ प्रशस्यपरिकरपरिखतौ, अत एव वरेण्यौ वरिष्ठौ ॥ ७३ ॥ क्रमेणेति विहरन्तौ क गतौ ?, इत्याह-अङ्का नव, आपगाराजः समुद्राश्चत्वारः, रसाः पद्, शर्वरीशश्चैकः, एतैरकै मगतिगणितैः १६४९ इति संख्या यत्र तत्र वर्षे, श्रीराजधन्याहपुरे रायधनपुरे, किं०, क्षतशोकलोके निःशोकमानवे, ज्येष्ठां सदास्यां चतुर्मासीरूपां, अधितष्ठिवांसौ स्थिताविति । इति युग्मव्याख्या ॥ ७४ ॥ तत्रैकदा लाभपुराद् महीशः
शाहिर्हमाऊनृपतेस्तनूजः। सप्रश्रयं राजधने पुरे श्री
भट्टारकाणां प्रजिघाय पत्रम् ॥ ७५ ॥ एकदा तत्र नगरे राजधन्यपुरे, तस्थुषां श्रीभट्टारकाणां श्रीहीरविजयसूरिपादानां, लाभपुराद् लाहोरनगरात् , हमाऊ
Page #441
--------------------------------------------------------------------------
________________
४१६ . विजयाशस्त्याम् । नृपतेस्तनूजः श्रीअकबरशादिः, सपश्रयं सविनयं, पत्रं फु. रमानपत्रकं, जिघाय प्रेषितवान् ॥ ७५॥ 'तल्लिखितोदन्तो यथाआदास्यतेऽथाऽस्य करो मदीये
राज्ये न निर्णीतिमतेति कामम् । .. युष्मत्प्रियं पावनपुण्डरीक
तीर्थ मया प्राभृतकं कृतं वः ॥ ७६ ॥ अस्य तीर्थ स्य, करो दण्डः, मदीये राज्ये केनापि नादास्यते इति निर्णीतिमता मया, अथ युष्मत्प्रियं भवतां वल्लभं, पावनपुण्डरीकतीर्थ पवित्रशत्रुञ्जयतीर्थ, वो युष्माकं, प्राभृतकं वृतं करमोचनपूर्वकं दत्तमिति ॥ ७६ ॥ तेन भवद्भिः किं कर्तव्यम् ?, इत्याहकृत्वा कृपामक्रशिमानमुच्चैः
पूज्यैरथो मय्यनुभाविचित्तैः । । खः श्रीधरः पट्टधरः प्रहेयो
नित्यं तमोघ्नो नरकस्य हन्ता ॥ ७७ ॥ अथ पूज्यैः किंलक्षणैः, मयि मद्विपये, अनुभाविचित्तैनिश्चयवन्मानसर्मयि सस्नेहैः, अक्रशिमानं कृशत्वरहितां बहीमिति यावत् , कृपां कृत्वा स्वः पट्टधरो निजपट्टभृत् , किं०, श्रीधरः शोभाभृत् , पक्षे विष्णुः, किं०, नित्यं तमोन्नः पापहरः, पक्षे तमो राहुस्तमोगुणो वा तद्भेदकत्वात् तमोघ्नः, पुनः, नरकस्य निरयस्य, हन्ता, पक्षे नरकस्य दैत्यविशेषस्य, हन्ता इति श्लेषालङ्कारः॥ ७७॥
Page #442
--------------------------------------------------------------------------
________________
एकादशः सर्गः। ४१७ अत्रेयिवांसं तमहं समीहे
रोगीव धन्वन्तरिमामयनम् । . प्राप्य प्रपां पान्थ इवाऽऽघमोघं __मोघं करोमि खकमर्तिमूलम् ॥ ७८ ॥
अहं तं तव पट्टधरं अत्र इयिवांसं समीहे इत्यन्वयः। इव यथा, रोगी पुमान् , आमयघ्नं रोगापहं, उभयत्रापि द्रव्यभावरोगहरं, धन्वन्तरि वैद्यमुख्यमिति दृष्टान्तः । यत:-प्रपा पानी. यशालां, प्राप्य पान्थ इवाऽहमपि येन कारणेन तं प्राप्य स्वकं स्वीयम् , अर्तिमूलं पीडाकारणं, आघमोघं पातकनिकरं, मोघं करोमि निष्फलीकुर्वे ॥ ७८॥
त्वद्वाग्रथेनाऽध्वनि पुण्यपूते ___ नीतोऽहमादौ वृषसुन्दरेण । . यन्तारमहःपथपातभीरु
रिच्छाम्यनूचानमथ त्वदीयम् ॥ ७९॥ आदौ पूर्व युष्मम्मिलने सति, अहं त्वद्वाग्ररथेन; किं०, वृषसुन्दरेण बलीवर्दवन्धुरेण; अन्यत्र वृषेण धर्मेण सुन्दरेण, अध्वनिः किं०, पुण्येन पूते पवित्रे, नीतोऽस्मीत्यन्वयः। अथाऽहं; किं०, अंहःपथपातभीरुः पापमार्गपतनचकिता सन्, त्वदीयमनूचानं यन्तारं सारथि, इच्छामीति ॥ ७९ ॥ तस्याऽऽस्यवीक्षकसुधां पिपासोः
कार्यः प्रमोदो मम पूज्यपादैः । इत्यर्थनैषा फलभाग् विधेया
वल्लीव मेधैर्भगवह्निराशु ॥ ८ ॥
Page #443
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । - तस्य त्वदीयानूचानस्य, आस्यवीसैकसुधां मुखनिरीक्षणामृतं, पिपासोः पातुमिच्छोः, ममः पूज्यपादैः प्रमोदः कार्यः, तत्प्रेषणनेति गम्यम् , एषा इति अर्थना प्रार्थना, भगवद्भिः फलभाग विधेया फलेग्रहिः कार्या, मेल्लिरिवेतिं दृष्टान्तः ॥८०॥ इति फरमानसमाचारमाकर्ण्य गुरुणा किं विहितमित्याहभट्टारकोऽभाषत भाविभद्रा
नूचानपञ्चाननमित्युद्वारम् । श्रीपातशाहमिलनार्थमच्छ !
वत्साऽऽत्मनो गच्छहिताय गच्छ ॥ ८१ ॥ भट्टारकः श्रीहीरमूरिः, भाविभद्रो योऽनूचानपश्चाननस्तं श्रीविजयसेनाचार्य, इत्युत्तरार्धेन अग्रेतनेन वृत्तेन चाऽभाषताऽब्रवीत्-हे वत्स ! हे अच्छ स्वच्छात्मन् ! श्रीपातसाहेरकबरस्य मुद्गलेश्वरस्य, मिलनार्थमात्मनो गच्छहिताय गच्छ बजेति भावार्थः ।। ८१॥ एतद्धरित्र्यां सृजतां स्थितिं न
आज्ञा शुभोदर्ककृदस्य नूनम् । आज्ञाप्रिया एव भवन्ति भूपाः
शुद्धस्वरूपा नयनीरकूपाः ॥ ८२ ॥ एतद्धरित्र्यामस्य शाहेर्भूमौ, स्थिति सृजतां तस्थुषां, नोऽस्माकं, नूनमस्य आज्ञा . शुभोदर्ककृदने शुभफलदायिनी. ति निश्चयः, हिं यतः-भूपाः, किं०, शुद्धस्वरूपाः समीचीनाचारधारिणः, पुनः किं०, नयनीरस्य न्यायपानीयस्य कूपाः, ते कीदृशाः स्युरित्याह-आज्ञाप्रिया एव, आज्ञैव प्रिया वल्लभा
Page #444
--------------------------------------------------------------------------
________________
. एकादशः सर्गः। येषां ते आइश्वर्या इति यावत् ,"आज्ञयैव हि राजानो जीवन्ति" इति वचनात् ।। ८२ ॥ एवं मुधाक्लप्तसुधाभिराभि
ग्भिर्गुरोः पट्टधरः प्रचेताः। ओमित्युदात्तां वदति स्म वाचं
वाचंयमामन्दमुदां निदानम् ॥ ८३ ॥
एवमुक्तरीत्या, गुरोः हीरमूरेः, आभिरेताभिर्वाग्भिः कि०, मुधाक्लससुधाभिर्मोपीकृताऽमृताभिः, पट्टधरः श्रीआचार्यः, किं०, प्रचेताः प्रमनाः सन् , ओमित्युदात्तां वाचं दति स्म, वाचं किं०, वाचंयमानां मुनीनाममन्दमुदां नि. दानं बहुहर्षकारणं, गुरुवाक्यं तथेति प्रतिपन्नवान् ॥ ८३ ॥ ... अस्मिन्ननूचानपतौ प्रपन्ने - वाच स वाचंयमराट् तुतोष । यन्ता धुरं बिभ्रति भूतभूरि
स्थानीव वत्से बहुभारगुर्वीम् ॥ ८४ ॥ स वाचंयमराद् गुरुः, अस्मिन्ननूचानपतौ तां वाचं अपने सति, तुतोष संतुष्टिं मापेत्यत्वयः। दृष्टान्तमाह-यथा वत्से तर्णके, कि०, भूत जात भूरि बहुस्थाम वलं यस्मिंस्तस्मिन् वत्सके, बहुभारेण भारधरणेन गुर्वी गरीयसी, धुरं विभ्रति सति, यन्ता सारथिः, अष्टिं कुरुते तथाऽयमपीति भावार्थः । इदमर्थतो युग्मम् ।। ८४॥
केवलमिन्द्रवज्रया सर्ग निर्मायाऽथ वसन्ततिलकया तमुपसंहरति
सहक्तिभाजनजगज्जनवन्धमानो
Page #445
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । ऽनूचानचक्रधरतां स ततो दधानः। निश्शेषसाहसिकमौलिरकब्बरस्य
क्षोणीपतेरतिभृशं मिलनोत्सुकोऽभूत् ॥८५॥ ततो दिवसात् सोऽनूचानचक्रधरतां दधान आचार्य चक्रभृत्, कि०, सद्भक्तिभाजनैर्जमजनैर्वन्धमानः, पुनः, निश्शेषेषु समस्तेषु साहसिकेषु सत्ववत्सु मौलिमुकुटः,तन्मुख्यत्वात् , अकबरस्य क्षोणीपतेः; मिलनायोत्सुकोऽभूद् बभूवेति ॥ ८५॥
___ इतीति सर्वमवदातम् । इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुरदरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायामेकादशः सर्गोऽर्थतः
समर्थितः ।।
अहम् अथ द्वादशः सर्गः।
अथ द्वादशः सर्गों निसर्गेण सुगमोऽपि विषमपर्यायकाशनेन वित्रियते, तस्यायमादिः श्लोकः--
चित्तचिन्तितचार्वर्थदानदेवतरूपमौ । प्रणम्याऽऽत्मगुरोः पादौ राजधन्यपुरादथ ॥१॥
Page #446
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४२१
अब्देऽङ्ककूलिनीकान्तगुहाननमहीमिते । मार्गशीर्षे सचन्द्रायां तृतीयस्यां तिथौ तथा॥२॥ प्रस्थितानां पथि. क्षेमङ्करीः कल्पलता इव । 'तिस्रः श्रीतीर्थनाथानां प्रवितीर्य प्रदक्षिणाः॥३॥
साधुसाधुपरीवारः श्रीअनूचानपुङ्गवः । • वहद्दामखरोऽचालीत पुरं लाभपुरं प्रति ॥ ४॥ . आत्मगुरोः श्रीहरिविजयसूरेः, पादौ कि०, चित्तचिन्तिता मनःकल्पिता ये चारवो मनोज्ञा अर्था दिव्याभिलापास्तेषां दाने देवतरूपमौ कल्पद्रुमसमौ, प्रणम्य नत्वा, शेष सुबोधम् ॥१॥ अङ्का नव, कूलिनीकान्ताः समुद्राश्चत्वारः, गुहाननानि स्कन्दवदनानि षट्, मही भूरेका, एतैर? मगतिविन्य. स्तै१६४९मिते, अब्दे वर्षे, पुनर्मार्गशीर्षे मासे, पुनः, सचन्द्रायो हनीयस्यां तिथौ. मार्गशीर्षसिततृतीयातिथौ ॥ २ ॥ पथि मार्गे, पस्थितानां चलनं चिकीर्पूणां नराणां, कल्पलता इव क्षेमकरी: श्रीतीर्थनाथानां तिस्रः प्रदक्षिणाः प्रवितीयं दत्त्वा ।। ३ ॥ श्रीअनूचानपुङ्गवः श्रीविजयसेनभूरिः, किं०, साधवो रम्या ज्ञानतः शरीरदर्शनतध रमणीया ये साधवो मुनयस्तेषां परीवारः परिकरो यस्य सः, पुनः कि०, वहन् वाम: स्वरो नासिकागतमारुतो यस्य सः; प्रस्थाने हि वामपवननाडी चन्द्रनाडिपर्यायाऽतिवर्येति स्वरशास्त्रविदः, लाभपुरं पुरं प्रति, अचालीचलति स्मेति । इति चतुर्णी व्याख्या ॥४॥
अथाऽनुष्टुभां पञ्चविंशत्या ग्राम्यानाटविकांच कांचिच्छकुनान् वर्णयति
प्रथमं पयसा पूर्णः पद्मिनीमूर्धनि स्थितः ।
Page #447
--------------------------------------------------------------------------
________________
४२२
विजयप्रशस्त्याम् ।
... अमिलत् कल्याणकुम्भः कल्याणमिव मूर्तिमत॥५॥ ... पयसा पानीयेन, पूर्णः; पुनः, पद्मिन्याः स्त्रिया मूर्धनि मस्त के, स्थितः कल्याणकुम्भः स्वर्णकलसः, अमिलद् मिलितः, दक्षिणकरेणेति गम्यम् , मूर्तिमत् कल्याणं मङ्गलमिवेत्युत्प्रेक्षालङ्कारः॥५॥ पश्यताऽभिमुखं सव्यं शुनोत्तरे सुमूर्तिना। यद् वीक्षितेऽस्मिन्नीदृक्षे प्रेयान् पन्थाःप्रवासिनाम्॥६॥
अभिमुखं संमुखं, पश्यता विलोकयता, शुना श्वानेन कि०, सुमूर्तिना चारुशरीरेण; अच्छिन्नकर्णचरणादिनेति यावत् , सव्यं वामदिग्भागं, उत्तेरे उत्तीर्णमिति, वामः श्वोत्तीर्णवान् , यदस्मिन् शुनि, ईदृक्षे वर्णितस्त्ररूपे, वीक्षिते सति, पन्या मार्गः, कामितार्थसिद्धिकारित्वेन प्रेयान् प्रकर्षेणाऽभीष्टः स्यात्, प्रवासिनां परदेशं प्रति चिचलिषूणामिति ॥ ६॥
ऊचानाचारवश्वाषपक्षिणः पुण्यसाक्षिणः। वामतो दक्षिणं क्षेमकारणं तोरणं व्यधुः ॥ ७ ॥ चापपक्षिणः; किं कुर्वाणाः, ऊचानाः शब्दायन्तः, यतः 'गतेबलवती चेष्टा चेष्टातो बलवान् स्वरः" इत्युक्तत्वात् , चापपक्षिणोऽपि ऊचानाः सन्तो विशेषेण चारवो मनोज्ञाः, पुनः कि०, पुण्यसाक्षिणो भाग्यसूचका इति, वामतः पार्वतः, दक्षिणं तो. रणं व्यधुश्चक्रुरिति विशेषतः क्षेमकारणमिति तत्त्वम् ।। ७॥ .
देवी देवीव वामाऽवक् स्थिता हरिति भूरुहे । अवश्यं वशभाग भावि शं पथ्य।तिसूचिनी॥८॥
भूरुहि वृक्षे, किं०, हरिति आदें, स्थिता देवी दुर्गा देवीव सुरीव, वामाऽवग् ब्रूते स्म, अत्र पथि मार्गे, अवश्यं निश्चयेन,
Page #448
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४२३ शं सुखं, वशभाग् भावि गच्छतां पुंसां सुखं स्वाधीनं भविष्यतीतिमूचिनी ॥ ८॥ कट्यारूढक्षीरकण्ठा सहेला महिलाऽमिलत् ।
अङ्कारोपितमीनाङ्का साक्षात् सिन्धोरिवाऽङ्गजा ॥९॥ . कट्या कटितटे आरूढः क्षीरकण्ठो बालो यस्याः सा, सहेला सलीला, महिला स्त्री, अमिलद् मिलिता, अङ्कारोपितमीनाङ्का उत्सङ्गेऽन्तिके वा स्थापितमकरध्वजा, साक्षान्मूर्तिमती सिन्धोरङ्गजा लक्ष्मीरिवेति ॥ ९॥
वामतोऽथाऽब्रवीद् बाढं खरोऽखरतरस्वरः । श्रेयः सपरिवारस्य प्रतिष्ठासोः पथीतिदृक् ॥१०॥ अथ खरो रासभः, किं०, अखरतरोऽनिष्ठुरतमः स्वरो यस्य सः, वाढमतिशयेन स्वराष्टकेन, अब्रवीत् , सपरिवारस्य प्रतिष्ठासोश्विचलिपोः पुंसः, पथि श्रेयो भावीति सूचयन्ती दृग् बुद्धिर्यस्य सः॥१०॥ .
अवदत् तित्तिरिस्तारं वामोऽवामदिशि स्थितः। प्रस्थाने स्थानमत्र स्युनराः श्रीणामितीद्धवाक् ॥११॥
अवामादिशि अनुकूलदिशि शान्तदिशीति यावत् , स्थितस्तित्तिरिः पक्षी, तारस्वरं वामोऽवदत् , अत्र प्रस्थाने गमने, . नराः श्रीणां स्थानं स्युरिति इद्धवाक् पटुवचाः ॥ ११ ॥
प्रपूर्णपात्रा पक्वान्नैः समभ्येति स्म योगिनी ।
उदयोदयेतिवाग्भिरध्वन्यानां जयावहा ॥१२॥ पकानैः प्रपूर्णपात्रा योगिनी प्रवाजिका, समभ्येति स्म
Page #449
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
संमुखमागता, उदय उदय इति वाग्भिरध्वन्यानां पथिकानों, जयावहा जयदायिनीति ॥ १२ ॥
अवादीद वायसो वामः क्षीरवृक्षोपरिस्थितः। पथिकानां पथि श्रेयो भावीति विलसद्वचाः॥१३॥
क्षीरक्षा राजादनीवटादयस्तदुपरिस्थितो वायसः काकः, वामोऽवादी , शेपं कण्ठ्यम् ॥ १३ ॥
शृङ्गारितः समभ्यागाद् मत्तः करिवरः पुरः। मयीक्षितेऽर्थकृत् पन्थाः पान्थानामितिसूचकः॥१४॥ मत्तो मदोन्मत्तः, करिचरः कुञ्जरः, शृङ्गारितः सिन्दूरस्वर्णशृङ्खलाद्याभरणभूषितः, समभ्यागात् संमुखो मिलितः, मयि करिवरे, ईक्षिते सति, पन्या मार्गः, पान्थानामर्थकृत् कार्यसिद्धि. कृद् भावीतिमूचकः ॥ १४ ॥
खरोऽथ सुरतारूढोऽध्यारूढोऽध्वनि चक्षुषोः। साक्षादिव पथि प्राप्तः शेवधिःसंपदा मुदाम् ॥१५॥
अथ सुरतारूढो मैथुनं कुर्वाणः, खरश्चक्षुपोर्नयनयोः, अध्वनि मार्गे, अध्यारूढो दृष्ट इति, साक्षात् प्रत्यक्षः, संपदां मुदा शेवधिनिधिः, प्राप्त इवेत्युत्प्रेक्ष्यते ॥ १५ ॥ स्कन्धाधिरूढोऽथ पुंसः संगतः पुरतः पुमान् । दृष्टेऽस्मिन् वृद्धिभाक् संपद् यत् पान्यानां पदे पदे॥१६॥
अथ पुंसः स्कन्धाधिरूढः पुमान् पुरतोऽग्रतः, संगतो मिलितः, अस्मिन् दृष्टे पान्थानां पदे पदे संपद् वृद्धिभाग वर्धमाना भवतीति ॥ १६ ॥
पोत्री पङ्कप्रलिप्ताङ्गः संप्राप्तो वामतो व्रजन् ।
Page #450
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४२५ लाभस्य भूयसो भूतेः सद्भूतः प्रतिभूरिव ॥१७॥ पङ्केन कर्दमेन प्रलिप्ताङ्गः, पोत्री शूकरः, वामतो ब्रजन् समाप्तो मिलितः भूयसो वहोः, भूतेः संपत्तेः, लाभस्य भूरिलक्ष्मीलाभस्य, सद्भूतः सत्यः, प्रतिभूः साक्षीवति ॥ १७ ॥
अग्रतो मिलिता बाला पुंसः स्कन्धाधिरोहिणी । कीर्तिसौभाग्यमाहात्म्यदायिनी श्रीरिवाऽङ्गिनी ॥१८॥
अग्रतस्तदग्रतः, पुंसः स्कन्धापिरोहिणी बाला कन्या, मिलिता; अङ्गिनी मूर्ता, श्रोरिवेति, परं प्रतीतम् ॥ १८ ॥ पूर्ण कुम्भं वहन् मूर्ध्नि संमुखोऽभूत् पुमान् पुरः। ऋद्धिसिद्धिप्रदो बिभ्रच्चन्द्रं चन्द्रधरः किमु ?॥१९॥ ___ ततः पुरः पूर्ण कुम्भं मूर्ध्नि वहन् पुमान् मिलितः, किमु चन्द्रं बिभ्रत् चन्द्रधरो महादेवः,१ स हि चन्द्रमौलिरिति ॥१९॥ खञ्जनः खं सृजन्नग्रे ददृशे दक्षिणं व्रजन् । मयि दृष्टेऽध्वगाः संपहाजः स्युरितिधीरिव ॥२०॥
"खं सुखे" इत्यनेकार्थत्वात् खं सुखं सृजन खञ्जनः पक्षिविशेषः, दक्षिणं वजन् ददृशे; मयि दृष्टे सति, अध्वगाः पथिकाः संपद्भाजः स्युरितिधीरिवेत्युत्प्रेक्ष्यते । अयमपि वसन्तराजादिषु विशेषतश्चाषवद् भव्य उक्त इति ॥ २० ॥
अवाममुचताराऽथ नकुलः कुलसंकुलः। प्रदित्सुरिव पान्थानामशनाऽऽसनसंपदम् ॥२१॥
अथ नकुलः, किं०, कुलेन निजकुटुम्बेन संकुला, अवामंदक्षिणं पार्श्वम् , उत्ततारोत्तीर्ण इति, पान्थानामशनासनसंपर्द पदित्सु तुमिच्छरिव ॥ २१ ॥
Page #451
--------------------------------------------------------------------------
________________
४२६
विजयप्रशस्त्याम्। सुस्पष्टलट्टयोत्तरे तारयाऽथ प्रदक्षिणम् ।। पदे पदे निधानानि पान्थानां पथि यदृशा॥२२॥
अथ तारया लट्टया मरुस्थलीप्रसिद्धरूपारेलिनाम्न्या पक्षिण्या, प्रदक्षिणमुत्तेरे दक्षिणोत्तीणीन, यशा यस्या दर्शनेन. पान्थानां पदे पदे निधानानि स्युः ॥ २२ ॥ तस्थुषी दिशि शान्तायां पिङ्गलाऽवक् प्रदक्षिणम् । शुभायां मयि पान्थः स्याद् मदर्तेव बलीतिटक्॥२३॥
शान्तायां दिशि तस्थुपी स्थिता सती, पिङ्गला भैरवी चीवरीति गूर्जरदेशप्रसिद्धा महाशकुनरत्नभूना, प्रदक्षिणम् , अवग् जगौ, मयि शुभायां सत्यां, पान्थः, मद्भव महेश्वर इव, अथवा "पिङ्गला कुमुदस्त्रियाम्" इत्यनेकार्थवचनात् कुमुदनामदिग्गजइव, बली वलवान् स्यात् , इति दृग् बुद्धिर्यस्याः सेति ॥२३॥
हरिणा उत्तरन्ति स्म प्रभोरस्य प्रदक्षिणाः।। चित्रमेते भविष्यन्त्यविषमा विषमा अपि ॥२४॥
अस्य प्रभोः गुरोः, प्रदक्षिणा वामतो दक्षिणाः, हारेणा उत्तरन्ति स्म उत्तीर्णा इति, इदं चित्रम्- यदेते हरिणा विपमा अपि, अविपमाः, इत्यप्तौ विरोधः, विरोधपरिहारस्तु-विषमा विषमसंख्याका एकत्रिपश्चसप्तादिरूपसंख्याका हरिणाः श्रेष्ठाः, यदुक्तं शकुनाणवे
__ "एको वा यदि वा त्रीणि पञ्च वा सप्त वा पुनः । · पुरुषस्य भाग्यकाले हरिणा यान्ति दक्षिणाः" ||१|| इति ॥ २४ ॥ सपर्याणोऽथ तुरगो विना सादिनमभ्यगात् । प्रभुप्रीत्याऽऽशु प्रहितो मघोनोच्चैःश्रवा इव ॥२५॥
Page #452
--------------------------------------------------------------------------
________________
द्वादशः सगः 1
अथ तुरगः सपर्याणः सादिनम ववारं विना, अभ्यगात् संमुखोऽभूत्, इवोत्प्रेक्ष्यते - प्रभुप्रीत्या गुरुनेहेन मघोना इन्द्रेण, उच्चैःश्रवा निजवाजी, प्रहितः प्रेषित इति ॥ २५ ॥
४२७
धूमध्वजोऽथ निर्धूमः समार्चिः स्मैति संमुखः । प्रताप्यहमिवैपोऽस्तीत्येनं द्रष्टुमिवांशुमान् ॥ २६ ॥
अथ निर्धूमो धूमध्वजोऽग्निः किं०, समाधिः समा अविपमा अर्चिषो यस्य सोऽकुटिलज्वाल इति, संमुखः स्मैति आगात्, अहमिव एप गुरुः प्रतापी अस्ति इति हेतोरेनं गुरु द्रष्टुमंशुमान् सूर्यः समागादिवेत्युत्प्रेक्ष्यते ॥ २६ ॥
शिवा वयमयं नूनं शिवाशय इतीहया । प्रतिष्ठासोर्वदन्ति स्म वाममस्याऽत्र फेरवः ॥ २७॥ अयं गुरुर्मोक्षाभिलापित्वात् शिवाशयो वर्तते, नूनं वयं शिवाः स्मः इति ईषा घिया, अस्य गुरोः प्रतिष्ठासोचिचलिंपोः, वामं दिग्भागं, फेरवः शृगालाः वदन्ति स्मेति ॥ २७ ॥ विभ्राणा वाणिनी वीणां प्रवीणा पुरतोऽमिलत् । दधती कच्छपीमच्छां साक्षादिव सरस्वती ॥ २८ ॥
ततो वाणिनी छेका कामिनी, वीणां विभ्राणा, पुनः, प्र वीणा निपुणा, पुरतः संमुखीनाऽमिलत्, कच्छपी निजवीणां, " सरस्वत्यास्तु कच्छपी" इति वचनात् दधती साक्षात्सरस्वतीवेति ॥ २८ ॥
साक्षतं विभ्रती स्थालं दशेऽध्वनि दीर्घ । पान्थानां पथि संपत्तेर्निदानमिव मूर्तिमत् ॥ २९ ॥ ततोऽध्वनि वर्त्मनि, साक्षतं लाजपूर्ण, स्थालं विभ्रती दीर्घ
Page #453
--------------------------------------------------------------------------
________________
४२८
विजयप्रशस्त्याम् । हक् आयतनेत्रा कामिनी, ददृशे दृष्टा, गुरुणेति गन्यम् ; मूर्तिमद् मूर्त, संपत्तेः श्रियः, निदानं कारणमिवेति ।। २९ ।। इत्यादिभिः सुखोत्कर्षजयश्रीसूचनोत्सुकैः । मुहुर्मुहुर्जायमानैः शकुनैरनुकूलितः ॥ ३०॥ कुर्वन् कुवलयोल्लासं कलावानिव सूरिराट् । क्रमेण कलयामास पत्तनं पत्तनोत्तमम् ॥ ३१ ॥
इत्यादिभिर्वर्णितस्वरूपैः शकुनैः; किं०, सुखोत्कर्षस्य जयश्रियश्च विजयलक्ष्म्या यत्सूचनं तत्रोत्सुकैस्तत्परैः शकुनैः, अनुकूलितोऽनुकूलीकृताशय इति ॥ ३० ॥ पुनः, कुवलयोल्लासं भूवलयोल्लासं उत्पलोल्लासं च, कलावानिव चन्द्र इव, मरिराद् कुर्वन् क्रमेण पत्तनोत्तमं नगरमुख्यं पत्तनं नाम नगरं, कलया. मास प्राप्त इति ॥ इति युग्मव्याख्या ॥ ३१ ॥
तत्राऽऽचार्यः सुखिश्राद्धश्रेणीश्रेणीकृतक्षणे। . . पञ्चाश्रयपार्श्वनाथप्रमुखाननमद् जिनान् ॥ ३२ ॥
तत्र पत्तने नगरे, स आचार्यः; किंलक्षणे नगरे, सुखिनः ये श्राद्धास्तपां श्रेणयः कुलानि तैः श्रेणीकृता राशीकृता क्षणा उत्सवा यत्र तत्र, श्रीपञ्चाश्रयपार्श्वनाथप्रमुखान् जिनान् , अनमद् ववन्दे ॥ ३२ ॥ पांशुभिः पदपद्मानां मौक्तिकैरिव मेदिनीम् । अलङ्कुर्वन् वादिवृन्दद्विपदर्पच्छिदोडुरः ३३ ॥ अष्टापदमिवाऽशेषभगवद्भिर्विभूषितम् । .. अर्बुदाद्रिमनूचानपश्चानन उपेयिवान् ॥ ३४ ।।
पदपद्मानां पांसुभिः मौक्तिकर्मुक्ताफलैरिव, मेदिनी महीं
Page #454
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४२९ अलङ्कुर्वन् , किं०, वादिवृन्दद्विपदर्पस्य च्छिदा छेदस्तत्र उदुरस्तत्पर इति ॥ ३३ ॥ अनूचानपञ्चाननः, स इति गम्यम् , अर्बुदादिः किं०, अष्टापदादिमिव अशेपैः समस्तैर्भगवद्भिस्तीर्थकरैः, विभूषितं चतुर्विंशतेर्मूर्तीनां तत्र सद्भावात् , उपयिवानाऽऽगात् ॥ इति युग्मव्याख्या॥ ३४ ॥
श्रीदेवपाटकस्थानाऽचलदुर्गादिभूमिषु । तत्र श्रीमारुदेवादीन् देवान् नत्वेन्द्रवन्दितान् ॥३५॥ विहारैः पावयन् पृथ्वीमनूचानशिरोमणिः। - लङ्कामिवाऽकलङ्कां द्राक् प्रापच्छिवपुरीं पुरीम् ॥३६॥
श्रीदेवपाटकस्थानं लोके देलवाडाख्यं विमलवसहीति. प्रसिद्धश्रीऋषभदेवदिव्यप्रासादमण्डितम् , अचलदुर्गश्चानेकदिव्यस्थानककमनीयस्तलहट्टिकास्थितकुमरविहारऊर्श्वभूपिस्थितस्वर्णमयचतुरहत्पतिमा प्रतिमचतुर्मुखविहारप्रमुखविश्वातिशायितीर्थतटाकतटिनीन्दरमणीयः, आदिशब्दात् शालिग्रामादिग्रहस्तनेत्यादिषु भूमिपु देवान् किं०, नत्वा, अन्यत् कण्ठ्यम् ॥३५॥ पृथ्वीं विहारैः पावयन्ननूचानशिरोमणिः स इति लङ्कामि वाकलङ्की निष्कलङ्कां निर्दूपणामिति, शिवपुरी नाम पुरीं प्रापत् ॥ युग्मव्याख्यानमिदम् ॥ ३६॥ तत्र राजा सुरत्राणः सुरराज इवाऽस्ति यः । चित्रं न गोत्रभिद् भाति पतिः सुमनसामपि ॥३०॥
तत्र शिवपुर्या, सुरत्राणो नाम राजाऽऽस्ति, क इव; सुरराजइव, परमिदं चित्रं यत् , सुमनसां पण्डितानां पतिरपि, पक्षे देवानां पतिरपि न गोत्रभित् किन्तु गोत्रस्य देवडारख्यकुलस्योन्नतिकृत् , राजपक्षे-गोत्रं कुलं, इन्द्रपक्षे-गोत्रं गिरि भिनत्तीति ॥ ३७॥
Page #455
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
यत्प्रतापस्य दीप्तस्य सादृश्यं नास्ति भास्करैः 1 उदयं दिशि पूर्वस्यामेव येऽनुभवन्ति यत् ॥ ३८ ॥
पुनः, यत्प्रतापस्य भास्करैः सूर्यैः, सादृश्यं साम्यं, नास्ति । उत्तरार्धेन तद्धेतुमेव प्रकटयति-यदिति यतः कारणात् एते भास्कराः, पूर्वस्यामेव दिशि उदयमनुभवन्ति सुरत्राणरामतापस्तु सर्वदिक्षुदयीति ॥ ३८ ॥
,
४३०
प्रकारैः प्रचुरैरम्यैरलङ्कृत्याऽऽत्मनः पुरीम् । स सुरत्राणराजोऽथ गुरोः संमुखमाययौ ॥ ३९ ॥
स सुरत्राणराट् आत्मनः पुरीं सीरोहीनाम्नी, प्रचुरैः प्रकारैश्चतुष्पथशृङ्गारणादिभिः, अलङ्कृत्य गुरोराचार्यस्य, संमुखमाययौ आगतः, कोशद्वयमिति श्रुतिः ॥ ३९ ॥
अथ त्रिभिस्तां नगरीं वर्णयति
भोगावतीमिवाऽस्तोकभोगिलोकमनोहराम् । लङ्कामिव सुवर्णाऽऽढ्यां प्राज्यपुण्यजनप्रियाम् ॥४०॥ नरवाहनसंचार पेशलामलकामिव । वृपव्यापारसंभाररम्यां स्वर्गिपुरीमिव ॥ ४१ ॥ प्रकाममनघैः संघैः संसूत्रितमहोत्सवाम् । श्रीरोहीं श्री अनूचानः पुण्यराशिरिवाविशत् ॥ ४२ ॥ भोगावतीं नागानां पुरीभिव, अस्तोकभोगि लोकै भोगिभिर्जनैः, पक्षे भोगिलोकैः पन्नगलोकैर्मनोहरां, पुनः, लङ्कां रावणनगरीमित्र, सुवर्णैः शोभन वर्णैर्ब्राह्मणवणिग्क्षत्रियादिभिराढ्यां, पक्षे वगैः काञ्चनैस्तत्र जात्यार्जुनखानीनां सद्भावादिति,
Page #456
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४३१ पुनः किं०, माज्यैः प्रभूतैः पुण्यननैरथवा माज्यानां पुण्य जनानां प्रियां वल्लभां, लङ्कापक्षे, पुण्यजना राक्षसाः, नगरीपक्षे पुण्यजनाः सजना इति ॥ ४० ॥ पुनः, नरवाहनानां याप्ययानानां संचारैर्गमनेरलकामिव पेशलां, अलकापक्षे, नरवाहनो धनद इति, पुनः, कृपव्यापारसंभारेण धर्मकर्मप्रारम्भप्राग्भारेण स्वर्गिपुरीम्-अमरावतीमिव, रम्याम् , अमरावतीपक्षे, वृषव्यापाराः शक्रव्यापारा इति ॥ ४१ ॥ पुनः कीदृशी, प्रकाममत्यर्थ, अनघेनिप्पापैः, संयैः, संमूत्रिता महोत्सवा यत्र तां, श्रीरोही सीरोहीनगरी, श्रीअनूचानः पुण्यराशिजङ्गम इवेत्यध्याहार्यम् , अविशत्मविष्ट इति ॥त्रयाणां व्याख्येति ॥४२॥ दिनानि कतिचित् तत्र स्थित्वाऽनूचानकुञ्जरः । विजहार ततो लोककमलाकरभास्करः ॥ ४३ ॥. __तत्र शिवपुर्या, कतिचिद् दिनानि स्थित्वा अनूचानकुञ्जरः, किं०, लोकरूपकमलानामाकरे निकरे भास्करः, ततो विजहारेति ॥ ४३॥
नत्वार्हतः पुरे राणपुरेऽथ प्रशमिप्रभुः । क्रमादलञ्चकाराऽऽशु श्रीनारदपुरी पुरीम् ॥४४॥
अथ राणपुरे पुरे राणकश्रीकुम्भकर्णनिवेशिते नलिनीगुल्मविमानाऽनुकारित्रिभुवनदीपकनामधारिविश्वविश्वचेतश्चमत्कारकारिश्रीधरणाभिधव्यवहारिकारितचतुर्मुखविहारे स्वकरकमलदीक्षिताऽऽचार्यचतुष्टयोपरिततपागणाधिपश्रीसोमसुन्दरमरिपा.. णिप्रतिष्ठितश्रीयुगादिदेवप्रमुखानहतो नत्वा प्रणम्य, प्रशमिप्रभुगुरुः, क्रमान् श्रीनारदपुरी प्रथमसोक्तवर्णिकां जन्मनगरीम्, अलञ्चकारेति ॥४४॥
Page #457
--------------------------------------------------------------------------
________________
विजयंत्रशस्त्याम् ।
तत्र सांसारिकस्तोमाऽऽग्रहेण कतिचिद् दिनान् । आसामास जगल्लोककोककोकसुहृत् प्रभुः ॥४५॥ तत्र नारदपुर्या, सांसारिकाणां संसारसंबन्धिनां कुटुम्बिनां स्तोमः समूहस्तस्याऽऽग्रहण, कतिचिद् दिनान् यावत् प्रभुः, किं०, जगल्लोका एव कोकाश्चक्रवाकास्तेषु कोकसुहृत् सूर्यस्तेषां दर्षहेतुत्वादिति, आसामास स्थित इति ।। ४५ ।।
काञ्चनै राजतैरूपैः संघस्तत्रत्य आदरात् । श्री अनूचानमानर्च तीर्थनाथमिवाऽऽगतम् ॥४६॥
तत्रत्यः संघ आदराद् जन्मभूमित्वाद् विशेषेण, तीर्थनाथमागतमिव मन्वानः, श्री अनूचानं काञ्चनैः स्वर्णमयैः, राजतेरूपमयैः रूपैर्नाणकैः, यदनेकार्थ :- "रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये नाणके नाटकेऽपि च " इति । आनर्चेति पूजयामास ।। ४६ ।।
,
४३२
गुरुः पौरमनः प्रीतिवल्लीपल्लवनाम्बुदः । संघमुल्लासयामास देशनासलिलैरलम् ॥ ४७ ॥ पौराणां नागराणां मनः प्रीतिवल्ल्याश्चित्तस्नेहलतायाः पल्लवनेऽम्बुदः, गुरुदेशनासलिलैः संघमुल्लासयामास सोल्लासं कृतवान् ॥ ४७ ॥
मूलादुन्मूलयन् मार्गतरूनिव कुवादिनः । व्यहार्षीत् पुरतस्तस्मादनूचानमतङ्गजः ॥ ४८ ॥
अनूचानमतङ्गजः सूरिसिन्धुरः, किं कुर्वन्, कुवादिनो मार्गतरूनिव मूलात् समूलं, उन्मूलयन् तस्मान्नारदपुरीपुरतः, व्यहार्षीत् ॥ ४८ ॥
Page #458
--------------------------------------------------------------------------
________________
द्वादशः सर्गः। त्रिभिर्गुरुमेव वर्णयति
अथ गॉव सर्वज्ञप्रीतिहेतुरसैकभूः । कल्पद्रुम इवास्वप्नसंघकामितकामदः ॥ ४९ ॥ सहस्रांशुरिवाऽशेषां संहरंस्तमसां ततिम् । सुधांशुरिव कुर्वाणो विश्वाम्भोधेः समुन्नतिम्॥५॥ लोकैरनेकैरानन्दात् पूज्यमानः क्रमाद् गुरुः । प्रापाऽथ मेदिनीतुण्डमण्डनं मेदिनीपुरम् ॥५१॥
गुरुः, किं०, गङ्गेच सर्वज्ञस्य महादेवस्य प्रीतिहेतुः स्नेहक यो रसः शृङ्गाररूपस्तस्य हेतुः कारणम् गुरुपक्षे, सर्वे समस्ता ये शाः पण्डितास्तेषां प्रीतिहेतुर्यो रसो हर्षस्तस्य भूरिति, पुनः कि०, कल्पद्रुमपक्षे, अस्वप्नानां देवानां संघस्य वृन्दस्य कामितकामदः वाञ्छिताभिलाषदाता, गुरुः अस्वप्नो निर्निद्रो गुर्वागमाद् भावतो जागरूको यः संघश्चतुर्विधस्तस्य; अन्यत् पूर्ववत् ॥४९॥ पुनः गुरुः, सहस्रांशुः सूर्य इव, अशेषां समस्तां, तमसां तति ध्वान्तानां पापानां च श्रेणिं संहरन् , पुनः, सुधांशुश्चन्द्र इक विश्वाम्भाधेर्जगत्समुद्रस्य, समुन्नतिं कुर्वाणः ॥ ५० ॥ पुन:, अनेकोंकैः पूज्यमानः क्रमाद् विहरन् अथ मेदिनीतुण्डस्य मण्डनं भूमीमुखस्य भूषणं, मेदिनीपुर मेडताख्यं नगरं, मापाऽगात् ।। इति त्रयाणां व्याख्या ॥ ५१ ॥ - संघोऽनघमनास्तत्र संपूरितमनोरथम् ।।
चिन्तामणिमिवाज्ञासीदनूचानशिरोमणिम् ॥१२॥ तत्र मेदिनीपुरे, संघः; कि०, अनघमना निर्मलचेताः, अनूचानाशरोमाणं तं चिन्तामणिमिव, संपूरिता मनोरथा येन तम् , अशाप्तीद् सातवान् ॥ ५२ ॥
Page #459
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । कियच्च महिमाऽमत्रं तत्र मित्रमहा महान् ।
सुखयन् जनतां वाग्भिरद्भिरब्द इवाऽवसत् ॥५३॥ 'च पुनः, तत्रं मेदिनीपुरे, महान् गुरुः, किं०, महिमाऽमत्रं माहात्म्याऽऽस्पदं, अद्भिः पानीयैः, अब्द इव मेघ इव, जनता जनसमूह, वाग्भिः सुखयन् सुखीकुर्वन् , अवसत्. तस्थौ ॥५३॥
मेदिनीपुरतः सूरिभैदिनीशनतस्ततः । खदिनीरुह इव व्यचरद् मेदिनीतले ॥ ५४ ।।
मूरिः कि०, मेदिनीशा राजानो मेडतीआख्यास्तैनतः सन् ततो मेदिनीपुरतः वर्मेदिनीरुह इव कल्पतरुरिव, मेदिनीतले भूतले, व्यचरत् चचालेति । अत्र मेदिनीशब्दचतुष्टयाद्रुतम् ॥ ५४॥
क्रमेण क्रमविन्मुख्योऽतिक्रामन्नखिलामिलाम् ।
वर्यवर्णाटभावाटं वैराटं नगरं ययौ ॥ ५५ ॥ - क्रमविदां गुरुमार्गविदां ज्ञानविंदां मुख्यः, स गुरुः, क्रमणाऽखिलां इलांभूमि, अतिक्रामन् उल्लङ्घयन् , बैगटं नगरं, किं०, वर्या वर्णाटाश्चित्रकारिणः गायना वा, भावाटाः साधुनिवेशाः कामिनो वा यत्र तत् ।। ५५ ॥
तत्राऽथ श्रीतपागच्छनायकः शर्मदायकः । मौक्तिकैः काञ्चनैः पुष्पैः पूजितः श्रावकैबहु ॥५६॥
अथ तत्र श्रीतपागच्छनायकः श्रावकैः, मौक्तिकैः, पुनः, काश्वनैः पुष्पैः स्वर्णप्रभूनैः, पूजित इति ॥ ५६ ॥
संघः सर्वोऽपि तत्रयोऽतिमात्रां मुदमासदत् । दर्शनादृषिचन्द्रस्य चकोराणानिवोत्करः ॥५॥
Page #460
--------------------------------------------------------------------------
________________
द्वादशः सर्गः। तत्रत्यो वैराटवास्तव्यः, सर्वोऽपि संघः ऋपिचन्द्रस्य तस्य दर्शनात्, चकोरात्कर इवातिमात्रामनर्गलां मुदं, आसदत् प्राप्तवान् ।। ५७॥
युगप्रधानेऽनूचाने विचरत्यथ वर्मनि । काकनाशमनश्यंश्च सर्वेऽपि हि कुपाक्षिकाः ॥५॥
अथ तस्मिन् युगप्रधानेऽनूचाने वर्त्मनि विचरति सति, सर्वेऽपि हि कुपाक्षिकाः कुमतिनः, काकनाशं अनश्यन् काकाइव नष्टा इति ॥ ५८ ॥
स्थाने स्थानेऽथाऽभिरामग्रामाधिपपुराधिपैः।। बहु मेने तपानाथः पाथः पिपासितैरिव ॥५९॥
अथाऽभिराममनोहरैमाधिपपुराधिपैर्भूपतिभिः, स्थाने स्थाने स तपानाथस्तपागच्छाचार्यः, पिपासितैस्तृपितैः, पाथ इन पानीयमिव, बहु मेने भृशं मानितः ॥ ५९ ॥
वहन् बहुं महिमानं महिमं नगरं गुरुः।
आजगामौजसां धाम वनान्तरिव केसरी ॥६॥ गुरुः, किं कुर्वन्, वहुं महान्तं महिमानं वहन्, वनान्तर्वनमध्यं केसरीच, किं०, ओजसां धाम, महिमं नाम नगरम् , आ. जगामाऽऽगतवान् ॥ ६०॥
.मन्यमानैर्जनस्तत्र गुरुं तीर्थमिवाऽऽगनम् ।
महोत्सरा विदधिरे विश्वविस्मयहतवः ॥ ११ ॥ तत्र महिमनगरे, गुरुं तीर्थमिवागतं मन्यमानैर्जनैर्महोत्सवाः, किं०, विश्वस्य सर्वस्याऽथवा जगतः, विस्मयहेतवः आश्चर्यकारणं, विदधिरे कृता इति.॥ ६१॥
तस्थौ तत्र जगल्लोकलोचनानां सुधाञ्जनम् ।
Page #461
--------------------------------------------------------------------------
________________
विजयमशस्त्याम् ।
भाग्यराशिरिवोल्लासी श्रीगुरुर्विश्ववल्लभः ॥६२॥
"
तत्र श्रीगुरुः किं०, जगलोकलोचनानां भुवनजननयनानां, सुधाञ्जनं अमृताञ्जनम्, इवोत्प्रेक्ष्यते - भाग्यराशिर्मूर्तिमान्, शेषं सुगमम् ॥ ६२ ॥
४३६
प्रसन्नस्तत्र सुगुरुर्हरंस्तापं गवां भरैः । तडित्वानिव शिखिनां नृणामानन्दभूरभूत् ॥६३॥ तत्र सुगुरुर्गवां भरैर्वाचां चयैः, पक्षे गवां पानीयानां निवहै, तापं हरन् शिखिनां केकिन, तडित्वान् मेघ इव, नृणां आनन्दभूः हर्षस्थानमभूदिति ॥ ६३ ॥
सुधावृष्ट्येव संतुष्टविश्वयाऽसदृशा दशा ।
सुखयित्वा जनांस्तत्र व्यहार्षीदन्यतः प्रभुः ||६४ || दृशा दृष्ट्या, किं०, असदृशा निरुपमया, पुनः किं०, सुधावृष्येव संतुष्टं विश्वं जगत्, अथवा संतुष्टा विश्वा पृथिवी यया तया, जनान् तत्र महिमनगरे, सुखयित्वा सुखीकृत्य, प्रभुरस्यतो व्यहार्षीत् ॥ ६४ ॥
विहरन् जनताऽऽनन्दकुमुदाऽऽकरचन्द्रमाः । लोआिणाऽभिधे ग्रामे क्रमेण प्रभुरभ्यगात् ॥ ६५॥
क्रमेण विहरन् प्रभुः किं०, जनताऽऽनन्द एव कुमुदाऽऽकरः कैरववृन्दं तत्र चन्द्रमाः, लाभपुरनगरात् षष्टिक्रोशैरवग्वर्तिनि लोधि आगाssव्यग्रामेऽभ्यगात् ।। ६५ ।।
अथ तत्र यज्जातं तद् युग्मेनाह
तत्राऽथ मुद्गलखामिश्रीअकब्चरभूभुजः । अशेषधीसखाधीश शेखसंज्ञकमन्त्रिणः ॥ ६६ ॥
Page #462
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४३७ सहजः फयजीनामा मधुव्रत इवाऽऽगमत् । गुरोः क्रमपयोजन्म मूलमामोदसंपदाम् ॥६७॥ तत्र लोधिआणाग्रामे, मुद्गलस्वामी यः श्रीअकब्बरशाहिस्तस्य श्रीअकबरभूभुजो राज्ञः, अशेषाः समस्ता ये धोसखा मन्त्रिणस्तेषामधीशस्य शेखसंज्ञकमन्त्रिणः शेखाऽऽख्यमहामन्त्रिणः ॥६६॥ सहजो भ्राता, फयजीनामा महामुद्गलो दशसहस्रसैन्याधीशः, स गुरोः क्रमपयोजन्म पादपङ्कजं, किं०, आमोदस्य गन्धस्य हर्षस्य च मूलं, मधुव्रतो भृङ्ग इवाऽऽगमत् ॥ इति युग्मव्याख्या ॥ ६७॥
तदाग्रहवशात् तत्र श्रीनन्दिविजयाभिधः।
असाधयत् सुधीरष्टावधानान्यन्तिषद् गुरोः॥६८॥ - तदाग्रहवशात् तस्य फयजीनाममुद्भलपतेराग्रहाद्, गुरो, अन्तिपत् शिष्यः, श्रीनन्दिविजयाख्यः सुधीविबुधः, अष्टावधानानि असाधयत् ॥ ६८॥ स एनां तत्कलां दृष्ट्वा चमत्कारमवाप यम् । नाऽध्वा तत्र गिरां ज्ञानां मानेऽम्भोधेरपामिव ॥६॥
स फयजीनामा, एनां तत्कलां अष्टावधानरूपां, दृष्ट्वा यं चमत्कारम्, अवाप प्राप्तवान् , तत्र चमत्कारे, ज्ञानां गिरांवाचाम्, अध्वा मार्गो नास्ति । दृष्टान्तमाह-अम्भोधेः समुद्रस्य, अपां पाथसां, माने प्रमाणे, यथा वचनागोचरत्वं तथाऽत्रापीति भावः।।६९।।
तत्कौतुकं वहन्नन्तः स शाहेः सन्निधिं ययौ। .
अपां भारं दधत् पाथोधरो भागं भुवामिव ॥७॥ तदष्टावधानावलोकनजातं कौतुकं मनोऽन्तर्वहन् स फयजीनामा शेखसहोदरः, शाहेः श्रीअकबरस्य, संनिधि समीपं, ययौ।
Page #463
--------------------------------------------------------------------------
________________
४३८
विजयप्रशस्त्याम् । दृष्टान्तमाह-पायोधरो मेघः, अपां पानीयानां, भारं दधद् भुवा भागं भूभाग यथेति ॥ ७० ॥ - प्रकृत्य प्राभृतं हस्तिसप्तिवर्णादिवस्तुनः। .
स शाहेः पुरतः प्रोचे वृत्तान्तमिममुन्मनाः ॥७१॥ . हस्तिसप्तिस्वर्णादिवस्तुनः गजतुरङ्गकाञ्चनादिवस्तुनः, प्राभृतं दौकनं, प्रकृत्य कृत्वा, शाहेः पुरतः रा इमं वृत्तान्तम् , अग्रे व. क्ष्यमाणरीत्या, उन्मना उत्सुकः सन् , प्रोकथयत् ॥ ७१ ॥ श्रीहीरविजयाह्वानसूरिपट्टधरः पथि ।।
श्रीमद्विजयसेनाह्वः सोऽस्ति सूरिरिहाऽऽपतन् ॥७२॥ . श्रीहरिविनयादानस्य मूरेयुप्मबल्लभस्य, पट्टधरो युवराट श्रीविजयसेनादः मुरिः, स इह लाभपुरपथि आपतन्नस्ति आगच्छन् वर्तते ॥ ७२ ॥ लोधिआणे पुरे प्राप्तः स सूरीन्द्रो ममाऽमिलत् ।. गुरुः सुमनसां श्रीमान् साक्षादिव बृहस्पतिः ॥७३॥
स सूरीन्द्रः किं०, सुमनसां सुराणां पण्डिनानां च गुरुः, अत एव बृहस्पतिरिव, साक्षात् , अन्यत् कण्ठ्यम् ।। ७३ ।। तस्य सौन्दर्यगाम्भीर्यचातुर्यादीन् गुणान् मया । इति निध्यायताऽध्यायि धराधीशधुरन्धर ! ॥ ७४ ॥ __ सौन्दर्य शरीरजं रूपं, गाम्भीर्यमतुच्छत्वं, चातुर्य पाण्डित्यम् , इत्यादीन् तद्गुणान् निध्यायता विलोकयता मया, हे घराधीशधुरन्धर ! राजर्षभ ! इति अग्रेतनश्लोकगतम् , अध्यायि ध्यातम् ।। ७४ ॥
तदेवाहभासामिव सहस्रांशुरपामिव सरित्पतिः ।
Page #464
--------------------------------------------------------------------------
________________
हादशः समः।
४३९
नूनमेषोऽस्ति सूरीन्दो गुणानामेकमास्पदम् ॥७५॥
भासा विषां सहस्रांशुः सूर्य इव, अपां नीराणां, सरिस्पतिः समुद्र इव, एष सूरीन्द्रो गुणानामेकमास्पदं स्थानकमस्तीति ।। ७५ ॥ सन्ति चित्तचमत्कारिकलाकौशलपेशलाः। बृहस्पतेरिवाऽस्वप्नास्तद्विनेया अनेकशः॥ ७६ ॥
किञ्च, चित्तचमत्कारि यत् कलाकौशलं तेन पंशला रम्याः, तद्विनेयास्तच्छिष्याः, अस्थमा देवाः, बृहस्पतेरिव सुरगुरुत्वात् ॥ ७६ ॥ यत्तदा साधितं नन्दिविजयेन विपश्चिता: अवधानाष्टकं स्पष्टं दृष्टं तदपि सोऽभ्यधात् ॥७७॥
नन्दिविजयाख्येन, विपश्चिता पण्डितेनेति; शेषमशेषमप्यवद्वातम् ॥.७७॥ .. स श्रीशाहिर्गुणग्राही तदाकर्ण्य सकर्णराट । जातोत्कण्ठो गुरुं द्रष्टुं शीतार्तोऽर्कमिवाऽभवत् ॥८॥
सः श्रीशाहिरकब्बरः कि०, सकर्णराद , पण्डितपष्ठः, तत् फयजीनाम्रोक्तम् , गुरुखरूपम् , आकर्ण्य, शीतार्तः पुमान् · अर्कमित्र, गुरुं द्रष्टुं जातोत्कण्ठोऽभवत् उत्कण्ठावान् विशेषेण जात इति ।। ७८ ॥
अथाऽऽचार्यः सदैवाऽर्यवर्याऽऽत्मपरिवारवान् । श्रीशाहिमहलस्थानमलचके क्रमेण सः॥ ७९ ॥
स आचार्यः, अथ क्रमेण, कि०, आर्येषु वर्यो य. आत्मपरिवारः खत्रिष्यादिपरिच्छदस्तद्वान्, श्रीशाहेर्महलस्थानं ला
Page #465
--------------------------------------------------------------------------
________________
.४४० विजयप्रशस्त्याम् । भपुरादर्वाक् पञ्चकोशीयवनस्य, अलश्चक्रे, आगत इति॥७९॥ तत्र श्रीभानुचन्द्राख्योपाध्यायाः पूज्यपादयोः । पार्श्व सद्यः समभ्येयुरुपकूपमिवाध्वगाः ॥ ८० ॥
तत्र स्थाने, श्रीभानुचन्द्रनामान उपाध्यायाः पण्डितमूरचन्द्रगणिशिष्या विशिष्य राजरञ्जनकलोपेताः, पूर्व श्रीशाहिमहाग्रहेण श्रीहीरविजयमूरिभिः शाहिना सह धर्मगोष्ठीकृते स्थापिता इति शेपः, ते तदा पूज्यपादयोः श्रीपदाचार्यचरणयोः पार्थम् , उपकूपं कूपसमीपम् , अश्वगा इव, समभ्येयुः समेताइति संमुखमागताः ॥ ८ ॥
शाहिदत्तमहामत्तमतङ्गजविराजितः। सुखाङ्करलसत्तरपूरपूरितदिग्मुखः ॥ ८१ ॥ .. महीयोमुद्गलश्रेणीपृतनापरिवारितः। संमुखः स्मैति संघोऽपि गुरोर्गरिमवारिधेः ॥ ८२ ॥
शाहिना श्रीअकबरजलालदीनसुरत्राणेन, दत्ता आज्ञाविषयीकृता ये महामत्ता मतङ्गजा मदकलास्तैर्विराजितः, पुनः, सुखाङ्करैः लसत्तरपूरैः स्फुरनिःस्वानध्वानविस्तारैः पूरितानि दिग्मुखानि येन सः ॥ ८१ ॥ पुनः, महीयांसो ये मुद्गलाः शाहिपार्श्ववर्तिनस्तेषां श्रेणी तस्याः पृतनया सेनया परिवारितः संघो लाभपुरीय उग्रसेनपुरवर्ती शाहिपार्थस्थ इति शेषः, गुरोः किं०, गरिमवारिधर्माहात्म्यपयोनिधः, संमुखः मैति-आगादिति ॥ इति युगलव्याख्यानमिदम् ।। ८२ ॥ मौक्तिकस्वर्णरत्नाढयरलङ्कारैरलङ्कृतैः । रजतवर्णवित्तानां ददाननिमुत्तमम् ॥ ८३ ॥
Page #466
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४४१ अध्यारूढैर्वाहनानि रथहस्तितुरङ्गमान् । मूरिवाऽमरैलॊकैरनेकैः परिवारितः ॥ ८४ ॥ अथ लाभपुराभ्यर्णभूषणं गञ्जसंज्ञकम् । पुरं प्रभुरलञ्चक्रे मराल इव मानसम् ॥८५॥ मौक्तिकालङ्कारैः, स्वर्णालागः, रत्नालङ्कारैः, अलङ्कृतैभूषितैः, पुनः, रजतस्वर्णविचानां दानं ददानैः ॥ ८३ ॥ पुनः, रथहस्तितुरङ्गमान् वाहनानीत्यत्र “लिङ्गभेदं तु मेनिरे" इति वचनात् , अध्यारूढश्वटितैः, अत एव मूर्तेमूर्तिमद्भिः, अमरिव अनेकैलोकैः परिवारितः॥ ८४॥ इत्याद्याडम्बरेण प्रभुमरालो मानसं सर इव, लाभपुराभ्यर्णस्य लाहोरसमीपस्य, भूषणं गञ्जसंज्ञकं पुरं शाखापुरविशेपं, अलश्चकेऽलङ्कृतवानिति ॥ इति त्रयाणां व्याख्या ॥ ८५ ॥
तत्राऽथ भानुचन्द्राणां वाचकानां वचोभरैः । श्रीगुरूनागतान् ज्ञात्वा मुमुदे मेदिनीपतिः॥८६॥ तत्र गजपुरे, श्रीआचार्यचरणान् प्रणम्य शाहिपार्श्व प्रासानां भानुचन्द्राणां वाचकानां वचोभरैः श्रीगुरून् आगतान् ज्ञात्वा मेदिनीपतिः श्रीशाहिः, मुमुदे हर्पमधात् ।। ८६ ॥
अष्टावधाननिध्यानसावधानमना नृपः । गुरोराकारयाञ्चक्रे विनेयान् विनयादथ ॥८७॥ अष्टावधानानां निध्याने विलोकने सावधानं मनो यस्य सः, नृपोऽकचरशाहिः, गुरोविनेयान् आकारयाञ्चके आकारितवान् ॥ ८७ ॥
ऋषयः प्रेषिताः पूज्यपादैः पाण्डित्यपेशलाः ।
Page #467
--------------------------------------------------------------------------
________________
४४२
विजयप्रशस्त्याम् । राज्ञः सभायामभ्येयुः श्रीनन्दिविजयादयः ॥८॥ पाण्डित्यपेशलाः पण्डितपदेन दक्षत्वेन च पेशला मनोज्ञाः, श्रीनन्दिविजयादयो गुरुशिष्याः, राज्ञोऽकब्बरस्य, सभाया. मभ्येयुः ॥ ८८ ॥
रम्यायां मण्डलाऽखण्डाऽऽखण्डलाऽखिलमुद्गलैः ।
संकुलायां महाभट्टोटविप्रादिकोविदैः ॥ ८९ ॥ . मण्डलस्य देशस्य अखण्डाः संपूर्णा आखण्डला इन्द्रामण्डलेन्द्रा महाराजान एकदेशाधीशा मरुस्थलीमण्डनमण्डोवरकोट्टपतिराजेन्द्रश्रीमन्मल्लदेवपुत्रश्रीउदयसिंहप्रभृतयः कच्छवाहकपष्टिसहस्रसैन्येश्वरराजश्रीमानसिंहप्रमुखाश्च, पुनरखिलास्तुरुष्काः खानश्रीखानखानाख्यश्रीशेखअवजलफयजलश्रीआजमखानप्रमुखाः शाहिमहामान्याः श्रीजालोरनगरीयस्वर्णगिरिमहादुर्गाधीशश्रीगजनीखानमुख्याश्च तैमण्डलाखण्डाखण्डलाखिलमुद्गलैः, रम्यायां, पुनः, संकुलायां, कैरित्याह-महाभट्टा- ' चिन्तामणिपर्यन्तप्रमाणपाठिनः शाहिमान्याः पण्डिताः, पुनरुद्भटा उद्धता विप्रादयो वेदवेदाङ्गज्ञा ब्राह्मणाः, आदिशब्दात् काजीकायस्थप्रभृतयः, पुनः कोविदा नैषधान्तकाव्यपञ्चकप्रभृतिप्रभूतसाहित्यशास्त्रपण्डितास्तैः ॥ ८९ ॥
सभायां भूपतेरष्टाऽवधानान्यद्भुतान्यथ ।
साधयाञ्चक्रिरे नन्दिविजयैर्विबुधोत्तमैः ॥ ९० ॥ ईदृश्यां भूपतेरकव्वरस्य सभायां, श्रीगुरुशिष्यैर्नन्दिविजयैः, कि०, विबुधोत्तमैः सुधीश्रेष्ठैः, अष्टाऽवधानानि महामाज्ञसाध्यानि, अत एव अद्भुतानि आश्चर्यकारीणि, साधयाश्चक्रिरे साधितानीति ।। इति युग्मव्याख्या ॥९० ॥
वीक्ष्यैतच्चातुरी चित्तचमत्कारकरी भृशम् ।
Page #468
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४४३. खयं प्रशंसयामास मुहुर्मुहुर्गुरुं नृपः ॥ ९१ ॥
एतच्चातुरी; किं०, चित्तचमत्कारकरी, आश्चर्यकारिणी, वीक्ष्य नृपः स्वयं स्वमुखेन, मुहुर्मुहुर्वारं वारं, गुरुं प्रशंसयामासाध्वर्णयत् ॥ ९१ ॥ अस्मिन्नष्टाऽवधानानि सति साधयति द्रुतम् । आसीदाश्चर्यभृत् पर्षद् वर्षत्यब्देऽम्मयीव भूः ॥१२॥ किंबहुना ?, अस्मिन् सति पण्डिते, अष्टावधानानि साधयति सति, पर्षत् सभा, आश्चर्यभृत् चमत्कारवती, आसीत् । यथा भूः पृथ्वी, अब्दे मेघे वर्षति, अम्मयी अम्भोमयी, भवतीति दृष्टान्तः ।। ९२ ॥
अथ ज्येष्ठस्य दिवसे द्वादश्यामेणभृद्भुति । - प्राविशत् प्रौढमाहात्म्यः प्रभुलाभपुरं पुरम् ॥९३ ॥ .. ज्येष्ठमासस्य द्वादश्यां दिवसे तिथौ, किं०, एणभृभृति सचन्द्र शुक्ले इति, प्रभुर्लाभपुरं प्राविशत् ॥ ९३ ।। - अथैकादशभिः श्लोकैर्गुरोः संमुखोत्सवं वर्णयतितदा च. संमुखं तूरेरागच्छद्भिर्डिपैरभूत् ।
पुरस्य वीथी पृथ्वीव विन्ध्यस्य वसुधाभृतः॥ ९४ ॥ .... तदा तत्रोत्सवे, सूरैः संमुखं आगच्छद्भिः द्विपैहस्तिभिः, शताधिकैरिति श्रुतिः, पुरस्य लाहोरनगरस्य, वीथी रथ्या, विन्ध्यस्य वसुधाभृतो विन्ध्याचलस्य, पृथ्वीवाऽभूद्, गजमयीत्यर्थः ॥ ९४ ॥
मौक्तिकैः पतितैर्दानवारिभिः सामजन्मनाम् ।। तदा वीथी बभौ सड़े गङ्गायमुनयोरिव ॥ ९५ ॥
Page #469
--------------------------------------------------------------------------
________________
४४४ . विनयप्रशस्त्याम् । ___ व्यवहारिणां नियः संघर्षात् पतितौक्तिसः, पुनः, सामजन्मनां हस्तिनां, दानवारिभिर्मदजलैः, वीथी वो शुशुभे । इव यथा, गङ्गायमुनयोर्नयोः, सङ्गे मेलापके, वीथी शोभते । अत्र मौक्तिकानां धवलानां गङ्गोपमा, मदनलानां च श्यामलानां यमुनोपमा चेत्युपमालङ्कारः ॥ ९५ ॥
अनश्ववाराः सुस्फाराः सशृङ्गारास्तुरङ्गमाः। अभ्येयुः श्रीगुरोरुच्चैः किमुच्चैःश्रवसोऽनुजाः ॥९॥
तरङ्गमाः, किं०, अनश्ववारा असादिनः, पुनः किं०, सुस्फाराः यतः सशृङ्गाराः श्रीगुरोः संमुखं अभ्येयुः आगताः, किं उच्चैःश्रवसः शक्रतुरङ्गमस्थ, अनुजा लघुभ्रातर इवेत्युत्ने क्षालङ्कारोऽत्रेति ॥ ९६ ॥
पुष्पाणां तत्र सन् पञ्चवर्णानां प्रकरस्तदा । बभौ बाणधनुःशस्त्रलक्षणं स्वमिवाऽऽङ्गजम् ॥ ९७ ॥ - तत्रोत्सवे, पश्चवर्णानां पुष्पाणां प्रकरः पुञ्जः, बभौ शुशुभे। इवोत्प्रेक्ष्यते-वाणधनुःशस्त्रलक्षणं, आङ्गनं कान्द, स्वं धनं, यतोऽनङ्गस्य पुष्पवाणत्वात् पुष्पधन्वत्वात् पुष्पास्त्रत्वात् , ततो निजजेतगुर्वागमाद् भीतेन तेनाऽनङ्गसुभटेन पुष्परूपं स्ववाणधनुरस्त्रादि सर्व स्वं त्यक्तमिति निर्गलितार्थः ॥ ९७ ॥
तत्रोत्तुङ्गानि विविधवर्णभृत्तोरणान्यलम् । - स्थाने स्थाने विभान्ति स्म धपीव दिवस्पतेः ॥१८॥ __ तत्र विविधवर्णभृत्तोरणानि, स्थाने स्थाने, इवोत्प्रेक्ष्यतेदिवस्पतेः शक्रस्य, धपीव इन्द्रायुधानीव, शोभयेति शेषः॥९८॥ निर्घोषैर्वर्यतूर्याणां पौराणां तुमुलैस्तथा । निर्विवादमभूत् तत्र तदा शब्दगुणं नमः ॥ ९९ ॥
Page #470
--------------------------------------------------------------------------
________________
द्वादशः सर्गः ।
४४५
तदा तत्रोत्सवे वर्यतूर्याणां निर्घोषैः शब्दैः, पुनः, पौराणां नागराणां, तुमुलै : कोलाहलैः, नथो गगनं यच्छन्दगुणं तार्किका वदन्ति तद् निर्विवादमभूत् यत्र तत्र शब्दानामेव श्रूयमाणत्वात् केवलं शब्दमयं जगज्जातमिति भावः ॥ ९९ ॥ दिव्यैर्दुकूलपटलैरुल्लासितनुयष्टयः । मौक्तिकैः काञ्चनैरात्नैर्भूषणै जिमूर्तयः ॥ १०० ॥ तदा पूर्णघटमूर्धानोऽभुर्मृगीदृशः । पूर्णेन्दुसुन्दरैर्नैकैराका रूपैरिवाऽऽगता ॥ १०१ ॥
दुकूलानां पटलैः प्रभूतैः पट्टकुलैरुल्लासिनी तनुयष्टिर्वपुलता यासां ताः पुनः किं०, मौक्तिकैर्भूषणैर्मुक्ताफलमालादिभिः काञ्चनैयैवेयकमुद्रिकादिभिः, रानैस्तिलकनासिकाभरणकर्णाभरणविशेषैः, भ्राजिनी मूर्तियांसां ताः ॥ १०० ॥ पुनः किं०, पूर्णघटैः पानीयभृतैः कुम्भैः श्रेष्ठं मूर्धा, शीर्ष यासां ताः, मृगीदृशः स्त्रियः, अभुः शोभन्ते स्म । इवोत्प्रेक्ष्यते - नैकैरनेकैः, रूपैः, किं०, पूर्णेन्दुसुन्दरैः संपूर्णचन्द्रमण्डलमण्डितैः, राका पूर्णिमेव, आगता, मस्तकस्थायिघटच्छलात् पूर्णचन्द्रवती बहुरूपिणी राकेवाऽऽगतेति भावार्थः ॥ युग्मव्याख्येति ॥ १०१ ॥
लोकैर्दानान्यदीयन्त धनकाञ्चनवाससाम् । तदा वित्तवर्णवस्त्रवारिवाहैरिवाऽपरैः ॥ १०२ ॥
धनकाञ्चनानि प्रतीतानि वासांसि वस्त्राणि तेषां दानानि लोकैः अदीयन्त दत्तानि, अर्थिभ्य इति गम्यम् । तदेवोत्तरा-र्धेन द्रढयति-लोकैः; किं०, वित्तस्वर्णवत्राणां वारिवाहैर्मेधैः, अत्र प्रत्येकं वारिवाहशब्दः प्रयोज्यस्तेन वित्तवारिवाहैः स्वर्णवारिवाहैः वस्त्रवारिवाहैरपरैरर्थिनां जातैरिति भावः ॥ १०२ ॥
Page #471
--------------------------------------------------------------------------
________________
४४६
विजयप्रशस्त्याम् ।
प्रतिमार्ग प्रतिस्थानं प्रत्य च मनोरमाः । ध्वजा रेजुस्तदा तंत्र वैजयन्तात्मजा इव ॥ १०३ ॥
तदा तत्र लाभपुरे, प्रतिमार्गे वीथीं वीथीं प्रति, पुनः, प्रतिस्थानं गृहं गृहं प्रति, अथवा पदं पदं प्रति, पुनः प्रत्यहं हं हट्टं प्रति, ध्वजा रेजुः शोभन्ते स्म । इवोत्प्रेक्ष्यते - वैजयन्तस्य इन्द्रध्वजस्य आत्मा नन्दना इव "वैजयन्तौ तु प्रासादध्वज" इति नामकोशवाक्यादिति ।। १०३ ।। जगुर्मङ्गलमञ्जूनि गीतानि चलचक्षुषः । पुंस्कोकिलकलारावा अखप्रप्रमदा इव ॥ १०४ ॥
मङ्गलेन धर्मधर्मिणोरभेदाद् मङ्गलहेतुना ध्वनिना नादेन मज्जूनि मनोहराणि गीतानि गातव्यपदानि मङ्गलगीतानि, चलचक्षुषः स्त्रियः, जगुर्गायन्ति स्मेत्यन्वयः । किं०, पुंस्कोकिलः पिकस्तद्वत् कला मनोज्ञः पटुर्वा आरावो यासां ताः । इवोत्प्रेक्ष्यते - अस्वमप्रमदा देवाङ्गना इव, नादेन रूपेणेवेति भावार्थः ॥ १०४ ॥
प्रविश्येत्युत्सवोत्साहमाडम्बरपुरस्सरम् ।
श्रीदः प्रभामिव द्रङ्गोत्तुङ्गं वै-श्रमणेश्वरः ॥ १०५ ॥ श्री अकबर भूपस्य शेखनामनियोगिनः । आचार्यः श्रीअबजलफयजस्य गृहं ययौ ॥ १०६ ॥
इति व्यावर्णितप्रकारेण, उत्सवोत्साहो यत्र प्रवेशने इति क्रियाविशेषणम् अत एवाऽऽडम्वरस्तत्पूर्वकं आचार्यः, श्रीविजयसेनसूरिः, लाभपुरं पुरं, किं०, द्रङ्गो तुङ्गं प्रविश्य, कः कामिवेत्याह-श्रीदो धनदः, प्रभां अलकानगरीमिव किं०, वैश्रम
श्वासौ ईश्वरति घनववाद वैश्रमणेश्वरः, आचार्यः किं०, वै
Page #472
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४४७ निश्चितं श्रमणेश्वर इति ॥१०५|| पुरं प्रविश्य क गतवानित्याहश्रीअवजलफयजस्य ; किं०, श्रीअकबरभूपस्य शाहेः, शेखेतिनाम्ना ख्यातस्य नियोगिन इत्यधिकारिणः, गृहं ययौ जगामेति ॥ इति युग्मव्याख्या ॥ १०६ ॥
अथ श्रीशाहिना शेखधाम्न्यनूचानहस्तिनः।. विज्ञायाऽऽगमनं लेभे मुदमन्दतमा तदा ॥ १०७ ॥ ___ अथ प्रवेशायुत्सवे प्रवृत्ते सति, शेखश्रीअवजलफयजधानि, अनूचानहस्तिनः मूरिसिन्धुरस्य, आगमनं विज्ञाय ज्ञात्वा, श्रीशाहिनाऽकब्बरसुरत्राणेन, मुत, कीदृशी,अमन्दतमा स्फुरदूपा प्रमोदप्रकर्षः, प्राप्त इति । तदा तत्राऽवसरे ॥ १०७ ।। - मुत्प्राप्तिलक्षणं लक्षयन्नाह
खानंशानिव सश्रीकान् सेवकान् महतो बहून् । सद्यः सूरीन्द्रचन्द्रस्याऽऽहूतये प्राहिणोद् नृपः॥१०८।।
नृपः पातिशाहिः, मूरीन्द्रचन्द्रस्य, आहूतये आकारणाय, स्वगृहानिति गम्यम, वरन् सेवकान् प्राहिणोत, किंलक्षणान् , इवोत्प्रेक्ष्यते-स्वान् निजान् , अंशान् अत एव महतो गरीयसः, पुनः, अत एव सश्रीकान् सशोभान् “ श्रीः शोभायाम्" इति श्रीहेमं वच इति ॥ १०८॥
गुरुरप्यात्मनः प्रोच्चैःपदसंपत्तिकारणम् । धाम विज्ञाय राज्ञः सबहुमानमुपेयिवान् ॥ १०९ ॥
श्रीशाहिना गुरोराहाने कृते गुजरपि राज्ञो नृपतेः, बाम वेश, आत्मनः स्वस्थ, प्रोच्चैःपदसंपतिकारणं उच्चापदं उच्चत्वस्थानं तदेव संपत्तिः संपद् गुणोत्कर्पस्तत्कारणं अत्युस्कर्षप्रौढिमूलं, विज्ञाय ज्ञानविषयीकृत्य, सबहुमानं सादरं,
Page #473
--------------------------------------------------------------------------
________________
४४८
विजयप्रशस्त्याम् ।
उपेयिवान् आगत इति, पक्षे गुरुवृहस्पतिः, राजश्चन्द्रस्य, धाम फर्काख्यराशि, स्वोच्चताकारणं मत्वोपेत्येवेति संगतं, ज्योति:शास्त्रे कर्कस्वामी चन्द्रस्तद्धान्नि समागतो गुरुरुच्च इति प्रतीयते ॥ १०९ ॥
गुरुमायान्तमालोक्य राजोल्लासिमना अभूत् । ..
सज्जीवस्येक्षणात् स्थाने मुत् सोमस्याऽऽवनीपतेः॥११०॥ - राजाऽकब्बरः, गुरुं कि०, आयान्तं स्वसौधं प्रत्यागच्छन्तं, दृष्ट्वा उल्लासिमना अभूत, अमुमेवार्थ समर्थयति स्थाने इति युक्त एवायमर्थः, सज्जीवस्य श्रेष्ठगुरोः, ईक्षणाद् विलोकनात, सोमस्य चन्द्रस्य, मिथो वैराभावेन, पक्षे सोमस्य सकीर्तेः सकान्तेवा "उमा कीर्तिः, कान्तिश्च" इति अनेकार्थः, ततः सह उमया वर्तते यः स सोमस्तेन सोमस्य अवनीपतेर्मुद् भवत्येवेति शब्दश्लेप इति ॥ ११० ॥
सदकारि गुरूराज्ञा स्वागतप्रश्नपूर्वकम् । - तत्स्थाने मान्यतेऽनेन यत् सर्वज्ञसुहृत् प्रभुः॥११॥ - श्रीसूरेनयनातिथीकरणानन्तरं गुरूराज्ञा सदकारि सस्कृत इति क्रियासंबन्धः । कथमिति स्वागतप्रश्नपूर्वकं स्वागत सुखेनागतमित्यादिप्रश्नपूर्वकं, तत्स्थाने तद् युक्तं, यत्प्रभुरनेन राज्ञा मान्यते मानस्थानं विधीयते, यतः स सर्वज्ञसुहृत् सर्वज्ञः शिवस्तस्य सुहृद् मित्रं स्वाश्रयमित्रत्वेन, राज्ञा चन्द्रेण, मान्यतएव, तत्त्वतस्तु सर्वे ज्ञाः पण्डितास्तेपां सुहृन्मित्रम् , अथवा सर्वज्ञो जिनेन्द्रस्तन तस्मिन् वा सुशोभनं हृद् यस्येति कृत्वाऽयमर्थः समर्थ इति ॥ १११ ॥ महाव्रतिनमत्यस्तमन्युं दक्षमनोहरम् । वीक्ष्याऽहृष्यद् गुरुं शाहेः सभा सीमन्तिनी सती॥११२॥
Page #474
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४४९ शाहिसत्कारसंप्राप्तौ शाहे. सभारूपा सीमन्तिनी स्त्री, गुरुं विलोक्याऽहष्यद् हृष्टेत्यन्वयः, सती विद्यमाना शोभना वा, गुरुं कि०, महान्ति व्रतानि सर्वप्राणातिपातविरमणादीनि यस्येति तं, तथाऽत्यतिशयेनाऽस्तो मन्युः क्रोधो येनेति तं, तथा दक्षाणां मनांसि हरतीति तं, पक्षे सती पार्वती महाव्रतिनमीश्वर वीक्ष्य दृष्यति, किं०, अत्यस्तो मन्युर्दैत्यो यज्ञो वा येनेति तं "मन्युदैत्ये ऋतौ क्रुधि" इत्यनेकार्थ इति, पुनः किं०, दक्षस्य पार्वतीपितुर्मनो हरतीति तं, गुरु गरिष्ठं, सभा सकान्तिरिति पार्वतीविशेषणम् ॥ ११२ ॥
निस्सरदशनज्योतिौक्तिकैः प्राभृतं सृजन् । ' शाहिः स्माह सुरचनैर्वचनैर्विनयी नयी ॥ ११३ ॥
. शाहिसूर्योर्मेलापके शाहिर्गुरु, प्रतीत्यध्याहारे, स्माह प्रोक्तवानित्यन्वयः । सुरचनैः सुघटैः, वचनैर्वाक्यैः, शाहिः किं०, विनयी, विनयवान् , अत एव नयी न्यायवान् , कथं स्माह, निःसरन्ति दशनानां दन्तानां ज्योतींषि तान्येव मौक्तिकानि तैः, पाभृतं सृजन् रचयनिवेति ॥ ११३ ॥
अस्ति शस्तं शरीरे वः परिवारे च पेशले । इहाऽऽगतिकृतामासीद् युष्माकं क्षेममध्वनि ॥११॥
कि स्माहेति दर्शयति-हे गुरवः वः शरीरे, च पुनः, पेशले परिवारे शस्तं मङ्गलमस्तीत्यन्वयः । प्रश्नान्तरम्-इहाऽऽगतिकृतां अस्मिन् देशे आगतिकृतां समागच्छतां, युष्माकमध्वनि मार्गे, क्षेमं कल्याणमासीदिति ॥ ११४ ।।
क्व सन्ति सकलप्राणिप्रीणनप्रवणाशयाः। श्रीहीरविजयाः सूरिसिन्धुराः साधुबन्धुराः ॥११५॥
५८
Page #475
--------------------------------------------------------------------------
________________
४५०
विनयप्रशस्त्याम् । - अथ श्रीपरमगुरूनुद्दिश्य प्रश्नविशेषः-श्रीहीरविजयाः मूरिसिन्धुरा हस्तिनः, साधुपु वन्धुरा मनोज्ञाः, क्व कुत्र देशे नगरादौ, सन्तीति संवन्धः । कुत इयती पृच्छा ?, यतस्ते किं०, समस्तप्राणिनां प्रीणने प्रीत्युत्पादने प्रवणस्तत्पर आशयोऽध्यवसायो येषां ते ॥ ११५ ॥ ते पूज्यकुञ्जराः किञ्च कुर्वन्तः सन्ति सम्प्रति ।
तेषां चाऽस्ति समाधानं शरीरे सुकृतार्थिनाम् ॥११६॥ • किश्चेति पुनः प्रश्ने, ते पूज्यकुञ्जराः, किं कुर्वन्तः सन्ति संप्रत्यधुनेति, तेषां, च सुकृतमेवार्थो येषां तेषां, शरीरे समाधानमस्तीति ॥ ११६ ॥
दन्तद्युतिपयःपूरक्षालिताखिलदिङ्मुखः । ...अथ ब्रूते स्म श्रमणाधीश्वरः पृथिवीश्वरम् ॥११७॥
अथेति शाहिप्रश्नानन्तरम् , श्रमणाधीश्वरः मूरिः, पृथिवीश्वरं राजानं, ब्रूते स्माऽवदत् । कि०, दन्तानां द्युतिरूपपयःपूरेण क्षालितान्यखिलदिशां मुखानि येनेति ॥ ११७॥
अथ यथा राज्ञा पृष्टं तथाऽनुक्रमेणैव गुरुरप्याहभवेत् कुवलयोल्लासो नूनं राज्ञोऽनुभावतः । तेनाऽस्ति सातमस्माकं तदन्तर्वर्तिनां बहु ॥११८ ॥
नूनं निश्चयेन, राज्ञश्चन्द्रस्य, अनुभावतः कुवलयानां चन्द्रविकासिकमलानां उल्लासो भवेत् , तेन हेतुना, तवापि राज्ञोऽनुभावात् , तदन्तर्वतिनां कुवलयान्तर्वतिनां भूवलयान्तःस्थायिनां, अस्माकमपि बहु सातमस्तीति श्लेपव्याख्या ॥ ११८ ।।
राजन् ! व्योम्नीव तरणौ धरणौ तपति त्वयि । द्विप कैः समं नष्टं भयान्धतमसैरिह ॥ ११९ ॥
Page #476
--------------------------------------------------------------------------
________________
द्वादशः सर्गः1 . ४५१ हे राजन् ! व्योम्नि तरणाविव, धरणौ सूमौ, त्वयि तपति सति, द्विष कैरिकौशिकः, समं भयान्येव अन्धतमसानि तैः, इहेति सर्वजगति, नष्टं गतमिति ॥ ११९॥ त्वत्प्रभावात् ततः शाहे ! सर्वेषां कुशलं पथि । अकिञ्चनानामस्माकं निर्ग्रन्थानां तु का कथा?॥१२०॥
हे शाहे ! ततो हेतोस्त्वत्प्रभावात् पथि सर्वेषां कुशलमस्ति; तेनैवाकिञ्चनानां तत एव निर्ग्रन्थानां, अस्माकं का कथा ? ये सकिश्चनास्तेऽपि त्वत्प्रभावतः सकुशलाः सन्ति, तर्हि वयं जिग्रेन्थाः सुतरां कुशलेन वामहे ॥ १२०॥ सूरिश्रीहीरविजया गूर्जरत्रासरोजिनीम् । भूषयन्तोऽधुना सन्ति राजहंसा इवामलाः ॥१२१॥
श्रीपरमगुरून् प्रत्युद्दिश्य प्रश्नपतिवचः प्रपञ्चयति, यथासूरिश्रीहीरविजयाः, गूर्जरत्रारूपा या सरोजिनी तां, राजहंसाइवाऽधुना भूषयन्तः सन्ति, शेषं स्पष्टमिति ॥ १२१ ॥ सच्चिन्तनधृतिध्याननिध्यानधनधारिणः । श्रीपारमेश्वरोपास्तिप्रहास्ते सन्त्यहर्निशम् ॥ १२२ ॥
अथ ते परमपूज्याः, किं कुर्वन्तीत्यादिप्रश्नमत्युत्तरं वितरति यथा-ते पूज्याः किं०, सदिति अत्र सच्छब्दः प्रत्येकं योज्यः, तेन सच्चिन्तनं सम्यग् भावनं, पुनः, सती या धृतिःसंतोषस्ततप्रधानं यद् ध्यानं जापरूपं, तथा सद् निध्यानं सदवलोकन देवादिदर्शनं तदेव धनं तद् धरन्तीति, अत एव श्रीपरमेश्वरसंब-. धिनी या उपास्तिः सेवा तस्यां प्रहाः सन्तीति ॥ १२२ ॥ सर्वेषामपि धर्माणां नीतिरीत्यनुसारिणाम् । राजैव रक्षकः सेतुरिव कासारपाथसाम् ॥ १.२३ ॥
Page #477
--------------------------------------------------------------------------
________________
१५२ विजयाशस्त्याम् । मवेति सार्वभौमत्वात् त्वां सर्वत्रोपकारिणम् ।
आशीभिरभिनन्दन्तस्ते सन्ति यतिसत्तमाः॥१२४|| ___ सर्वेषां समस्तानामपि धर्माणां दानादिभेदभिन्नानां नीतिर्नयो रीतिमर्यादा, यद्वा नीतेनीत्या वा रीतिस्तदनुसारिणां, राजैव रक्षकः, कासारपाथसां सेतुरिख-यथा सेतुः पालिः,सरःप्रयसां रक्षक इति ॥ १२३ ॥ हे शाहे ! इति मत्वा त्वां सार्वभौमत्वात् सार्वभौम इव सार्वभौमस्तस्य भावः सार्वभौमत्वं तस्मात् , सर्वत्राप्युपकारिणं दावा आशीर्भिरभिमन्दन्तस्ते यतिसत्तमाः मुनिश्रेष्ठाः, सन्ति तव धर्माशिपं ददामाः सन्तीति संगतिः ॥ इति युग्मव्याख्यानम् ॥ १२४ ।। : सर्वेषामपि धर्माणां जननात् परिपालनात् ।
दयैवाऽभिमता माता द्रुमाणामिव मेदिनी ॥ १२५ ॥ . हे राजन् ! सकलधर्माणां जननं निष्पादनं पुनस्तत्परिपालनं ययैवाऽऽतन्यते, तस्मात् समस्तधर्माणां माता दयाऽभिमता, यथा-द्रुमाणां माता मेदिनी, जननपालनादिकर्तुत्वं मातुरेवेति ॥ १२५॥
सुकृतेषु समस्तेषु मुनीनां मनसो मता। करुणा हरिणाङ्कस्य नक्षत्रेष्विव रोहिणी ॥१२६॥
समस्तेषु पुण्येषु मुनीनां मनसः करुणाऽभीष्टेति समग्रधमचिरणेषु दयानाः प्राधान्यं मन्वते, यथा-हरिणाङ्कस्य चन्द्रस्य, सकलनक्षत्रेषु, रोहिणी मतेति ॥ १२६ ॥
सा कृपा लवचापाथःपूरैः पल्लविता भृशम् । 'व्यानशे सांप्रतं विश्वं विश्वं वल्लीव मण्डपम् ॥१२७॥
है वृप ! एवं वर्णिना सा कृपा त्वद्वचःपाथःपूरै शमति
Page #478
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
.४५३ शयेन. पल्लविता सांप्रतमधुना, विश्वं समस्तं, विश्वं जगद्, व्यानशे व्यामोति स्मेति, यथा वल्ली मण्डपं व्याप्नोतीति ॥ १२७ ॥
अनया दयया तेषां तुष्टिरस्त्यतिभूयसी । - सत्वरं शरदाऽनल्पं नैर्मल्यमिव पाथसाम् ॥१२८॥
हे भूप ! अनया त्वत्तः प्रसृतया, दयया; तेपां परमपूज्यानां श्रीगुरुणां, : यसी वह्वी तुष्टिरस्तीत्यन्वयः । यथा-पाथसां पानीयानां, शरदा शरत्कालेन, अनल्पं नैर्मल्यं निर्मलत्वं, तथेति ॥ १२८ ॥
धर्मस्येव दयाऽमुष्या मूलं च खां नरेश्वरम् । ज्ञाला ते सूरयः सन्ति त्वयि कल्याणकाङ्गिणः॥१२९॥
तेषां गुरूणां दयाया अभीष्टत्वेन हे राजन् ! यथा धमस्य मूलं दया, चकारः पुनरर्थे, तथा अमुष्या दयायाः. मूलं त्वां नरेश्वरं ज्ञात्वा ते मूरयस्त्वयि कल्याणकाक्षिणो मङ्गलेच्छवः, सन्ति यथा शाहेः सर्वदा कल्याणं स्यात् तथैव स्पृहयन्तीति भावः ॥ १२९ ॥ तथा तेषां तपोध्यानाऽध्ययनप्रमुखा क्रिया । समस्ता स्वस्तिमत्यस्ति घनसिक्तेव वल्लरी ॥ १३० ॥
तथा पुनः, तेपां हीरमूरीणां, तपो द्वादशधाऽनशनादि, ध्यानं स्वाध्यायमूरिमन्त्रादिगणनरूपं, अध्ययनं पठनपाठनादि, तत्प्रमुखा, क्रिया दिवानक्तं कर्तव्यरूपा सामाचारी, समस्ता स्वस्तिमती सकल्याणा, अस्तीति; यथा धनेन मेघेन, सिक्ता, वल्लरी सकल्याणा स्यादिति ॥ १३०॥
इति सूरिसभाचन्द्रवचनैरमृतैरिव । निपीतैरवनीजानिचकोरः प्रमना अभूत् ॥ १३१ ॥
Page #479
--------------------------------------------------------------------------
________________
४५४ विजयप्रशस्त्याम् ।
इत्युक्तरूपैः, सरीणां सभा तस्यां द्योतकत्वाचन्द्र इव चन्द्रस्तस्य वचनैः, उत्प्रेक्ष्यते-अमृतैरिव चन्द्रस्यामृतमयत्वात् , निपीतैः; अवनीजानिर्नृपः स एव चकोरः, प्रमनाः प्रमुदितोऽभूदित्यर्थः ॥ १३१॥
अहो ! मनीषैषाऽमीषामहो! वचनचातुरी। . चिन्तयन्निति चित्तान्तः पार्थिवः पुनरभ्यधात्॥१३२॥
प्रमोदप्राप्तेरेवेति चित्तान्तश्चिन्तयन् पार्थिवः पुनरभ्यधाव प्रोवाचति । किमिति ?, अहो ! अमीषां ज्ञानजुषां मनीषा, अहो ! चतुराणां वचनचातुरीति ॥ १३२॥
किमभ्यधादित्याहतेषामष्टावधानानां दिदृक्षाऽस्ति सभासदाम् । लतेव पयसां सेकात् सद्यः साऽस्तु फलेग्रहिः॥१३३॥
तेषां पूर्वदृष्टानां, अष्टसंख्यानां अवधानानां, सभासदां स- . भ्यजनानां, दिक्षा दर्शनेच्छा, अस्तीति; हे सूरे ! अध्याहारात्, सा दिदृक्षा, फलेग्रहिः फलवरास्तु, यथा-पयसां सेकात् लता फलवती भवतीति ॥ १३३ ॥ - ततः श्रीनन्दिविजयाभिधोऽथ विबुधोत्तमः ।
पूर्ववत् साधयामासाऽष्टाऽवधानानि सत्वरम् ॥१३४॥ - ततः शाहेर्वचनादनु, श्रीगुरुशिष्यः श्रीनन्दिविजयाख्यो विबुधोत्तमो विद्वद्वरः, पूर्ववत् पूर्वरीत्या, अष्टावधानानि साधयामास साधितवान् , सत्वरमिति शीघ्रं, पण्डितप्रयोज्येषु प्रयोजनेषु पण्डिता न विलम्बन्त इति ॥ १३४ ॥ । तत्कलारञ्जितो राजा समक्षं समपर्षदः। ‘बिरुदं खुशफेमेति ददावस्मै मनीषिणे ॥ १३५ ।।
Page #480
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४५५ तस्य श्रीगुरुविनेयस्य कलयाष्टासु स्थानेषु सावधानताकलितया दृष्टया सत्या, राजाऽकब्बरशाहिः, रञ्जितः सन् , समपर्पदः सकलसभायाः समक्षं, अस्मै मनीपिणे विबुधाय, खुशफेमेति विरुदं, ददौ दत्तवानिति ॥ १३५ ॥
रञ्जितराजेन्द्रलक्षणान्यथो दर्शयतिअथ शाहिप्रदत्तोद्यद्वाद्यवादनपूर्वकम् । सश्रीकैः श्रावकैः क्लप्तमहोत्सवपुरस्सरम् ॥ १३६ ॥ उपाश्रयमलञ्चके श्रीअनूचानचक्रभृत् । वैजयन्तमिव स्वर्गिस्वामी जयसुखाश्रयम् ॥ १३७ ॥ ___ शाहिना प्रदत्तानि यानि उद्यद्वाद्यानि स्फुरनिःखानादीनि तद्वादनपूर्वकं, तथा सश्रीकैः समृद्धिसंपन्नः, श्राद्धः क्लुप्तो रचितो यो महानुत्सवस्तत्पुरस्सरं यदा श्रीशाहिः सबहुमानं स्ववाद्यादि प्रदत्ते तदा शुभंभावुकाः श्रावकाः सुतरां महोत्सवादि रचयन्ति, यतः पूज्यः सर्वत्र पूज्यत इति ॥ १३६ ॥ अथ शाहिसन्मानप्राप्त्यनन्तरं, श्रीअनूचानेपु चक्रभृत् , उपाश्रयं पौषधागारम्, अलश्चक्रेऽलङ्कृतवानिति, कः कमिवेत्याहस्वर्गिस्वामी शक्र इव, वैजयन्तं निजनिवासमासादमिव, किं०, जयसुखयोराश्रयं, पक्षे जय इन्द्रसुतस्तस्य सुखाश्रयं सुखस्थानमिति ॥ इति युग्मव्याख्या ॥ १३७ ॥
रूप्यरूपैः प्रकुर्वाणः सुप्रसिद्धां प्रभावनाम् । . श्रीसंघस्तदिनात् तत्र चक्रेऽथाप्टालिकोत्सवम् ॥१३८॥
अथेति श्रीगुरूणामुपाश्रयागमनादनु, श्रीसंबस्तदिनादारभ्य, अष्टानिकोस अष्टदिनान यावदुत्सवं, चक्रे । कथमिति ?, रूप्यरूपै रजतनाणकः, सुप्रसिद्धां सर्वलोकगम्या, प्रभावनां प्रकुर्वाण इति ॥ १३८ ॥
Page #481
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
अष्टकोत्सवो भूयान् यदाऽभूत् तत्र चित्रकृत् । एकच्छत्रमिवाऽज्ञादि राज्यं जैनं जनैस्तदा ॥१३९॥
४५६
तदा सकलसंघकृताष्टाद्विकोत्सवसमये, जनैरन्यतीर्थीयैः, जैन राज्यमेकच्छत्रमिवाऽज्ञायि ज्ञातमिति, शेषं सुवोधम् ॥ १३९ ॥ सर्वतः कमलोल्लासकारिणं कान्तिहारिणम् । प्रकाशमिव धर्माशोर्महिमानमिमं गुरोः ॥ १४० ॥ संवीक्ष्याऽसहमानेन केनचिद् दुर्द्विजन्मना । प्रत्यादि पुरः पृथ्वीपतेरिति महामतेः ॥ १४१ ॥
युगपद् द्वयोर्व्याख्या - इमं यथावर्णितं, गुरोर्महिमानं संवीक्ष्य दृष्ट्रा असहमानेन केनचिद् दुर्द्विजन्मना दुष्टब्राह्मणेन, पृथ्वीपतेः शाहेः, पुर इति, इत्यग्रे प्रोच्यमानं, प्रत्यपादि प्रोक्तमिति, महिमानं किं०, सर्वतः सामस्त्येन, कमलाया उल्लासस्तत्कारिणं, पुनः किं, कान्त्या शोभया हारिणं मनोहरं, धर्मोशोः प्रकाशमिव यथा धर्माशोः सूर्यस्य प्रकाशमसहमानेन केनचिद् दुष्टेन द्विजन्मना कौशिकेनेति, प्रकाश किं०, कमलानां पङ्कजानामुल्लासकारिणं कान्तिद्युतिस्तया हारिणमिति श्लेषः ॥ इति युग्मव्याख्या ॥ १४० ॥ १४१ ॥
निरञ्जनं निराकारं निर्विकारं निरंहसम् ।
निराधारं निराबाधं नीरागं निष्परिग्रहम् ॥ १४२ ॥ पुनः
पापपुञ्जस्य हर्तारं कर्तारं च सुखश्रियः । नाऽनभिज्ञा अमी जैना मन्यन्ते परमेश्वरम् ॥१४३॥ इयमपि युग्मव्याख्या- दुष्टः किमाचष्टेत्याह हे शाहे ! अमी
Page #482
--------------------------------------------------------------------------
________________
द्वादशः सर्गः ।
४५७
जैना अनभिड़ा मूढाः, परमेश्वरं न मन्यन्त इत्यन्वयः । परमेश्वरं किंविशिष्टमित्याह-निर्गतं अञ्जनं लेपनं प्रसङ्गात् कर्मणां यस्मात् तं निरञ्जनं, पुनः किं०, निराकारं आकारो हस्तपादायवयवरचनारूपस्तेन रहितं पुनः किं०, निर्विकारं विकारो दुष्पमानसिकादिस्तद्रिक्तं, पुनः किं०, निरंहसं निष्पापं पुनः किं०, निराधारं आधारः परकायाश्रयस्तेन रहितं पुनः किं०, निराबाधं आबाधा रागद्वेष कषायरूपा, अथवा शरीरमानसपीडा तया रहितं, पुनः किं०, नीरागं यत एव निराबाधं तत एव नीरागं, पुनः किं०, निष्परिग्रहं परिग्रहो बाह्याऽऽन्तरभतिबन्धस्तद्रहितं, अत एव पापपुञ्जस्य हर्तारं च पुनः सुखश्रियः कर्तारं ईदृशं जगत्कर्तारं न जैना मन्यन्त इति ।। इति युग्मव्याख्यानम् ॥ ।। १४२ ।। १४३ ॥
परमेश्वरं न मन्यन्त एतावता किमित्याह - जगन्मूलं न मन्यन्ते ये मूढाः परमेश्वरम् । तेषां पन्थाः वृथाऽङ्केन विना बिन्दुरिव धुवम् ॥ १४४॥
ये मूढा अज्ञानिनो जगन्मूलं जगज्जनकं, परमेश्वरं जगदीश्वरं, न मन्यन्तेः तेषां पन्थाः पुण्याचरणरूपो मार्गः, वृथा किञ्चित्कर इति, यतो जगदीश्वरसत्ताव्यतिरेकेण ते यत्किञ्चित् सुकृताचरणं कुर्वन्ति, तत् तेषां निष्फलमेव, यथा अङ्केन विना बिन्दुर्नाऽभीष्ट संख्यापूरकः स्यादिति दृष्टान्तः ॥ १४४ ॥
तेन शाहिसभाभानो ! त्वादृशामवनीभुजाम् । नैतेषां दर्शनं श्रेयः स्त्रीणामृतुभृतामिव ॥ १४५ ॥
हे शाहिसभाभानो ! तेन प्राक्प्रणीतेन हेतुना, त्वादृशां अवनीभुजां भवादृशां राज्ञां, न एतेषां जैनानां, दर्शनं श्रेयः प्र
५९
Page #483
--------------------------------------------------------------------------
________________
४५०
विनयप्रशस्त्याम् । शरसं, यथा ऋतुशृतां स्त्रीणां, दर्शनमश्लाघीयत्तथा तवाऽप्यमीपां दर्शनमनहमिति भावः ॥ १४५ ॥
अज्वलद् भूपकोपाग्निरिति तद्वचनेन्धनैः ।। यत् पार्श्वरूपभाग राज्ञां हृत् स्यादच्छ इव ध्रुवम्॥१४६॥
इति प्रोक्ततद्वचनेन्धनैः भूपस्य शाहेः कोपाग्निः, अज्वलद् 'जज्वालेति । यदिति हेतोः, राज्ञां हृच्चेतः, पार्श्वरूपभाक् पार्श्ववर्ति यद्रूपं तद्भजतीति पार्श्वरूपभाक्, क इवेत्याह-अच्छ इव स्फटिकरत्नभिवेति ॥ १४६ ॥
और्वमग्निमिवाऽम्भोधिभूपोऽन्तः कोपमुद्वहन् । प्रस्तावेऽथ समायातानूचेऽनूचानपुङ्गवान् ॥ १४७ ॥
अथेति प्रस्तावे, भूपः, अन्तः कोपं उद्वहन् समायातान् अनूचानपुङ्गवान् ऊचे प्रोक्तवानिति, यथा अम्भोधिः समुद्रः, और्वमग्निं वडवानलं, प्रच्छन्नं वहति तथा गुप्तक्रोधं वहन् भूपः सूरीन् समये समायातान् प्रोवाचेति ॥ १४७॥ बाह्यक्रियाकलापेन व्यसका विश्वभूस्पृशाम् । अमी नैव महात्मानो मन्यन्ते परमेश्वरम् ॥ १४८ ॥ क्षारादिव सिचस्तैलमालिन्यं मम मानसात् । शङ्का प्रयातु प्रलयं गुरो ! त्वद्वचनादियम् ॥१४९॥
बाह्या लोकप्रत्ययोत्पादिनी न तु मनःशुद्धिविधायिनी या क्रिया तस्याः कलापेन, विश्वभूस्पृशां समस्तप्राणिनां, व्यंसका विप्रतारकाः, अमी महात्मान औज्वलिकाः; नाम्नेव महात्मानः, परमेश्वरं नैव मन्यन्ते ॥ १४८ ॥ हे गुरो ! इयं विटत्योक्ता, शक्षा मम मानसात् त्वद्वचनात् प्रलयं नाशं प्रयातु, यथाक्षारात् क्षारसंपर्कात् , सिचस्तैलमालिन्यं वस्त्रस्य तैलच्छटोत्पन्नं मलिनत्वं, प्रयातीति ॥ इति युग्मव्याख्या ॥ १४९ ॥
Page #484
--------------------------------------------------------------------------
________________
.
दारवाचत्याह-
. द्वादशः सर्गः। ४५९ पयःपूर्णपयोवाहगर्जितं तर्जयन गिरा । जगाद जगतीनाथं मुनिनाथोऽथ धीरधीः ॥१५॥ _ अथ शाहिनेत्युक्ते सति, धीरधीनिश्चलमतिः साहसिकक्ष्मापतिः, मुनिनाथः श्रीविजयसेनमूरिः, जगतीनाथमकबरशाहि, पयःपूर्णपयोवाहगर्जितं सजलजलधरध्वनि, गिरा वाण्या, तर्जयन् जगादाऽब्रवीदिति ॥ १५०॥
किं सरिरुवाचेत्याह. अस्मन्मनःसरोजन्मविकासनविवखतः।। शृणु शाहे ! सावधानः स्वरूपं परमात्मनः ॥१५॥
हे शाहे ! त्वं सावधानः शृणु, अस्मन्मनोरूपस्य सरोजन्मनः कमलस्य विकासने विवस्वतः सूर्यस्य, परमात्मनः परमेश्वर त्य, खरूपं; यादृशः परमात्माऽस्माभिर्मन्यते तादृशं तत्स्वरूपं त्वं शृण्विति ॥ १५१ ॥
अथाऽतः प्रत्येकं क्रियान्वययोगेऽपि अर्थतस्त्रयोविंशत्या कुलकेन परमेश्वरस्वरूपं प्रकटयति यथा- आमोदामृतसहितां न श्रीशान्तो रसाधिपः ।। विजहाति दृशं यस्य हंसः पाथोजिनीमिव ॥१५२॥
यस्य दृशं शान्तो रसाधिपः न विजहाति न त्यजतीत्यन्वयः ।. दृशं किं०, आमोदामृतेन हर्पपीयूपेण सहितां पूरितामिति, कः कामिव, हंसः पाथोजिनी पद्मिनी, न मुश्चति तथेति ॥ १५२॥ प्रसन्नं वदनं यस्य बिम्बमिन्दोरिवाऽनघम् । प्रदत्ते जगतां बहीं संपत्तिं कुमुदामिव ॥ १५३ ॥
यस्य वदनं जगतां वहीं संपत्तिं परमप्रमोदरूपां, प्रदत्ते।
Page #485
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । यतः प्रसन्नं प्रसत्तिमत, यथा इन्दोश्चन्द्रस्य, विम्बं कुमुदा कैरवाणां, प्रोल्लासरूपां संपत्ति दत्ते, उभयमप्यनघं निर्मलमिति ॥ १५३ ॥ चक्रकोदण्डदण्डास्त्रत्रिशूलप्रमुखायुधैः । प्रदेषपिशुनैः पाणी यस्य न स्तः कलङ्कितौ ॥१५४॥ ..तथा यस्य पाणी हस्तौ, चक्रकोदण्डदण्डास्त्रत्रिशूलैः प्रतीतैरित्याद्यायुधैः प्रहरणैः, किं०, प्रद्वेषस्य पिशुनैः सूचकैः, कलकितौ न स्तो न भवतः, यत्करौ उपसूचकोपकरणैरसंपृ. काविति ॥ १५४ ॥ हावैर्भावैर्विभावैश्च स्मरस्मरणकारणम् । भवन्ति किल यस्याङ्के नाऽलङ्काराय सुध्रुवः ॥१५५।।
द्वेपचिह्नोपकरणराहित्यं प्रदर्य रागागराहित्यं प्रदशर्यतियस्याङ्के सुभ्रुवो नालङ्काराय भवन्ति, सुचवः स्त्रियः,किं०, हावो मुखविकारः, "भावश्चित्तसमुद्भवः" इति वचनादाभ्यन्तरो रागोदेकः, विभावो वचःप्रकाश्यहार्दप्रेमरसः, तैः कृत्वा स्मरस्य स्मरणं स्मृतिस्तत्कारणं, कामिन्यो हि हावादिभिः कामं स्मारयन्ति, ता यदके न दृश्यन्त इति ॥ १५५ ॥ वाहनं तुरगच्छागविहङ्गवृषभादिकम् । अलीवाऽगन्धि पुष्पं योऽध्यारत नाऽऽमोदमेदुरः॥१५६॥
यो वाहनं यानं; कि०, तुरगा अश्वाः, छागा मेपाः, विहङ्गा मयूरमरालादयः, तृपभाः प्रतीतास्तदादिकं न अध्यास्ते नारोहति, यथाऽलिरिवालीत्यपि, तेन अली भृङ्ग इवाऽगन्धि गन्धवर्जितं, पुष्पं नाऽध्यारते, कि०, आमोदेन हर्पण मेदुरः पुष्टः, पक्षे, आमोदेन गन्धेन मेदुर इति ॥ १५६ ॥
Page #486
--------------------------------------------------------------------------
________________
द्वादशः सर्गः । ४६१ अपारक्लेशाकूपारनिमज्जननिबन्धनम् । मित्रपुत्रकलत्रादिर्यस्य नास्ति परिग्रहः ॥ १५७ ॥
मित्रपुत्रकलाबादिर्यस्य परिग्रहो नास्तीति, परिग्रहः किं०, अपारः क्लेश एवाऽकूपारः समुद्रस्तत्र यन्मजनं ब्रुडनं तस्य निवन्धनं निदानमिति ॥ १५७ ॥ त्रिकाललिङ्गवचनस्वरूपाखिलवस्तुभृत् । यस्य ज्ञानमहाम्भोधौ त्रिलोकी शफरीयति ॥१५८||
तथा यस्य ज्ञानरूपो महाम्भोधिहार्णवस्तस्मिन् त्रिलोकी त्रिजगती,शफरी मत्सी तद्वदाचरतीति शफरीयति,त्रिलोकी किंव, त्रिकाले अतीतानागतवर्तमानलक्षणे, त्रिलिङ्गे पुंस्त्रीनपुंसकरूपे, त्रिवचने एकद्विवहुत्वरूपे, अथवाऽन्यदर्थपुष्पदर्थाऽस्मदर्थरूपे, स्वरूपेणाऽखिलं वस्तु विभाति त्रिकाललिङ्गवचनस्वरूपाखिलवस्तुभृत्, एतावता त्रिजाद्गताशेपभूतभविष्यद्भाविवस्तुप्रकाशकं, यज्ज्ञानमस्तीति भावार्थः ॥ १५८ ॥ दौर्गत्यमिव मन्दारे शीतिमेव विवस्वति । न कोपः प्रकटाटोपः कर्हिचिद् यत्र दोष्मति।।१५९॥
तथा यत्र दोष्मति समर्थेऽपि, न कोपः प्रकटाटोपः स्फु- ' रद्रूपोऽस्तीति संटङ्कः । यथा मन्दारे कल्पपादपे, दौर्गत्यं दारिद्यं, पुनः, यथा विवस्वति सूर्ये, शीतिमा शैत्यं अत्यन्ताभावेन, तथा यस्मिन् कोपलेशोऽपि नास्तीति ॥ १५९ ॥ पुमर्थसार्थसामर्थ्यवारणं क्लेशकारणम् । प्रभु प्रमीला नाऽभ्येति कामिनी कुपितेव यम् ॥१६॥
तथा यं प्रभुं प्रमीला निद्रा, नाभ्येति नायातीत्यन्वयः । कीदृशी, पुमर्थसार्थस्य पुरुषार्थसार्थस्य सामर्थ्य रामर्थता तद्वारणं,
Page #487
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । पुनः, क्लेशस्य कारणं निद्वाऽपि प्रमादान्तःपातित्वेन क्लेशस्यैव मूलं, यथा-कुपिता कामिनी कान्ता, कान्तं नाभ्येतीति दृष्टान्तः ॥१६०॥ · प्रद्योतनः सदुद्द्योतः खद्योत इव राजते। यज्ज्ञानपरभागस्य पुरस्तादतिशायिनः॥ १६१ ॥ .
तथा यज्ज्ञानपरभागस्य यदीयज्ञानगुणोत्कर्षस्य, पुरस्तात् प्रद्योतनः सूर्यः, खद्योत इव राजते, यतोऽतिशायिनः सर्वोस्कृष्टस्येति ॥ १६१ ॥
अस्तोकलोकेष्वालोककरीणां यद्रािं पुरः । - राजते राजताऽऽदर्श इवेन्दुरतिसुन्दरः ॥ १६२ ॥
यगिरां यद्वाचां, पुरः पुरस्तात् , राजतादर्श इव रूप्यमयदर्पण इव, इन्दुश्चन्द्रोऽतिसुन्दरोऽपि राजते, राजतदर्पणस्य हि न तादृक् प्रकाशकत्वम् , तस्माद् यद्वाण्याः पुरश्चन्द्रस्तादृश एव प्रतिभासते, यतो यद्रािं कि०, अस्तोकेषु समस्तेषु लोकेषु आलोककरीणां प्रकाशकारिणीनामिति ॥ १६२ ॥ वेश्मश्यामाव्योमरत्नरोचिषांश्रीविजित्वरः। यज्ज्ञानातिशयो नित्यः संहरन्नान्तरं तमः ।। १६३ ॥ — यज्ज्ञानातिशयः, कि०, वेश्मनः श्यामायाः व्योनो रत्नं वेश्मरत्नं दीपः, श्यामारनं चन्द्रमाः, व्योमरत्नं मूर्यः, एपां रोचिषां प्रभाणां श्रियः शोभाया विजित्वरो जेता वर्तत इत्यन्वयः । यतो ज्ञानातिशयो नित्यः, अविनाशी, पुनः, आन्तरं मानसिकं, तमः संहरन् , वेश्मरत्नादितेजांसि तु विनश्वराणि वाह्य किश्चिद्: मात्रतमोविनाशकानीति तद्विजेता यस्य ज्ञानातिशय इति॥१६३।।
ईदृग्ज्ञानोत्कर्पवतोऽतिशयमाह. भवद् भविष्यद् भूतं च सर्व वस्तु सविस्तरम् ।
Page #488
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४६३ यस्य हस्ततलन्यस्तमुक्तेवाऽस्ति धियोऽध्वनि ॥१६॥
भवद् वर्तमानं, भविष्यदनागतं, भूतगतीतमिति त्रिकाल. वर्ति, सर्व सविस्तरं वस्तु यस्य हस्ततलन्यस्तमुक्तेव करतलकतमुक्ताफलवत्, अस्ति; धियोऽध्वनि ज्ञानमार्गे ॥ १६४ ॥
अस्ति प्रमाणविज्ञेयः कालेषु त्रिपु यो गुणी । आकाश इव निर्मूर्तिरग्राह्यश्चर्मचक्षुषाम् ॥ १६५ ॥
अथ परमेश्वरस्याऽद्भुतातिशयत्वं प्रदर्शयति-यो गुणी त्रिषु कालेषु अतीतानागतवर्तमानकालेपु, प्रमाणविज्ञेयोऽनुमानादिप्रमाणपरिज्ञेयः, अस्तीत्यन्वयः, अत्रानुमानादिना सर्वज्ञसाधनं श्रीस्याद्वादरत्नाकरादेरवधार्यम् , यः किं०, आकाश इव निर्मूर्तिः रूपरसगन्धस्पर्शात्मकमूर्तिरहितः, अत एव चर्मचक्षुषां वाह्यदृशाभग्राह्योऽस्तीति भावः ॥ १६५ ॥
अथाऽमूर्तत्वं व्योमवद् निरूप्य तद्वदेवाऽनन्तत्वं निरूपयतिजराधिविविधव्याधिक्लेशावेशादिकारणम् । य आकाश इवादत्ते जन्माऽनन्तो न जातुचित्॥१६६॥
योऽनन्तः प्रान्तरहितः, न जन्म आदत्तेऽपुनर्भवो भवतीत्यर्थः, जन्म किं० जरा च आधिश्च विविधो व्याधिश्च तैः कृत्वा यः क्लेशावेशादिस्तस्य कारणमिति ॥ १६६ ॥ न स्पृश्यो रजसाऽऽदर्शप्रतिबिम्ब इवास्ति यः। न च भेद्यो न च च्छेद्यो योऽस्ति भानोरिवाऽऽतपः॥१६७॥
तथा यत एवाऽमूर्तोऽनन्तस्तत एव यो रजसा पापेन, पांसुना वा, न स्पृश्योऽस्पर्श इत्यर्थः, आदर्श प्रतिविम्ब इव दर्पणसंक्रान्तप्रतिरूपमिव, रजसापि स्पष्टुं न शक्यते, तत एव
Page #489
--------------------------------------------------------------------------
________________
४६४ विजयप्रशस्त्याम् । यो भानोरातप इव, न भेद्यो न च च्छेद्यो भेत्तुं छेत्तुं चाऽशक्योद्विधाकर्तुमनई इति यावत् ॥ १६७ ॥
यः सदा विद्यमानोऽपि मलक्लेदनिदानया। स्पृश्यते नाऽऽपदा काल इवाऽत्यप्रतिरूपया ॥१६८॥
तथा यः सदा सर्वकालं, विद्यमानोऽपि काल इवाति अप्रतिरूपया आपदा न स्पृश्यते, तथा च कालवत् सर्वदा अक्षीण इति, आपदा किं०, मलक्लेदस्य पापश्रमस्य निदानया हेतुभूतयेति ॥ १६८ ॥ स्त्रैणे तृणे मणौ रेणौ मित्रे शत्रौ पुरे पथि । राज्ञि रङ्के सुखे दुःखे यः समानमनाः सना ॥१६९॥
तथा यः समानमना अस्तीत्यन्वयः । कुत्र कुत्रेत्याह-वैणे स्त्रीणां समूहे, तृणे प्रतीते, मणो रत्ने, रेणी धूल्यां, मित्रे तथा शत्रौ, तथा पुरे पथि वर्मनि, राज्ञि नृपे, रके प्रतीते, सुखे तथा दुःखे इत्यादिषु, सर्वदा समपरिणाम इति ॥ १६९ ॥ .
शब्दरूपरसस्पर्शगन्धाः पञ्च न सन्ति च । यत्रोन्मादादयः पाञ्चबाणा बाणा इवात्मनि ॥१७॥
यत्र यस्मिन, शब्दरूपरसस्पर्शगन्धाः पश्चाऽपि विषया न सन्ति, चकारः पुनरर्थे, तथा यत्रात्मनि आत्मरूपे,पाश्चबाणाःकान्दर्पाः, बाणा इव, उन्मादादयः पश्चापि प्रमादा न सन्तीति॥१७०॥
यत्रेषदपि नातङ्कः सर्वदा समवर्तिनः । वर्तत वासराधीश इव ध्वान्तोदयः क्वचित् ॥१७॥ तथा यत्र ईषदपि स्तोकोऽपि, समवर्तिनो यमस्य, आतङ्को न वर्तते यथा वासराधीशे रवी, ध्वान्तोदय इति दृष्टान्तः॥१७१॥
Page #490
--------------------------------------------------------------------------
________________
दादशः सर्गः। विनविद्वेषमिथ्यावहास्यरत्यरतिस्मरैः । निद्रानिन्दाशुगज्ञानरागासंयमसाध्वसैः ॥ १७२ ॥ भूयो निन्द्यतमाचारैः सर्वदा खलविभ्रमैः । न सेव्यते यः सारङ्गैरिव दग्धवनाश्रयः ॥ १७३ ॥
विनाः पश्चान्तरायास्तदादिभिरष्टादशभिरेकश्लोकनिरूपितैरमीभिर्दोपैरिति, शेष स्पष्टम् ।। १७२ ॥ सारङ्गमगैः, दग्धवनाश्रय इव, यो भगवान् न सेव्यते इति, अपरं सुगमम् ॥ इति युग्मव्याख्यानम् ॥ १७३ ॥
तमव्ययं चिदात्मानमचिन्त्यात्मानमीश्वरम् । मन्यामहेऽनघं नित्यमीदृशं परमेश्वरम् ॥ १७४ ।।
इत्यादिवर्णितस्वरूपं तं परमेश्वरं मन्यामहे वयमिति, ते कि०, अव्ययं नित्यं, चिदात्मानं ज्ञानस्वरूपं, तथाचिन्त्यात्मानं अचिन्त्यस्वरूपं, ईश्वरं स्वामिनं, तथा, अनघं निष्पापं,एवंविध परमात्मानं वयं मन्यामह, हे राजन् !। इति स्वरूपार्थतस्त्रयोविंशत्या श्लोकैर्जगदीश्वरस्वरूपं प्रकाशितम् ॥ १७४॥ __अथ किश्चिपिशुनवचःप्रपञ्चप्रचारप्रतिवन्धकयुक्त्या गुरुभांपतेकिञ्च शाहिशिरोरत्न ! सकर्णाऽऽकर्णयाऽधुना । कुजन्मानो द्विजन्मानो यद् वदन्त्यसमञ्जसम्॥१७॥
हे शाहिशिरोरन ! हे सकर्ण! निपुण!, अधुना संपति, आकर्णय शृणु, किमाकर्णयेत्याह-यत् कुजन्मानः कुत्सितावताराः, द्विजन्मानो विप्राः, असमञ्जसं वदन्ति अस्मान् प्रतीति योज्यम् ॥ १७५ ॥
Page #491
--------------------------------------------------------------------------
________________
४६६
विजयप्रशस्त्याम् ।
किमसमञ्जसमित्याहपरमात्मनोऽङ्गीकारो नैतेषामस्ति दर्शने । तुङ्गानामपि शैलानां मौलौ न स्थितिरम्भसः ॥ १७६॥
एतेषां जैनानां, दर्शने परमात्मनः परमेश्वरस्य, अङ्गीकारः स्वीकारः, नास्तीत्यन्वयः । यथा शैलानां गिरीणां तुङ्गानामुश्वानामपि, मौलौ न अम्भसः पानीयस्य स्थितिस्तथा महतामपि जैनानां दर्शने न जगदीश्वराऽभ्युपगम इति ॥ १७६ ॥ बिभर्ति तदजाकण्ठकुचकेलिमुदीरितम् । अमीभिरपि यत् प्रोक्तः प्रेयान् नः परमेश्वरः ॥ १७७॥
,
तद् वाडवोदीरितं वचः, अजाकण्टकुचस्य केलिः क्रीडा तां विभर्तीति गलस्तन स्तनप्रायमकिञ्चित्करमित्यर्थः यद यतोहेतोः, अपेर्निश्चयार्थत्वात्, अमीभिरेव नोऽस्माकं प्रेयानभीष्टः परमेश्वरः प्रोक्तोऽस्तीति कृत्वा सूत्रकण्ठोत्तमुल्लुण्ठप्रलपितमित्र व्यर्थमेवेति ।। १७७ ।।
तदीयग्रन्थसंमत्या तदेवोपदर्शयति
थं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्मेति मीमांसकाः । अर्हन्नित्यथ जैनशासनरताः कर्तेति नैयायिकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः। १७८ ।
हनूमन्नाटकगतस्याऽप्यस्य वृत्तस्यावसराऽऽयातत्वेन किचिद् व्याख्यानं यथा- पं कमप्यचिन्त्यात्मानं परमात्मानं, शैवा नैयायिकजातीयाः, शिव शिवेति कृत्वा समुपासते सेवन्ते, तथा वेदान्तो ब्रह्माद्वैतवादिनः ब्रह्मेति कृत्वा ; तथा बौद्धाः प्रमाणे तर्के पटवो बुद्ध बुद्धेति कृत्वा; तथा मीमांसकाः कर्मेति कर्मरूप
"
Page #492
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४६७ मिति कृत्वा; अथ जैनशासनरता जैनाः अर्हनहन् इति कृत्वा तथा नैयायिकाः कर्ता कर्तेति कृत्वा सोऽयं भगवान् अनेकैरनेकात्मकतयाध्यातः, त्रैलोक्यनाथो हरिनारायणः, वाञ्छितफलं विदधातु निष्पादयत्विति समासार्थः ।। १५८ ॥
सामान्यतः परमेश्वरस्वरूप प्रकाश्याऽथ विशेपतोऽतिशयादिस्वरूपनिरूपणेन परमेश्वरस्वीकारं समर्थयन्नाहकिञ्चाऽस्माकं महात्मैष द्विधाऽस्ति परमेश्वरः। सम्यगाराधितो ध्यातोऽभ्यर्चितो यो विमुक्तिकृत् ॥१७९॥
हे शाहे ! एप महात्मा योऽस्माकं अर्हन्निति नाम्नाऽभिप्रेतो विरैः प्रोक्तः परमेश्वरः, सोऽस्माकं द्विधा द्विपकारोऽस्तीत्यन्वयः । यः सम्यक् आराधितः क्ष्यातः अभ्यर्चितः विमुक्तिर्मोचनमष्टकर्मबन्धनेभ्यस्तां करोतीति मुक्तिपापक इति ॥ १७९ ॥
द्विधेति पदं प्रस्तावयतितत्राद्यः सोऽस्ति समवसरणे शरणं श्रियाम् । सुरासुरनरश्रेणिसेवितांहिद्वयः स्थितः ॥ १८० ॥ .
तत्र प्रकारद्वये, स आद्यः परमात्मा, समवसरणे स्थितोऽवस्थितिभाक्, अस्ति, किं०, श्रिया ज्ञानादिश्रीणां, शोभानां वा, शरणं धाम विहरमाण इत्यर्थः, अत एव सुरासुरनराणां श्रेण्या. सेवितांहिद्वय इति ॥ १८०॥ यत्कायः फलिनीहेमपद्ममुक्ताञ्जनप्रभः । अक्षालितः शुचिर्दत्ते सर्वेषां मुदमद्भुतः ॥ १८१ ॥
चतुस्त्रिंशदतिशयस्वरूपवर्णनप्रारम्भे प्रथम, यत्कायः, किं०, साधारणवर्णनगत्या फलिनी प्रियङ्गुनामा नीलवर्णस्तरुः, हेमेति स्वर्ण पीतं, पति पद्मरागो रक्तवर्णमणिविशेषः, मुक्तेति उज्ज्व
Page #493
--------------------------------------------------------------------------
________________
४६८
विजयप्रशस्त्याम् ।
लमुक्ताफलानि, तथा अञ्जनं प्रतीतं, तद्वत्पमा यस्य सः, तथा अक्षालितोऽधौतः सन् , शुचिः पवित्रः, अत एवाऽद्भुतः, सर्वेषां द्रष्टणा, मुदं दत्ते प्रमोदमुत्पादयतीत्यर्थः ॥ १८१ ॥ यस्याऽऽस्यश्वासः कर्पूरकस्तूरीकमलादिजित् । सेव्यते भ्रमरैमामरैरिव समीपभूः ॥ १८२ ॥
यस्याऽईतः, आस्यश्वासः कि०, कर्पूरकस्तूरीकमलादिसुगन्धिपदार्थजित् , आदिशब्दाद् बालककुमुदकुन्दविचिकिलपाट- लाप्रमुखपरिमलजेतृत्वेन प्रतीत इति, अत एव भ्रमरैः सेव्यते मामरैर्नरसुरैः, यथा समीपभूः पार्थ, सेव्यत इति दृष्टान्तः।१८२। । यस्य गोदुग्धदुग्धाब्धिफेनवत् पाण्डुरप्रभः । प्रवाह इव गङ्गाया मांसासृक्पटलः शुचिः ॥१८३॥
यस्य मांसाऽसपटलो मांसशोणितपूरः, गङ्गायाः प्रवाहइव शुचिरस्तीति, किं०, गोदुग्धदुग्धाब्धिफेनवत् पाण्डुराधवला प्रभा यस्येति सः, पटलशब्दस्विलिङ्ग इति ॥ १८३ ॥ यस्य नाहारनीहारविधिदृग्गोचरो नृणाम् । लोकोत्तरचरित्रात्मशससेव तिरोहितः ॥ १८४ ॥
तथा यस्य आहारनीहारयोविधिः करणं, नृणां दृग्गोचरो मास्तीति, उत्प्रेक्ष्यते-लोकोत्तरचरित्रस्वरूपवाससा तिरोहितइचाऽऽच्छादित इवेति ॥ १८४ ॥
यस्येति सन्ति चत्वारोऽतिशयाः सहजा अमी। मुखा इव पयोजन्मजन्मनो विस्मयावहाः ॥१८५॥
इत्यनया रीत्या वर्णिताः, चत्वारोऽतिशया अमी, यस्याऽईतः, सहजा जन्मना सह जाताः सन्तीत्यन्वयः । उत्प्रेक्ष्यते
Page #494
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४६९ पयोजन्मजन्मनो ब्रह्मणः, मुखा इव विस्मयावहाश्चमत्कृतिकारिण इति ॥ १८५॥
अथ कर्मक्षयोत्थपातकांशात्यन्ताभावव्यञ्जकानेकादशातिशयान् दर्शयतियोजनोया नरा देवास्तिर्यञ्चश्चापि यज्जुषि । तिष्ठन्ति कोटिशः कामं परस्परमबाधया ॥ १८६ ॥
यज्जुपि योजनप्रमितोव्यां यदाश्रितयोजनमितभुवि, नरा देवास्तिर्यश्चः कोटिशः कोटिसंख्याकाः, तिष्ठन्तीत्यन्वयः। चकारः पुनरर्थे, अपिर्विस्मयार्थे, ये च तिष्ठन्ति ते परस्परमवाधया, काममत्यर्थममिति ॥ १८६ ॥ 'तिर्यञ्चस्त्रिदशा मा यस्य योजनगामिनीम् । . भाषां भाषामिव खां खां विदन्ति विगतभ्रमाः॥१८७॥
यस्य भगवतः, भाषां तिर्यश्चस्तथा त्रिदशा देवास्तथा माः स्वां स्वां भाषामिव विदन्ति ; विगतभ्रमा भ्रमरहिताः, जानन्तीति, भाषां किं०, योजनगामिनी योजनावधिक्षेत्रवि. स्तारिणीमित्यतिशयद्वयी ॥ १८७ ॥ भामण्डलं च यन्मौलिपृष्ठे तिष्ठत्यतिस्फुरत् ।। हीणः प्रतापतः स्तोम इवैषोऽतुहिनत्विषाम् ॥१८॥
चकारस्तुतिशयख्यापनार्थः, यन्मौलिपृष्ठे यस्य शिरःप्रदेशपृष्ठे, भामण्डलं ज्योतिःसमूहः, तिष्ठति; किंभूतं, अतिस्फुरद् देदीप्यमानं, इवेत्युत्प्रेक्ष्यते-प्रेतापतो हीणो लज्जितः, एषः, अतुहिनत्विषां सूर्याणां, स्तोमः पृष्ठे तिष्ठतीति ॥ १८८ ॥ रोगवृष्ट्यतिवृष्टीतिवैरदुर्भिक्षमारयः । साग्रगम्यूतिद्विशत्यां भीश्वात्मपरचक्रयोः ॥ १८९ ॥
Page #495
--------------------------------------------------------------------------
________________
४७०
विजयप्रशस्त्याम् ।
न भवन्ति सदा यस्य महिम्नाऽमी उपद्रवाः । कर्मघातभवा एकादशैतेऽतिशयाः प्रभोः ॥ १९० ॥
यदाश्रितभूमेः सार्धशतद्वयगव्यूतिप्रमिते क्षेत्रे भगवत्मभावेण रोगाचा वृष्टिवातिवृष्टिश्वेतिथ वैरं च दुर्भिक्षं च मारिश्रेत्यादयः, तथा खपरचक्रयोर्भीर्भयं चेति ॥ १८९ ॥ यस्य महिना यथोक्ता अमी उपद्रवा न भवन्ति, लोकानामिति गम्यं इत्येकादशाऽतिशयाः प्रभोः कर्मघातभवाः केवलज्ञानोत्पत्तिप्रभावसूचकाः ॥ इति युग्मव्याख्या ॥ १९० ॥
अथार्हतः सुरकृतातिशयानुपदिशन् गुरुः परमात्मनो गौरवं निर्दिशति
आतपत्रत्रयं मूर्ध्नि परितो वरणत्रयम् ।
यस्य चिह्नं जगत्रय्यैश्वर्यपालनयोरिव ॥ १९९ ॥
"
9
यस्य परमेश्वरस्य मूर्ध्नि आतपत्रत्रयं छत्रत्रयं तथा परितो वरणत्र पं वपत्रयं भातीत्यध्याहारः, उत्प्रेक्ष्यते जगत्त्रय्याऐश्वर्य पालनं चेत्युभयचिह्नमभिज्ञानमित्र, अयं प्रभुरैश्वर्यत्रयीसद्भावाज्जगत्त्रयीश्वरः, पुनर्वमत्रयीसद्भावाच्च जगत्त्रयीपालकश्वास्तीति ॥। १९१ ॥
चक्रं रुग्दीप्रदिक्चकं महांवेन्द्रध्वजः पुरः । यस्य राज्ययशोलक्ष्मीपुण्ड्रयैवेयके इव ॥ ९९२ ॥
यस्य पुरक्रमिति धर्मचक्र; किं०, रुग्भिः प्रभाभि दिक्चक्रं यस्मात् तत्, चः पुनरर्थे, महानुचैस्तर इन्द्रध्वजश्चलतीत्यन्वयः । उत्प्रेक्ष्यते - राज्यलक्ष्म्या धर्मराज्यलक्ष्म्याः यशोलक्ष्म्याश्च पुण्यैवेयके भालभूषणकण्ठभूषणे इव पुण्ड्रस्थानीयं चक्रं वृत्तत्वात्, ग्रैवेयकाकारवेन्द्रध्वज इति ॥। १९२ ॥
Page #496
--------------------------------------------------------------------------
________________
द्वादशः सर्गः। नवानि नव यस्यांहिन्यासे पद्मानि भान्त्यलम् । स्वामिन्नादत्व नो वक्तुमित्यागुः किं कुनाभयः॥१९३॥
यस्यांहिन्यासे पदस्थापने, नवानि नवसंख्याकानि च, पमानि भान्ति शोभन्ते, किमित्युत्प्रेक्षायाम् , उत्प्रेक्ष्यते-कुनाभयो नवाऽपि निधयः, इति वक्तुं आगुः आगताः, इति किं०, हे स्वामिन् ! नोऽस्मान् आदत्स्व त्वं गृहाणेति ॥ १९३ ॥ घनच्छायः स्फुरत्पत्रश्चैत्यद्रुर्यस्य भासते । प्रभुप्रीत्यै समायातो नन्दनस्येव नन्दनः ॥ १९४ ॥
शिरसि इत्यध्याहार्य, यस्य शिरसि चैत्यगुरशोकवृक्षः, भासते इति, कीदृशः, घना निचिता च्छाया यस्य सः, पुनः, स्फुरन्ति पत्राणि यस्य सः, उत्प्रेक्ष्यते-प्रभुप्रीत्यै नन्दनाख्यस्य वनस्य, नन्दनः पुत्रः, समायातः प्राप्त इति ॥ १९४ ॥
यः सिंहासनमध्यास्ते स्वर्णरत्नविनिर्मितम् । चण्डांशोमण्डलमिव काञ्चनाचलचूलिकाम् ॥१९५॥
यः प्रभुः, सिंहासनं स्वर्णरत्नाभ्यां विनिर्मितं रचितं, अध्यास्तेऽधितिष्ठति, यथा-चण्डांशोः सूर्यस्य, मण्डलं काञ्चनाचलस्य मेरोश्चूलिकां अध्यास्ते इति दृष्टान्तालतिः ॥ १९५॥
भवन्त्यधोमुखा यस्य कण्टकाः पथि गच्छतः । विद्यया दलितोन्मादा वादिबाता इवाऽधिकम्॥१९६॥
यस्य पथि मार्गे, गच्छतः कण्टका अधोमुखा नीचैःकृतानना भवन्ति, उत्प्रेक्ष्यते-विद्यया ज्ञानातिशयेन, दलितः खण्डित उन्मादो येफ ते, एवंविधा वादिबाताः परवादिसमूहा इव, ये हि दलितदीस्तेऽधोमुखा एव भवन्तीत्युत्प्रेक्षा,
Page #497
--------------------------------------------------------------------------
________________
४७२
विजयप्रशस्त्याम् ।
अथवा, इव यथा, विद्यया दलितोन्मादा वादिनोऽधोवदना भवन्तीति दृष्टान्तालङ्कारोऽपि ॥ १९६ ॥
भातो यस्येन्दुरुचिरे चामरे पार्श्वयोर्द्वयोः । आस्याऽम्भोरुहसेवायै राजहंसाविवागतौ ॥ १९७ ॥
यस्य द्वयोः पार्श्वयोरिन्दुरुचिरे चामरे भात इति, उत्प्रेक्ष्यते - आस्यं मुखमेवाम्भोरुहं कमलं तत्सेवायै राजहंसावागताविव, औज्ज्वल्येन राजहंसोपमानं, तथा हंसानां कमल सेवापि संगतैवेति ॥ १९७ ॥ धर्मोपदेशप्रस्तावे भवेद् यश्रुतुराननः । चतुर्गतिपुरद्वारो द्राक् पिधातुमिवोत्सुकः ॥ १९८ ॥
यः प्रभुः, धर्मोपदेशप्रस्तावे चतुराननश्चतुर्मुखः, भवेत्; उत्प्रेक्ष्यते चतुर्गतिरेव पुरं तस्य द्वारो द्वाराणि मुखानि द्राक शीघ्रं पिधातुं लोकानां गतिचतुष्टयीमाच्छादयितुमुत्सुक इव, यो हि भगवद्धर्मोपदेशं शृणोति स प्रायश्चतुर्गतिद्वाराणि पिधत्ते ।। १९८ ।।
सचेतनाः सन्तु दूरे यं नमस्यन्त्यसंज्ञिनः । डुमा अप्यनुभावेन महता नामिता इव ॥ १९९ ॥
सह चेतनया वर्तन्ते ये ते सचेतनाः, ते दूरे सन्तु ते तु भगवन्तं नमन्त्येव, परमसंज्ञिनो द्रुमा अपि ये अचेतनास्तर - वस्तेऽपि यं नमस्यन्ति, उत्प्रेक्ष्यते - महताऽनुभावेन भगवदतिशयेन, नामिता नम्रीकृता इति ।। १९९ ।।
यस्याग्रतो नदत्युच्चैर्दिवि दैवतदुन्दुभिः । विश्वविश्वाधिपत्यस्य प्रथिमानं वदन्निव ॥ २०० ॥ यस्याऽग्रतः पुरतः, दैवतदुन्दुभिर्देवदुन्दुभिः दिवि नभसि
Page #498
--------------------------------------------------------------------------
________________
द्वादशः सर्गः ।
४७३ नदति शब्दायते, उत्प्रेक्ष्यते विश्वस्य समस्तस्य विश्वस्य जगतो यदाधिपत्यं प्रभुत्वं तस्य, प्रथियानं विस्तारं वदन् कथयन्निवेति, अयं प्रभुः समग्रगदाधिपत्यभोक्ताऽस्तीत्युत्प्रेक्षालङ्कारः ॥ २०० ॥ देवा मनुष्यास्तिर्यञ्चः सन्तु दूरे सचेतनाः । यस्यानुकूल्यं कुरुते स्पर्शग्राह्योऽपि मारुतः || २०१॥ देवा इति पूर्वार्ध सुवोधं यस्य भगवतः स्पर्शग्राह्यः स्पर्शानुमेयः, मारुतोऽपि वायुरपि, आनुकूल्यमनुकूलचारित्वं कुरुते |२०११ जानुदुघ्नी प्रसूनानां नानावर्णविराजिनाम् । अधोवृन्तात्मनां वृष्टिर्यत्स्थाने जायतेऽभितः ॥ २०२॥
स्थाने यदाssed स्थाने समवसरणे, नानावर्णरिराजिनां दशार्धवर्णशोभिना, नानां पुष्पाणां दृष्टिर्जायतेऽभितः, सर्वतः वृष्टिः किं०, जानुदघ्नी जानुप्रमाणेति ॥ २०२ ॥
,
सत्सौरभ्यैरपां पूरैः पतद्भिः परितः प्रभोः । प्रशमं रजसां स्तोमो नीयते वचनैरिव ॥ २०३ ॥
प्रभोः परितः पतद्भिरपां जलानां, पूरैः किं०, सद् विद्यमानं वासावा सौरभ्यं सुरभित्वं येषु तैः, रजसां स्तोमः समूहः, प्रशमं नीयते उपशाम्यत इति, इवेति दृष्टान्ते यथा प्रभोर्वचनैरजसां पापानां स्तोमः प्रशमं नीयते ॥ २०३ ॥
महतीं महिमां यस्य वयं वक्तुं न हि क्षमाः । यद् व्रजन्त्यनिशं यस्य पक्षिणोऽपि प्रदक्षिणम् ॥२०४॥ यस्य महिमां कीदृशीं महतीं वक्तुं न हि वयं क्षमाः, यदिति यतो हेतोः, पक्षिणोऽपि विवेकविकलाः, प्रदक्षिणं यस्य त्रजन्ति भगवन्माहात्म्यवोधिता इवानुकूल्येन संचरन्तीत्यर्थः॥ २०४ ॥
,
६१
Page #499
--------------------------------------------------------------------------
________________
विपशस्त्याम् । नखानां श्मश्रुणो रोम्णां केशानां च जगत्प्रभोः। न वृद्धिर्जायते यस्य सततं पाप्मनामिव ॥ २०५ ॥
यस्य जगत्प्रभोः, नखानां श्मश्रुणः कूर्चस्य, रोम्णां तनुरुहाणां, च पुनः, केशानां शिरोजाना, द्धिर्न जायते, एते न वर्धन्तै, यथा देहशोभा भवति तथैव तेवतिष्ठन्ते, यथा पाप्मनां पापानां, वृद्धिर्न जायते तथेति दृष्टान्तः ॥ २०५॥
कोटिस्तिष्ठति सोत्कण्ठा निर्जराणां जघन्यतः। यस्याऽभ्यणे सुधारश्मे नां राशिरिवाऽनिशम् ॥२०६॥
तथा यस्याभ्यणे समीपे, निर्जराणां देवानां, कोटिस्तिष्ठति कथं, जघन्यतो यदैवं विज्ञायते- सांप्रतं भगवतो विजनं पार्थमस्ति, तदापि समीपे चतुर्निकायवर्तिदेवानां एका कोटिर्भवत्येव, इवेत्युपनये, यथा सुधारश्मेश्चन्द्रस्य सन्निधौ, भानां नक्षत्राणां, राशिरनिशं नित्यं, तिष्ठति उडुपतित्वादिति भावार्थः ॥२०६॥ इन्द्रियार्थाश्च पञ्चापि ऋतवः षडपि प्रभोः । यस्याऽऽनुकूल्यं कुर्वन्ति स्वामिनः सेवका इव ॥२०७॥
तथा यस्य प्रभोरिन्द्रियार्थाः पश्चापि पञ्चसंख्याका अपि इन्द्रियार्था इन्द्रियविषयाः, चकारः पुनरर्थे, षडपि ऋतवो हेमन्ताघाः, आनुकूल्यमनुकूलत्वं कुर्वन्ति, यथा स्वामिनः सेवका. इति ॥ २०७॥
अमी अतिशया यस्यैकोनविंशतिर ताः। देवैः कृताः समीपे स्युः सहस्रांशोरिवांशवः ॥२०॥
यस्याऽर्हतः, अमी तावदनन्तरोक्ताः, एकोनविंशतिरतिशयो देवैः कृता.. अद्भुता . आचर्यकारिणः, समीपे स्युः, इवेति
Page #500
--------------------------------------------------------------------------
________________
द्वादशः सर्गः ४७५ उपनयालङ्कारे, यथा सहस्रांशोः सूर्यस्य, अंशवः किरणाः, समीपे भवन्तीति ॥ २०८॥
अप्येकं वचनं यस्य पञ्चत्रिंशद्गुणास्पदम् । युगपज्जगतां हन्ति शङ्कां तापमिवैणभृत् ॥ २०९ ॥
तथा यस्यैकमपि वचनं युगपत् समकालं, जगतां जगदर्तिजन्तूनां, शहां संशयं, हन्ति वचनं किं०, पञ्चत्रिंशत्संख्याका गुणाः संस्कारवत्वादयोऽखेदित्वपर्यन्तास्तेषामास्पदं स्थानं, उक्तमर्थमुपनयेन समर्थयति-पथा तापं निदाघादिदापं, एगभृच्चन्द्रमाः, हन्तीति ॥ २०९ ।। ___ इति परमार्थयुक्तयुक्तया परमात्मस्वरूपं निरूपणविषयीकृत्य शाहेः पुरस्तादुपसंहारवचनमाह- : त्रिलोकीतिलकाकारमनन्तगुणभाजनम् । मन्यामहे तमीदृशं भवस्थं परमेश्वरम् ॥ २१० ॥
हे शाहे ! सं यथावर्णितं, भवस्थं समवसरणस्थं, साकारं परमेश्वरं, ईदृशं वयं मन्यामहे ; किं०, त्रिलोक्यास्तिलकाकारं तिलकभूतमिति सावभरणं विशेषणमाह, यतोऽनन्तानां मुणानां भाजनं पात्रमिति ॥ २१०॥
द्विधास्ति परमेश्वर इत्यादिमभेदभाव्यभवस्थपरमेश्वरस्वरूपं प्रकाश्य मूरिः शाहेः पुरस्ताद् द्वितीयभेदभावनीयं वर्णयति- ..
सदानादिमजन्मानं मुक्तात्मानं च चिन्मयम् । द्वितीयमद्वितीयं तं वदामः परमेश्वरम् ॥ २११ ॥
तं कमप्यचिन्त्यं, द्वितीयं परमेश्वरं वदामः कथयाम इति, तं किं०, अनादि न विद्यते आदिर्यस्येति तं, पुनरजन्मानं अत एन मुक्तात्मानं मुक्तः संसारााच्छिम आत्मा यस्येति तं, तेनैव
Page #501
--------------------------------------------------------------------------
________________
४७६
विजयप्रशस्त्याम् ।
हेतुना चिन्मयं ज्ञानमयं पञ्चविधशरीरपरित्यागात्, तथाऽद्वितीयमनुपममित्यर्थः || २११॥
इत्यभूद् वचसा सूरेः शाहिचित्तमसंशयम् । मार्तण्डमण्डल इवाऽजडिमा मधुनर्तुना ॥ २१२ ॥
इतीति प्रकाशितरीत्या, सुरेर्वचसा शाहिचित्तं असंशयं निःसंदेह, अभूज्जातमिति इव यथा, मार्तण्डमण्डलः सूर्यविम्बः, 'मधुना ऋतुना वसन्तेन, अजडिमा अजाड्यभाग्, भवतीति तथेदमपीति ।। २१२ ॥
वादिनामेव सर्वेषां वदनानि विसारिणा । सद्यः पिदधिरे सूरेः स्फूर्जन्महात्म्यवाससा ॥२१३॥
यथावस्थितपरमेश्वरस्वरूपप्रकटीकरणाच्छाहिचेतसो निःशङ्कीभवने किं जातम् ?, इह एवेति निश्वये, सर्वेषां वादिनां वदनानि मुखानि, सूरे: स्फूर्जद् जाग्रद् यन्माहात्म्यं तदेव वासो वस्त्रं तेन विसारिणा प्रसरणशीलेन, सद्यः शीघ्रं पिदधिरे च्छन्नानीति ॥ २१३ ॥
9
असत्प्रलापिभिः किं फलं लब्धमित्याहअर्हन्मतैकप्रासादपिप्पलाः कुप्रलापिनः । धिक्चक्रिरे द्विजन्मानः सर्वेऽमी शाहिनाऽमुना ॥ २१४॥
अमी द्विजन्मानेो विप्राः, अमुना प्रत्यक्षेण शाहिना, धिक्चक्रिरे धिक्कृता इति किंलक्षणा इत्याह- अर्हन्मतं जनमतं तद्रूप एकोऽद्वितीयो यः प्रासादस्तत्र विनाशहेतुत्वात् पिप्पला इव पिप्पलाः, अत एव कुप्रलापिनः ये च कुप्रलापिनस्ते धिक्कारं लभन्तएव इति जगत्मतीतोऽयं न्याय इति ।। २१४ ॥
Page #502
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४७७ धिक्कृताः कयं झायन्त इत्याहपृथौ शाहिसभापूर्वदिशि सूर्यायिते गुरौ । नश्यन्ति स्म समे भट्टा निशाटा इव दुर्दशः॥२१५॥
शाहेः सभैव पूर्वदिक् तस्यां सूर्य इवाचरितः सूर्यायितस्तस्मिन् सूर्यायिते, गुरौ सति, समे सर्वे, भट्टा निशाटय घूका इव, नश्यन्ति स्म प्रणेशुरिति भट्टाः किं०, दुष्टा दृग् मतिर्येषां ते, चूकाः किं०, दुष्टा अन्धत्वभवनाद् दोषदूषिता हा दृष्टिर्येषां ते इति ।। २१५॥
सूरिणा निजिता जाता अबला वादिनस्तदा । चित्रं न तेऽत्र पौराणां कामानन्दनिबन्धनम् ॥२१६॥
तदा तत्रावसरे, मूरिणा निर्जिताः सन्तः, वादिनोऽबलानिर्बलाः, त्रिरश्च जाता इत्यन्वयः, तथापि ते अबला सन्तोऽपि पौराणां न कामानन्दनिबन्धनं भवन्तीति चित्रं, पक्षे काममत्यर्थमानन्दस्तस्य निबन्धनं निदानमिति ॥ २१६ ॥
श्रीअकब्बरभूपस्य सभासीमन्तिनीहदि । तत्कीर्तिमौक्तिकीभूता वादिवृन्दजयाब्धिजा॥२१॥
अथ दुर्वादिनिर्मदीकरणेन तत्कीर्तिर्गुरोः कीर्तिः, अकब्बरभूपस्य सभैव सीमन्तिनी रमणी तस्या हृदि, मौक्तिकीभूता मुक्ताफलोपमा जातेति, अत एव कीर्तिः किं०, वादिवृन्दस्य जय एव अब्धिः समुद्रस्तज्जा तस्मादुद्भूता, अन्यदपि मौक्तिकं समुद्रादुद्भवतीति सुस्थम् ॥२१७॥ जित्वा द्विजान् पुरः शाहेः कैलास इव मूर्तिमान् । तैरुदीच्यां यशःस्तम्भः खो निचख्ने सुधोज्ज्वलः॥२१॥
Page #503
--------------------------------------------------------------------------
________________
४७८ विजगप्रशस्त्याम् । - शाहेः पुरः शाहिसमक्ष, द्विजान् विप्रान् , जित्वा, तैः - रिभिः, वो यशास्तम्भ उदीच्या उत्तरस्या, दिशि निचख्ने निखात इति, उत्प्रेक्ष्यते-मूर्तिमान् कैलास इव, अत एव सुधोज्ज्वलः सुधाधवल इति ॥ २१८ ॥
शाहिना सत्कृताः सम्यक् संस्तुताश्च मुहुर्मुहुः । साडम्बरमलञ्चक्रुरनूचानाः प्रतिश्रयम् ॥२१९॥ . अथेति गम्यं, अथानूचानाः श्रीआचार्याः, साडम्बरं प्रतिश्रयमुपाश्रयम् , अलश्चक्रुरलङ्कृतवन्तः, कि०, शाहिनाऽकब्बरेण, सत्कृता दुर्वादिजयोद्भूतप्रभूतविस्मयादेव, मुहुर्मुहुर्वारं वारं, संस्तुता इति ॥ २१९॥ यमीहितकरश्छायापेशलः कान्तिसंकुलः । मङ्गलौकसि तत्रैष माहात्म्यमिन ईयिवान् ॥२२०॥
तत्र तस्मिन् लाभपुरे, इनः स्वामी, एष श्रीमरिः, माहात्म्य पौढिरूपं, ईयिवान् गतवानिति, तत्र कीदृशे, मङ्गलानां कल्याणानां ओकसि गृहे, इनः किं०, यमिना वतिनां ईहितं करोंतीति सः, पुनः कि०, छाया शोभा तया पेशलो मनोज्ञः, पुनः, कान्त्या संकुलो व्याप्त इति, पक्षे, इनः मूर्यस्तत्र विवक्षिते मङ्गलौकसि मङ्गलग्रहगेहे मेपे, माहात्म्यमीयिवान् मेपस्थितः मूर्य उच्च
वेन प्रतीयते “मेपादीशाः कुजः शुक्रः" इति वचनाद्, मेषः कुजगेहं तथा “अर्काथुच्चानि अजटप-" इति वचनादुच्चस्थानीयत्वात् प्रौढिं प्राप्नोत्येव, इनः सूर्यः, किं०, यमीहितकरो यमी यमु. ना तस्या हितकरस्तजनकत्वादिति, पुनः, छायानाम्नी स्वपत्री तया पेशलः, कान्तिसंकुलश्चेति प्राग्वदिति श्लेषालङ्कारः॥२२०॥ तत्रं तस्य कलावन्तं राजानं पश्यतः सतः । सौम्यस्याऽभू रतिर्बह्वी चित्रं चेतसि चाऽस्ति नः।२२१॥
Page #504
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४७९ तत्र तस्मिन्नगरे, तस्य सौम्यस्याङ्करस्य शुभात्मनोऽर्थाद् गुरोरिति, .तं राजानं, कि०, कलावन्तं दयार्द्रत्वाद् धर्मकलाशालिनं श्रीअकबरं, पश्यतोऽवलोकयतः सतो मिलनादिना, ब. ही रतिरभूत् , तदित्यध्याहारे, नोऽस्माकं चेतसि, तचित्रमस्ति, यतः शब्द श्लेषे राजानं चन्द्रं कलावन्तं पश्यतोऽपि सौम्यस्य बुधस्य, रतिर्लेशतोऽपि न भवति, बुधापेक्षया चन्द्रस्य शत्रत्वाद् "बुधस्य मित्र शुक्राौं शत्रुरिन्दुः"इति वचनात्, अथैतस्य सौम्यस्यापि राजानं पश्यतो रतिरुत्पन्नेति चित्रमाश्चर्यमस्तीति॥२२॥ महेलाभावमापन्ना स्थितिस्तत्र व्रतीशितुः। हन्ति स्म कामशक्तिं यद् वादिनामेष विस्मयः॥२२२॥ - तत्र पुरे, व्रतीशितुरनूचानस्य, स्थितिर्महेलाभावं स्त्रीत्वं, पक्षे, महती या ईडास्तुतिस्तद्भावो लीला डलयोक्याद्, महेलाभावमापन्नापि प्राप्तापि, यद्वादिनां कामशक्तिं हन्ति स्मैष दिस्मयः, महेला हि कामशक्तिं प्रगुणीकुर्वन्ति, परमेषा तथाभूतापि न तथा, तदर्थे काममत्यर्थ, शक्तिं सामर्थ्य, प्रतिवचःदानेऽपीति ॥ २२२ ॥ ___ तत्र स्थिताः किं किं सुकृतकृत्यं चकुरित्यादि दर्शयतितत्राऽथ भानुचन्द्राणां वाचकानां महोत्सवैः। आनन्दिमनसा नन्दिश्वकेनूचानचक्रिणा ॥ २२३ ॥
अथास्मिन्नवसरे, भानुचन्द्राख्यवाचकानां महोत्सवैः अनूचानचक्रिणा नन्दिर्वाचकपदस्येति चक्रे कृतेति ॥२२३॥
शेखाख्यो धीसखः शाहेः प्रभुमाहात्म्यरञ्जितः। . तत्रोत्सवे जगद्वित्तं वित्तव्ययमजीघटत् ॥ २२४ ।।
Page #505
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
तत्रोत्सवे तस्मिन्नन्दिमहे, शाहेः धीसखः पातिशाहिमन्त्री, शेखाख्यः शेख श्री अवजलफयजनाया, जगद्वित्तं विश्वज्ञातं, वित्तव्ययं अजीघटदकार्षीदित्यन्वयः । कथमेष शेखो वित्तव्ययं चकारेत्याह- प्रभोर्गुरोः माहात्म्यं तेन रञ्जित इति ॥ २२४ ॥
४८०
विदां मूलं मघोनेव प्रवृत्ति प्रीतचेतसा । सृजतः शाहिना सार्धगत्रजन् वासरा गुरोः ॥ २२५॥
तथा शाहिनाकन्दरेण, किं०, प्रीतचेतसा संतुष्णुमनसा, 'साधे प्रवृत्ति धार्मिक वार्ता, सृजतः कुर्वतः गुरोर्वासत्रा अवजन् जग्मुरित्यन्वयः, प्रवृत्ति किं०, विदां ज्ञानानां मूलं, पक्षे इवेत्युपनये यथा, गुरोर्बृहस्पतेः, यधोना शक्रेण, साथै महति सृजतो वासरा व्रजन्तीति ॥ २२५ ॥
धर्मवृत्तितः प्रीतचेतस्त्वफलमुपदर्शयतिअथैकदा कृपाप्रेमवल्लभं भं भुवाम् । दृष्ट्राऽभाषिष्ट स गुरुर्गिरा पीयूषपुण्यया ॥ २२६ ॥ अथेति करुणारसोल्लासकसदुपदेशवार्ताप्रस्तावे सति, एकदा स गुरुर्भुवां वल्लभं नृपं कीदृशं कृपायाः मेल मेमप्रियं दृष्ट्रा पीयूपपुण्यया गिरा वाण्या अभाषिष्टाऽभावतेति ॥ २२६ ॥
,
किमभापतेत्याह
सुरभ्याः सौरभेयस्य सेरिभ्याः सैरिभस्य च ।
न हिंसा नः प्रमोदाय पृथिव्याः पातरि त्वयि ॥ २२७॥
शाहे ! त्वयि पृथिव्याः पातरि पालके सति, सुरभ्याः सौरभेयस्य सेरिभ्याः सैरिभस्य च, हिंसा नोऽस्माकं, प्रमोदाय नेति नास्ति, गोवृषभमहिषीमहिपाणां हिंसा हननं न हर्षायाऽस्तीति ॥ २२७ ॥
Page #506
--------------------------------------------------------------------------
________________
दादशः सर्गः।
४८१
तत् ते नैषाममन्तूनां जन्तूनां हतिरर्हति । दुग्धवीवनिर्वाहैर्जगतामुपकारिणाम् ॥२२८॥ सत्तस्मात् कारणात, ते तव, शाहे ! एषां सुरभ्यादीनां जन्तूनां किं०, अमन्तूनां निरपराधानां, हतिहिंसा, नाऽर्हति न योग्या:स्तीति, यत एषां कथं भूतानां, दुग्धवीवधनिर्वाहैर्दुग्धदानं च वीवधो भारस्तनिर्वाहश्चेति, सुरभीमहिषीणां दुग्धदायित्वं, वृषभमहिषाणां भारनिर्वाहिलं तैः कृत्वा, जगतामुपकारिणां विश्वोपकारकारिणामिति ॥ २२८॥
मृतानां द्रविणादानं बन्धे च ग्रहणं नृणाम् । न ते निर्लोभसौम्यस्य सार्वभौमस्य कीर्तये ॥२२९॥
तथा हे राजन् ! ते तव, निर्लोभश्वासौ सौम्यश्चेति तस्य तथारूपस्य, सार्वभौम इव सार्वभौमस्तस्य, मृतानां नृणां द्रविणादानं द्रव्यग्रहणं, तथा बन्धे नृणां ग्रहणं बन्दिग्रहणम् , इति न कीर्तये ख्यातये नास्ति ।। २२९ ॥ एतत् कृत्यद्वयं शाहे ! तत् तवाश्चति नौचितीम् । अत्याजि भवता शुल्को जीजिआख्यश्च यत् करः॥२३०॥ .. हे शाहे ! तत् ततः कारणात् , एतदनन्तरोक्तं, कृत्यदयं श्लोकद्वयप्रणीतं, तव नौचितीमुचितत्वमश्चति गच्छति नोचितमिति, यद् यतो हेतोर्भवता शुल्को लोके दांगनामा, अत्याजि त्यक्तः, चकारः पुनरर्थे, भवता जीजिआख्यः करो मुक्तश्चेति, ततो येन बहुद्रव्योत्पचिनिमिचं जीजिआशुल्कयोस्त्यजनं कृतं तस्यैतत् कियदिति ॥ २३० ॥
सूरिणाऽभिहिता जल्पा अमी षडपि भूभुजः । , अभवंस्तुष्टये जीवलोकस्य ऋतवो यथा ॥२३॥
Page #507
--------------------------------------------------------------------------
________________
४८२
विजयप्रशस्त्याम् ।
मूरिणाऽभिहिताः प्रोक्ताः, अमी सुरभ्यादिवधनिषेधरूपमृतवमोचनबन्दिच्छोटनरूपाः, पडपि जल्पाः भूभुजः नृपस्य, तुष्टयेऽभवन् जाता इति, यथा जीपलोकस्य षडपि ऋतयो हेमन्तायाः, तुष्टये भवन्तीति ॥ २३१ ॥ एतत्षड्जल्पपिशुनं स्फुरन्मानं स्फुरद्गुणम् । . श्रीअनूचाननाम्नैव सर्वत्र प्राहिणोद् नृपः॥ २३२ ॥
नृपः श्रीअनुचाननाम्ना, एवेति निश्रये, एतेषां प्राग्भणितानां पण्णां जल्पानां पिशुनं सूचकं, स्फुरन्मानं सर्वत्र स्वाज्ञावर्तिषु देशेषु, प्राहिणोत् प्रेपयामासेति ॥ २३२ ॥ एषां षण्णां च जल्पानां पत्रं तत् सकलामिलाम् । व्यानशे सुन्दरं बिन्दुस्तैलस्य सलिलं यथा ॥२३३॥ पण्णां जल्पानां पत्रं स्फुरन्माननामकं तत् सकलामिलां व्यानशे समग्रभूमौ व्याप्तमिति, अत्र सप्तम्यर्थे द्वितीयेति, यथा तैलविन्दुर्ज- . लं व्यामोतीति ॥ २३३ ॥
इत्यादिबहुलाभप्राप्तौ किं कृतवानिति निर्दिशतिकृपापुटकिनीपूष्णा शाहिना बहुमानितः। तच्चतुर्मासकं चक्रे पुरे तत्रैव सूरिराट् ॥ २३४ ॥
तत्रैव पुरे लाभपुरे, तच्चतुर्मासकं मूरिराट् चक्रे, कीदृशः, कृपव पुटकिनी पद्मिनी, तस्यां पूष्णा सूर्येण, शाहिना श्रीमदकब्बरेण, बहुमानितोऽत्यर्थं संमानभाजनं कृतः, संमानिताः सन्तो लाभहृष्टास्तिष्ठन्त्येवेति ॥ २३४ ॥ विद्याविनोदवैराग्यविज्ञानवसुवारिधेः। गुरोः परिचयात् प्राप्तप्रसिद्धेः पृथिवीपतेः ॥ २३५ ॥
Page #508
--------------------------------------------------------------------------
________________
द्वादशः सर्गः।
४८३ आग्रहादथ गुरुणा श्रीसंघप्रीतिकारिणा। . तत्रैव नगरे चक्रे चतुर्मासं द्वितीयकम् ॥ २३६ ॥
अनयोयोख्यिा - अथेति प्रथमचतर्गासककरणानन्तरं वपन्तिरे गुरुणा तत्रैव नगरे द्वितीयकं चतुर्मासकं चक्रे कृतमित्यन्वयः, ननु किमर्थ द्वितीयमपि चतुर्मासकं तत्रैव कृतमित्याह-पृथिवीपतेर्भूभर्तुराग्रहात् , अहो ! सोऽपि कथमेतावन्तमाग्रहं कृतवानित्याह- पृथिवीपतेः किंविशिष्टस्य, विद्याया विनोदो वैराग्यं च विज्ञानं विशिष्टज्ञानं तद्रूपवमूनां वारिधेः समुद्रस्य गुरोः परिचयात् प्राप्ता प्रसिद्धिः सार्वत्रिकख्यातिर्येनेति कृत्वा, यो हि यस्मात् प्रसिद्धि प्रामोति से तमागृह्य रक्षत्येवेति, यथा पुरा श्रीहेममूरि श्रीकुमारपालक्ष्मापाल इति ॥ इति युग्मम् ॥२३५।।२३६॥
अधिकतरावस्थाने किं जातमित्याहदिदीपेऽथ या शाहेराचार्यवचनामृतैः । संसिक्ता पयसां पूरैवल्ली विद्युत्वतो यथा ॥ २३७ ॥ _ अथेति प्रचुरतरप्रसङ्गे सति, आचार्यवचनामृतैः शाहेरर्थान्मनसि, दया दिदीपे दीप्तिमाप्तेति, यथा विद्युत्वतो मेघस्य, पयसां पूरैः संसिक्ता वल्ली दीप्तिमाप्नोतीति दृष्टान्तः ॥२३७॥
साग्रया श्लोकद्विशत्या सर्ग निर्मायाऽथ मालिन्योपसंहरतिगगनमिव हिमांशौ कौशिकानन्दिमूर्ती
नलिनवनमिवोष्णज्योतिषि स्मेरपझे। तदनघमनघश्रीसंघराजीवसूर्ये
स्थितवति यतिराजे पत्तनं चारु रेजे ॥२३८॥ तत्पत्तनं लाभपुरं, चारु यथा स्यात्तथा, यतिराजे सूरौ, स्थितवति सति, रेजेऽशुभदित्यन्वयः। कस्मिन् सति किमिवेत्याह
Page #509
--------------------------------------------------------------------------
________________
४८४ विजयाशस्त्याम् । यथा हिमांशौ चन्द्रे सति, गगनमिव, कीदृशे चन्द्र गुरी चेत्याहकौशिकस्य घूकस्य आनन्दिनी मूर्तियस्य तस्मिन् , गुरुपक्षे, कौशिकस्य शक्रस्यानन्दिनीति, शेपं स्पष्टम् , पुनः, उष्णज्योतिपि सूर्ये सति, नलिनवनं यथा, कीदृशे सूर्ये गुरौ च, स्मेराणि पद्मानि पङ्कजानि यस्मात् तस्मिन् , गुरुपक्षे, स्मेरा पद्मा श्रीर्यस्मात् तस्मिन्निति समानधर्मोपनयालङ्कृतिरिति ॥ २३८ ॥ • • • • • • • • • • • . . . . . . . . . . . . .
इतीति सकलं कण्ठ्यम् । इति सकलसुविहितसमासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुर- . न्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुण- ... विजयगणिविरचितायां विजयपदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्य
टीकायां द्वादशः सर्गोऽर्थतः समर्थितः॥
अहम् अथ त्रयोदशः सर्गः।
अथ त्रयोदशः सर्गः समारभ्यते, तत्र श्रीहीरविजयसूरिवृत्तवर्णनात्मकं प्रथमं वृत्तं यथा
इतश्व भट्टारककोटिकोटी___ कोटीरहीरप्रभुसूरिहीरः। कृत्वोत्सवोत्साहविलासवर्या
ज्येष्ठस्थितिं पत्तननामपुर्याम् ॥ १ ॥
Page #510
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः। ४८५ अत्यतिकृहुर्गतिदुःखहन्त्री ... कैवल्यकान्तारतिरङ्गदूतीम् । श्रीतीर्थशत्रुञ्जयशैलराज
___ यात्रां विधातुं प्रगुणीबभूव ॥ २ ॥ इतश्चेति श्रीअनूचाने लाहोरनगरे स्थितिशालिनि सत्यस्मिन्नवसरे, भट्टारककोटिकोटिपु कोटीरतुल्या ये भट्टारकास्तेषु भूषकत्वाद् हीर इव हीरः प्रभुश्वासौ हीरश्च प्रभुमूरिहीरः श्रीहीरविजयमूरिः, पत्तननामपुर्या पत्तननगरे, ज्येष्ठस्थितिं चतुर्मासीरूपां, किं०, उत्सवोत्साहयोः पत्तनवासिलोकसंवन्धिनोर्यो विलासस्तेन वर्या, कृत्वा विधायेति ॥ १॥ किं कृतवानित्यग्रेतनवृत्ते पाह-अत्यतिकृत् अतिपीडाकारिणी या दुर्गतिस्तस्या दुःखानां हन्त्री, पुनः,कैवल्यं मुक्तिः सैव कान्ता तया समं यो रतिरङ्गः प्रेमरङ्गस्तत्र दूती दूतीतुल्यां तत्संयोजकत्वात् , एवंभूतां श्रीतीर्थशत्रुञ्जयशैलराजयात्रां विधातुं निर्मातुं, प्रगुणीबभूव सोद्यमः संजातः ॥ इति युग्मव्याख्या ॥२॥ अथ षड्भिरिन्द्रवज्रावृत्तैः शत्रुञ्जयं वर्णयति
देवेन्द्रवृन्दप्रणतांहिपद्मः
__ श्रीमारुदेवप्रभुरादिदेवः। . यं नन्दनन्दाङ्कितपूर्ववारान्
सर्वाद्रिशृङ्गारमलश्चकार ॥ ३ ॥ यं विमलाचलं, मरुदेवाया अपत्यं मारुदेवः प्रभुः, श्रीआ: दिदेवोऽलश्चकार भूषयामासेत्यन्वयः, कति वारान्, नन्दनः न्दाङ्कितानि नवकद्विकपमितानि पूर्वाणि तद्गतवर्षसत्कवासरमितवारान् , कोऽर्थः १-नवनवतिपूर्वैर्यावन्तः संवत्सराः स्यु
Page #511
--------------------------------------------------------------------------
________________
४८६. विजयप्रशस्त्याम् । स्तावतां संवत्सराणां यावन्तो दिनास्तत्पमाणवारानिति निर्गलितार्थः, प्रभुः कि०, देवेन्द्रटन्देन प्रणतांहिपद्मः, शत्रुञ्जयं कि०, सर्वाद्रीणां सकलगिरीणां शृङ्गार इव शृङ्गारस्तमिति ॥३॥
उत्तुङ्गता यस्य न धीनिधीना
मध्वानमायाति सरस्वतीनाम् । संस्पृश्यते यल्लघुकैरपीह
लोकाग्रभूमिस्तरसाऽधिरूढैः ॥ ४ ॥ यस्याऽद्रेः, उत्तुङ्गता उच्चस्तरता, धीनिधीनां पण्डितानां सरस्वतीनां, गिरामध्वानं मार्ग, नायाति; यद् यतो हेतोः, इह गिरावधिरूढलघुकैरपि, तरसा वेगेन, लोकाग्रभूमिः संस्पृश्यते, इहाधिरूढा लघवो हि कर्मणा लघरो लोकाग्रभूमि मुक्ति जवाद् यान्तीति भावः ॥ ४॥ ...
पूतः प्रकामं हरशेखराया
अङ्ग्यः सदा यत्पथपांसुपूरः । आत्मानमन्तः कुरुते पवित्रं
स्पृष्टः शरीरेऽध्वनि गच्छतां यः ॥५॥ यत्पथपांसुपूरो यस्य गिरेमार्गस्य रजोवनः, हरशेखराया गङ्गायाः, अद्भयः पानीयेभ्यः, पूतः पवित्रः, प्रतीयत इति योगः। कथमित्याह-यो गिरिपथपांसुपूरः, अध्वनि गच्छतां मार्गे बजतां, शरीरे स्पृष्टः सनन्तः आत्मानं, पवित्रं कुरुते, अन्यो दि गङ्गापवाहो देहनेमल्यमात्रमेव कुरुते परमयं अभ्यन्तरात्मानं, तेनायं प्रकामं पूत इति ॥ ५॥
यहमरेणुस्तरणेः प्रकाशा
Page #512
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः।
४८७ दप्यस्ति विस्तारमितः प्रशस्तः। श्यामं तमोमण्डलमतिकृद् यद्
येनाऽङ्गलग्नेन समूलमस्तम् ॥ ६ ॥ तरणेः मूर्यस्य, प्रकाशादपि यद्वर्त्मरेणुविस्तारमितो विस्तृति प्राप्तः, प्रशस्तोऽस्तोत्यन्वयः । निदानमाह-यद् यतः कारणाद्, येनाऽङ्गलग्नेन तमोमण्डलं समूलमस्तं अपुनर्भावेन तमसः पापस्य मण्डलं ध्वस्तमिति, कीदृशं, श्यामं कृष्णं, पुनः, अर्तिकृत् पीडाकर, मूर्यप्रकाशेन हि समूलं तमो न निरस्यते पुनरप्यन्धकाराविर्भावात् , तथा गिरिगहरादीनां तमसस्तादवस्थ्यात् ,अनेन तु गिरिमार्गरेणुना स्पृष्टेनापि समूलं तमो निहन्यते, ततस्तरणितेजसोऽपि प्रशस्तो यत्पथरेगुरिति तात्पर्यम् ॥ ६ ॥
गङ्गाप्रवाहादपि यस्य वर्त्म
पांसुप्रपञ्चोऽस्त्यधिकत्वशाली । योऽभूच्छिवोल्लासकविप्रमोद
श्रीपत्यदभ्रोत्सवमूलमुच्चैः ॥ ७ ॥ यस्य वर्मपांसुप्रपञ्चः गङ्गाप्रवाहादपि अधिकत्वशाली अतिशयवान , अस्तीत्यन्वयः। यतोऽयं शिवस्य गोक्षस्योल्लासः शिवोल्लासः, पुनः, कवीनां पण्डितानां प्रमोदः कविप्रमोदः, पुनः, श्रीपतीनां धनिनां अदभ्रोत्सवो महोत्सवस्तेषां शिवोल्लासकविप्रमोदश्रीपत्यदभ्रोत्सवानां मूलमासीदिति, श्लेयपक्षे तु शिवोल्लासो महादेवोल्लासः, कवेब्रह्मणः प्रमोदः कविप्रमोदः, श्रीपतेर्नारायणस्यादभ्रोत्सवस्तन्मूलमभूदित्याधिक्यभान, गङ्गापवाहस्तु शिवोल्लासः श्रूयते, न तु कविप्रमोदश्रीपत्यदभ्रोत्सवमूल-. मिति न्यूनत्वभाव ॥ ७॥
Page #513
--------------------------------------------------------------------------
________________
४८८
विजयप्रशस्त्याम् । आरोहमार्गोऽत्र विभाति शैले
आरोढुमुच्चैस्तरसिद्धिसंज्ञम् । सौधं धुताबाधमनाधिमाशु
निश्रेणिसोपानपरम्परेव ॥ ८॥ . अत्र शैले श्रीशत्रुञ्जये, आरोहमार्गः पद्यारूपः, विभातीत्यन्वयः। इवोत्प्रेक्ष्यते-उच्चस्तरं सिद्धिसंज्ञं सौधं, कि०,धुता आवाधा पपुर्यथा यत्र तत् , तथाऽनाधिं न विद्यते आधिर्मानसी व्यथा यत्रेति, अत्र सौधशब्दस्य पुबलीवलिङ्गत्वादनाधिमित्यदुष्टम् , आ
रोई, निश्रेणेः सोपानपरम्परा तया हि सुखेन सौधमारुह्यते ॥८॥ .. तारोत्करैरिन्दुरिवातिसौम्यो
भासां भरैर इव प्रतापी । भूयोभिरागादृषिभिर्वृतः श्री
· सूरिस्ततस्तत्तलहट्टिकायाम् ॥ ९ ॥ ततः श्रीपत्तनतः प्रस्थानादनुक्रमेण, तस्याऽनेस्तलहट्टिकायां, 'भूयोभिर्बहुभिर्कषिभिर्वृतः श्रीमूरिः आगादित्यन्वयः। कैः कइव, तारोत्करैरिन्दुरिव, गुरुरिन्दुश्च कीदृशः, अतिसौम्या, पुनः,भासां भरैर इव, गुरुरकश्च कीदृशः, प्रतापी, इति समानधर्मोपमेति ॥९॥ दानैरमानैर्धनकाञ्चनानां
गीतैः सुगीतैः कुलकामिनीनाम् । तूर्यैश्च वसुरजानकाद्यैः __ कुर्वद्भिरुत्साहकृदुत्सवालीम् ॥ १० ॥ मेवातसन्मालवमेदपाट
Page #514
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः। ५८१ श्रीगूर्जरत्रामरुमुख्यसंधैः। साध महस्वी मघवेव देवैः
‘रध्यारुरोहाऽद्रिमसौ मुनीशः॥११॥ अनयोाख्या यया-असौ मुनीशः श्रीहीरमूरिः, अदि गिरिं श्रीशत्रुञ्जयाह, अध्यारुरोहत्यारूढ इत्यन्वयः। कथं, सार्ध, कैः, मेवातमालवमेदपाटश्रीगूर्जरत्रामरुस्थलीप्रमुखसंधैः प्रतीतैः, यदैते संघास्तत्र प्राप्तास्तदानीमेव श्रीगुरवोऽपि चैत्र्यां तत्रारूढाः, अतस्तैः सार्ध, संधैः किं कुर्वद्भिः, उत्साहकृत्सवाली कुर्वद्भिः उत्सवाद्वैतं कुर्वाणैरिति, कैः कृत्वा, धनकाश्चनानां अमानैर्दानैः, अर्थादर्थिनामिति, तथा कुलकामिनीनां कुलस्त्रीणां, सुष्ठुतया गीतैः सुगीतैः, गीतैः, तथा मुरजो मृदङ्ग आनको दुन्दुभिस्तदायैवेर्यैस्तूरिति जैनं शासनं प्रभावयद्भिः संघैः समं विमलाचलमारूढवान् गुरुरिति ॥ इति युग्मव्याख्या ॥१०॥११॥
त्रिस्तत्र नाथं प्रथमं परीय . नत्वा च नुत्वा च यथाप्रमोदम् । स्थित्वा पुनः कत्यपि वासराणि
श्रीतीर्थसेवामसमां च कृत्वा ॥ १२ ॥ तत्र शत्रुञ्जये, प्रथमं नाथं श्रीऋषभदेवं, त्रिः परीय त्रिवार प्रदक्षिणीकृत्य, तथा नत्वा कायेन प्रणम्य, चः पुनरर्थे, नुत्वा वाचा स्तुतिस्तोत्रादिभिः स्तुत्वा, कथं, यथाप्रमोदमिति क्रियाविशेषणं, पुनः, कत्यपि वासराणि स्थित्वाधिकारात् पादलिसपुरादौ, अत्र पुनपुंसकत्वाद् वासराणीत्यदुष्टं, तथाऽसमां तीर्थसेवां कृत्वेति ॥ १२ ॥
ततः किं कृतवानित्याह..... सौवर्णटङ्कादिभिरर्चितः श्री
Page #515
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
४९०
संघेन सद्भक्ति सहस्रसंख्यैः। भट्टारकेन्द्रो विजहार हीरः ___ शत्रुञ्जयात् तीर्थवराव ततोऽथ ॥ १३ ॥ भट्टारकेन्द्रो हीरः श्रीहीरसूरिः, कि०, श्रीसंघेन सहस्रसंख्यैः सौवर्णटङ्कादिभिः आदिशब्दाद् मालवदेशसंघेन महााभरणैर्नवाङ्गेषु सद्भक्तिर्यथा स्यात् तथाऽर्चितः पूजितः, सति समये ततः श्रीशत्रुञ्जयात् तीर्थवरात्, विजहार विहारं कृतवानित्यर्थः ॥ १३ ॥ विहृत्य का दिशं पवित्रयामासेत्याहमत्वा प्रभूताग्रहमुन्नताह. द्रङ्गस्थसंघस्य सदाऽनघस्य । हंसः शरत्कालमकालबहः
क्ष्मायामिव स्मैति गुरुः स तत्र ॥ १४ ॥ स गुरुस्तत्रोन्नतद्रङ्गे, स्मैति प्राप्त इत्यन्वयः। किं कृत्वा, उन्नताद्रङ्गस्थसंघस्य उन्नतपुरीयश्राद्धवर्गस्य प्रभूतं बहुतरमाग्रहं मत्वा ज्ञात्वा, यथा हंसःक्ष्मायां इहत्यतटाकतटिनीभूमौ शरत्कालं मत्वा मानसादभ्येति, गुरुहंसश्च कीदृशः,अकालव: धवलच्छदः, गुरुपक्षेऽकालव) निर्मलपरिवारः “वहः पर्णे परीवारे कलापे च" इत्यनेकार्थ इति ॥ १४ ॥
ज्ञात्वा लाभमभ्रमभ्रतटिनीरङ्गत्तरङ्गोल्लस
कीर्तिस्फूर्तिपयःप्रवाहपटलप्रक्षालितक्ष्मातलाः। ते भट्टारककोटिकोटिमुकुटाश्चक्रुश्चतुर्मासकं
तत् तत्रैव पुरे पुरन्दरपुरप्रख्ये सुपर्वप्रिये॥१५॥
Page #516
--------------------------------------------------------------------------
________________
- त्रयोदशः सर्गः ।
४९१
से प्रागुपवर्णिता भट्टारकाणां कोटिकोटयस्तासां तासु वा मुकुटाः श्रीमूरयः, पुरन्दरपुरममरावती तत्प्रख्ये ततुल्ये, अंत-. एव सुपर्वणां देवानां प्रिये, पक्षे शोभनपर्वभिः सुमहोत्सवैः प्रिये, तत्रैव पुरे उन्नताख्यपुरे, चतुर्मासकं चक्रुरित्यन्वयः । तत्र कथ मतिष्ठन्नित्याह- लाभ धर्मोन्नतिविशेष, ज्ञात्वा ते किं०, अभ्रतदिन न्या गङ्गाया रङ्गन्तश्च ते तरङ्गाश्च तद्वदुल्लसन्ती या कीर्तिस्तस्या या स्फुर्तिस्तद्रूपो यः पयः प्रवाहपटलस्तेन प्रक्षालितं क्ष्मातलं यैस्ते तथा ।। १५ ।।
अजस्रं दस्राभ्यामिव वरतरैर्वैद्यक करेभिषग्भिर्भूयोभिः सततयतनैर्भेषज भरैः । विबुध्या साध्यां स्वां रुजमिति निदानेन महता
द्वितीयां ज्येष्ठास्यां पुनरकृतं तस्यां पुरि गुरुः | १६ | पुनः वर्षान्तरे गुरुस्तस्यां पुरि, महतां निदानेन कारणेन, द्वितीयां ज्येष्ठास्यां द्वितीयं चतुर्मासक, अकृत कृतवान् किमिति निदानं तदाह - दस्रौ अश्विनीपुत्रौ दस्रशब्दो द्विवचनवाची, ततस्ताभ्यामिव भूयोभिर्भिषग्भिर्वैद्यैः किं०, वरतरैः श्रेष्ठतरैः, पुनः, वैद्यकं कुर्वन्तीति, तैः कैः कृत्वाऽसाध्यामित्याह - भेषजानां तद्रोगोपशामकौषधानां भरैः, अत एव भिषग्भिः सततं नित्यं, यतना सत्यापना,अर्थाद् गुरोर्येषां तैर्बहुभिरप्युपचारैः, निजतनुरोगमसाध्यं, विबुध्य ज्ञात्वा इति कारणाश्रयणेन तत्रोन्नतद्रएव तस्थुरिति ॥ १६ ॥
सरसि जलजस्तोमः सूर्यादिवोदय दिग्जुषो
वनभुवि तरुवातः सर्वोऽनिलादिव मालयात् । निवसतिकृतः कामं कम्रात् प्रसत्तिभराद् गुरोः
समजनि पुरे पौरस्तस्मिन् सुखी सकलोऽपि हि ॥ १७॥
Page #517
--------------------------------------------------------------------------
________________
५९२ विजयप्रशस्त्याम् ।
गुरोः श्रीहरिमूरेः, किं०, निवसतिकृतः स्थितिकारिणः, प्रसत्तिभरात् प्रसादातिशयात् , तस्मिन पुरे सकलोऽपि पौरः पुरवासी लोका, सुखी समजनि, प्रमत्तिभरात् कथं, काममत्यर्थ, कम्राद् मनोज्ञात् , कसात् क इव किस्मिन्नित्याह-सूर्यात् कि०, उदयदिग्जुपोऽभ्युदिताद् , यथा सरसि सरोवरे , जलजस्तोमः कमलपटलः, पुनः, यथा मालयाद् मलयाचलोद्भवाद्, अनिलाद् वायोः, वनभुवि सर्वस्तरुवात इव, तथा गुरोः प्रभावात् पौरवर्गः सुखभाग जात इत्यर्थः ॥ १७ ॥
अत्रेन्द्रवज्रा प्रायः, अन्त्ये वृत्तत्रये तु शार्दूलविक्रीडितं शिखरिणी हरिणीति पृथक् पृथक् छन्दांसि ज्ञेयानीति, तेषां लक्षणानि तु पूर्वमुक्तानीति । • • • • • • • • • • • • • • • • • • • • • • • •
इतीति स्पष्टम् । इति सकर युविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणवि. जयगणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यदीकायां त्रयोदशः सर्गोऽर्थतः
समर्थितः॥
Page #518
--------------------------------------------------------------------------
________________
अर्हम् अथ चतुर्दशः सर्गः।
अथ चतुर्दशः सर्गः समारभ्यते: अथो विशां भर्तुरकब्बरस्य
मनःपयोजन्मविलासहंसः। ततः पुरादर्जितवर्यकीर्ति
विहर्तुकामोऽजनि सूरिसिंहः ॥ १॥ अथाऽस्मिन्नसरे श्रीहीरविजयसूरयो वपुरपाटवादुन्नतपुरे ज्येष्ठस्थितिं कर्तुकामा आसंस्तनावसरे, हरिसिंहः श्रीविजयसे- .. नसूरिः, ततः पुराल्लामपुराद्, विह कामोऽजनि, कीदृशः, विशां नृणां भर्तुरकब्बरशाहेः, मन एव पयोजन्म कमलं तस्मिन् यो विलासस्तत्र हंसः, पुनः, अर्जिता वर्या कीर्तिर्येन सः॥१॥ • धराधिपं नीतिलतावितान
पयोदमापृच्छय सदाऽऽदराढ्यम् । बुधं च नन्दर्विजयोत्तराद्वं
विमुच्य तत्राऽवनिपोपरोधात् ॥ २॥ जयेन्दिरासुन्दरदोलताभ्यां ___ निकामनिष्पीडितकण्ठपीठः। गुरुर्व्यहार्षीत् पुरतस्ततोऽथ
कुपाक्षिकाम्भोदभिदासमीरः ॥ ३ ॥ अनयोाख्या यथा-अथावसरे शुभे सति, ततः पुराद
Page #519
--------------------------------------------------------------------------
________________
४९४ . विजयाशस्त्याम् । लाहोरनराद्, गुरुर्व्यहार्षी विहारमकरोत् , किं कृत्वा, नीतिरेव लता तस्या विताने पयोदं मेघ, धराधिपं नृपं, आपृच्छय पृष्ट्वा, कथं तस्य प्रश्न इत्याह-सदादराढ्यं वहादरवन्तं, तर्हि कथं विहारानुज्ञा दत्तवानित्याह-नन्देर्विजयाद बुध, तत्र शाहिसमीपे, अवनिपोपरोधाद् नृपाग्रहाद्, विमुच्येति, गुरुः कथं०, जयेन्दिराया जयलक्ष्म्याः सुन्दरे दोलते ताभ्यां निकाममत्यर्थं निष्पीडितः कण्ठपीठो यस्येति सः, मिथ्यात्वव्यथिताऽन्यतीथिकाहङ्कारतिरस्कारकरणादर्जितजयश्रीक इति, अत एव कुपाक्षिकाम्भोदभिदायां समीरो वायुरिति ॥ इति युग्मव्याख्या ॥२॥३॥
निजैः पदाम्भोजरजोभिरुच्चैः __ शुचिं सृजन् भूमिमिमामशेषाम् । गुरुः क्रमाच्छ्रीमहिमाभिधानं
- पुरं पुरप्रष्ठमलञ्चकार ॥ ४ ॥ निजैः पदाम्भोजरजोभिः इमां अध्यक्षां, अशेषां समस्तां, भूमि शुचिं पवित्रां, सृजन् कुर्वन् , गुरुः श्रीमूरिः, क्रमाद् लाभपुरात् प्रस्थितोऽनुक्रमेण, महिमनामकं नगरमलञ्चकार चतुर्मासकतिष्ठासया तंत्र तस्थाविति शेषः ॥ ४ ॥ इतश्च भट्टारकहीरसूरेः
पुरोत्तमादुन्नतनामधेयात् । इयाय लेखो वपुषोऽसमाधे
रुदन्तवादी च हवात्मकश्च ॥ ५ ॥ इतश्चेत्यस्मिन्नवसरे, श्रीहीरसूरेरुनतनामधेयाद् नगराद्, लेखः, किं०, वपुषः शरीरस्याऽसमाधेः उदन्तवादी वपुष्पीडासमाचारकथकः, पुनः, गुरोहेवात्मक आकारणात्मकः, इया
Page #520
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः।
४९५ याऽऽगतवानिति, अत्र चकारद्वयमसमाधेराकारणस्य चाधिक्यम्चकमिति ॥५॥ ततः पुरादात्मगुरोः स पाद
द्वयीं दिदृक्षुर्नलिनीमिवाऽली । प्रदत्तखेदं तदुदन्तमेतं .
विचिन्त्य चित्तेऽचलदार्यवर्यः ॥ ६॥ तल्लेखोदन्तं किं०, एतं प्राप्त, पुनः, प्रदत्तखेदं गुरुवाधासूचकत्वादिति, चित्ते विचिन्त्य ततः पुराद् महिमनगरात् , आत्मगुरोः श्रीहीरसूरेः, पादद्वयीं, नलिनीमिवाऽली भृङ्ग इव, दिदृक्षुद्रष्टुमिच्छुः, आर्यवर्यः सः, अचलच्चचालेति ॥ ६ ॥ __ अतः परमर्थतः सूत्रतश्च पञ्चभिः कुलकेन गुरुं वर्णयन्नाह
पदे पदेऽतुच्छमहोत्सवौघां - विभूषयन्नंहिरजोभिरुवीम् ।
जनं समग्रं सुखयन् मनोज्ञा. गमस्तडिवानिव गोविलामैः ॥ ७॥ .
भयं सृजन् वादिनिशाचराणां __स्वतेजसा पङ्कजिनीशितेव । पुरे पुरे श्रावकसंघमुच्चैः
श्रियं नयन् सिन्धुमिवौषधीशः ॥ ८॥ ' स्फुरदशो दीप इवाऽङ्गभाजां ____ हरंश्च मिथ्यात्वतमःसमूहम् । पथि स्मयं नन् कुमतिव्रजानां
Page #521
--------------------------------------------------------------------------
________________
४९६ विजयप्रशस्त्याम् ।
महामृगाणामिव सिंहशावः ॥ ९॥ मलं दलन्नध्वनि दैवताध्व
धुनीव सर्वज्ञमनोज्ञवृत्तिः। समूलमुत्तालमहार्यवीर्यः
प्रकम्पयन् पापतरून् करीव ॥ १० ॥ मुदां निदानं गुरु गूर्जरत्रा
वधूललाटे तिलकायमानम् । श्रियां निधानं सुकृतप्रधानं
प्रभुः क्रमात् पत्तनमाससाद ॥ ११ ॥ .. स्थाने स्थाने अतुच्छा महान्तश्च ये उत्सवास्तेषामोघः समूहो यस्यां तां, गुर्वागमादिति शेषः, उवीं पृथ्वी, अंहिरजोभिर्विभूपयन् , पुनः, गोविलासर्वाग्विलासैः, समग्रं जनं सुखयन्, ' क इव, तडित्वानिव मेघ इव, तत्पक्षे, गोविलासर्जलविलासैः, "गौरुदके" इत्यनेकार्थत्वादिति, गुरुर्मेघश्च कि०, मनोज्ञागमः प्रियागमन इति ॥ ७ ॥ पुनः, पकजिनीशिता सूर्य इव, वादिनएव निशाचरा उलूकाश्चौरा वा तेषां भयं सृजन्, तथा पुरे पुरे श्रावकसंघमुच्चैरतिशयेन, श्रियं शोभां, नयन् मापयन् , कः कमिवेत्युपनयमाह-सिन्धुं समुद्रं, औपधीशश्चन्द्रमाः, इव यथेति ॥८॥ च पुनः, दीप इव किं०, स्फुरन्ती दशाऽवस्था यस्येति सः, पक्षे दशा वर्तिर्यस्येति सः, अङ्गभाजां मिथ्यात्वमेव तमस्तत्समूह हरन् , पुनः, पथि मार्गे, कुमतिव्रजानां स्मयमहंकारं, नन् विनाशयन् , यथा सिंहशावः केसरिकिशोरकः, महामृगाणां हस्तिनां, स्मयं हन्ति तथेति ॥९॥ पुनः, दैवताध्वधुनीव गळेच, कि०, सर्वज्ञस्य महादेवस्य, पक्षे सर्वेषां ज्ञानां पण्डि
Page #522
--------------------------------------------------------------------------
________________
४९७
चतुर्दशः सर्गः। तानां मनोवृत्तिः, मलं दलन् खपदन्यासैरध्वानं निर्मलीकुर्वनिति, पुनर्गुरुः किं०, अहार्यवीर्यः, अत एव करीव गजइव, समूलमुत्तालं चेति क्रियाविशेषणद्वयं, पापतरून् प्रकम्पयन् उन्मूलयन्निति ॥१०॥ प्रभुः श्रीअनूचानः, क्रमात् पत्तनं पत्तननामकं नगरं, आससाद प्रापेति, किंलक्षणं, मुदा हर्षाणां, निदानं, गुरु महत् , गूर्जरत्रावध्वा ललाटे तिलकसमानं, तथा श्रियां निधानं, पुनः, सुकृतेन प्रधानं, एतावनगरवर्णनं पुण्यप्रधानत्वाद् गुरुपावितत्वाचेति ॥ इति पञ्चानां वृत्तानां व्याख्यानम् ॥ ११॥ महोत्सवोत्साहसमुत्सुकस्या
उनघस्य संघस्य सदादरस्य । वरं पुरं तद् गुरुणाऽऽग्रहण
_ कियदिनान् पट्टधरोऽधितष्ठौ ॥ १२ ॥ तद् वरं पुरं पत्तननाम, कियद् दिनान् यावत् , पट्टधरः मूरिः, अधितष्ठौ स्थितः, केन, संघस्य गुरुणाऽऽग्रहेण, संघस्य किं०, महोत्सवानामुत्साहः करणलक्षणस्तत्र समुत्सुकस्य, पुनः, सदा सर्वदाऽनघस्य निष्पापस्य, अत एव सन् विद्यमान आदरोद् िदेवगुरुभक्तौ यस्येति ॥ १२ ॥ अत्रान्तरे किं जातमित्याहतपाधिराजः प्रभुहीरसूरिः __ पुरे वसन्नुन्नतनाम्नि तत्र । सुपर्वशाखीव मनोऽभिलाषान्
प्रपूरयामास महाजनस्य ॥ १३ ॥ तपागणखामी प्रभुहीरसूरिः, तत्रोन्नतद्रले वसन्, महा.
६४
Page #523
--------------------------------------------------------------------------
________________
४९८
विजयप्रशस्त्याम् ।
जनस्य संघस्य, सुपर्वशाखी कल्पद्रुरिव, मनोऽभिलाषान् प्रपूरयामासाsपूरयदिति ।। १३ ॥
रुजं दुरन्तामधिगम्य सम्यक् तथाऽऽयुषोऽत्यन्तसुखस्य चान्तम् ।
प्रभुश्चकार प्रमनाश्चरित्र
गृहध्वजाराधनयाऽन्त्यकृत्यम् ॥ १४ ॥
प्रभुः श्रीहीरगुरुः स्ववपुषि दुरन्तां दुःसाध्यां रुजं रोगम्, अधिगम्य मत्वा, तथाऽत्यन्तसुखस्याऽऽयुषोऽपि चकारोऽप्यर्थः, भवति हि संयमजीवितव्यादत्यन्तसुखं मुक्तिसुखादि, तेन सार्थकमिदं विशेषणं; अन्तं प्रान्तसमयं ज्ञात्वा, प्रमनाः सन्, अन्त्य - कृत्यं चतुरशीतिलक्षजीवयोनिक्षामणचतुःशरणस्वीकरणरूपं, चकाराऽकरोत् कया, चरित्रं चारित्रधर्मः स एव गृहं तत्र ध्वजोपमा याssराधना तथा निरतीचारं चारित्रं प्रपाल्य प्रान्तसमयोचितयाऽऽराधनया चारित्रमन्दिरं सध्वजीस्यादिति तत्त्वम् ॥१४॥ व्यधाद् विभुः स्वं तपसाऽग्निनेव सुवर्णमात्मानमतीद्धभासम् ।
तदा बभौ चाऽस्तमलोऽस्य कायः
खरत्विषो बिम्ब इवाऽभ्रमुक्तः ॥ १५ ॥ विभुः हीरः, स्वमात्मानं, अतीद्धा दीप्ता भाः कान्तिर्यस्य तं, व्यधात्, केन, तपसा द्वादशविपेनापि, यथाऽग्निना सुवर्णमिति, तदा चास्य प्रभोः, कायः किं०, अस्तमलः सन् बभौ, यथाभ्रमुक्तः खरत्विषो रवेः, विम्बः शोभते, विम्बशब्दः पुंनपुंसकइति ।। १५ ।।
म सर्वथा क्षीणदलं विचिन्त्य
Page #524
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः ।
सितेतरे पक्ष इवोडुपं स्वम् । मुनीन् समग्रान् गृहमेधिनश्च
प्रभुः प्रभूताद्भुतधीरिमाऽवक् ॥ १६ ॥ संलेखनात पोनिर्मापणेन स्वं आत्मानं सर्वथा क्षीणबलमबलं, विचिन्त्य यथा सितेतरे कृष्णे पक्षे, उडुपं चन्द्रं, तथा विज्ञाय स प्रभुः समग्रान् मुनीन् निजनिकटस्थान् च पुनः, गृहमेघिनो गृहस्थांचाssकार्य, प्रभूताद्भुतधीरिमाऽवक विस्मयकारिधैर्यः सन्नुवाचेति ॥ १६ ॥
9
यदुवाच तदाह
४९९
अवश्यभाविन्यत्रसानकेऽस्मिन्
न मेऽस्ति चिन्ता विहितात्मवृत्तेः । इदं भयं भेत्तुमलं निरन्त
बला अपि स्युर्न हि तीर्थनाथाः ॥ १७ ॥
हे मुनयः । हे श्रद्धालवः !, अवश्यं निश्चयेन, भाविन्यस्मिन् अवसानके मे मम, चिन्ता नास्ति, यतो मे किं०, विहिता आमनोवृतिरर्थाद् धर्मानुष्ठानादौ येनेति पूर्वार्धम् । उत्तरार्धेनाऽवश्यभावित्वमेवाह - हि यतः, इदं मरणभयं भेत्तुं निरन्तबलाअनन्तबला:, तीर्थनाथा अर्हन्तोऽपि नालं समर्थाः स्युः यदार्षम् -
" तित्थयरा गणहारी सुरवइणो चक्किकेसवा रामा । संहरिआ हयविहिणा का गणणा इयरलोगाणं १" ॥१॥
इत्याद्युक्तेरिति ॥ १७ ॥ पुनः किमाहेत्याह
अमुत्र सर्वत्र हितोद्यमानां
Page #525
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
न कापि चिन्ता भवतामिहास्ति । प्रभुः स वः पट्टधरो मदीयो
महानुडूनामिव कौमुदीशः ॥ १८ ॥ इह सांप्रतीनसंयमाराधने, भवतां न कापि चिन्ताऽस्ति यतो भवतां किं०, अमुत्र भवान्तरनिमित्तं सर्वत्र विधेये हितानुष्ठानादावुद्यमो येषां तेषां, येन भवन्तो हितोद्यमिनस्तेन भवां न काप्यतिरस्ति, पुनरपि हितार्थकं वचनम्-यतः स मदीयः पट्टधरः श्रीविजयसेनमूरिः, वो युष्माकं, प्रभुरस्ति; इवेत्युपनये, यथा उडूनां नक्षत्राणां, कौमुदीशः प्रमुर्वतते तथा भवतामसौ महान् प्रभुरिति ॥ १८ ॥
भवद्भिराचार्य उदारधीर
स्ततोऽभिगम्योऽहमिवाभिरूपैः। अनुप्लवानामयमस्ति पन्था
निषेव्यते यत् तनयः पितेव ॥ १९ ॥ ततः कारणाद् भवद्भिः, किं०, अभिरूपैः पण्डितैः, उदारशासौ धीरश्चेत्युदारधीरः, आचार्योऽहमिव अभिगम्यः सेवनीयो यथाऽहं भवद्भिरभिगम्ये तथा मदाचार्योऽपि भवद्भिभिगम्यइति, यद् यतो हेतोः, अनुप्लवानां सेवकानां, अयं पन्था अस्ति यत्तनयः पुत्रः, पितेवाऽनुगम्यते निपेव्यते चेति ॥ १९ ॥ गुरोर्वचस्तच्छिरसा समस्तैः
प्रतिश्रुतं माल्यमिवेद्धवर्णम् । सुखं प्रसूते दिविषद्गवीव
प्रपालिताऽऽज्ञा प्रसभं प्रभूणाम् ॥ २० ॥
Page #526
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः ।
५०१
तदनन्तरोक्तं, गुरोर्वचः माल्यमिवेद्धवर्ण दीप्तवर्ण वचः, पक्षे, वर्णा अक्षराणि, माल्यपक्षे वर्णाः शुह्लादयः समस्तैः शिरसा प्रतिश्रुतं प्रतिपेदे यत इति हेतोः, प्रभ्रूणां आज्ञा प्रपालिता सती, प्रसभं हठेन, दिविषद्रवीव कामधेनुरिव, सुखं प्रसूते ॥ २० ॥
तदाऽभिधायेति हितान्यमीषां वचांसि भूयांसि विभुः समेषाम् । उवाच संसारविकारकार
स्करद्विपः सोऽनशनं विधित्सुः ॥ २१ ॥
"
तदाऽस्मिन् समये, अमीषां मुनीनां श्रद्धालूनां समेषां सर्वेषाम् इति हितानि वचांसि अभिधाय स प्रभुरनशनं विधित्सुरुवाच स कथं, संसारविकार एव कारस्करस्तरुस्तत्र द्विपो हस्ती, निरीहो भूत्वाऽनशनेच्छुरित्युचिवान् ॥ २१ ॥
अधीतनानाविधवाङ्मयानां महामुनीनामिदमस्ति वर्त्म 1 विधीयतेऽभ्यागत आयुषोऽन्ते यदर्तिहन्ताऽनशनाधिकारः ॥ २२ ॥
अधीतं पठितं नानाविधं वाङ्मयं यैस्तेषां महामुनीनां महर्षीणां, इदं वक्ष्यमाणं, वर्त्म मार्गोऽस्ति, किमिदं, यदायुषोऽस् ऽभ्यागते भवार्तिहन्ताऽनशनाधिकारो विधीयते प्रान्तेऽनशनं क्रियत इति ॥ २२ ॥
इह क्षणे सांप्रतमन्धसां मे
निरोध उच्चैः सुकृताभिबोधः ।
Page #527
--------------------------------------------------------------------------
________________
५०२ विजयाशस्त्याम् । इतीरितं मे शृणुताऽऽश्रवा भो
निराश्रवाः ! संयमिशर्वरीशाः ! ॥ २३ ॥ सांप्रतमिह क्षणे मे मम, अन्धसां भक्तानामशनादीनां, निरोधः, किं०, सुकृतस्याऽभिवोधो जागरणं यस्मादिति, अस्तीत्यन्वयः । भोः संयमिषु शर्वरीशाश्चन्द्राः ! पुनः, भो आश्रवा वचसि स्थिताः कथितकारिण इति, पुनः, भो निराश्रवा निर्गताआश्रवाः कर्मद्वाराणि येभ्यस्ते साधवः! मे मम,इतीरितं जल्पितं, शृणुतेति ॥ २३ ॥ शिवात्मकृत्याय कृतोद्यमस्य
भवन्तु विना मम मा भवन्तः । जगत्प्रमोदार्थमुपागतस्य
घनाघनस्येव मरुत्प्रवाहाः ॥ २४ ॥ भो महात्मानः ! मम शिवात्म शिवहेतुर्यत् कृत्यं तस्मै कृतोघमस्य, भवन्तो विना मा भवन्तु निषेधनादिद्वारेणेति, जगतः प्रमोदाय उपागतस्य, घनाघनस्य मेघस्य, मरुत्प्रवाहा इव यथेति दृष्टान्तः ॥ २४ ॥ वचोभिरित्यद्भुतभेषजाभैः
शनैः शनैः शुद्धरसायनज्ञः। गुरुभिषक् सौवपरिच्छदस्य
कदाग्रहव्याधिमपाचकार ॥ २५ ॥ इत्युक्तैर्वचोभिः, किं०, अद्भुतभेषजाभैः, गुरुर्मिषन वैधः, कि०, शुद्धरसायनं समतामार्गरूपं जानातीति सः, सौरपरिच्छदस्य स्वपरिवारस्य, कदाग्रहोऽनशननिवारणरूपस्तद्रूपव्याधिम् , अपाचकारापांकृतवानिति ॥२५॥
Page #528
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः। ५०३ अथ षड्भिर्वृत्तः सूत्राौँ सङ्कलयति
गुरुं निरीक्ष्याऽनशनक्रियायां __सुमेरुचूलामिव धैर्यपात्रम् । विनेयवृन्देषु शुगात्मशङ्क
निविद्धमूर्तिष्विव मूञ्छितेषु ॥ २६ ॥ इति प्रभोाहरणाप्रमाण
समीरणश्रेणिभवानुभावात् । विनेयपूगप्रमदप्रदीपे .. रुचां चयं मुञ्चति सुप्रकाशम् ॥ २७ ॥ इति प्रभोर्वाग्रजनीकरस्यो
दयात् समुल्लासितपुण्यवार्धेः। विनेयवर्गक्षणचन्द्रकान्त___ मणीषु मुञ्चत्सु जलानि बाढम् ॥ २८ ॥ इति प्रभूक्त्या शरदा समन्ताद्
विनिर्मितानल्पकपङ्कहान्या । कृते समस्तान्तिषदां विषाद. तुषाररश्मावतिदीप्रदीप्तौ ॥ २९ ॥
तदेति सूरर्वचनप्रपञ्च___ पयोमुचां संचयतः संपङ्काम् । विनेयचेतःसरसीं विहाय
गतेषु शर्मात्मसितच्छदेषु ॥ ३०॥
Page #529
--------------------------------------------------------------------------
________________
५०४
विजयमशस्त्याम् । भवाय॑कूपारपयस्तितीर्घः
प्रभुः प्रचेताः परमेष्ठिसाक्ष्यम् । चरित्रचैत्योपरि हेमकुम्भं
स्वयं निरीहोऽनशनं चकार ॥ ३१ ॥ गुरुं श्रीहीरम् , अनशनक्रियायां सुमेरुचूलामिव धैर्यपात्रं धीरं, निरीक्ष्य विनेयवृन्देषु शिष्यसमूहेषु, मूर्छितेषु, उत्प्रेक्ष्यते-शुक् शांकः श्रीगुरोरनशनकरणात् तदात्मा तत्स्वरूपः शङ्कुः कीलकस्तन विद्धा मूर्तिर्येषां तेष्विव, अन्योऽपि वाणादिविद्धो मूर्च्छत्यवेति ॥२६॥ प्रभोर्गुरोः, इतीत्यनशनक्रियारूपं व्याहरणं भाषणं तल्लक्षणोप्रमाणः समीरणो वायुस्तस्य या श्रणिस्तद्भवानुभावात् , विनेयानां पूगः प्रकरस्तस्य यः प्रमद एव प्रदीपस्तस्मिन् , सुप्रकाशं रुचां चयं कान्तिभरं, मुश्चति सतीति ॥ २७ ॥ इति प्रभोः मूरेः, अनशनत्वस्वीकाररूपा या वाग् तद्रूपो रजनीकरश्चन्द्रमास्तस्योदयात्, किं०, समुल्लासितः पुण्यवाधिर्येन तस्मात् , विनयवर्गस्य ईक्षणानि नेत्राणि तान्येव चन्द्रकान्तमणयस्तेषु, बाढं जलानि मुञ्चत्स्विति गुरोरशनत्यागश्रवणसमुत्पन्नशोकाद् रुदत्सु ॥ २८ ॥ इति प्रागुक्तप्रभूक्त्या शरदा शरत्कालेन, समस्तान्तिषदां सर्वशिष्याणां, विषाद एव तुषाररश्मिश्चन्द्रस्तस्मिन् , अतिदीप्रदीप्तौ देदीप्यमाने कृते सति, प्रभूक्त्या शरदा किं०, समन्ततो विनिर्मिताऽनल्पकस्य पङ्कस्य पापस्य कर्दमस्य च हानिर्ययेति ॥ २९ ॥ तदा सूरिति प्राग्व्याख्यातवचनप्रपञ्चा एव पयोमुचो मेघास्तेषां, संचयतो विनेयानां चेतःसरसी सपङ्कां शोकरूपकर्दमकलुषां, विहाय त्यक्त्वा, शर्मात्मानः सुखरूपाः सितच्छदा हंसास्तेषु, गतेष्विति, हंसा हि वर्षों सपङ्क सरो विमुच्याऽन्यतो यान्तीति प्रसिद्धिरिति, ततो गुरूणामनशनगिरा संजातशुचा विगलत्सुखेषु शिष्ये
Page #530
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः ।
५०५
वित्यर्थः ॥ ३० ॥ प्रभुः सूरिः, प्रचेता प्रमनाः सन्, परमेठिसाक्ष्यं पञ्चपरमेष्ठिसाक्षिकं अनशनं चकार, कथमौत्सुक्यात्तदकरोदित्याह-भवार्तिरूपो यः अकूपारः सागरस्तस्य पयों जलं तितीर्षुस्तरीतुमिच्छुः अत एव किं०, निर्गता देहादेरपि ईहा यस्येति सः, तथाऽनशनं किं०, चरित्रं चारित्रं तद्रूपं चैत्यं प्रासादस्तदुपरि हेमकुम्भं मान्तेऽनशनस्वी - काराच्चारित्रमति शोभते ।। इति पण्णां व्याख्या ॥ ३१ ॥
अकारि यः श्राद्धजनैर्महीयांस्तदोत्सवः प्रीणितविश्वविश्वः । तमीक्षितुं वर्णयितुं च शक्तौ पुलोमजाराजभुजङ्गराजौ ॥ ३२ ॥
तदा तत्र समये श्रीगुरूणां अनशनाङ्गीकारात्रसरे, यः श्राद्धजनैरुत्सवः, किं०, महीयान् अकारि कृतः, तमुत्सवं, ईक्षितुं वर्णयितुं च पुलोमजाराजभुजङ्गराजौ शक्रशेषनागौ तावेव, शक्तौ समय, एकः सहस्राक्षत्वात्, एकः सहस्रजिडत्वात् ; नान्ये केचनाऽप्यस्मदादय इति ।। ३२ ।।
स्मरन् नमस्कारमपारपापापहं महानन्दसुखावहं च ।
मनोवचः कायकृतानि निन्दन्
पुनः पुनः पुण्यमना अघानि ॥ ३३ ॥ महोदयस्त्रीरतिदानदूतीं
भजन् समस्तेष्वसुमत्सु मैत्रीम् । जराजनुर्मृत्युभियां निदानं
६५
Page #531
--------------------------------------------------------------------------
________________
५०६
विजयाशस्त्यार। त्यजन् शरीरेऽपि ममत्वमुच्चैः ॥ ३४ ॥ भुजाशुगर्तुद्विजराण्मितेऽब्दे
श्रियां पदे भाद्रपदे च मासे। तिथौ तथा शङ्करसंमितायां
सितद्युतेर्दीधितिबन्धुरायाम् ॥ ३५ ॥ विहाय नित्यं मलिनामिहत्यां
तनुं मनोज्ञां च सुपर्वयोनेः। गुरुर्गुणी ग्रामधुनी विमुच्य
नभोनदी हंस इव प्रपेदे ॥ ३६ ॥ चतुर्णा युगपद् व्याख्या यथा-अपारपापापहं, पुनः, महामन्दस्य मोक्षस्य सुखावहं, नमस्कारं स्मरन् , च पुनः, मनोवचःकायकृतानि अघानि पापानि, निन्दन् ॥ ३३ ॥ पुनः, महोदयस्त्री मुक्तिकान्ता तम्या या रतिस्तदाने दूतीव दूती तां, दूतीद्वारा हि स्त्रियः सुखं लभ्यन्ते । तस्माद् मुक्तिवधूरतिदानदती, समस्तेषु असुमत्सु प्राणिषु, मैत्री भजन , पुनः, जरा च जनुश्व जन्म च मृत्युमरणं चेत्येषां भी तिस्तासां, निदानं, शरीरे ममत्वं त्यजन्निति ॥ ३४ ॥ भुजौ द्वौ, आशुगा बाणाः पञ्च, ऋनयः पद्, द्विजराद् चन्द्र एकः, ततोऽकानां वामगत्या १६५२ वर्षे, च पुनः, श्रियां पदे भाद्रपदे मासे, तथा शङ्करा रुदा एकादश. तत्संमितायां तिथौ सितयुतेश्चन्द्रस्य, दीधितिभिः कान्तिमिवन्धुरायां तिथी शुक्लायामेकादश्यामिति ॥ ३५ ॥ गुरुः श्रीहीरसूरिः, इहत्यां इहभवसंवन्धिनी, नित्यं मलिनां तनुं विहाय त्यक्त्वा, सुपर्वयोनेर्देवयोनेश्व, मनोज्ञां तनुं प्रपेदे प्रतिपन्नवान्, अत्र मध्यस्थस्तनुशन्द उभयत्र योजनां
Page #532
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः।
५०७ लभते देहलीपदीपवदित्यन्वयः । दृष्टान्तमाह-यथा हंसो राजहंसः, ग्रामधुनी सामान्यनदी, विमुच्य नभोनदी गङ्गां, प्रपद्यते तथेत्यर्थः ॥ इति चतुर्मिरर्थः समर्थितः ॥ ३६ ॥
सुगन्धसारैर्घनसारमित्रैः __ सकुङ्कुमैर्बन्धुरगन्धधूल्या। युतैश्च धूरैरभिरूपरूपै- श्चतुःसमैमञ्जुलमौक्तिकैश्च ॥ ३७ ॥ ससौरभैः पेशलपुष्पपु.. __मुहुर्मुहुः काञ्चनरूप्यरूपैः । तदा च तादृग् वपुरार्यभर्तुः
सदर्चमानर्च समस्तसंघः ॥ ३८ ॥ अनयोर्व्याख्या-तदा च श्रीहीरगुरौ दिवं प्राप्ते सति, ताहगवशिष्टं आर्यभर्तुः मूरेः, वपुः समस्तसंघो द्वीपबन्दिरवास्तव्यस्तत्रत्यश्च, सदर्च यथा स्यात् तथा, धनसारमित्रैः सुगन्धसारैः शोभनचन्दनः, च पुनः, चतुःसमैश्चन्दनागुरुकस्तुरीकुकुमलक्षणैः पूर्वोक्तैः, पुनर्वारं वारं, काश्चनरूप्याणां रूपैर्नाणकैः, इत्यादि शेषं सुगमम् ॥ इति युग्मव्याख्या ॥३७॥३८ ॥
अगारिवर्गः शिबिकां विशाला ___ वरैर्दुकूलै रचयाञ्चकार । प्रभोः शरीरस्य कृते सुधर्मा___ऽनुजामिवोच्चैः सुमनोमनोज्ञाम् ॥ ३९ ॥
प्रभोः शरीरस्य कृतं निवेशनायेति, अगारिवर्गः श्राद्धवर्गः, वरैर्दुकूलै पट्टकूलैः, विशालां विस्तीर्णा, विशालानानी
Page #533
--------------------------------------------------------------------------
________________
५०८. विजयप्रशस्त्याम् । वा, शिविका,रचयाश्चकाराऽरचयदित्यन्वयः, उत्प्रेक्ष्यते-सुधर्मा शक्रसभा तस्या अनुजामिव, तत एव कीदृशी, सुमनोभिः पुष्पैमनोज्ञां, सभापक्षे देवैरिति ॥ ३९॥
अगारिणश्चन्दनचर्चिताङ्गं
यथोचितन्यस्तमहर्षिवेषम् । हृदीव जीवन्तमनिन्द्यमूर्ति
न्यवेशयंस्तच्छिबिकान्तरे तम् ॥४०॥ तस्याः शिविकाया अन्तरे, तं गुरुं, हृदीव अगारिणो न्यवेशयन् अस्थापयन् , तं किं०, जीवन्तमिव, अनिन्द्या मूर्तिर्यस्येति तं, पुनः, चन्दनेन चर्चितमङ्गं हस्तादि यस्योत तं, तथा यथोचितं न्यस्तो महर्षिवेषो यत्रेति तं, कालधर्मप्राप्तस्य मुनर्मुनिवेषवत एव संस्कार इति ॥ ४० ॥
पदे पदे मूर्च्छदपारबाष्पा ____महेभ्यमुख्या गृहमेधिनश्व । महोत्सवाडम्बरसुन्दरं ते
सुरा इवैनां शिबिकामथोहुः ॥ ४१ ॥ अधोते प्रस्तावे, महेभ्यमुख्या महाव्यवहारिणः, समीपस्थद्वीपवन्दिरवासिनश्चकारादन्येऽप्यल्पर्धयो गृहमेधिनः, महोत्सवाडम्बरसुन्दरं यथा स्यात्तथेति, एनां शिविकां, सुरा इव ऊहुरवहन्निति, ते कि०, पदे पदे महर्षिशोकाद् मूर्च्छन्त उद्भवन्तोऽपारा बाप्पा येषां ते मूर्च्छदपारवाप्पा इति ॥ ४१ ॥ सगन्धसाराऽगुरुमुख्यदारु
भराचितायां शुचिमच्चितायाम् ।
Page #534
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः । ५०९ तदाऽथ संस्कारमकापुरेते
प्रभोस्तनोः किं तमसो निजस्य ? ॥ ४२ ॥ तदेति संस्कारभूमिप्राप्त्यनन्तरं, अथेति चतुरतरनरनिकरनिर्मापितशरीरा विरामे, प्रभोः मुरेः श्रीहीरस्य, तनोः शरीरस्य,एतेऽगारिणः,सगन्धसारा गुरुमुख्यदारुमरैराचितायां व्याप्तायां, शुचिमती अग्निमती या चिता तस्यां, संस्कारं अकार्पः, उत्प्रेक्ष्यते-कि०, निजस्य स्वकीयस्य, तमसः पापस्य, संस्कृति कृतवन्त इति ॥ ४२ ॥ ततः पुरादुन्नतनामधेया
दुदन्तमेतं प्रथयन् पृथिव्याम् । श्रियां खनौ पत्तनराजधान्या
मियाय लेखः कृतदुःखलेखः ॥ ४३ ॥ ततस्तस्मादुन्नतनाम्नः पुरात्, एतं उदन्तं पृथिव्यां प्रथयन् श्रीहीरवर्गमनसमाचारं विस्तारयन् , कृता दुःखानां लेखा
श्रेणिर्येन सः, लेखः, पत्तनराजधान्यां पत्तननगरे, इयायाऽऽग. त इति ॥४३॥
अथाक्षरैर्लेखगतैरुदन्ता___ वबोधतः श्रीयुवराजराजः। भुजङ्गमालोकनतः प्रदीप
शिखेव विच्छायरुचिर्बभूव ॥ ४४ ॥ अथ लेखगतैरक्षरैरुदन्ताऽवबोधतः श्रीहरिवःप्राप्त्युदन्ताकलनतः, श्रीयुवराजराजः कि०, विच्छाया रुचिर्यस्य सः, एवंविधो बभूव, कस्मात् क इच, भुजङ्गमालोकनतः . सर्पक्षणात्, दीपशिखेवेति ॥४४॥
Page #535
--------------------------------------------------------------------------
________________
५१०
विजयप्रशस्त्याम् ।
स्वकः किमप्येष बभूव लेखो वेरसौ चेतसि नोऽस्ति तर्कः ।
अभूदनूचानदृगुत्पलश्री
भरं हरन् यज्जगदिन्दु भात् ॥ ४५ ॥ एष श्रीगुरूदत्तसूचको लेखः, किमपि रवेः सूर्यस्य, स्वकः स्वकीयः, बभूव असौ तक नोऽस्माकं चेतस्यस्तीति कविवचः, यो यस्य स्वकः स्यात् स तदुचितकर्मनिर्माता भवेत्, तत आहयद् यस्माद्धेतोः, अनूचानस्य हगेवोत्पलं तस्य श्रीभरं हरन्, तथा जगदेवेन्दुस्तस्य भां हरतीति जगदिन्दुभाहत, अभूत्; सूर्यो हि उत्पलश्रियं चन्द्रविकाशिकमलशोभां तथेन्दोर्युतिं हरति तथै पोsपि लेखस्तथा जात इति ॥ ४५ ॥ तदाऽभवद् योऽसुखदो विषादो मनस्यनूचानमहीमघोनः । अलं स एवाऽवगमे तदीये
समे समेतामलकेवलो वा ॥ ४६ ॥ तदा श्रीगुरुविरहोदन्तपिशुनलेखाक्षरदर्शनावसरे, यो विपादः, किं०, असुखदः, अनूचानमहीमघोनः श्रीआचार्य राजस्य, मनसि अभवज्जातः, तदीये समे समग्रे, अवगमे तद्विषादावबोधे, स एव प्रभुरलं समर्थः, नान्पः कश्चिदिति, वा अथवा, समेतामलकेवलः प्राप्तोज्ज्वलकेवलः केवल्येव, अलं समर्थ इति तत्त्वम् । ४६ । अथाचार्यधुर्यो विषादोद्गाररचनानि यानि वचनान्यवादीत्, तानि काव्यद्वात्रिंशिकया प्रदर्शयतिममानिशं यत् त्वमवोच ईश ! सुत! त्वमास्से मम चेतसीति ।
Page #536
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः। ५११ ययावजाकण्ठकुचोपमा तत्
समस्तमुच्चैरभिजात! तात! ॥ ४७ ॥ अये सुत! त्वं मम चेतसि मच्चित्ते, आस्से वर्तसे, इति यत् त्वं हे ईश! ममानिशं अवोचः अब्रवीः, तत् समस्तं, हे अभिजात! कुलीन!, हे तात! अजाकण्ठकुचोपमा ययौ निरर्थकं जातमित्यर्थः ॥४७॥ कथं ज्ञातं तदित्यग्रेतनवृत्तेनाहयदर्धनिर्वर्णितमङ्गनानां
दिवो दिदृक्षुः प्रसभं प्रसन्नम् । भवामि यावत्पदपद्मभृङ्ग
स्तवात्र तावद् न विलम्बितस्त्वम् ॥ ४८ ॥ यद् यतः कारणात् , हे तात! यावदहं तव पदपद्मभृङ्गो भवामि दूरदेशादागत्य त्वत्सेवां करोमि, तावत् त्वं न विल. म्बितः, यद्यहं भवचित्ते भवामि तदा त्वं विलम्बं करोष्येव । औत्सुक्यनिदानं निरूपयन्नाह-त्वं कथं, दिवोऽङ्गनानां स्वर्गाङ्गनानां, अर्धनिवर्णितं अर्धालोकनं कटाक्षोत्क्षेपरूपमिति यावत् , दिक्षुष्टुमिच्छुरिति ॥ ४८ ॥
ममाऽभवद् या भगवंस्त्वदहि
सरोजयोः श्रीः पुरतः स्थितस्य । त्वदाननन्यस्तविलोचनस्य
सुदुर्लभा साऽथ नभोलतेव ॥ १९॥ हे भगवन् ! त्वदंहिसरोजयोः पुरतः स्थितस्य, पुनस्त्वदाननन्यस्तविलोचनस्य भवन्मुखस्थापितनेत्रस्य मम, या श्री:
Page #537
--------------------------------------------------------------------------
________________
५१२ विजयाशस्त्याम् । शोभा, अभवत् : सा श्रीः, अथ त्वदिरहे नभोलतेव गगनवल्लीव, सुदुर्लभा ॥ ४९ ॥
विधाय भूमीस्पृशि भालभागे____ञ्जलिं मम प्राञ्जलमञ्जुलस्य । भवन्निदेशं सृजतोऽभवद् मुत्
क साऽथ नाथाऽमृतमुग्लतेव ? ॥ ५० ॥ हे नाथ ! प्राञ्जलः सरलश्वासौ मञ्जुलच, उत माजलेषु म. जुलस्तस्य मम, भूमीस्पृशि भालभागे अञ्जलिं विधाय भवनिदेशं त्वच्छासनं, सृजतो या मुत् अभवत्, निर्देश इव निदेशशब्दोऽपि शासनवाचकोस्तीति, अथ त्वन्मुक्तस्य सा मुत्, अमृतभुग्लतेव कल्पवल्लीव, क? न कापीत्यर्थः ॥ ५० ॥ पुरातनर्षिव्रजराजराजं
विना भवन्तं भुवनैकदीपम् । कमत्र तातेति भणन्नभीक्ष्ण
महं भविष्यामि विनीतविद्यः ॥ ५१ ॥ - हे भगवन् ! भवन्तं विनाऽव भवे, अभीक्ष्णं वारं वारं, तात तातेति के प्रति भणन् , विनीतवियोऽभ्यस्तवियः, भविष्यामि, अपि तु न कोऽप्येवंम्भूतोऽस्ति यमित्य भणामि, भवन्तं कि०, पु. रातनाः पुराणा ऋषिव्रजास्तेषु राजराजो नृपेन्द्रचन्द्रो वा तं मकृष्टत्वेन तदाचारचारित्वात् , अत एव पुनर्भुबने जगति एकोद्वितीयो दीपस्तमिति ॥५१॥ रतिर्ममासीदममेश! योचैः
प्रपश्यतस्त्वन्मुखपुण्डरीकम् ।
Page #538
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः।
अथाब्जिनीवाऽश्मनि सा भवित्री
कथं कथं नाथ! हृदीति मन्ये ? ॥ ५२ ॥ हे अममेश निर्ममेश ! त्वन्मुखपुण्डरीकं प्रपश्यतो मम या रतिरासीत् , अथ हे नाथ! सा रतिर्मम कथं कथं भवित्री ? अपि तु न कथमपि, इति हृदि मन्ये, केव, अजिनीव यथा अश्मनि दृषदि, अब्जिनी कमालनी, कथं भवति, तथेति ॥ ५२ ॥
करोत्करस्येव रवि भवन्त
मभूद् मम श्रीरनुगच्छतो या। लतेव सिक्ताऽम्बुधरैः कदा सा
पुरा भवत्युन्नतिभाक् प्रकामम् ? ॥५३॥ __ हे तात ! भवन्तमनुगच्छतो मम या श्रीरभूत , यथा रविं सूर्य, अनुगच्छतः करोत्करस्य किरणगणस्य, सा श्रीः, उन्नतिभाक् कदा पुरा भवति, अत्र वर्तमानापि पुरायोगाद् भविष्यदर्थ समर्थयति, केव, अम्बुधरैः सिक्ता लतेव यथा मेघसिक्ता लतोन्नतिभाग् भवति, तथा सा कदा पुरा भवति, अपि तु न भाविनीत्यर्थः ॥ ५३ ॥ व्रजाऽभिधेह्येहि भणेति भव्यै
वैचोभिरासंस्तव या मुदो मे । न तल्लवोऽप्यर्थिजनप्रणीतै
स्त्वमेधिथा जीव जयेतिवाक्यैः ॥ ५४ ॥ हेगुरो! त्वं व्रज, अभिधेहि, एहि, भण, इति तव वचोभिर्या मम मुद आसन् , अथ त्वं एधियाः, जीव, जयति अर्थिजनमणीवैर्वाक्यैः, न तल्लवोऽपि, विद्यत इति शेषः॥ ५४॥
Page #539
--------------------------------------------------------------------------
________________
५१४ विजयप्रशस्त्याम् । विना तवाज्ञामथ मुक्तिकान्ता- .
निषङ्गदूतीं निजमूर्ध्नि कस्य । निदेशमेणीनयनेव पुण्ड्रं
श्रियः पदं नित्यमहं निधास्य ? ॥ ५५ ॥ हे तात ! अथ तवाज्ञां विना कस्य निदेशं निजमूर्ध्नि निधास्ये, तवाज्ञां किं०, मुक्तिरेव कान्ता तस्या निषङ्गः सङ्गस्तत्र दृतीं, केव, एणीनयनेव कामिनीव, पुण्ड्रं तिलकं, निदेशं तिलक च किं०, श्रियः पदमिति स्पष्टम् ॥ ५५ ।'
वयि प्रयातेऽस्तमनन्तकान्तौ
पयोजिनीभर्तरि भव्यपद्मे । ध्रुवं भवित्री भरतावनीयं
कुपाक्षिकोल्लूकतमःप्रसारा ॥ ५६ ॥ . हे प्रभो ! त्वयि पयोजिनीभर्तरि सूर्ये, अस्तं प्रयाते सति, शीदृशे त्वयि, अनन्ता कान्तिर्यस्य तस्मिन् , पक्षे अनन्ते आकाशे कान्तिर्यस्येति तस्मिन् , पुनः किं०, भव्या श्लाघ्या, अथवा भव्यानां प्राणिनां, अथवा भन्यस्य भद्रस्य पद्मा श्रीर्यस्मात् तस्मिन् , पक्षे भव्यानि पद्मानि यस्मादिति तस्मिन् , इयं भरतावनी, कुपाक्षिका एवोलुकास्तमांसि च तेषां प्रसारो यस्यां सेति, ध्रुवं भवित्रीति ॥ ५६ ॥ विना भवन्तं गृहरत्नमीश!
सुदीप्तमाधाय कमुत्प्रकाशः। शिवाध्वनीनो हृदि धाम्नि भावी
जनः समस्तो भरतावनीजः ? ॥ ५७ ॥
Page #540
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः।
५१५ हे ईश! भवन्तं सुदीप्तं गृहरत्नं दीपं, विना शिवाऽध्वनीन: परमपदपथिकः, भरतावनीजो भरतक्षेत्रोद्भवः, जनो हृदि धाम्नि कगपरं नरमाधाय स्थापयित्वा, उत्पावल्येन प्रकाशो यस्याऽसावुत्प्रकाशः, भावी, अपि तु न कमपि, शिवाध्वनीन इति पदेन मिथ्यात्विनिरास उक्तः॥ ५७ ॥ सुधर्ममुख्यर्षिमतङ्गजान
धृता वया वामगतेन या धूः । कथं मयैकेन च दक्षिणेन
धरिष्यते सा ननु तर्णकेन ? ॥ ५८ ॥ .. हे गुरो! सुधर्मस्वामिमुख्यर्षयः सूरयस्त एव मतङ्गजास्तेषां, वामगतेन वामांसस्थेन, मनोज्ञगतिना वा; या धूभृता, नन्विति प्रश्ने, सा धूः, एकेन दक्षिणेन दक्षिणांसस्थेन, सरलेन वा; तर्णकेन वत्सकेन, कथं धरिष्यते ॥ ५८ ॥
अचिन्तयिलेति मदाकृतिं द्राक् . .
खमप्सर:केलिरसानसेवीः । न चेद् भवादृगहितकारिपित्रा
विमुच्यते किं पृथुको लघीयान् ? ॥ ५९॥ इति पूर्वोक्तां, मदाकृति लघीयोभावरूपां, अचिन्तयित्वाऽविचार्य, हे गुरो ! त्वं अप्सरसां केलिरसान् असेवीः, इत्थं चेद् न स्यात् तदा माइक् पृथुको वालः, किं०, लघीयानतिशयेनाऽणुः, भवाहग हितकारी चाऽसौ पिता चेति तेन, कि विमुच्यते ? अपि तु नेति ॥ ५९॥ ..
अकब्बरोऽयं नरराजरत्नं...
Page #541
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । . भवांश्च सर्वर्षिजनावतंसः । मिथश्व योऽभूद् युवयोर्निषङ्गः
सुवर्णमण्योरिव वर्णनीयः ॥ ६० ॥ हे गुरो ! एकतोऽयमकब्बरो नरराजरत्नं, परतश्च सर्वर्षिजनाऽवतंसो भवान् , अनयोर्युवयोर्मियोऽन्योन्यं, यो निषङ्गः सङ्गः, कीदृशः, सुवर्णमण्योरिव वर्णनीयो वर्णनाई इति, अभूत संजातः॥६०॥
स जातवान् दत्तसमस्तसंपद् . नृणां कृषीणामिव वारिवाहः । प्रकाशभाग भानुमतेव लोको
महखिना तेन बभूव सर्वः ॥ ६१ ॥ स युस्योः सङ्गः, नृणां दत्ता समस्ता संपद् येनेति सः, यथा वारिवाहो मेघः, कृषीणां दत्तसमस्तसंपद् भवति,अत्र पुनरित्यध्याहार्य, तेन पुनस्तेन युवयोः सङ्गेन, भानुमतेव महविना सर्वो लोको भव्यजनः, प्रकाशभाग धर्मोद्योतेन स्फुटः, बभूवेति ॥ ६१॥ मरुष्विवामर्त्यमहीरुहः स
जनेषु चासीत् सततं हिताय । कदाऽथ भावी सुखकृत् प्रजानां __पयोरुहां पूष्ण इवोदयः सः? ॥ ६२ ॥ तथा स सङ्गो जनेषु सततं हिताय आसीत् , चकारोऽपराक्षेपे, यथाऽमर्त्यमहीरुहः कल्पद्रुः, मरुषु मरुस्थलेषु, अथ त्वयि दिवं प्राप्ते, स युवयोः सङ्गः, प्रजानां लोकानां, कदा सुखद्
Page #542
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः ।
५१७
भावी १ अपि तु तत्संभावनापि नेति, सुखकृत् क इव, पयोरुहां पङ्कजानां, पूष्णः सूर्यस्य, उदय इवेति ।। ६२ । शशीव पक्षेण सितेतरेण कलाकलापं क्रमतो मतेह । स नाशितस्त्वां हरता विधात्रा जगत्पयोराशिविलासमूलम् ॥ ६३ ॥
गुरो ! त्वां हरता विधात्रा स युवयोः सङ्गः, इह क्षेत्रे, नाशितः, केन कमिवेत्याह- इव यथा, शशी सितेतरेण पक्षेण ह्रियते, पक्षेण किं कुर्वता, क्रमतः कलाकलापं घ्रता, सङ्गः शशी च कीदृक्, जगदेव पयोराशिः समुद्रस्तस्य विलासानां मूलम् ।। ६३ ।।
विवाहिता श्रीमदकब्बराय
वराय तात ? त्वयका द्विजेन ।
कृपाकनी रूपबलर्द्धिबीजं
तथा यथार्थाद्भुतमन्त्रभाजा ॥ ६४ ॥ - यथा युतौ नित्यमिमात्रभूतां सुदम्पती भावरसान् प्रपन्नौ । विनाऽस्ति न त्वां स परत्र मन्त्रः स्मरन्नदस्तापमुपैम्यहं ही ! ॥ ६५ ॥
हे तात! त्वया त्वया द्विजेनेव द्विजेन श्रीअकब्बराय वराय कृपारूपा कनी, कीदृशी, रूपवलद्धनां बीजं, त्वया किं०, terest मन्त्र वाहमन्त्रस्तं भजतीति तेन तथा, विवाहि ताऽस्तीति ॥ ६४ ॥ यथा इमौ सुदम्पती वधूवरौ, नित्यं युतौ
Page #543
--------------------------------------------------------------------------
________________
५१८
विजयप्रशस्त्याम् । निर्वियोगिनी, अभूताम् , गुरोमिलनाद् नृपमनसः कृपा न कदापि दूरीभूताऽस्तीति,इमौ कि०, भावश्चित्तोन्नतिस्तद्रसान् प्रपन्नौ, अत्यध्याहियते, अथ स विवाहमन्त्रः, त्वां विना परत्र परस्मिन् , नास्ति; ततश्चादः प्रत्यक्षं, सरन् अहं तापमुपैमीति, हीति खेदवाचकोऽव्ययः ॥ अर्थतो युग्मम् ।। ६५ ।। अकब्बरो बब्बरवंशजन्मा
वयीबुद्धिर्भृशमस्ति भूपः। सुभक्तिभाजस्वयि येऽसुभाजः
स तानसून् खानिव पाति. नित्यम् ॥६६॥ हे गुरो! बब्बरवंशजन्माऽकब्बरः शाहिः, त्वयि भृशं इद्धबुद्धिर्दीप्तमतिः, अस्ति; तस्माद् येऽसुभाजः प्राणिनः, त्वयि सुभक्तिभाजः सन्ति स भूपस्तान् स्वान् अनिव निजप्राणानिव, पाति रक्षतीत्यनिष्टोपद्रवेभ्य इति ॥६६॥
अभूदु यदारोह इहास्तिकानां
सुदुर्लभः कल्प इवाऽनयानाम् । स सिद्धशैलो भगवन् ! भवद्वाक्__ प्रदीपसोयोतहदा व्यधायि ॥ ६७ ॥ अकबरेणाऽवनिवल्लभेन ___ यदार्हतानां करसाद् नितान्तम् । सुधांशुतुल्या तव कीर्तिरेषा
विशेषविद्भिर्लिखिताऽर्कबिम्बे ॥ ६८ ॥ अनयोाख्या-हे भगवन् ! अनयानां अभाग्यानां नराणां, कल्पतररिव, अथवाऽनयानां नयहीनानां, कल्प आचार इव,
Page #544
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः। यदारोहो यस्यारोहः, इह आस्तिकानां श्रद्धालूनां, सुदुर्लभोऽभूत् , स सिद्धशैलः श्रीशत्रुञ्जयः, अकबरेणाऽवनिवल्लभेन राज्ञा, किं०, भवद्वाक्प्रदीपेन सोयोतं हृद् यस्येति तेन, यनितान्तं आर्हतानां जैनानां, करसाद् हस्तायत्तः, व्यधायि कृतः, एपा तव कीर्तिः सुधांशुतुल्या शशिसमा, विशेपविद्भिरर्कविम्वे लिखिता, एतावताऽर्फ यावत् तव कीर्तिरपि स्थास्यतीत्यर्थः ॥ इति युग्मम् ॥६७॥ ६८ ॥ कुपाक्षिकव्यूहवचोऽम्बुवाहात्
सपङ्कमासीजनचित्ततोयम् । विभो ! भवद्वाक्कतकाऽच्छचूर्ण
प्रयोगतस्तद् विमलं बभूव ॥ ६९ ॥ ततस्तदन्तः सदसच्च वस्तु
जिनोदितं तात! तवाऽनुभावात् । उपैति सर्व प्रतिबिम्बभावं
पयोनिधौ बिम्बमिवाऽमृतांशोः ॥ ७० ॥ हे विभो! यजनचित्ततोयं, कुमाक्षिकाणां व्यूहः समूहस्तस्य वच एव अम्बुवाहस्तस्मात्, सपङ्कमासीत् , तद् भवद्वागेव कतकस्य कतकफलस्य अच्छं चूर्ण तत्प्रयोगतः, विमलं बभूवः जनचित्ततोयमित्यत्र एकत्वं जात्यपेक्षयेति ॥६९॥ ततो हेतोः, जिनोदितं सद्रूपं असद्रूपं च सर्व वस्तु, हे तात ! तवाऽनुभावात् तदन्तस्तन्मध्ये, प्रतिबिम्बभावं उपैति-भगवदुक्तं वस्तुजातं भवद्वचसा सर्व तेषां मनसि प्रतिभाति; कस्मिन् किमिव, पयोनिधौ. समुद्रे, अमृतांशोश्चन्द्रस्य, विम्बमिवेत्यर्थः ॥ इति युग्मम् ॥७०॥
वयि प्रदीपे प्रकटप्रभावे
Page #545
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
गतेऽस्तमस्तान्ध्यभरप्रसारे । अथातिमात्रं कलिकालदोषागमात् तमो भूरि भविष्यतीह ॥ ७१ ॥
हे प्रभो ! प्रकटमभावे त्वयि प्रदीपे, अस्तङ्गते सति, कीदृशे, अस्त आन्ध्यभरप्रसारो येनेति, अथेह कलिकालदोपागमाद् भूरि तमो भविष्यतीति यतः मदीपे विध्याते हि तमोऽतिमात्रं प्रसरत्येवेति ॥ ७१ ॥
५२०
मुदं मम त्वन्मुखपुण्डरीकं
निपीय या दृग्भ्रमरी बभार ।
अनन्यवृत्तेस्तदभावतोऽस्या
मरौ मराल्या इव किं रतिः स्यात् ? ॥७२॥
"
हे गुरो ! मम या हग्भ्रमरी त्वन्मुखमेव पुण्डरीकं, निपीयेति पीत्वा मुदं बभार; अथाऽस्यास्तदभावतः किं रतिः स्यात् ? अपि तु न स्यादेवेत्यर्थः, यतोऽस्याः किं०, अनन्यवृत्तेर्न विद्य तेऽन्यस्मिन् अन्या वा वृत्तिर्यस्यास्तस्या इति । दृष्टान्तोऽत्र - यथा मरौ मरुस्थलीदेशे, मराल्या हंस्याः, किं रतिः स्यात् । इति ॥ ७२ ॥ चिरं शुचिर्या मम दृक् चकोर - यी पपौ त्वद्वदनेन्दुबिम्बम् ।
अथेयमस्याः प्रलयं प्रयाता
कथं पिपासा बहुकालजन्मा ? ॥ ७३ ॥ हे नाथ! या मम चोरद्वयी त्वद्वदनेन्दुबिम्बं चिरं पपौ, अथ त्वद्विर, अस्या इयं बहुकालजन्मा पिपासा, कथं मलयं याता सा पिपासा कथमुपशमिष्यति ? इति ॥ ७३ ॥
Page #546
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः। पितस्तवाऽत्यद्भुतसंयमस्य
फलं स्फुरद् निर्वृतिरेव वच्मः। यदप्सरोभूसुखभूरभूस्त्वं - कलेर्बलीयः किल जृम्भितं तत् ॥ ७४ ॥
हे पितः! तवाऽत्यद्भुतो यः संयमस्तस्य तावकस्य चारित्रस्य, निर्वृतिर्मुक्तिरेव,स्फुरत् फलं वच्मः, तवैवंविधात्युग्रचारित्रस्याऽस्मिन्नेव भवे निर्दृतिसंभवात् ; परं यत् त्वं अप्सरोभूसुखभूः सुराङ्गनाजातसुखस्थानं, अभूः, तत्किलेति संभावये, कलेः कलिकालस्य,बलीयो वलिष्ठं, जृम्भितं विलसितमिति।।७४॥
तपो जपो ब्रह्म च हर्षकृद् मे
मुमुक्षुधर्मः सुभगः प्रियश्च । . . . . यदित्यभाणीभगवन् ! मुधा तद् . विहाय सर्व यदभूः खरिच्छुः ॥ ७५ ॥ हे भगवन् ! मे मम, तप उपवासादि, जपो जापः, ब्रह्म च ज्ञानं, ब्रह्मचर्य वा; मोक्षो वा हर्षकृद् वर्तते, तथा मुमुक्षुधर्मः साधुधर्मः सुभगः प्रियश्च लगतीत्यादि यत् त्वं अभाणीर्भणन्नासी, तत्सर्व मुधा जातमेव, यतो हेतोः,त्वं स्वरिच्छुरभूः, यदि तव तपःप्रभृतीनि प्रियाणि स्युस्तदा दिवि कथं यासि ? इति ॥ ७५ ॥
नवो भवच्छोचनदन्दशूको . .: दुरन्तसंतापविषापहारि ।
तवाभिधानं स्मरतां निहन्ति.... ___यदाशु चैतन्यमशेषमेषः ॥ ७६ ॥ हे गुरो! भवतः शोचनदन्दशूकः शोकपन्नगः, नवो नवी
Page #547
--------------------------------------------------------------------------
________________
५२२ विजयमशस्त्याम् । नः, आस्त; यद् यतो हेतोः, दुरन्तो यःसंतापस्तद्रूपविषापहारि, तवाभिधानं स्मरतां मादृशां विशां, चैतन्यं अशेषमप्येष निहन्ति, अपरो हि दन्दशूको विषापहारिमन्त्रस्मरणाचैतन्यं प्रकटयति नायं तथा, इति नव इति ॥ ७६ ॥
चया प्रदीपेन तमोहरेण
प्रकाशितं यज्जिनशासनौकः । न तत्र मिथ्याविभुजङ्गचक्षु
हतिस्तदीयाहतये बभूव ॥ ७७ ॥ हे प्रभो ! तमोहरेण त्वया प्रदीपेन यज्जिनशासनमेव ओको गृहं, प्रकाशितं तत्र जिनशासनगृहे, मिथ्यात्विरूपो यो भुजङ्गस्तचक्षुईतिस्तन्नेत्रहतिः, तदीयाहतये तदुपघाताय, न बभूवेति ॥ ७७ ।। यदीयद्यस्ति तवाभिधानं
मुनीन्द्र ! तेषां वमिहासि साक्षात् । निरीक्ष्य लेखाक्षरमत्र लोको
वयस्यमायातमिवाऽवगच्छेत् ॥ ७८ ॥ हे मुनीन्द्र ! यदीयहदि तवाऽभिधानमस्ति ये त्वन्नाम स्मरन्तीति, तेषां त्वं साक्षादसि प्रत्यक्षोऽसि, हेतुरूपं वचनमाहअत्र प्रत्यक्षे, लेखाक्षरं निरीक्ष्य लोको वयस्यं मित्रम् , आया. तमिव अवगच्छेजानीयादिति ॥ ७८ ॥
इति द्वात्रिंशत्तैः खेदमेदुरविरहविलापवचांस्युपदाऽय सोस्थ्यवचनानि निर्दिशति
इति क्षरन्नक्षिजलं विलापा
दवग्रहादब्द इवाऽम्बुवृष्टेः।
Page #548
--------------------------------------------------------------------------
________________
'चतुर्दशः सर्गः।
५२३ समस्तसंघाग्रहतो व्यरंसीत्
सुधीरनूचानशिरोऽवतंसः ॥ ७९ ॥ इति पूर्वपश्चितविलापान् , समस्तसंघस्य चतुर्विधस्याग्रहतः, अनूचानशिरोवतंसः, कि०, सुधीः, अत एव व्यरंसीद् विरराम: यथाऽम्बुवृष्टेलवर्षणाद, अब्दो मेघः, अवग्रहाद् विघ्नाद् मेघविघ्ररूपाद् वृष्टिरोधाद्, विरमतीति ॥ ७९ ॥ निवेदयन्नात्मसतत्त्वमेवं
तदा स शोकः शिथिलीबभूव । अहं महानप्यमहान् भवामि ..
सतां मनस्यद्रिरिवात्मदर्शे ॥ ८ ॥ तदा विलापविरामसमये, स शोक एवं आत्मसतत्त्वं निवेदयन् , अत्र इवेत्युत्प्रेक्षालक्षणं पदमध्याहार्यम् , शिथिलीवभूव, एवमिति किं०, अहं महानपि अमहान् भवामि, कस्मिन् , सतां मनसि महतां चेतसि, लघुर्भवामि यथात्मदर्श दर्पणे, अद्रिगिरिः, इवेति दृष्टान्तः ॥ ८॥
अथ किं जातमित्याह. गतेऽतिथिलं त्रिदशाङ्गनानां
गुरावनूचानमियाय संपत् । तदोजसामस्तमिते सहस्र
रुचाविवान्यैरहता हुताशम् ॥ ८१ ॥ गुरौ श्रीहीरे, त्रिदशाङ्गनानां देववधूनां, अतिथित्वं गते मति, तदोजसा तत्तेजसां, संपत् अनूचानमाचार्य श्रीविजयसेनसूरि, इयायाऽऽगता, इवेति दृष्टान्ते, यथा सहस्ररुचौ रवी,
Page #549
--------------------------------------------------------------------------
________________
५२४ विजयप्रशस्त्याम् । अस्तमिते सति, तत्तेजाश्रीः, अन्यैरहता सती, हुताशं वह्नि, समेतीति ॥ ८१ ॥
गुरोरिताऽस्मिन् शुशुभेतरां श्री
महस्विनी श्रीयुवराजि यूनि । किमत्र चित्रं वनिता नवीना
विभाति यत् पुंसि वयस्थवर्ये ? ॥ ८२ ॥ अस्मिन् गुरौ श्रीयुवराजि, पुनः, यूनि, इता प्राप्ता, गुरोः श्रीमहस्विनी तेजस्वती, शुशुभेऽभात् , अत्रार्थे किं चित्रम् ? यतो नवीना वनिता वयःस्थवर्ये पुरुषे, प्राप्ता सती, विभात्येवेति।।८२।।
निरस्य तं शोकमशेषमोको ___ मुदामुदासीनहृदां वरेण्यः। श्रियं बिभर्ति स्म समस्तपूर्व___ मुनीमघोनां महतीमघोनाम् ॥ ८३ ॥
तं शोकं अशेषं निरस्य निवार्य, अत एव मुदां हर्षाणां, ओको मन्दिरं, तथा, आसन्नशुनिदानत्वादुदासीनहृदां वरेण्यः सूरिः, समस्तपूर्वमुनीमघोनां निःशेषप्राच्यमुनीन्द्राणां, मुनिरिव मुनीशब्दोऽप्यस्ति, श्रियं विभर्ति स्म, कीदृशी, महतीं, तथा अधेन पापेन ऊनां अघोनां निष्पापामिति ॥ ८३ ॥
अनेन गुर्वी तपगच्छधूर्वी - तरविना श्रीगुरुणेव दधे । हरेस्तनूजो हरिरव यत् स्यात्
सतां प्रसूते न हि विस्मयं तत् ॥ ८४ ॥ अनेन सरिणा, गुर्वी महीयसी, तपगच्छस्य धुरा श्रीगुरु
हो।
Page #550
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः ।
५२५
"
शेव तरखिना बलवता, दधे श्रीहीरसूरिणेव धृतेत्यर्थः तत् सतां विस्मयं न प्रसूते यद् यतः कारणात् हरेः सिंहस्य, तनूजो हरिः सिंह एव स्यादिति ॥ ८४ ॥ यमाप्य नेतारमहार्यवीर्य न गच्छलक्ष्मीरितरेच्छुरासीत् । भुवः सुतैच्छद् न पतिं यदन्यं विहाय रामं सतताऽनुकूलम् ॥ ८५ ॥
यं नेतारं स्वामिनं, आप्य प्राप्य, गच्छलक्ष्मीः इतरेच्छुर्नासीद् नापराभिलाषिणी जातेति कथमिति, यं कथं, अहार्य हर्तुमशक्यं वीर्यं बलं यस्येति तं ईदृशं पतिं त्यक्त्वा कथमपरमिच्छेदिति, उक्तमर्थमुपनयेन समर्थयति - यत् सतताऽनुकूलं रामं दाशरथिं पतिं विहाय त्यक्त्वा, भुवः सुता सीता, अन्यं नैच्छद् नावाञ्छदिति, युक्तोऽयमर्थो यत् अनन्यरमणीरते भर्तरि अनुकूले सति तद्भार्यापि नापरं वाञ्छति, तथा गच्छानुकूलमिममाचार्य प्राप्य गच्छ श्रीरप्यपरं न वाञ्छत्येवेत्यर्थः ॥ ८५ ॥
स्थितैतदसे श्रियमेत्यसौ धूमहीयसी मांसलतुङ्गवृत्ते ।
भगीरथांसेन विनेतरत्र
किमौचितीमञ्चति जहुकन्या ? ॥ ८६ ॥
एतस्य सूरेरंसे स्कन्धे, स्थिताऽसौ धूस्तपागणभारोद्धरणरूपा. धुरा, महीयसी महत्तरा, श्रियमेति, एतदं से कथं, मांसल व तुङ्गश्व वृत्तश्चेति मांसलतुङ्गचे; इदं युक्तमेव, यतो भगीरथाख्यनृपस्य सगरचक्रधरपौत्रस्य, अंसेन विना जहुकन्या गङ्गा, किं इतरत्राऽपरस्थाने, औचितीमुचितत्वमञ्चति गच्छति ? न गच्छतीत्यर्थः ॥८६॥
Page #551
--------------------------------------------------------------------------
________________
५२६
विजयप्रशस्त्याम् । अथ वसन्ततिलकाभिधानेन च्छन्दसा श्रीचरिराजराज्यं कविवर्णयति
राज्ये विराजिकमले समभूद् मृषादृक्____ खद्योतपोतपटलं गतधाम कामम् । यस्योदयं श्रितवति द्युतिमालिनीव
प्रोल्लासिभासि दलिताखिलतामसौघे ॥८७॥ यस्य गुरो राज्ये द्युतिमालिनीव सूर्य इव, उदयं श्रितवति उदिते सति, कीदृशे राज्ये सूर्ये च, विराजिनी कमला ज्ञानादिश्रीयत्र तत्र, पक्षे विराजि कमलं यत्र यस्मादिति वा, पुनः, प्रोल्लासिभासि दीप्रमहसि, पुनः दलितस्तामसः पापसंबन्धी, पक्षे ध्वान्तसंबन्धी ओयो येन तत्र, मृषादृशो मिथ्यादृश एव खद्यो. तपोतास्तेपां पटलं मण्डलं, गतधाम निस्तेजः, समभूत् , मिथ्यात्ववतां हीनता जातेत्यर्थः ॥ ८७ ॥
यद्राज्यवारिमुचि काममितेऽपि नित्य___ मौन्नत्यमत्र मुदितव्रतभृन्मयूरे । चित्रं वितीर्णकमलेऽप्यजडं यदासीद्
विश्वं नितान्तपरितोषितविश्वविश्वे ॥८॥ अत्र क्षेत्रे, यद्राज्यवारिमुचि यत्साम्राज्यमेघे, कि०, औनत्यं नित्यं इतेऽपि, पुनः किं०, मुदिता व्रतभृतः साधव एव मयूरायस्मात् तस्मिन् , पुनः, वितीर्णा कमला येन, पक्षे कमलं जलं येन; तथापीदं चित्रमाश्चर्यं यद् विश्वं अजडं आसीद् न विद्यते जडो यस्मिन्निति, पक्षे डलयोरैक्याजलमिति, तथा च यद्राज्यमेघे पुनः किं०, परितोषिता विश्वविश्वा समस्तपृथ्वी येन तस्मिन्निति चित्रश्लेपालङ्कारः ।। ८८ ॥
Page #552
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः। ५२७ सद्बुद्धिसिद्धतटिनीतुहिनाचले श्री.
शालिन्यनीतिसहितेऽपि यदीयराज्ये।। चित्रं न कस्यचिदभूदनयप्रवृत्ति
भूच्छायसंस्थितिरिवोष्णमयूखबिम्बे ॥ ८९ ॥ यदीयराज्ये, कीदृशे, सद्बुद्धिरेव सिद्धतटिनी गङ्गा तस्यां तुहिनाचले हिमाद्रौ, तदुत्पत्तिहेतुत्वादिति, पुनः, श्रीशालिनीति स्पष्टं, इदं चित्रं यत् अनीतिसहितेऽपि कस्यचिदनयप्रवृत्तिरन्यायस्य प्रवृत्तिर्नाऽभूत् , अनीतिसहिते हि अनयप्रवृत्तिः कथं न स्यात् ? अपि तु स्यादेवेति, परमत्र कोऽर्थः १ न ईतिः अनीतिः ईतेरभावस्तेन सहिते, यदीये राज्ये अनीत्यभावोऽप्यभूद्, यथा उष्णमयूखस्य रवेविम्बे, भूच्छायस्य तमसः संस्थितिर्न स्यादिति दृष्टान्तश्लेषशब्दच्छलालङ्कारा इति ॥ ८९ ॥ जाता जिता यदबला अमुनैष नस्तद्
वेषोऽर्हति स्मितदृशां प्रविधाय वेषम् । यद्राज्य इत्यगुरदिव्यदृशः कुवादि
वाताः परं विषयमुद्धतकामचारम् ॥९०॥ अमुना सूरिणा जिताः सन्तो वयं यद् अबला निर्बलाः स्त्रियश्च जाताः, तत् ततः, नोऽस्माकं, एप वक्ष्यमाणवेपोर्हति योग्यतामेति, इति हेतोः, स्मितदृशां स्त्रीणां, वेषं प्रविधाय यद्राज्ये कुवादिवाताः, किं०, अदिव्यदृशः असारमतयोऽसारदृशश्च, परं विषयं देशान्तरं, अगुः प्राप्ता इति, स्त्रीरूपा हि परं विषयं ब्रजन्त्येव, किं०, उद्धत उग्रः कामस्य चारः प्रचारो यस्मिन् । इति वीराद्भुतश्लेषाबलङ्कारसंकर इति ।। ९०॥
मा पश्यताद् यदितरः पितरं विना मां
Page #553
--------------------------------------------------------------------------
________________
५२८
विजयाशस्त्याम् । मत्वा वृषाश्रयममर्त्यपतेस्तनूजः । यद्राज्यमात्मजनकप्रणयादिवैष
भेजेऽनिशं सुमनसां सुखमूलमुच्चैः ॥ ९१ ॥ पितरं विना इतरः कोऽपि मां मा पश्यतादित्यतोऽमर्त्यपतेस्तनूजो जयनामा, यद्राज्यपक्षे वृपः पुण्यं, पक्षे वृषा शकइति, यद्राज्यं वृषाश्रयं मत्वा आत्मजनकस्य प्रणयादिव भेजे, यद्राज्ये स्वजनकप्रणयिता कथमित्याह-यद्राज्यं कि०, सुमनसां सतां, पक्षे देवानां सुखस्य मूलम् । उत्प्रेक्षाश्लेषालङ्कारः ॥९१॥ यो हारतां दिगबलाहृदयेष्ववाप
श्यामात्मरन्ध्ररहितोऽपि गुणीह भूत्वा । नव्यो विभाति शुचिमौक्तिकराशिरुच्चै
राज्यं यदीयमतिशायिमहस्समूहम् ॥ ९२ ॥ अतिशायिमहस्समूहं यद्राज्यं, नव्यः शुचिमौक्तिकराशिर्विभाति, नव्यत्वमेव भावयति-यः श्यामात्म यद् रन्ध्र छिद्रं तद्रहितोऽपि, गुणी भूत्वा दिश एवाऽवला दिगवलास्तासां हृदयेषु, हारतामवाप, परो हि मौक्तिकराशिः श्यामरन्ध्रसहितो गुणी, हारपक्षे गुणस्तन्तुः, राज्यपक्षे गुणा ज्ञानादयस्तद्वान् भूत्वा हारत्वं प्राप्नोति नायं तथेति नव्यत्वम्, राज्यस्य हारोपमा तु चतुर्दिशां शोभाहेतुत्वादिति ॥ ९२ ॥ व्यापादनग्रहणभीतिदुरुक्तिहेतु
रत्रापि यच्छबरधीवरभीरुसङ्गः। यद्राज्य इत्यसुखमस्ति वनेचरले
ऽप्युच्चैः कुवादिनिवहस्य मदावहस्य ॥१३॥
Page #554
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः ।
५२९
यद्राज्ये मदावहस्य कुवादिनिवहस्थ वनेचरत्वेऽपि असु खमस्ति कोऽर्थः १ वनेचरत्वमरण्यचारित्वमेकोऽर्थः वनेच रत्वं जलचारित्वं द्वितीयोऽर्थः वनेचरत्वं गृहचारित्वमिति तृतीयोऽर्थः, अत्रार्थत्रयरूपे वनेचरत्वे शवरधीवर भीरु सङ्गः, कीदृशः, व्यापादनग्रहण भीतिदुरुक्तिहेतुरिति प्रत्येकं योजनीयं, यथा वनेचरत्वेऽरण्यचारित्वे शवरेभ्यो भिल्लेभ्यो व्यापादनभर्मृत्युभीः, तथा वनेचरत्वे जलचारित्वे धीवरेभ्यो ग्रहणभीतिः, तथा वनेचरत्वे गृहचारित्वे भीरुभिः स्त्रीभिः कातरैंथ वा सङ्गो दुरुक्तिहेतुः कुवचनकारणमिति; यदीये राज्ये कुवादिनां वनेचरत्वेऽप्यसुखमस्तीति भावार्थः ॥ ९३॥ अस्माभिरत्र यदकारि तदेक एष
चक्रे चतुर्दिगवनं सततं स्वराज्यात् । इत्यप्सरः पितृपयोधननायका य
द्राज्यं विदन्त्यधिकमस्तसमस्तशत्रु ॥ ९४ ॥ यद्राज्यं इति हेतोः, अप्सरः पितृपयोधननायकाः क्रमेण शक्रयमवरुणकुवेराः, स्वराज्यात् अधिकं विदन्ति जानन्तीति, इति किमित्याह - अस्माभिश्चतुर्भिरपि संभूय यच्चतुर्दिशां अवनं रक्षणं, चतुर्दिगवनं अकारि कृतम्, तच्चतुर्दिगवनं “ अवनं रक्षणे प्रीणने च" इत्यनेकार्थत्वात्, चतुर्दिशां अवनं प्रीणनं एष गुरुः, एक एव चक्रे इति हेतोर्माहात्म्यदर्शनादधिकं यद्राज्यमिति उत्प्रेक्ष्यते ॥ ९४ ॥
तन्वन् मनांसि जगतामतिविस्मितानि यत्कीर्तिमौक्तिकततिष्वभवत् प्रवेशः । अच्छिद्रभृत्स्वपि गुणस्य नवीनराज्यक्षीराब्धिजासु सुमहोभरभासुरासु ॥ ९५ ॥
Re
Page #555
--------------------------------------------------------------------------
________________
५३.
विजयप्रशस्त्यास् । ___ यत् कीर्तय एव मौक्तिकततयस्तासु गुणस्य प्रवेशोऽभवदित्यन्वयः, यत्कीर्तिमौक्तिकततिषु किं०, नवीनराज्यमेव क्षीराब्धिः क्षीरसमुद्रस्तस्माज्जायन्त इति तासु अन्यापि मुक्ताली समुद्रजा भवतीति, तथाऽच्छिद्रभृत्यु कथं अपिर्विस्मये, यतः सच्छिद्रे एव प्रवेशः स्याद् न परमच्छिद्रे, ततो गुणस्य प्रवेशः किं कुर्वन् जगतां मनांसि अतिविस्मितानि तन्वन् , यत्कीर्तिः कि०, सुमहोभरेण भासुरासु एतावता यद्राज्ये गुणयुक्तैव कीर्तिरभूद् न तु दोषदुष्टेति भावः ॥ ९५ ॥ नैर्मल्यभृद्गुणगणैः कुमुदेन्दुकुन्द
कर्पूरकम्बुविशदैः परिक्लप्तयोच्चैः । यद्राज्यशोभनसिचापिहिता तथैषा ___ भूभामिनी नहि यथान्तरुदक्ष्यितेऽस्याः ॥९६॥ यद्राज्यरूपशोभनसिचा, एषा भूभामिनी तथा पिहिता यथाऽस्या अन्तर्नादीक्ष्यते एकत्र अन्तरवयवः, अन्यत्र अन्तर्मध्यं प्रान्तो वेति वास्तवार्थः, यद्राज्यसिचा कथं, नैर्मल्यभृद्गुणगणैः किं०, कुमुदेन्दुकुन्दकर्पूरकम्बुविशदैः परिक्लुप्तया रचितया, तथाऽन्यापि निर्मलगुणग्रथितवस्त्रेणाच्छादिता नान्तनिरीक्ष्यत एवेति ॥ ९६ ॥
पञ्चत्वमाप स कुवादिगृहे तदीया
मर्षाद् वृषः स्थितिमियाय यदीयराज्ये । श्रद्धावतां मतिमतां चतुरः प्रकारा
नाधाय धामसु सदा भुवि दानमुख्यान् ॥१७॥ यदीयराज्ये श्रद्धावतां मतिमतां धामसु गृहेषु, दानमुख्यान् दानादिकांश्चतुरः प्रकारानाधाय यो दृषो धर्मः, स्थितिमियाय प्राप्तः, उत्प्रेक्ष्यते-बदीयामर्षात् चतुष्प्रकारप्राप्तटपाऽमर्षादुत
Page #556
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः! ५३१ श्रद्धावदमर्षात् , कुवादिगृहे स वृषः पञ्चत्वमाप मृत इति, कुवा- . दिनां गृहात् पुण्यं गमिति तत्त्वम् ॥ ९७ ॥..
माहात्म्यमञ्जुलमहाव्रतिचित्तवृत्ति
मुल्लासिनी वितनुतेऽनिशमुत्तमायाः। यद्राज्यनीतिरनघा रसराजरक्ता
भातीत्यनन्ततटिनीव पवित्रताठ्या ॥ ९८ ॥ इति हेतोर्यद्राज्यनीतिः अनन्ततटिनीव गङ्गेव, भातीति, कीदृशी, रसराजे शान्तरसे रक्ता, गङ्गापक्षे रसराजः समुद्रस्तत्राऽपरं स्पष्टं, इतीति कुत इत्याह-या राज्यनीतिर्माहात्म्यमञ्जुलामहाव्रतिनो यतयस्तेषां चित्तवृत्तिमुल्लासिनी वितनुते, पक्षे महाव्रती महादेवः; शेषं सुगमम् ।। ९८ ॥ सद्धर्मतर्णकमसूत विनैव गर्भ
याऽदाद् यशःशुचिपयश्च कुचैर्विना या । याति स्म याऽतिरुचिरं चरणोज्झितापि
यद्राज्यनीतिरजनीति जने नवा गौः ॥९९॥ यद्राज्यनीतिः, इति हेतोः, नवा नूतना गौः, अजनि; इतीति कि०, या गर्भ विनैव सद्धर्म एव तर्णको वत्सस्तमसूत, अपरा गौर्गर्भधारणादिना तर्णकादि प्रमूते, तथा या यश एव शुचिपयो दुग्धं कुचैर्विनाऽदात् , परा हि क्षीरं कुचैरेव दत्ते, तथा या चरणोज्झितापि कलहोज्झितापि, याति स्म शब्दच्छलाचरणोज्झिवापीति चित्रम् , अन्या च चरणैरेव चलतीति नवीनत्वम् ॥१९॥
शाक्री सभेव विबुधस्थितिरुत्तमास्या ___ कान्तेव देवतटिनीव महाव्रतीहा । . सिन्धोः सुतेव पुरुषोत्तमदत्तहर्षा
Page #557
--------------------------------------------------------------------------
________________
५३९ विजयप्रशस्त्याम् ।
विभ्राजते जगति यद्गुरुराज्यनीतिः॥१०॥ यद्गुरुराज्यनीतिर्विभ्राजते, कथं शक्रस्येयं शाक्री सभेव कीदृशी, विबुधानां पण्डितानां, पक्षे देवानां स्थितिर्यस्यां सा, तथा कान्तेव उत्तमं आस्यं मुखं यस्याः सा, पक्षे उत्तमानां आस्या स्थितिर्यस्यां सा, तथा देवतटिनीव महाव्रतीहेति स्पष्टम् ; तथा सिन्धोः सुतेव पुरुषोत्तमानां दत्तो हों यया, पक्षे पुरुपोत्तमस्य हरेरिति ॥ १० ॥
यः प्राप्य हीरविजयव्रतिराजराज्यं __ शोभां बिभर्ति भृशमस्ततमःसमूहः । स्तोमैर्गवां कुवलयोत्सवहेतुरुच्चैः
पक्षं शितीतरमिवौषधिजीवितेशः ॥ १०१॥ यः श्रीसूरिः श्रीहीरविजयतिराजस्य राज्यं प्राप्य शोभा विभर्ति,कः कमिव,शितीतरं शुक्ल पक्षं प्राप्य औषधिजीवितेशश्चन्द्रइव, सूरिश्चन्द्रश्च किं०, अस्तः तमसः पापस्य अन्धकारस्य च समूहो येन सः, तथा गवां वाचां किरणानां च स्तोमैन्दैः कुवलयस्य भूवलयस्य कुवलयानां चोत्पलानां उत्सवहेतुरिति; शेष सुगमम् ॥ १०१॥ जज्ञे राज्ञि नवे प्रभौ व्रतवतां सद्योऽमृतध्वंसकृद् नोद्वेगस्तमसो भियामयमभूद् न स्फूर्तिमान विस्मयः। एतचित्रमतीव विस्तरवती वार्ता वरां गाहते यत् सङ्गं सकलाः कला विदधिरे कामोत्सवे हेतवः॥१०२॥
व्रतयतां मुनीनां प्रभौ अस्मिन्नव्ये राज्ञि सति, तमसो राहोः पापस्य च, भियां उद्वेगो न जज्ञे, कीदृशः, अमृतस्य मोक्षस्य, पक्षे सुधाया ध्वंसकृत् अयं न विस्मयोऽस्तीति, कथं नव्ये
Page #558
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः । राशि चन्द्र तमसो राहोर्भियामुद्वेगो न भवत्येव, दिने दिने वृद्धिमत्वादिति, परं एतचित्रं अतीव विस्तरवतीं वार्ती गाहते, एतदिति किं०, यन्नवे राज्ञि सकलाः कलाः सङ्गं विदधिरे, किं०, कामोत्सवे हेतवः कारणमिति नवं हि राजानं चन्द्रं कला युगपत् सर्वा अपि न गच्छन्ति कलाद्वयशेपभृत्यादित्यद्भुतम् ॥१०२॥ अभूदसिन् लक्ष्मीरतिरतिकरी हीरविजय
व्रतीन्द्रस्यैश्वर्य श्रितवति गुरौ गौरवगृहे । सहस्रांशोरुस्रोत्करमिव वरं दीपकलिकाकुरे स्फाराकारे कलयति जनोल्लासजननी ॥१०॥
अस्मिन् श्रीविजयसेनमूरो, श्रीहीरविजयव्रतीन्द्रस्यैश्वर्य प्रभुत्वं, श्रितवति लक्ष्मीर्जिनशासनप्रभुता रूपा, अतिरतिकरी, अभूद् जातेति, इवेति दृष्टान्ते, यथा सहस्रांशोः सूर्यस्य, उस्रोत्करं रुचिभरं, दीपकलिकाङ्कुरे कलयति सति, लक्ष्मीर्भवति, कीदृशी, जनोल्लासजननीति विशदम्, अत्र सर्गे उपेन्द्रवज्राख्यं छन्दः, अन्त्ययोत्तयोः प्रथमे शार्दूलविक्रीडितं द्वितीये शिखरिणी चेति, तल्लक्षणं तु प्रागुक्तमेव ॥ १०३ ॥
इतीति सर्वमवदातम् । इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनयवाचकश्रीगुणवि'जयगणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां चतुर्दशः सर्गोऽर्थतः समर्थितः।।
Page #559
--------------------------------------------------------------------------
________________
अहम् अथ पञ्चदशः सर्गः।
अथ पञ्चदशः सर्गः प्रारभ्यतेअथ गुरुस्तपगच्छपरम्परा
पुटकिनीतुहिनेतरदीधितिः । विहरति स्म शुभेऽहनि पत्तना
दतमसं विदधद् वसुधामिमाम् ॥ १॥ अथ भट्टारकत्वमाप्तौ, गुरुः श्रीविजयसेनमुरिः, किं०, तपगच्छपरम्परैव पुटकिनी पद्मिनी तस्यां तुहिनेतरदीधितिरुष्णराश्मिः सूर्य इति यावत् , किं कुर्वन् , इमां वसुधां अतमसं सोद्योतां निष्पापां वा, विदधत् शुभेऽहनि पत्तनाद् विहरति स्मेत्यर्थः ॥१॥ अथ त्रिभिर्वृत्तैरर्थं समर्थयतिरय इव द्युसदां सरितो गवां
समुदयैः सुखिताखिलभूतलः । कृतमहाव्रतिचित्तसमुन्नतिः .. सुमनसां प्रचुरप्रमदैकभूः ॥ २ ॥ स विचरन् क्रमतो वसुधावधू
तिलकतुल्यमतुल्यमहोदयम् । क्षितिषु तीर्थमिति प्रिययाह्वया
प्रथितमुत्तमसंपदभङ्गुरम् ॥ ३ ॥
Page #560
--------------------------------------------------------------------------
________________
पश्चदशः सर्गः। नगरमब्धितरङ्गविराजितं
सकलमङ्गलमञ्जुलमागमत् । तदतिलङ्कमकार्यजडादरं
पुरमसौ विशति स्म गुरूत्तमः ॥ ४ ॥ घुसदां सरितो गङ्गायाः, रयः प्रवाह इव, गवां वाचां, समुदयैः, पक्षे गवां पाथसां, समुदयः, सुखितं अखिलं भूतलं येन सः, कृता महावतिनो महावतिनां च चित्तसमुन्नतिर्येन सः, पुनः, सुमनसां सतां सुराणां च, प्रचुरप्रमदस्यैकं भूः स्थानम् ॥२॥स क्रमतो विचरन् वसुधावध्वास्तिलकतुल्यं, पुनः, अतुल्यो महोदयो यत्रेति क्षितिषु तीर्थमिति स्तम्भतीर्थमिति, प्रियया आह्वया रुचिरया संज्ञया, प्रथितं, पुनः, उत्तमा या संपत् तया अभङ्गुरमविनाशि ॥ ३॥ गुरूत्तमः श्रीमूरिः, तन्नगरं स्तम्भतीाख्यं, किं०, अब्धेः समुद्रस्य तरङ्गैर्विराजितं, पुनः, सकलमलैर्मञ्जुलं, पुनः, कार्ये जड़ाः कार्यजडा मूर्खा T विद्यते कार्यजडानां आदरो यत्र तत् अकार्यजडादरं, अत एव अतिलक् अतिक्रान्ता लङ्का येनेति तत् , लङ्का हि कानां नीराणां अर्यः पतिः कार्यः समुद्रस्तस्य, जले न विद्यते आदरो यस्याः सा ईदृशी न स्यात् , विशति स्मेति प्राविशत् ॥ इति त्रयाणां व्याख्या ॥४॥ .. भवदतुच्छमहोत्सवपेशलं
नगरमेत्य तदद्भुतमङ्गलम् । प्रविदधे बृहती स्थितिमाग्रहाद्
गृहवतां स इहैव गुरुस्तदा ॥ ५॥ भवन्तो येऽतुच्छा महोत्सवास्तैः पेशलं, तन्नगरं तीर्थाख्यं,
Page #561
--------------------------------------------------------------------------
________________
५३६ विजयप्रशस्त्याम् । अद्भुतमङ्गलं यथा स्यात्तथा, एत्यागत्य, गृहवां अगारिणां, आग्रहाद् बृहती स्थिति ज्येष्ठस्थिति, प्रविदधे ॥ ५॥ अथ च तत्र पुरे वसतः प्रभो
रजनि लाभ उदारमहा महान् । कुसुमकाण्डभिदः सुहृदो दिगो. कसि तमिस्ररिपोरिव तस्थुषः ॥ ६॥ __ अथ चतुर्मासस्थित्या, तत्र प्रभोर्वसतः सतः, उदारं महस्तेजः उत्सवो वा यत्र सः, लाभो महान् अजनि जात इति, यथा तमिरिपो रवेः, कुसुमकाण्डभिदः स्मरारेः, सुहृदो धनदस्य, दिगोकसि उत्तरस्यां, तस्थुपः स्थितवत इति उत्तरायणे हि सूर्यस्य तेजोद्धिः स्यादेवेति ॥ ६॥
पुरि च तत्र विधाय बहुस्थिति ____ सततसुस्थितधर्मपथस्थितः। गुरुवरो विजहार ततः पुरात्
प्रमुदिताखिललोकपरम्परात् ॥ ७ ॥ .. तत्र पुरे, बहुस्थितिं विधाय वहून् मासान् स्थित्वा, गुरुवरः कि०, सततं मुस्थिते धर्मपथे मर्यादारूपे स्थितः, ततः पुरात किं०, गुरुस्थितेरेव प्रमुदिताऽखिललोकपरम्परात् , विजहार विहतवानिति ॥ ७॥
अथ च निर्जरनिर्झरिणीरया
दतिपवित्रतया प्रथितैः सदा। भुवमिमां परितः परिपावयन्
पदपयोरुहपांसुभिराप्तराट् ॥ ८ ॥
Page #562
--------------------------------------------------------------------------
________________
पञ्चदशः सर्गः ।
सुमनसां प्रियवृत्तिरुदारदृक् त्रिदशसाल इवेहितदायकः । क्रमत आर्यतमक्रमविक्रमोSकमिपुरं नगरं गुरुराययौ ॥ ९ ॥
अथ आप्तेषु राद् मुख्यः, किं कुर्वन्, पदपयोरुहपांसुभिः क्रमकमलरेणुभिः किं०, निर्जर निर्झरिणी गङ्गा तस्या रयात्मवाहादतिपवित्रतया प्रथितैः ख्यातैः, भुवं पृथ्वीं, पावयन् पवित्रयन् ॥८॥ गुरुः किं०, सुमनसां प्रिया वृत्तिर्यस्य सः, त्रिदशसाल: कल्पaरिव, ईहितदायकः, पुनः, आर्यतमः प्रशस्यतमः क्रमविक्रमः परम्परासामर्थ्यं यस्य सः, क्रमतोऽनुक्रमात्, अकमिपुरं नगरं अहम्मदावादं नगरं, आययौ ।। इति युग्मव्याख्या ||९|| शुशुभिरे कलसाः किल काञ्चनाः प्रतिपथं पुरि तत्र महखिनः । प्रचुररूपभृदर्क इवाभ्यगाद् गुरुमुखात्मवयस्य दिदृक्षया ॥ १० ॥
·
५३७
तत्र तस्यां पुरि, सूरेः प्रवेशावसरे काञ्चनाः कलसाः प्रतिपथं शुशुभिरेऽशोभन्तेति । उत्प्रेक्ष्यते - गुरुमुख एव आत्मवयस्यः पद्मः, अथवा मुखस्यापि सूर्योपमासद्भावाद् गुरुमुख एव आत्मवयस्यो बन्धुस्तस्य, दिदृक्षया मचुररूपभृद् बहुरूपवान्, अर्कः सूर्य इव, अभ्यगात् प्राप्तः, अत एव कलसा महस्विनस्तेजखिनइति ॥ १० ॥
विविधवर्णधरैर्वरतोरणैः श्रियमवाप पुरं तदनर्गलाम् । जलधरस्य समागमनक्षणे
६९
Page #563
--------------------------------------------------------------------------
________________
५३८ विजयप्रशस्त्याम् ।
नभ इव त्रिदशाधिपधन्वभिः ॥ ११ ॥ ___ तत् पुरं तदा विविधवर्णैवरतोरणैः श्रियं अनर्गलां अवाप, किमिव, नभ इव, यथा नभो जलधरस्यागमनावसरे त्रिदशाधिपधन्वभिरिन्द्रधनुर्भिरिति ॥ ११ ॥ स्मितदृशां मुदभूद् धवलध्वनिः
पुरि तदाऽत्र महोत्सवकारणम् । वनभुवीव वनप्रिययोषितां ___ मदभृतामतुलं कलकूजितम् ॥ १२ ॥
तत्प्रवेशोत्सवेऽत्र पुरि महोत्सवकारणं स्मितदृशां स्त्रीणां, धवलध्वनिः उदभूत् प्रकटित इति, यथा वनप्रिययोषितां कोकिलानां, कलकूजितं वनभूमौ वसन्तागमे भवतीति ॥ १२ ॥ श्रियमधात् पुरि तत्र मृगीदृशां
ततिरतीव तदाभरणाद्भुता । गुरुघनोदयदर्शनकाङ्क्षिणी
फणिभुजां सरसीजदृशामिव ॥ १३ ॥ तदा तत्प्रवेशोत्सवे, तत्र पुरि मृगीदृशां स्त्रीणां ततिः, अतीव श्रियं शोभां, अधात् किं०, आभरणाद्भुता, पुनः, गुरोर्यो घनोदयस्तदर्शनस्य काङ्क्षिणी, यथा फणिभुजां मयूराणां, सरसीजदृशां स्त्रीणां मयूरीणां, ततिर्गुरुर्महान् यो घनोदयो पेघोदयस्तदर्शनकाशिणी, श्रियं उत्साहरूपां, धत्ते तथेति ॥१३॥ विविध धरध्वजधोरणी
पुरि च तत्र विभातितमां तदा । वरदुकूलवती ततिरागता
Page #564
--------------------------------------------------------------------------
________________
पञ्चदशः सर्गः।
५३९ गुरुमिवेक्षितुमप्सरसामियम् ॥ १४ ॥ तदा गुर्वागमक्षणे, तत्र पुरि विविधवर्णधरध्वजानां धोरणी श्रेणी, विभातितमा उत्प्रेक्ष्यते-अप्सरसां वतिर्मुरुमीक्षितुमागतेव, कीदृशी, वरदुकूलवती प्रधानपट्टकूलपरिधाना सुराङ्गना एता इवेति । इति गुरुप्रवेशोत्सववर्णनम् ॥ १४ ॥ रजतकाञ्चनमुख्यधनार्पण
प्रमुदितार्थिभिरास्तिकहस्तिभिः । भृतममर्त्यनगैरिव नन्दनं
विबुधरम्यमुदारवृषादरम् ॥ १५ ॥ इति मनोज्ञमहोर्मिपरम्परं
पुरमिदं पुरुषोत्तमवल्लभम् । गुरुरघौघहरो हरशेखरा__रय इव प्रविवेश पयोनिधिम् ॥ १६ ॥
अनयोईयोाख्या यथा-इति वर्णितरीत्या, मनोज्ञा ये महा उत्सवास्तद्रूपा ये ऊर्मयो वीचयस्तेषां परम्परा यस्मिन् तत् , पुनः, पुरुषोत्तमैनरोत्तमैः, पक्षे पुरुषोत्तमस्य विष्णोः प्रियं अत एव पयोनिधि, हरशेखरारय इव गङ्गाप्रवाह इव, गुरुः किं०, अघौघहर इति द्वयोर्विशेषणम् इदं पुरं पूर्वोक्ताह,प्रविवेशाविशत्, पुरं किं०,अमर्त्य नगैः कल्पवृक्षः, नन्दनवनमिव आस्तिकहस्तिभिः श्राद्धदैः, भृतं, कीदृशैः, रजतकाश्चनप्रमुखवित्तार्पणेन प्रमुदिताअर्थिनो यैस्तैः, अतस्तेषां कल्पतरूपमेति, नन्दनं नगरं च किं०, विबुधैः पण्डितैः देवश्च रम्यम् , अग्रगं स्पष्टम् ॥ इति युग्मव्याख्या ॥ १५॥ १६ ॥
समणिभिः कनकैरनगारराड्.
Page #565
--------------------------------------------------------------------------
________________
५४०
विजयप्रशस्त्याम् ।
गुरुरपूजि गृहस्थमतङ्गजैः। अमरभूमिरुहः कुसुमोत्करै
मखभुजामधिभूरिख भूरिभिः ॥ १७ ॥ स नगरमागतो गुरुः, अनगारराड् मुनीन्द्रः, गृहस्थेषु मतङ्गजा हस्तिनस्तैः, समणिभिः सरत्नैः, कनकैः स्वर्णटङ्ककैः, अपूजि पूजितः, इवेत्युपनये, यथा मखभुजां सुराणां, अधिभूः स्वामी शक्रः, अमरभूमिरुहः सुरद्रोः, कुसुमोत्करैः पूज्यत इति ॥१७॥
महसि तत्र तदा गृहमेधिभि
वितरणं विदधेऽर्थिषु संपदाम् । अनशदाशु यथा सहरेर्वनाद्
मृग इवाऽधनता तदगारतः ॥ १८ ॥ तत्र महसि गृहमेधिभिहस्थैः, अर्थिषु संपदा वितरणं तथा विदधे मार्गणेभ्यः स्वर्णादि तथा दत्तं, यथा तदगारतस्तद्रेहात् , अधनता, दारिद्र्य, आशु शीघ्रं, अनशद् नष्टेति, यथा सहरेः ससिंहात्, वनाद् मृगो नश्यति तथेति ॥ १८ ॥ स्थितिमितेऽथ गुरौ सुखमासमा
सहगभूत् सुषमासुषमास्पदम् । शरदपारसुखा पुरि तत्र सा __ भवति शर्म पदे यदमूदृशाम् ॥ १९ ॥ 'तत्र पुरि गुरौ स्थितिमिते स्थिते सति, सा शरत् सुषमासमासदृक् अभूत् तद्वर्ष अतिसुखवज्जातं सर्वेषां लोकानामिति, ततएव शरत् , कथं०, सुषमायाः परमशोभायाः सुषमं रुचिरमास्पदम्, तथाऽपारं सुखं यत्र सा, यद् यतः, अमूदृशां महतां पदे शर्म भवत्येवेति ॥ १९॥
Page #566
--------------------------------------------------------------------------
________________
पञ्चदशः सर्गः ।
सुकृतदेशनया सुगुरोस्तदा सुकृतधीर्जनताऽजनि भूयसी । प्रसरता मरुता मलयोद्भुवा फलदलाभिमुखेव वनावली ॥ २० ॥
तदा तत्रस्थस्य सुगुरोः सुकृतदेशनया भूयसी जनता जनसंहतिः, सुकृते धर्मे धीर्यस्याः सा, अजनि जाता, यथा मलयोछुवा मरुता मलयाचलजेन पवनेन, प्रसरता सता, वनावली फलदलाभिमुखी भवति ॥ २० ॥
बहुरभूत् पुरि तत्र धनव्ययः सुकृतकर्मणि मुक्तिफलस्तदा ।
सलिलवृष्टिरिवातुलतापहृत्
क्षितितले मधुरा मुदिरागमे ॥ २१ ॥
9
तदा गुरोस्तत्र स्थितौ सत्यां तत्र सुकृतकर्मणि, धनव्ययो बहुरभूत्, इवेति दृष्टान्ते, यथा मुदिरागमे मेघागमे, सलिलवृष्टिः किं०, अतुलतापहृद् भवतीति ॥ २१ ॥
सुगुरुचारुवचोभिरुदञ्चितः
सुकृतभूमिषु वप्तुमनाः श्रियः ।
भविकभाजनभोटकसंज्ञकः
सशिवसाधुशिवान्वयचन्द्रमाः ॥ २२ ॥
निजभुजार्जितसुन्दरसंपदां
५४१
पदमहम्मदपूर्वपुरस्थितिः ।
बलिषु शालिषु शीलिषु चाग्रणी -
Page #567
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
रिह विभाति भुवस्तलभूषणम् ॥ २३ ॥ अनयोर्व्याख्या- सुगुरोः चारुवचोभिः उदश्चितो रोमाडरित उत्साहित इति, अत एव सुकृतभूमिषु धर्मस्थानेषु श्रियो वप्तुकाम इति, पुनः किं०, भविकस्य मङ्गलस्य भाजनम्, एवंभूतो भोकसंज्ञः साधुभोदाख्यः श्राद्धः पुनः किं०, सशिवः सकुशलो यः साधुः शिवस्त पिता तस्याऽन्वये चन्द्रमाः ॥ २२ ॥ पुनः किं०, निजभुजाभ्यां अर्जिता याः सुन्दराः संपदस्तासां पदं, पुनः, अहम्मदपूर्व यत् पुरं अहम्मदपुरं तत्र स्थितिर्यस्येत्यहम्मदपुरवास्तव्य इति, तथा बलिषु बलवत्सु, शालिषु शोभनेषु, शीलिषु शीलवत्सु, अग्रणीर्मुख्यः ; अत एव भ्रुवस्तलभूषणं, इहावसरे, विभातीति ॥ इति युग्मव्याख्या || २३ || अथ च तेन महेभ्यबिडौजसा
सुकृतिना कृतिनाऽऽशु विधापितम् ।
५४२
--
घनधनव्ययचारुमहोत्सवै
यतिपतिजिनबिम्बमतिष्ठिपत् ॥ २४ ॥
अति लाग्निकदिवसे माघशुक्लपञ्चम्यां तेन सा० भोटारूयेन, किं०, महेभ्येषु विडौजसा इन्द्रेण, पुनः, सुकृतिना, पुनः, कृतिना, विधापितं जिनविम्बं घनघनव्ययचारुभिर्महोत्सवैर्यतिपतिर्गुरुः, अतिष्ठिपत्प्रतिष्ठाविषयीकुरुते स्मेति ॥ २४ ॥
कुमतिकुञ्जरकेसरिणस्तदा विबुधलब्धिपुरस्सरसागराः । विदधिरेऽथ तपखिपुरन्दरैगुणगणप्रवरैः खलु वाचकाः ॥ २५ ॥
तदा सा० भोटाख्यव्यवहारिप्रतिष्ठादिने, गुणगणप्रवरैस्त
Page #568
--------------------------------------------------------------------------
________________
पञ्चदशः सर्गः ।
५४३
पविपुरन्दरैः सूरिभिः, विबुधलब्धिपुरस्सरसागराः पं०लब्धिसागराः, वाचका विदधिरे, यतस्ते किं०, कुमतिकुञ्जरकेसरिणइति तेषां संघाग्रहात् श्रीगुरुभिरुपाध्यायपदं प्रदत्तमिति ||२५|| अथाहम्मदाबादे प्रतिष्ठामाहपुरवरेऽत्र महेभ्यवछाभिधो जवहरीहरिमन्त्रिसमो धिया ।
श्रियमियति य आर्यमनोरथो
जिनवचरसरसीरुहषट्पदः ॥ २६ ॥
अथाऽस्मिन् पुरवरेऽकमिपुरे, महेभ्यः वछाभिधो जवहरीः, श्रियं इत्यन्वयः, कथं०, यो व्यवहारी आर्या मनोरथा यस्येति, पुनः किं०, जिनवच एव सरसीरुहं तत्र पट्पदो भृङ्गः, तत एव हरिमन्त्री बृहस्पतिस्तत्समो घियास्तीति ॥ २६ ॥ अथ च तेन विधापितमुत्तमं जिनबिम्बमघाब्धिघटोद्भवम् ।
सकलसूरिशिरोमणितां गतो गुरुरुरूत्सव पूर्वमतिष्ठिपत् ॥ २७ ॥
तेन जवहरिवच्छाभिधानेन, विधापितं जिनपविम्बं किं०, अघाब्धौ पापपाथोधो घटोद्भवोऽगस्तिस्तं गुरुः किं०, सकलसूरिषु शिरोमणितां गतः प्राप्तः श्रीविजयसेनसूरिः, उरूत्सवपूर्व अतिष्ठिपत् ।। २७ ।।
इतरदप्यनगारपुरन्दराः
सुकृतकृत्यमकृत्यगजाङ्कुशाः । विदधिरे बहु तत्र पुरे सुखं
Page #569
--------------------------------------------------------------------------
________________
५४४ विजयप्रशस्त्याम् ।
दिनसगृद्धिमिवाम्बरकेतवः ॥ २८ ॥ __ तत्राकमिपुरे, अनगारपुरन्दराः श्रीगुरुवः, इतरदपि नानाविधं, सुकृतकृत्यं पञ्चमहावताणुव्रतब्रह्मवतारोपणादि, विदघिरे गुरुवः कि०, अकृत्यरूपगजस्य अङ्कुशाः, यथा अम्बरकेतकः पूज्यत्वाद् वहुत्वं सूर्या दिनसमृद्धिं विदधत इति ॥२८॥
सुखमशेषमखण्डलविक्रमा
बुभुजिरे पुरि तत्र गुरूत्तमाः। प्रचुरपौरपयोजपरम्परा
प्रणयपूरणपङ्कजिनीप्रियाः ॥ २९ ॥ तत्र पुरि गुरूत्तमाः किं०, अखण्डलविक्रमाः केनाप्यखण्डितपराक्रमाः, पुनः, प्रचुरेति स्पष्टम् , अशेपं सुखं बुभुजिरे सदैव सुखिनोऽभूवन्निति ॥ २९॥ गुरुमुदीक्ष्य सुपुण्यपयोनिधि
प्रणयदं च महाव्रतिवल्लभम् । मुदमियाय जनोऽत्र महीयसी
हिमरुचिं चलचञ्चुरिवोच्चकैः ॥ ३० ॥ अत्र नगरे गुरुमुदीक्ष्य दृष्ट्वा, जनो महीयसी मुदं, इयाय, कः कमिव, चञ्चलचञ्चुश्चकोरो यथा हिमरुचिं चन्द्र, गुरुं च चन्द्रं च किं०,सुपुण्यरूपः पयोनिधिः समुद्रस्तस्य प्रणयदं प्रीतिप्रदमिति, परोऽपि पयोधिप्रणयप्रदो भवति, तथा महाव्रतिनां वल्लभं, पक्षे महाव्रतिनो हरस्य तेन मूनि धृतत्वादिति ॥ ३०॥
द्रुतविलम्बितच्छन्दसा सर्ग निर्माय हरिण्योपसंहरतिश्रितवति गुरौ चङ्गं द्रङ्गं तमुल्वणदोर्बले दृगजनितमां द्राग् निस्तेजाः कुपाक्षिकभूस्पृशाम् ।
Page #570
--------------------------------------------------------------------------
________________
षोडशः सर्गः ।
गगनमनघं पत्यौ भासां सभास्यधितष्ठुषि प्रभवति महः काकारीणां कियान् यदद्यात्मनाम् ॥३१॥
गुरौ तं चक्रं द्रङ्गं श्रितवति सति, कुपाक्षिका ये भूस्पृशः प्राणिनस्तेषां दृग् दृष्टिः, द्राग् निस्तेजा अजनि जातेति, गुरौ किं०, उल्वणं दोर्बलं यस्येति, यद् यतो हेतोः, भासां पत्यौ रवौ, गगनं अधितष्ठुषि स्थिते, अघात्मनां पापिनां काकारीणां घूकानां, कियान् मह उत्सवः, प्रभवति ? अपि तु न भवतीत्यर्थ इति ॥ ३१ ॥
५४५
इतीति कण्ठ्यम् ॥
इति सकलसुविहितत्तभासार्वभौमसमान पण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयग णिसुशिष्यमुख्य पण्डितपुरन्दरमख्यपण्डितश्रीविद्याविजयगणिविनेयवाचक श्रीगुणविज
यगणिविरचितायां श्रीविजयप्रदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां पञ्चदशः सर्गोऽर्थतः समर्थितः ॥ *88%
अहम्
अथ षोडशः सर्गः ।
अथ षोडशः सर्गः समारभ्यतेश्रीमत्यत्र पुरे पुरन्दरपुरप्रख्ये सुपर्वादरे विश्वोल्लासकरैर्घनैरिव महै रम्यं चतुर्मासकम् । कृत्वा कान्तसरस्वती परिचयः प्रान्तेऽथ वर्षास्थितेः
Page #571
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
प्रापत् कृष्णपुरं मराल इव भूलोकं सपद्मं प्रभुः॥ १ ॥ अत्राऽकमिपुरे पुरे, श्रीमति शोभावति, चतुर्मासकं कृत्वा वर्षास्थितेः प्रान्ते कृष्णपुरं कालूपुरं नाम शाखापुरं, प्रभुः प्रापत् पुरे किं०, पुरन्दरपुर प्रख्ये स्वर्गतुल्ये, अतः सुपर्वादरे सुशोभनानां पर्वणामुत्सवानामादरो यत्रेति, पक्षे सुपर्वाणो देवास्तेषामादरो यस्मिन्निति, चतुर्मास किं०, घनैर्मेधैरिव महै रम्यं मेधैर्महेश्व किं०, विश्वोल्लासकरैरित्युभयोस्तुल्यत्वं, प्रभुः किं०, कान्तः सरस्वत्याः श्रुतदेव्या अर्थात् सर्वज्ञवाचां परिचयो यस्येति, क इव, मरालइव, तत्पक्षे कान्तः सरस्वत्या नद्याः परिचयोऽथवा सरस्वत्याः वाग्देव्या वाहनत्वात् परिचयो यस्येति, यथा मरालो वर्षास्थितेः प्रान्ते भूलोकं प्रामोति, कृष्णपुरं भूलोकं च कथं०, सपद्मं सह पद्मया वर्तते यत् तत् सपद्मं, पक्षे सपद्मं सकमलमिति ॥ १ ॥ तत्र चित्रकृत् किं जातमित्याह
५४६
सोऽश्रौषीद् नगरान्तरस्ति भगवान् श्रीपार्श्वचिन्तामणिः प्रौढे ढकुकपाट के विनिहितस्तत्रैकदेति स्थितः । जज्ञे खप्ननिमित्तशस्तशकुनैः पूरैरपां भूरिभिवृष्टिं वारिमुचामिवात्यविरलां सम्यक् च तत् सूरिराट् ॥ २॥
"
एकदा एकत्र समये, तत्र कृष्णपुरे स्थितः स सूरिराद् परम्परया इत्यश्रौषीत् शुभाव, इतीति किं । तदाह - नगरान्तः श्री अहम्मदाबादमध्ये, ढींकुआख्ये पाटके, श्रीचिन्तामणिपार्श्वो भगवान् भूमध्ये केनापि पुरा विनिहितोऽस्ति तच्च स्वमनिमित्तशस्तशकुनैः सम्यक् सत्यं जज्ञे ज्ञातवान् यथा भूरिभिरपां पयसां नदीसंबन्धिनां पूरैर्वारिमुचां घनानां दूरदेशान्तरदृष्टानामपि दृष्टिं जानन्तीति तथेति ।। २ ।। प्रत्यर्थिक्षितिपालपङ्कजदृशां वैधव्यदीक्षागुरोः
"
Page #572
--------------------------------------------------------------------------
________________
षोडशः सर्गः
५४७
शाहिश्रीमदकब्बरावनिभुजः प्रोच्चैः प्रसादास्पदम् | तत्रासन्नधिकारिणोऽथ पुरि ये काजीहुसेनादयस्तेषां संगतमास्तिकैः प्रविदधे प्रौढिः प्रभोश्वोक्तिभिः ॥३॥
अथेति समये, तत्र पुरि राजनगरे, प्रत्यर्थिक्षितिपाला वैरिराजानस्तेषां पङ्कजदृशः स्त्रियस्तासां वैधव्यं विधवात्वं तस्य दीक्षागुरोर्वैरिनारीरण्डात्वमापकस्येति समस्तशत्रु संहारणादेवंभूतस्य, शाहिश्रीमदकब्बराऽवनिभुजोऽकब्वरनृपतेः प्रोच्चैः प्रसादास्पदं अधिकारिणो ये काजीहुसेनादय आसन् बभूवुः, तेषां संमतं प्रभोर्गुरोश्वोक्तिभिर्वाग्भिः, आस्तिकैः प्रौढिः उद्यमोऽर्थात्मकटीकरणरूपः, प्रविदधे निर्मितेति ॥ ३ ॥ आरोग्यं बहुलं सुभिक्षमतुलं क्षेमं च राज्ञः सुखं ज्ञात्वा गूर्जरमण्डलस्य नगरग्रामादिषु प्रत्यहम् | दत्त्वाऽब्दे युगपत्रिपार्थिवमिते यः स्वप्नमस्वमराट्
पूज्यः प्रादुरभूद् मनोरथवनीविस्तारधाराधरः ॥ ४ ॥
2
गूर्जरमण्डलस्य नगर ग्रामादिषु प्रत्यहं अहर्निशं आरोग्यं नीरोगित्वं, बहुलं, च पुनः, सुभिक्षं, अत एवाऽतुलं क्षेमं, चः पुनरर्थे, तेन राज्ञः सुखं ज्ञात्वा युगानि चत्वारि, पत्रिणो वाणाः पञ्च, पार्थिवाः षोडश इति वामगतिगणितैरङ्गैः १६५४ मितेऽन्दे वर्षे, शिष्टपुंसां स्वमं दत्त्वा अस्वमराडिन्द्रस्तत्पूज्यः, पुनः किं०, मनोरथवनीनां विस्तारे धाराधरो मेघः श्रीपार्श्वः प्रादुरभूत प्रकटीभूवेति ॥ ४ ॥
एतद्राज्यमकार्यपङ्कजवनव्रातैकचन्द्रातपः
स्फूर्जद् मन्महिमेव भूरि भविता स्थैर्यस्थितेरास्पदम् ।
Page #573
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
इत्युच्चैरचलासु सूचनचणश्चिन्तामणिः श्रीजिनः पार्श्वः प्रादुरभूत् प्रभावभवनं राज्येऽत्र यस्य प्रभोः ||५| . अत्र नगरे, यस्य प्रभोर्गुरोः, राज्ये श्रीचिन्तामणिः पार्श्वजिनः किं०, प्रभावस्य प्रतापस्य भवनं गृहं, प्रादुरभूत्, कथं ०, अचलासु भूमिषु, इति सूचनचणः वक्ष्यमाणसूचकः, इतीति किं एतद्राज्यं मन्महिमेव स्फूर्जत्स्थैर्यस्थितेरास्पदं भूरि भविता, कीदृशं, अकार्यमेव पङ्कजवनं तदवाते चन्द्रातपः, यथा चन्द्रातपेन पङ्कजवनं संकुचति तथैतद्राज्येऽकार्यमिति ॥ ५ ॥
५४८
चाहो विहगोऽब्जिनीपतिमिवोल्लासं सृजन्तं दृशां विश्वानन्दिनमौष प्रणयिनं पूर्ण चकोरो यथा । यद् वारिदमञ्जनालिफलिनीश्यामं शिखण्डी शिशुः पार्श्व प्रेक्ष्य जनस्तथात्र समभूच्चिन्तामणि मुन्मयः ॥ ६॥
"
अत्र नगरे, जनश्चिन्तामणि पार्श्व प्रेक्ष्य तथा मुन्मयो हर्षितः, समभूत्, कथमित्याह-यथा चक्राद्दो विहगचक्रवाकः, अब्जिनीपति सूर्यमित्र, पुनः, प्रेक्षकाणां दृशां उल्लासं सृजन्तं, अत एव विश्वानन्दिनं, पुनः, पूर्ण, औषधीप्रणयिनं चन्द्रं, चकोर इव, पुनः, अञ्जनालिफलिनीश्यामं कज्जल भ्रमर मियश्यामलं, वारिदं मेयं, शिखण्डी शिशुर्मयूराक इव, एतानेते दृष्ट्रा यथा हर्षुला भवन्ति तथा तं भगवन्तं निभालय भव्यजनः प्रमुदितोऽभूदिति ॥ ६ ॥ स्वस्मिन् स्वान्त इवाश्वसेनतनयं संघोऽनघोऽतिष्ठिपत्
तं तीर्थाधिपतिं सिकन्दरपुरे प्राज्यैरतुच्छात्सवैः । तस्यासीद् महिमा महान् पुरवरे तस्मिन् प्रभोस्तस्थुषः प्रातस्येव घनात्यये दिनपतेः स्फातिस्त्विषां भयसी ॥७॥
Page #574
--------------------------------------------------------------------------
________________
पोडशः सर्गः।
५४९ तमश्वसेनतनयं पार्थ तीर्थाधिपति, सिकन्दरपुरे संघोऽतिछिपत् स्थापयामास, कैः, प्राज्औरतुच्छोत्सवैः, उत्प्रेक्ष्यतेखस्मिन् वान्ते मनसीव, तस्मिन् पुरवरे प्रभोः पार्श्वस्य तस्थुषः महान् महिमा आसीजात इति, यथा घनात्यये शरदि, प्राप्तस्य । दिनपतेः त्विषां रुचां, भूयसी स्फातिर्भवति तथेति ॥ ७॥ श्रीभट्टारककोटिकोटिमुकुटोऽन्येधुधियां मन्दिरैः
प्रौढैः प्राज्ञपुरन्दरैः परिवृतः प्राप्तः परप्रीतिभृत् । कमानम्रनरेन्द्रवासवशिरःकोटीरकोटीमणी. शाणोघृष्टनखात्मदर्शनिकरं पार्श्वेशमित्यस्तवीत् ॥८॥ - श्रीभट्टारककोटिकोटिमुकुटः श्रीविजयसेनमूरिः, अन्याः एकत्र प्रस्तावे, धियां मन्दिरैः प्राज्ञपुरन्दरैः, परिवृतस्तत्र पार्श्वभवने, प्राप्तः सन् , परप्रीतिभृत्, पार्श्वेशं कीदृशं, कम्रा भक्तिमत्त्वात् आनम्रा नरेन्द्रवासवास्तेषां शिरांसि तेषु कोटीरको. टीमणीशाणे उद्धृष्टो नखात्मदर्शनिकरो यस्येति तमिति, अस्तवीत् स्तौति स्मेति ॥ ८ ॥
अथैकविंशत्या वृत्तैः पार्थप्रभोः स्तुति संकलयबाहश्रीपार्श्व प्रणयिप्रसन्नमनसं पद्मावतीपन्नग
स्वामिभ्यां सहितं समीहितहितश्रीदानचिन्तामणिम्। प्रीतिप्रहसुपर्वपुङ्गवमनोऽम्भोधित्रियामामणिं श्रीचिन्तामणिसंज्ञमञ्जनघनश्यामाभिरामं स्तुमः ॥९॥
श्रीचिन्तामणिसंजं श्रीपार्थ, स्तुम इत्यन्वयः; किं०, प्रणयिषु प्रसन्नं मनो यस्येति भक्तवत्सलत्वात् , तथा पद्मावती शासनदेवी, पन्नगस्वामी धरणन्द्रस्ताभ्यां सहितं नित्यसेवकखेन समीपवर्तित्वात् , तथा समीहितहितश्रीणां दाने चिन्ता
Page #575
--------------------------------------------------------------------------
________________
५५०
विजयप्रशस्त्याम् ।
मणिरिव तं पुनः प्रीत्या प्रहस्तदासक्तः सुपर्वपुङ्गवं इन्द्रस्तन्मनएवाम्भोधिस्तत्र त्रियामामणि चन्द्रं, पुनः, अञ्जनघनश्यामाः कज्जलजलदफ लिन्यस्तद्वत् अभिरामं, कान्त्येति शेषः ॥ ९ ॥ कासश्वासभगन्दरज्वरकफ श्लेष्मक्षयाद्या गदा दुस्साध्या भिषजां भरैर्बहुतरैरप्यौषधैः सद्विधैः । यन्नामस्मरणात् प्रयान्ति निधनं सिंहादिवाशु द्विपाः पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥ १०॥
यस्य नामस्मरणात् कासश्वासभगन्दरज्वरकफलेष्मक्षयाद्या गदा रोगाः, भिषजां भरैवैद्यानां गणैः सद्विधैर्वहुतरैरप्यौपधैर्दुस्साध्याः, तेऽपि निधनं प्रणाशं, प्रयान्तिः यथा सिंहाद् द्विपा गजाः, नश्यन्ति, स पार्श्वचिन्तामणिरितिनामा, किं०, पुण्यमेव पयोजिनी तत्र दिनमणिः सूर्यः, वो युष्मान् पातु पायादिति ॥ १० ॥ कल्पान्तानिलचक्रवालबहलव्यालोलकल्लोलभृपानीयेन नभोलिहं भयगृहं गाढोजितैगजितैः । यन्नामस्मरणाद् व्रजन्ति मनुजा उल्लङ्घय वारांनिथिं पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥ ११ ॥
यन्नामस्मरणाद् मनुजा वारांनिधिं उल्लङ्घन्य व्रजन्ति, स्वस्थानं क्षेमेणेति गम्यं, वारांनिधिं किं०, कल्पान्तस्य योऽनिलचक्रवालो वायुविस्तारस्तेन बहलं व्यालोला अतिचपला ये कल्लोलास्तान् विभर्तीति कल्पान्तानिलचक्रवालबहलव्यालोलकल्लोलभृद् यस्पानीयं तेन, नभोलिहं व्योमस्पृशं अत एव गाढोजितैर्गर्जितैर्भयगृहं, शेषं प्राग्वत् सुबोधम् ॥ ११ ॥ ज्वालोल्काज्वलिताखिलडुमदलप्रोद्भूतधूमोद्धतध्वान्तान्धीकृतवन्यजन्युनयनः प्रत्यम्बरं प्रोच्छलन् ।
Page #576
--------------------------------------------------------------------------
________________
५५१
षोडशः सर्गः ।
यन्नामस्मरणेन शाम्यति जवाद् दावाग्भिरद्भिर्यथा पार्श्वः पुण्यपयोजिनीदिनमणिचिन्तामणिः पातु वः ॥ १२॥
यन्नामस्मरणेन अद्भिः पानीयैः इव यथा, तथा दावागिः शाम्यति, कीदृशः, ज्वालोलकाभिर्ज्वलितेभ्योऽखिलद्रुमदले भ्यो यः मोद्भूतो धूमस्तेनोद्धतं यद् ध्वान्तं तेन अन्धीकृतानि वन्यजन्यूनां वनेचरजन्तूनां नयनानि येन सः, पुनः, अम्बरं अम्बरं प्रति प्रत्यम्बरं प्रोच्छलन् स पार्श्व इति प्राग्वत् ॥ १२ ॥ हे दीर्घे रसने मुखौकसि वहन् छौ दीर्घपृष्ठावित्र स्फूर्जत्फूत्कृतिरुत्कणः स्फुरदुरुस्थामास्थिरक्रोधवान् । यन्नामस्मरणाद् न कीटक इव वासाय भोगी भवेत् पार्श्वः पुण्यपयोजिनीदिनमणिचिन्तामणिः पातु वः ॥ १३॥
यन्नामस्मरणात् कीटक इव भोगी सर्पः, त्रासाय न भवेदित्यन्वयः; भक्तानामिति, भोगी कथं०, मुखौकसि वदनगेहे, दे दीर्घे रसने जिहे, वहन्, इवोत्प्रेक्ष्यते- द्वौ दीर्घपृष्ठौ नागाविव, तथा स्फूजन्ती फूत्कृतिर्यस्येति, तथा उत्फणः, तथा स्फुरच्च उरु च स्थाम यस्य सः, तथा स्थिरः शाश्वतः क्रोधोऽस्यास्तीति, स पार्श्व इति० ॥ १३ ॥
उद्भिन्नद्विपकुम्भनिर्मलगलन्मुक्ताफलश्रेणिभि
भूयोभूषितभूतलाद् बहुचलद्द्द्दग्युग्मनुन्नाशनेः । : यन्नामस्मरणाद् मृगादिव मृगारातेर्नृणां नैव भीः पार्श्वः पुण्यपयोजिनीदिनमणिचिन्तामणिः पातु वः ॥ १४॥
यन्नामस्मरणाद् मृगादिव यथा, तथा मृगारातेः सिंहात्, नृणां भीर्भयं न भवतीति, मृगारातेः कथं०, उद्भिन्नेभ्यो द्विपकु
Page #577
--------------------------------------------------------------------------
________________
५५२
विजयप्रशस्त्याम् ।
"
म्भेभ्यो निर्मलानि गलन्ति च यानि मुक्ताफलानि तेषां श्रेणि-भिर्भूयो भूषितं भूतलं येनेति तस्मात् पुनः, बहुचलता हग्युग्मेन नुन्ना निर्जिताऽशनिर्विद्युद् येन तस्मात् पार्श्व इति० ॥ १४ ॥ स्फूर्जद्गर्जिततर्जितोर्जित पयोवाहोंहिघातानमक्ष्मापीठः प्रचुरक्षरन्मदजलव्यालोलगल्लस्थलः । यन्नामस्मरणाद् गंजोऽङ्गज इव स्थाणोर्हतौजा भवेत् पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥१५॥
यन्नामस्मरणात् स्थाणोईरात्, अङ्गज इव, गजो हतौजा निfor भवेदित्यन्वयः कीदृशः, स्फूर्जता गर्जितेन तर्जित ऊर्जितः सजलत्वात् सबलः पयोवाहो मेघो येन सः, पुनः, अंह्निघातेन आनमत् क्ष्मापीठं यस्मात् सः, पुनः, मचुरं क्षरच्च यद् मदजलं तेन व्यालोलं गल्लस्थलं यस्य सः, पार्श्व इति० ॥ १५॥ हुङ्कारैर्बधिरीकृताखिलजगत्पादप्रहारोत्पतपांसूत्पूरतिरोहिताम्बरतला नानास्त्रविस्तारिणी । यन्नामस्मरणाद् मलिम्लुचचमूर्वायोरिवाऽब्दो मुधा पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥ १६॥
यन्नामस्मरणाद् मलिम्लुच चमूस्तस्कर सेना, वायोः अब्द इव सुधा भवेदिति योगः कीदृशी, हुङ्कारैर्वधिरीकृतं अखिलं जगद्येति सा तथा पादप्रहारैरुत्पतत्पांमृत्पुरस्तेन तिरोहितं अम्वरतलं यया सा, तथा नानास्त्रविस्तारिणीति, पार्श्व इति० ॥ १६ ॥ उद्दण्डद्विपगण्डमुण्डनिपतत्खण्डप्रचण्डोच्छलत्स्रोतःशोणितपङ्किलक्षितितले भ्राम्यहिङ्गाकुले । यन्नाम स्मरतां सतां तनुमतां युद्धे जयो जायते
A
Page #578
--------------------------------------------------------------------------
________________
षोडशः सर्गः ।
५५३.
पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥ १७॥ यन्नाम स्मरतां युद्धे जयो जायत इति, कीदृशे, उद्दण्डा द्विपास्तेपां गण्डमुण्डानि गल्लस्थलमस्तकानि तेषां निपतन्ति यानि खण्डानि तेभ्यः प्रचण्डं च उच्छलच स्रोत इव स्रोतः प्रवाहरूपं यत् शोणितं रुधिरं तेन पङ्किलं क्षितितलं यस्मिन्निति, अत एव भ्राम्यन्तो ये विहङ्गास्तैराकुले, पार्श्वः ० ॥ १७ ॥ कामं शृङ्खलकोटिकॄष्टकरणक्लेशस्तृषार्तः क्षुधाक्षामाक्षो निगडैर्निबद्धचरणः काराधिकारार्दितः । यन्नामस्मरणाद् भवादिव भवी बन्धाद् द्रुतं मुच्यते पार्श्वः पुण्यपयोजिनी दिनमणिचिन्तामणिः पातु वः॥१८॥
यन्नामस्मरणाद् भवी प्राणी, भवादिव यथा, तथा बन्धाद् मुच्यत इति, कीदृशः शृङ्खलकोटिभिः शृङ्खलायैः कृष्टः करणक्लेशो यस्येति सः, पुनः, तृषार्तः, पुनः, क्षुधाक्षामाक्षः बुभुक्षाग्लानेन्द्रियः, पुनः, निगडैर्निबद्धौ चरणौ यस्येति, पुनः, काराधिकारेण अर्दितः पीडितः, एवंभूतो भवी यत्मभावाद् मोक्षं लभतइति, पार्श्व इत्यादि ० ॥ १८ ॥
पित्रोः पादपयोजपांसुपटलीपूतोत्तमाङ्गान् कृपापारावारतुषाररश्मिसदृशान् सौन्दर्यमीनध्वजान् । यन्नामस्मरणादपत्यरहिताः पुत्रल्लभन्तेऽद्भुतान् पार्श्वः पुण्यपयोजिनीदिनमणिचिन्तामणिः पातु वः॥१९॥ यन्नामस्मरणात् अपत्यरहिता नरा अद्भुतान् पुत्रान् लभन्ते, किं०, पित्रोः पादपयोजपांसुपटल्या पूतं उत्तमाङ्गं येषां तान् नित्यं प्रणामपरान् इति, पुनः, कृपापारावारे तुषाररश्मिश्चन्द्र
७१
Page #579
--------------------------------------------------------------------------
________________
५५४
विजयप्रशस्त्याम् ।
स्तत्सदृशान् करुणांपूर्णान् इति, पुनः, सौन्दर्येण मीनध्वजाननकावतारानिति, पार्थः पात्विति ॥ १९ ॥ भोगत्यागनिबन्धनं परिजनप्रेमप्रसादाऽऽस्पदं वाल्लभ्यप्रसवा पुमर्थपृथिवीकन्दैककादम्बिनी। यन्नामस्मरणात् करोति कमला कान्तेव केलिं कुले पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२०॥ ... यन्नामस्मरणात् कमला कान्तेव केलिं करोति, कमला कि०, भोगश्च त्यागश्च दानं तयोर्निबन्धनं कारणं, पुनः, परिजनस्य प्रेमप्रसादयोरास्पदं, पुनः, वाल्लभ्यस्य प्रसवो यस्याः सेति, पुनः, पुमर्था धर्मार्थकामास्त एव पृथिवीकन्दास्तेषु कादम्बिनी मेघमाला, पार्थः ॥ २० ॥ . तन्वी त्रस्तकुरङ्गशावनयना मत्तेभकुम्भस्तनी
बिम्बोष्ठी कनकच्छविः कृशकटिः पूर्णेन्दुपुण्याऽऽनना। यन्नामस्मरणाद् गृहे सुगृहिणी स्याच्छीललीलाऽन्विता पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२१॥
यन्नामस्मरणाद् गृहे सुगृहिणी शीललीलान्विता शीलवती स्यादिति, पुनः कीदृशी, तन्वीत्यावशेषं सुगमम् ॥ २१ ॥ वलगहाजिविराजितं गजघटाघण्टाटणत्कारभूरङ्गत्तुङ्गरथं पदातिपटलीपूर्ण प्रतापाऽऽस्पदम् । यन्नामस्मृतिमन्तमेति मनुजं राज्यं धुनीवाऽम्बुधिं पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२२॥ ___ यन्नामस्मृतिरस्याऽस्तीति यन्नामस्मृतिमन्तं मनुजं, राज्यं, कि०, वल्गन्तो ये वाजिनस्तैर्विराजितं, पुनः, गजानां घटास्तासां
Page #580
--------------------------------------------------------------------------
________________
षोडशः सर्गः
.
५५५
घण्टास्तासां टणत्कारस्तस्य भूः स्थानं, पुनः, रङ्गन्तस्तुङ्गा रथा यत्र, तथा पदातिपटलीभिः पूर्ण, तथा प्रतापस्याऽऽस्पदं, एत्यागच्छति, अम्बुधिं समुद्र, धुनी नदीवेति दृष्टान्तः, पार्श्व इति०॥२२॥ भूतप्रेतपिशाचमुद्गलबलव्यालादिबाधाधुनीग्रीष्मो भीष्मतमाऽऽमयादिविकृतिसामत्रियामाऽर्यमा । यन्नामस्मरणेन सिध्यति विधिः सन्मन्त्रतन्त्रादिगः पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२३॥ - यन्नामस्मरणेन सन्मन्त्रतन्त्रादिगो विधिः सिध्यति ; किं०, भूतप्रेतपिशाचमुद्गलानां यदलं, पुनालादीनां वाधा पीडा सैव धुनी नदी तस्यां ग्रीष्मस्तच्छोषकत्वात् , तथा भीषणतमा ये आमयाऽऽदयस्तेपां यद्विकृतिस्थाम तद्रूपा बियामा रात्रिस्तत्र अर्यमा सूर्यस्तयपोहकत्वादिति, पार्थः ॥ २३ ॥ श्रीस्पर्धासु पराङ्मुखी क्षितिभुजां चेतश्चमत्कारिणी सर्वाशोदयिनी यशोधवलितब्रह्माण्डभाण्डोदरा । यन्नामस्मरणात् समेति वदने विद्याऽनवद्यादरा पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२४॥ ___ यन्नामस्मरणात् अनवद्यादरा विद्या वदने समेति ; कीदृशी, श्रीस्पर्धासु पराङ्मुखी भगवन्नामस्मरणाद् या विद्या लभ्यते तद्विद्याऽनुभावेन श्रीरपि प्राप्यते इति श्रियोऽस्पर्धिता, तथा क्षितिभुजां राज्ञां, चेतचमत्कारिणी; पुनः,सर्वांशैरुदयिनी, यशसा , धवलितं ब्रह्माण्डमाण्डोदरं ययेति सा, पार्श्व इति० ॥ २४ ॥ प्रत्यर्थिक्षितिराजवारिजदृशां वैधव्यदीक्षास्पृशां सर्वैश्वर्यभुजां भुजार्जितलसन्निःशेषदिक्संपदाम् ।
Page #581
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
यन्नामस्मरणाद् नृणामनुदिनं राज्ञां पुरो गौरवं पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥२५॥
यन्नामस्मरणाद् नृणां राज्ञां पुरोऽनुदिनं गौरवं भवति राजप्रसादः स्यादिति, राज्ञां किं०, प्रत्यर्थिक्षितिराजवारिजदृशां वैरिनृपनारीणां वैधव्यदीक्षास्पृशां विधवत्वदायिनां पुनः, सर्वैश्वर्य समप्रभुत्वं भुञ्जन्तीति तेषां पुनः भुजाभ्यामर्जिता लसन्त्यो निःशेषदिक्संपदो यैस्तेषामिति, पार्श्वः ० ॥ २५ ॥ अष्टोत्कृष्टतपःसुरद्रुकुसुमं शक्तिस्फुरव्यक्तयो देवानामपि दुर्लभाः सुमहिमानीरन्ध्रनीराब्धयः । यन्नामस्मरणाद् भवन्ति वशगाः सर्वर्द्धयः सिद्धयः पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥२६॥
५५६
,
यन्नामस्मरणात् अष्टसिद्धयो वशगा भवन्ति, किंलक्षणाः, उत्कृष्टं यत्तपस्तद्रूपो यः सुरद्रुः कल्पवृक्षस्तत्कुसुमं तपःप्रभावादेवैता जायन्ते, तथा शक्त्या स्फुरन्त्यो व्यक्तयो विशेषा यासां ताः, तथा देवानामपि दुर्लभास्तपस्विभिरेव लभ्यत्वात्, तथा सुमहिमारूपनीरन्ध्रनीरस्याऽब्धय इति तथा सर्वा ऋद्धयो याभ्यस्ताः पार्श्वः पा० ॥ २६ ॥ प्रत्यर्थिव्रजवक्त्रचन्द्रतमसः कर्पूरकुन्दोज्ज्वलक्षीरक्षालितऋक्षराजरुचयः संरुद्धविश्वोदराः । यन्नामस्मरणाद् भवन्ति भुवने सस्फूर्तयः कीर्तयः पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥२७॥
यन्नामस्मरणात् कीर्तयः सस्फूर्तयः सदीप्तयः, भवन्ति ; किंलक्षणः, एत्यर्थित्रजो वैरित्रजस्तस्य वक्त्रचन्द्वे तमसो राहुरूपा
Page #582
--------------------------------------------------------------------------
________________
षोडशः सर्गः।
५५७ स्तद्ग्रासकृत्त्वात्, तथा कर्पूरकुन्दाज्वलक्षीरक्षालितऋक्षराजश्वन्द्रस्तद्वद् रुचिर्यासां ताः, तथा संरुद्धं विश्वस्योदरं याभिस्ताः, पार्थ इति०॥ २७॥ पूर्वस्थप्रणवेन कामदरमाबीजौजसाऽर्हजुपा श्रीचिन्तामणिपार्श्वनाथपटुना प्रान्ते नमःस्वाहिना । यन्नामस्मरणेन मन्त्रविधिना स्वीस्यादवश्यं जगत् पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२८॥
यन्नामस्मरणेन मन्त्रविधिना जगत् स्वीस्याद् वशीभवति, मन्त्रविधिना किं०,पूर्वस्थः प्रथमस्थायी प्रणव ओङ्कारो यत्र तेन, तथा कामदं रमाबीजं तयोहीङ्कारश्रीङ्कारयोः ओजो बलं यस्मिंस्तेनेति, तथा अर्ह इति पदजुपा, तथा श्रीचिन्तामणिपार्श्वनाथ इति नाना पटुना, तथा प्रान्ते नमःस्वाहेति पदद्वयी यस्मिस्तेनेति, 'ओं हीं श्रीं अर्ह श्रीचिन्तामणिपार्श्वनाथाय नमः स्वाहा' इत्यनेन मन्त्रेण, श्रीपार्श्वनामस्मृतेर्महिना जगद् वशे भवति पार्थ इत्यादि० ॥ २८ ॥ यक्ष्माऽऽद्युग्ररुजाविकारनिकरध्वंसैकधन्वन्तरिः फुल्लहालतमालतालफलिनीनीलोत्पलश्यामलः । अस्तु स्वस्तिमनोमनोरथरमादानकदेवद्रुमः प्रत्यमः प्रथितः प्रभुः प्रकटितश्चिन्तामणिः शर्मणे॥२९॥
चिन्तामणिः प्रभुः प्रत्यग्रो नवः, प्रकटितः प्रथितः शर्मणेऽस्तुः कीदृशः, यक्ष्माऽऽद्युग्ररुणाविकारनिकरस्य राजयक्ष्माऽऽदिदुर्वाररोगतजस्य ध्वंसे एकधन्वन्तरिः, पुनः, फुल्लद्धाला ये तमालतालाश्च फलिनी नीलोत्पलानि च तद्वत् श्यामलः श्यामो नीलवर्णः श्यामनीलयोरेक्यात्, पुनः, स्वस्तिमनसां कल्याणा
Page #583
--------------------------------------------------------------------------
________________
५५८
विजयमशस्त्याम् ।
स्मनां सुमनसामिति मनोरथरमादाने एकोऽद्वितीयो देवद्रुमः कल्पद्रुरिति ॥ इदं स्तोत्रं पञ्चत्रिंशत्तममाणं ग्रन्थकत्रैव कृतमस्ति, परमत्र तावदेव योजितं तेन तदेव व्याख्यातमिति ||२९|| इत्यामोदमनोहरैर्बहुतरैर्विर्ण्य वर्णैर्नवैः काव्यैः पुष्पभरैरिवोत्तमगुणैरभ्यर्च्य रुच्यं जिनम् । सूरिः सङ्घसमक्षमक्षतसुखोत्कर्ष सहर्ष तदा नामाऽमुष्य जिनेशितुर्विजययुक्चिन्तामणीति व्यधात् ३० इति प्रदर्शितरीत्या, आमोदेन हर्षेण परिमलेन च मनोहरैः, पुनः, बहुरैर्निर्वर्ण्यवर्णैः नवैः पुष्पभरैरिव उत्तमगुणैः काव्यैः रुच्यं जिनं अभ्यर्च्य प्रपूज्य, सूरिः अमुष्य जिनेशितुः प्रकटितस्य चिन्तामणिपार्श्वस्य, विजयराज्ये प्रादुर्भूतत्वाद् विजययुक्चिन्तामणीति विजयचिन्तामणिरिति नाम, सङ्घसमक्षं अक्षतसुखोत्कर्पे, पुनः, सहर्ष व्यधादकरोदिति ॥ ३० ॥ मत्वाऽत्याग्रहमाप्तमार्गदिविषन्मार्गाभ्रमार्गध्वजः साध्वाचारविचारचारुरचनाचातुर्यभृत् सूरिराट् । श्रीसूरीश्वरहीरहीरविजयश्रीपादुकापाविते
"
सङ्घोल्लासकरे सिकन्दरपुरे चक्रे चतुर्मासकम् ॥३१॥
,
सुरिराद् ततः सिकन्दपुरेऽत्याग्रहं मत्वाsर्थात् सङ्घस्य, चतुर्मासकं चक्रे किंलक्षणे पुरे, श्रीमूरीश्वर ही रही र विजयास्तेषां श्रीपादुकाभ्यां पाविते, अतः सङ्घलासकरे मूरिः किं०, आसानां मार्ग आचारः स एव दिविपन्मार्गो व्योम तत्र अभ्रमार्गध्वजः सूर्यः, तथा साधूनामाचारविचारस्य चार्वी या रचना तस्यां चातुर्यभृत् ॥ ३१ ॥
Page #584
--------------------------------------------------------------------------
________________
पोडशः सर्गः। तृतीयप्रतिष्ठाऽधिकारमाहतत्राभूलहुआऽभिधः सदभिधः श्राद्धः सुधर्मैकधी-. रहद्वाक्कतकेन पावनमनःपाथाः सनाथः श्रिया । बिम्बं कारितवांश्च स स्वविभवैः श्रीवैश्वसेनिप्रभोः . सन्मम्माणिखनेर्दलेन दलितक्लेशः सदोदारदृक् ॥३२॥ . तत्र सिकन्दरपुरे, लहुआऽभिधः सदभिधः सत्ख्यातिः, श्राद्धोऽभूत् , स श्रीवैश्वसेनिप्रभोः शान्तः, सन्मम्माणिखनिदलेन स्वविभवैर्षिम्बं कारितवान् , स कि०, अर्हतां वागेव कतकं तेन पावनं मनःपायो यस्येति सः, शेषं स्पष्टम् ॥३२॥ सङ्घखान्तशिखण्डिशावसुखदैर्वृन्दैरिवाम्भोभृतां विश्वानन्दकरैर्महामहभरैः प्रष्ठां प्रतिष्ठां तदा। तस्यात्यद्भुतवैभवव्रजभुवो देवस्य दिव्यश्रियः सान्द्राऽऽनन्दनिबन्धनेऽहनिशुभे श्रीसूरिसिंहो व्यधात्३३ ___तदा बिम्बनिष्पत्तेरवसरे, तस्य दिव्यश्रियो देवस्य श्रीशान्तः, प्रतिष्ठां श्रीसूरिसिंहो महामहभरैः प्रष्ठां शुभेऽहनि व्यधात् ; महभरैः किं०, सङ्घस्य स्वान्तमेव शिखण्डिशावो मयूरबालस्तस्य सुखदैः अम्भोभृतां मेघानां वृन्दरिव, तथा विश्वानन्दकरैरिति, देवस्य किं०, अत्यद्भुतस्य वैभवव्रजस्य भुवः स्थानस्येति, अहनि किं०, सान्द्रानन्दस्य निबन्धने निदाने ॥३३॥
तस्यां प्रतिष्ठायामन्यत् किं कृतवान् ? तदाहतस्मिन्नेव दिने दिनेशमहसां मित्रे सदामोदभृत्पद्मोल्लासिनि विज्ञनन्दिविजये श्रीवाचकीयं पदम् । सूरीन्द्रः प्रददौ सदोदयकरी विद्यामिवावद्यहां
Page #585
--------------------------------------------------------------------------
________________
५६०
विजयप्रशस्त्याम् ।
श्रीविद्याविजयाभिधेऽपिच गणौ विद्वत्पदं श्रीपदम् ॥३४॥
सूरीन्द्रस्तस्मिन्नेव दिने : प्रतिष्ठादिने, कि०, दिनेशमहसां मित्रे सूर्यमहतुल्ये, सूर्यमहसि दिने च किं०, सन् आमोदो हर्षः गन्धश्च तद्युक्ता या पद्मा लक्ष्मीः, अन्यत्र तयुक्तं यत् पद्म, इत्यादि शेषं सुगमम् ; विज्ञनन्दिविजय श्रीवाचकीयं पदम् , अपिच पुनरर्थे, विद्याविजयाभिधे गणौ स्वशिष्ये मूरिपदयोग्ये, विद्वत्पदं पण्डितपदं, प्रददौ; उत्प्रेक्ष्यते-अदयहां पापापहां, पुनः, सदोदयकरी विद्यामिवेति स्पष्टम् ॥ ३४ ॥ निर्ग्रन्थेन्द्रसभासभासु सुभगस्तस्माद् विजहे पुरात् स्तोमं सांतमसं हरन् हरिरिव वातैर्गवां सर्वतः । धर्माऽनघसूरिमन्त्रजविधेराराधनालालसो लाटापल्लिपुरी महेभ्यमनुजां स्मैति प्रभासंनिभाम् ॥३५॥ निम्रन्थेन्द्रसभासभासु सूरिसभासमूहेषु, "सभा समूहे" इत्यनेकार्थत्वात् , सुभगः श्रीमूरिस्तस्मात् पुरात् विजहे विहृतवान् , किं कुर्वन् , सांतमसं आन्धकारं स्तोमं, गुरुपक्षे भावान्धकारस्तोमं, हरिरिव सूर्य इव, हरन् , कैरित्याह-गवां गिरां कान्तीनां च बातैरिति, क जगामेत्याह-लाटापल्लिपुरी लाडोलिनाम्नी पुरी, गुरुः किं०, मूरिमन्त्रजविधेः आराधनालालसः, पुरी किं०, प्रभासंनिभां अलकातुल्या, श्रियेति, शेषं स्पष्टम् ॥३५॥ जीवानामभयप्रदानपटहस्योद्घोषणाभूषिते श्रीसङ्घादरराजिते प्रवरदृक्पौरोत्करभ्राजिते । लाटापल्लिपुरे पुराऽहितपुरे भास्वत्कलाभृद्वरे तस्थौ ध्यानकृते दिनेऽथ दिनकृत्तुल्ये तमोने गुरुः॥३६॥ . पूर्वार्धं सुगमम् ; उत्तरार्धव्याख्या यथा-लाटापल्लिपुरे कि०,
Page #586
--------------------------------------------------------------------------
________________
षोडशः सर्गः ।
५६१ . पुराऽहितो महादेवस्तत्पुरे तत्तुल्ये, तद्विशेषणं यथा- एकत्र भास्वत्कलाभृद्भिः, अन्यत्र भास्वत्कलाभृता चन्द्रेण वरे श्रेष्ठे, पु. नर्दिने किं०, तमोघ्ने एकत्र पापहरे, अन्यत्र तिमिरघ्ने, अथ गुरुनकृते तस्थौ ॥ ३६ ॥
मुञ्चन् षड् विकृतीः सृजन्नतिशयात् षष्ठाष्टमाद्यं तपः प्रोज्झंश्वाऽनवधानतामवदलन् क्लेशालयं संलयम् । कार्याण्यक्षरपद्धतेर्लिखनतश्चाज्ञापयन्नात्मनः
शिष्याणामथ मन्त्रराजमनघं नक्तं दिवा च स्मरन् ॥ ३७॥ सुश्लिष्टोष्ठपुटः सुखासनसमासीनः प्रसन्नाननो नासान्यस्तविलोचनः परिहरन् स्पर्श रदानां रदैः । कामं कम्रमना मनोहरतरामाकल्पकेलिं वहस्तिष्ठन्निन्द्रदिशि त्यजन् गिरि रतिं ध्यानं दधौ श्रीगुरु : ३८
अनयोर्व्याख्या- श्रीगुरुर्ध्यानं दधौ किं कुर्वन्, षड् विकृतीः मुञ्चन् त्यजन् पुनः, अतिशयात् आधिक्येन षष्ठाऽष्टमाद्यं तपः सृजन् निर्मापयन्, चः पुनरर्थे, अनवधानतां वैयम्यं प्रोज्झन्, तथा क्लेशालयं संलयं निद्रां अवदलन्, पुनः कार्याणि आहारनीहारादीनि, आत्मनः शिष्याणां अक्षरपद्धतेर्लिखनतः आज्ञापयन्, तथाऽनघं मन्त्रराजं सुरिमन्त्रं, नक्तं रात्रौ दिवा च स्मरन् ||३७|| पुनर्गुरुः किं०, सुश्लिष्टं ओष्ठपुटं यस्य सः, पुनः, सुखासने समासीनः, तथा प्रसन्नाननः, तथा नासान्यस्त विलोचनः, पुनः, रदैः दन्तैः रदान असंस्पृशन् कामं अत्यर्थ, कां मनो यस्येति सः, पुनः, मनोहरतराम् आकल्पके लिं ध्यानयोग्यवेपलीलां, वहन्, पुनः, इन्द्रदिशि पूर्वदिशि तिष्ठन् तथा गिरि रतिं 'त्यजन् वचनोच्चारं परिहरन्निति ।। युग्मव्याख्येयम् ॥ ३८ ॥
७२
Page #587
--------------------------------------------------------------------------
________________
५६२ विजयप्रशस्त्यांम् । ध्यानी सूरिवरः समाहितमना मुद्रामनिद्रां वहश्चूलेव गिरेः स्थिरत्वभृदरं भेजे सुवर्णढिभूः । मेने चात्र जनैर्विरञ्चिरिव यः पद्मासनस्थो गुरुः साक्षात् कैश्विदमानि मन्युभिदयं स्वामी पिनाकीव च।३९। ___ ध्यानी ध्यानवान् , पुनः, समाहितं समाधिसंपन्नं मनो य. स्य सः, तथा अनिद्रां जागरूको मुद्रां वहन् , मूरिवरः ऋभुगिरेमरोः, चूलेव स्थिरत्वभृत् , भेजेऽशुभत् , अत एव सुवर्णाः शोभना ऋद्धयस्तासां भूः, पक्षे सुवर्द्धिभूः स्पष्टं , चः पुनरर्थे, यः पुनर्गुरुः पद्मासनस्थः सन् , जनैर्विरश्चिरिव मेने ब्रह्मेव ज्ञातः, तथा कैश्चित् अयं स्वामी साक्षात् पिनाकी महेश इव, किं०, मन्युभिद् यज्ञभित् , पक्षे कोपभित् , अमानि मेने ॥ ३९ ॥ साक्षादीप इव प्रकाशनिपुणः श्रीसूरिमन्त्रो मनःसद्मन्यस्य विभोर्बभौ तततमःपूरं हरन् भानुवत् । भाति स्मेन्दुरिव प्रसिद्धिपटुना च्छायाधरत्वेन च स्वर्वापीवहवत् क्षिपन् घनमघं सर्वज्ञचेतोहरः ॥४०॥ __ अस्य गुरोर्मनःसद्मनि सूरिमन्त्रः साक्षादीप इव प्रकाशनिपुणो वभौ, किं कुर्वन् , भानुवत् तततमसां विस्तीर्णपापानां ध्वान्तानां च, पूरं हरन् , पुनः, छायाधरत्वेन इन्दुरिव, पुनः, स्व. प्यिा वहवत् गङ्गाप्रवाह इव, भाति स्मेति, शेषं सुगमम् ॥४०॥ ध्यानं धन्यतमं तदत्र सृजतस्तस्य प्रभावात्प्रभोः संपूर्ण भवति स्म विस्मयमयैः शस्तैः समस्तं जगत् । तेजोभिर्दलितान्धकारनिकरैः सामोदपद्माकरैभीसां भर्तुरिवोदयं विदधतः सस्फूर्तिमूर्तिश्रियः ॥४१॥
Page #588
--------------------------------------------------------------------------
________________
पोडशः सर्गः।
५६३ अत्र तद् ध्यानं सृजतः प्रभोस्तस्य प्रभावात् जगद् विस्मयमयैः शस्तैः मङ्गलैः, पूर्ण भवति स्म इवेत्युपनये, यथा उदयं विदधतो भासां भर्तुः सूर्यस्य, तेजोभिर्जगत् संपूर्ण भवति, तेजोभिः किं०, दलितोऽन्धकारनिकरो मैरिति, सामोदः पद्मा.. करो येभ्यस्तैरिति, शेषं सुगमम् ।। ४१॥ एवं संस्मरतः स्मरस्मयभिदादिग्वाससश्वेतसश्चिन्ताऽतीतफलप्रदाननिपुणं श्रीसूरिमन्त्रं गुरोः । सद्यः प्रादुरभूत् सुविंशतिभुजभ्राजिष्णुदृग् यक्षराड् यक्षाधीश इवर्द्धिकृद् मुकुटयन हस्तौ विहस्तेतरः॥४२॥ . एवं अनया रीत्या, गुरोः किं०, स्मरस्मयभिदायां दिग्वाससः शम्भोः, मूरिमन्त्रं संस्मरतः किं०, चेतसश्चिन्ताऽतीतफलप्रदाननिपुणं जपतः सतः, त्रिभिर्मासैः, सुविंशतिभुजैजिष्णुर्दग् दर्शनं यस्येति सः, यक्षराद् प्रादुरभूत् प्रकटीभूत इति, किं०, विहस्तेतरोऽव्याकुल इति, किं०, हस्तौ मुकुटयन् कृताअलिरिति, पुनः, यक्षाधीश इव धनदवत् ऋद्धिकृत् , स हि श्रीद इति, प्रसिद्धश्चेति ॥ ४२ ॥ मुक्तालीमिव दन्तकान्तिपटली प्रादुष्प्रकुर्वन् पुरः प्रोचे पुण्यजनो जनोन्नतिकृती देयः स्वपट्टः प्रभो!। श्रीविद्याविजयाभिधस्य विदुषस्त्वबिम्बमेवास्त्ययं प्रोच्यैवं च तिरोदधे दधियशा दक्षः स यक्षाग्रणीः॥४३॥ - प्रादुर्भूय किमुवाचेत्याह-हे प्रभो! श्रीमूरे !, श्रीविद्याविजयाभिधस्य विदुपः पण्डितस्य, स्वपट्टो देय इति,पुण्यजनो यक्षः, जनोन्नती कृती विज्ञः, मुक्तालीमिव दन्तकान्तिपटली प्रादुष्पकुवेन् प्रकटयन् , पुरोऽर्थाद् गुरोः, प्रोचे उक्तवानिति, अयं वि
Page #589
--------------------------------------------------------------------------
________________
५६४ विजयाशस्त्याम् । द्वान् त्वद्विम्वमेवास्ति, एवं प्रोच्य चोक्ला, तिरोदधे अन्तरितोऽभूत् , दधिवदुज्ज्वलं यशो यस्य सः, दक्षो यक्षाग्रणीर्यक्षमुख्यइति ।। ४३ ।। दक्षां यक्षपतेर्विचारचतुरां वाचं स वाचंयमाधीशस्तां च निशम्य हृष्टहृदभूत् केकीव मेघध्वनिम् । निष्प्रत्यूहमभूदथेप्सितधना ध्यानस्य पूर्तिः प्रभोः शस्तैः संघमनोरथैर्जलधरैः क्षेत्रस्य धात्र्या यथा॥४४॥
सवाचंयमाधीशः मूरिः, च पुनः, तां यक्षपतेर्दक्षां विचारचतुरां वाचं निशम्य मेघध्वनि केकीव हृष्टहद् अभूत; अथेति अवधिप्राप्तौ, प्रभोः ईप्सितधना निष्पत्यूहं ध्यानस्य पूर्तिः अभूत् , कैः, शस्तैः प्रशस्तैः, संघमनोरथैः, यथा क्षेत्रस्य धान्याः पूर्तिर्जलधरैः स्यादिति ॥ ४४ ॥ चश्चच्चीवररम्यरत्नरजतस्वर्णादिसबस्तुनो दानैरर्थिषु वर्यतूर्यनिनदैः सन्मौक्तिकस्वस्तिकैः । गीतैश्चञ्चलचक्षुषामिति महान संघेऽनघे कुर्वति ध्यानाऽऽस्थानगृहाद् धनादिव शशी मुद्भूः प्रभुर्निर्ययौ४५ ___ चञ्चद् मनोज्ञं चीवरादि यद्वस्तु तस्य प्रतीतस्य, अर्थिषु दानैः, तथा वर्यतूर्यनिनदैः, तथा सन्मौक्तिकानां स्वस्तिकः, पुनः, चश्चलचक्षुपांसध्वस्त्रीणां, गीतैः, इत्यादिरीत्या महान् उत्सवान्, अनघे संघे कुर्वति सति,प्रभुःश्रीमूरिः,ध्यानाऽऽस्थानग्रहाद् निर्ययौ निर्गतवान् , यथा घनात् शशी चन्द्रः, अतो मुद्भूः हर्षस्थानमिति ॥ ४५ ॥ संघवान्तसरोजराजिमभितः प्रीतिं नयस्तामसं
Page #590
--------------------------------------------------------------------------
________________
पोडशः सर्गः। स्तोमं मंश्च कुवादिकौशिकदृशां सान्द्रां च निद्रां ददत् । शृङ्गं पूर्वगिरेरिव द्युतिपतिः सिंहासनं सूरिराट् सद्योऽलङ्कृतवान् महर्षिवृषभैः संस्तूयमानो मुहुः ॥४६॥ ___ सरिराद् सिंहासनं अलङ्कृतवान् इत्यन्वयः; कः किमिव, धुनिपतिः सूर्यः, पूर्वगिरेर्यथा शृङ्गं अलङ्कुरुते, मूरिः सूर्यश्च किं०, संघस्य स्वान्तरूपसरोजराजिम् अभितः सर्वतः, प्रीति नयन्, च पुनः, तामसं पापसंवन्धिनं ध्वान्तसंवन्धिनं च,स्तोमं समूह, नन्; तथा कुवादिकौशिकदृशां परवादिघूकनेत्राणां, सान्द्रां निद्रां ददद् ददानः, तथा महर्षिपभैरुपाध्यायादिभिः साधुभिः, पक्षे माठराद्यैः सूर्यपार्श्ववर्तिभिः, नव्यकाव्यकरणादिना मुहुर्वारं वारं, संस्तूयमानः; इति मूरिमूर्ययोः साधर्म्यात् समानमेव व्याख्यानम् ॥ ४६॥ ध्यानेनाऽतिविनाशिनाऽतिशुचिनेत्यात्मार्थसिद्धेः फलं हृद्यं हृद्यवधार्य शौर्यसदनं श्रीसूरिकण्ठीरवः । अस्योद्यापनकं चिकीर्षुरिव स श्रीतीर्थयात्राभिधं यात्रां कर्तुमनास्ततः पुरवरात् प्राचीचलत् पारणे ॥४७॥ - श्रीसूरिषु कण्ठीरवः सिंहः, ध्यानेन अभ्यन्तरतपसा, अ. तिविनाशिनातिशुचिना परमपवित्रेण, हृद्यं मनोज्ञ, आत्मनोऽर्थसिद्धेः फलं अवधार्य श्रीतीर्थयात्राऽभिधम् अस्य उद्यापनक चिकीर्षुः कर्तुमिच्छरिव, ततः पुराल्लाटापल्लिनाम्नः, यात्रा कर्तुमनाः पारणे चातुर्मासकस्य प्राचीचलत् चलति स्मेति ॥४७॥ भूयस्र्थ नमस्यया फलमयं खं जन्म जन्मिप्रियः कुर्वन् श्रीइलदुर्गनीवृति महातीर्थास्पदेऽथागमत् ।
Page #591
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । श्रीजैनप्रतिमाः प्रभुः प्रतिपुरं साक्षादिव श्रीजिना
नानम्य प्रभुपौरपूजितपदो देशाद् निवृत्तस्ततः ॥४८॥ ... अथ ततश्चलितः प्रभुर्भूयसां तीर्थानां नमस्यया खं जन्म फलमयं फलवत् कुर्वन् ; किं०,जन्मिप्रियः प्राणिवल्लभः, इलदुर्गनीकृति ईडरदेशे, महातीर्थानां गिरिशिरःस्थश्रीऋषभदेवादीनां आस्पदे, अगमत् । तत्र च प्रतिपुरं साक्षात् श्रीजिनानिव श्रीजैनप्रतिमा आनम्य, प्रभुः श्रीइलदुर्गराद् तेन, पौरैश्चामात्यादिभिः पूजितपदः सन् , ततो देशाद् निवृत्तो गूर्जरत्रासंमुखं चलितइति ॥ १८ ॥ तारङ्गादिषु पुण्यपोषिषु महातीर्थेषु तीर्थङ्करान् नला संघसखः क्रमाक्रमविदां मुख्यो महर्षीश्वरः । नीवृन्निर्जरगूर्जराख्यविषयालङ्कारहारीभवन् सिन्धुः सिन्धुमिवाऽपराङ्कमविशत् सौराष्ट्रराष्ट्रंक्रमात् ४९ __क्रमविदों कल्पविदां मुख्यः,स महर्षीश्वरः मूरिः, पुण्यपोपिषु तारङ्गादिषु महातीर्थेषु, तीर्थङ्करान् श्रीअजितनाथादीन् , नत्वा सङ्घसखः सन् , क्रमाद् नीवत्सु देशेषु निर्जरो देव इव निनिर्जरो यो गूर्जराख्यविषयस्तस्यालङ्काराय हारीभवन् गूर्जरमण्डलं पावयन् ,सौराष्ट्रनामानं राष्ट्र देशम् , अविशत् प्रविटवानिति, यथा सिन्धुनाम्नी नदी, अपराङ्क पश्चिमाभूषणं, सिन्धुं समुद्रं, विशति तथेत्यर्थः ॥ ४९ ॥ श्रीमत्सङ्घयुतेन तत्प्रथमतः श्रीभूरिणा सूरिणा . यात्रा सिद्धधराधरस्य विदधे तीर्थस्य तीर्थेशितुः। सूरिः सूरिजगद्गुरोः पदयुगन्यासश्रियाऽभ्युन्नते श्रीमत्युन्नतनामधेयनगरे गन्तुं प्रवृत्तस्ततः ॥ ५० ॥
Page #592
--------------------------------------------------------------------------
________________
५६७
पोडशः सर्गः। . तत्र तत्प्रथमतः सङ्घयुनेन श्रीभूरिणा श्रीमरिणा तीर्थेशितुस्तीर्थराजस्य, श्रीसिद्धधराधरस्य शत्रुञ्जयस्य तीर्थस्य,यात्रा विदधे कृतेति ततः मूरिः श्रीविजयसेनमूरिः, मूरिजगद्गुरोः श्री. हीरसूरेः,पदयुगन्यासश्रियाऽभ्युनते श्रीउन्नतनामधेयनगरे ऊनाख्ये, गन्तुं प्रवृत्त इति ॥ ५० ॥ गवा हीरजगद्गुरोः पदयुगोपास्त्या खंमासूत्रयन् पूतं तत्र कियदिनी दिनकरोत्सर्पत्प्रतापः प्रभुः। श्रीसङ्घानघसिद्धिसिद्धतटिनीगौरीगुरुः श्रीगुरुः पद्मोल्लासकरैः करैरिव रवेश्चक्रे प्रतिष्ठां क्षणैः ॥५१॥
तत्र गत्वा कियदिनी यावत् हीरजगद्गुरोः पदयुगोपास्त्या स्वम् आत्मानं पूतं पवित्रम् , आसूत्रयन् रचयन् , प्रभुः क्षणैरुत्सवैः, किं०, एकत्र पद्मायाः, अन्यत्र पद्मानां पङ्कजानां उल्लासकरैः,अत एव रवेः करैरिव मूर्यकिरणैरिव, प्रतिष्ठां चक्रे,प्रभुः किं०, दिनकरस्तद्वदुत्सर्पत्प्रतापः, तथा श्रीसङ्घस्याऽनघा सिदिरेव सिद्धतटिनी गन्न तम्यां गौरीगुरुभवानीगुरुहिमाद्रिरिति यावत् ॥ ५१ ॥ सूर्येणेष नभः पुनः पुनरिदं नाभौशितुः सूनुना
खैः पादैरधिगम्यते स्म विभुना तीर्थ सदाऽनर्थहत् । सेवाऽस्याऽसुखवल्लिपल्लवहिमं तत् सांप्रतं नः पुनमलैव पुनरीयिवान् मुनिपतिः शत्रुञ्जयोर्वीधरम् ॥५२॥ - इंद तीर्थ नाभीशितुः सूनुना श्रीऋषभदेवेन, पुनः पुनः खैः पादैः अधिगम्यते स्माऽऽश्रितमिति, यथा सूर्येण नभइलेति दृष्टान्तः, तत् तस्मात् , अस्य सेवा, किं०, असुखवल्लिपल्लवेषु हिममिव हिमं, एषां नः सांपतं युक्ता, एवं मत्वा मुनिपतिः
Page #593
--------------------------------------------------------------------------
________________
५६८
विजयप्रशस्त्याम् ।
सूरिः पुनरपि शत्रुञ्जयोर्वीधरम् इयिवान् आगतवानिति ॥५२॥ पाथोजन्मकरं गवां गणधरं प्रौढप्रतापोद्धुरं दृष्ट्वा सूरिवरं तदा मुमुदिरे यात्रार्थमभ्यागताः । लोका मालवमेदपाटमरुभूमुख्या असंख्या भृशं सामोदाः कमलाश्रयाः सदलिकाः पद्मा इवाऽहर्मणिम् ५ ३
तदा तस्मिन्नवसरे, गुरुं दृष्ट्रा मालवमेदपाटमरुभूमुख्याअसंख्या लोका ये यात्रार्थमभ्यागतास्ते तदा मुमुदिरे हर्ष प्राप्ता इति, अहमणि सूर्य, पद्मा इव, यथा पद्मा अहर्मणिं दृष्ट्रा मोदन्तेः सूरिवरं सूर्ये च किं०, पाथोजन्म कमलं तद्वत् करौ यस्य, रवेस्तु पद्मपाणित्वात्, तथा गवां रुचां वाचां च गण धरतीति, प्रौढप्रतापो दुरं स्पष्टं, पद्मा लोकाच सामोदाः कमलाश्रया इति तु विशेषणद्वयं सुबोधम्, सदलिका एकत्र सल्ललाटाः, अन्यत्र सद्भ्रमरका इत्यादि ॥ ५३ ॥ श्रीसिद्धादिरसावितः सुखकरः सूरीश्वरोऽसावितः श्रीसंघे युगपद् बभूवतुरुभौ प्रीत्यै तदा संगतौ । कामोल्लासकरौ कुचाविव पयः पूर्णौ स्वमातुः शिशावभ्येतौ मधुमाधवाविव जने यद्वा वसन्ताऽऽगमे ॥५४॥
इतोऽसौ श्रीसिद्धाद्रिः शत्रुञ्जयः, इतोऽसौ सुखकरः सूरीश्वरः, एतौ उभौ तदा संगतौ युगपत् समकालं, श्रीसंघे प्रीत्यै बभूवतुः, इवेति दृष्टान्तोपनये, यथा शिशौ मातुः पयःपूण, पुनः, कामोल्लासकरौ, कुचौ भवतः यद्वाऽथवा, जने वसन्ताऽगमे मधुमाधवौ चैत्रवैशाखौ, अभ्येतौ प्रीत्यै भवतइति ॥ ५४ ॥
सेवां साधु विधाय तीर्थतिलके भूयस्तरां सादरैः
Page #594
--------------------------------------------------------------------------
________________
षोडशः सर्गः ।
५६९
पौरैः पूजितपादपद्मयमलः श्रीपादलिप्तात् पुरात् । वातात् पूरितपोतवद् यतिपतिः श्रीस्तम्भतीर्थाश्रयश्रीसङ्घाग्रहतश्चचाल नगरं श्रीस्तम्भतीर्थं प्रति ॥५५॥
यतिपतिः सूरिः, यथा वातात् पूरितः पोतः, तथा श्रीस्तम्भतीर्थीयसङ्घाग्रहतः श्रीस्तम्भतीर्थं नगरं प्रति चचालेत्यन्वयः । कुत इत्याह- श्रीपादलिप्तात् पालीताणाऽऽख्यात् पुरात् कथं, तीर्थतिलके विमलाचले, साधु सेवां विधायेति, अन्यत् सुगमम् ।। ५५ ।।
प्रेयः पुण्यपरिच्छदः सुकमलः कामं लसन्मानसः सूरीशः कविचिचचारुगमनः पद्माकरप्रीतिभाक् । हंसोऽम्भोजवनीमिवाऽवनिमलङ्कुर्वन् क्रमाद् विक्रमी गाङ्गं कूलमिवाऽनुकूलचरणः श्रीस्तम्भतीर्थं ययौ ॥ ५६ ॥
सूरीशः अवनिं भूमिं अलङ्कुर्वन् श्रीस्तम्भतीर्थं ययावित्यन्वयः, इव यथा, हंसः अम्भोजवनीं अलङ्कुर्वन् गाङ्गं कूलं यातीति, सूरीशो हंसश्च किं०, मेयो वल्लभं पुण्यमेव परिच्छदो यस्य, अथवा प्रेयान् पुण्यः परिच्छदो यस्येति द्वयोः समम् ; पुनः सुकमल इत्यपि द्वयोः स्पष्टम्, तथा कामम् अत्यर्थ, लसद् मानसं मनः सरथ यस्येति, तथा कवीनां चित्ते, तथा कवेः ब्रह्मणचित्ते चारु गमनं गतिर्यस्येति कविहृदयसंक्रान्तत्वात् तद्गतिकत्वाच्च; तथा पद्माकरे ज्ञानादिलक्ष्म्याकरे, पक्षे तडागे कमलनिकरे वा प्रीतिभाक्; तथाऽनुकूलचरण इत्यपि द्वयोस्तुल्यम्, शेषं सुगमम् ॥ ५६ ॥
अथ गुरोः संमुखोत्सवं वर्णयतिआगच्छद्भिरगोपमैरभिमुखं दन्ताबलैः सद्बलैः
१ 'श्रीस्तम्भतीर्थाय सच्छ्री ' इति पाठान्तरम् ।
७३
ܝ
Page #595
--------------------------------------------------------------------------
________________
५७० विजयप्रशस्त्याम् । सिक्ता भूर्मदवारिभिर्मुगमदस्तोमैरिवोत्सौरभैः । कुम्भेभ्यः प्रचुरैः पतद्भिरभितः सिन्दूरपूरैरभूद् भू रक्ताभिनवैर्भरैरिव रुचां पाथोजिनीप्रेयसः ॥ ५७ ॥ . प्रभोः प्रवेशसमयेऽभिमुखं आगच्छद्भिः दन्तावलैः हस्तिभिः, किं०, अगोपमैः पर्वतप्रायैः, मदवारिभिः मृगमदस्तोमैरिव उत्सौरभैः प्रवलसौरभ्यैः, भूः सिक्ता; तथा पाथोजिनीप्रेयसः सूर्यस्य उद्गच्छत्त्वात अभिनवैः रुचा भरैरिव कुम्भेभ्यः पतद्भिः प्रचुरैः सिन्दूरपूरै— रक्ताऽभूदिति, कचिदिति गम्यम् ॥ ५७॥ रङ्गदिस्तुरगैः प्रभोः प्रविशतः पुर्या तदाऽध्या बभौ स्कन्धावार इव प्रमोदपृथिवीनाथस्य सार्थोन्नतेः। आसीत् पुण्यमनोरथैरिव रथै रथ्या सुरथ्या तदा देवैद्यौरिव वर्यवेषवसनैलॊकैः पुरं तद् बभौ ॥ ५८ ॥
तदा तत्र क्षणे, पुर्या प्रभोः प्रविशतः अध्वा मार्गः, रङ्गद्भिरुच्छलद्भिः, तुरगैर्बभौ शोभते स्म, इवोत्प्रेक्ष्यते-प्रमोदपृथिवीनाथस्य स्कन्धावारो राजधानी, कीदृशस्य, सार्था उन्नतिः, अथवा सार्थस्य समुदायस्योन्नतिर्यस्येति; तथा तदा रथ्या पुण्यमनोरथैरिव रथैः सुरथ्या सार्थिका, आसीद् जाता, तथा वर्यवेषस्य वसनं आच्छादनं येषां तैः,लोकैः पौरैः, तत् पुरं द्यौः स्वर्गः, देवैरिव वभौ ।। ५८ ॥ पुर्या तत्र तदा प्रभोः प्रविशतः प्रोत्तम्भितैश्चत्वरे . रेजे काञ्चनकुम्भशालिभिरलं श्रीकारणैस्तोरणैः । बिभ्रत्यः कलसान् जलैर्गतमलैः पूर्णान् स्त्रियोऽभ्यागमन रूपैर्भूरिभिरष्टसिद्धय इव स्वःकुम्भभृन्मस्तकाः ॥५९॥
Page #596
--------------------------------------------------------------------------
________________
षोडशः सर्गः ।।
५७१
तदा तत्र पुर्या प्रभोः सूरेः प्रविशतचत्वरे चत्वरे चतुष्पथे चतुष्पथे, काश्चनकुम्भशालिभिः, पुनः, श्रीकारणैः तोरणैः प्रोतम्भितैः रेजे, तथा स्त्रियः निर्मलैर्जलैः पूर्णान् कलसान् विभ्रत्योऽभ्यागमने संमुखा आगता इति । इवोत्प्रेक्ष्यते - स्वः कुम्भभृन्मस्तकाः शिरःस्थकामकुम्भा अष्टसिद्धय इवाभ्यागता इति ५९ ।। स्थाने स्थान उदारमौक्तिकभरैः क्लृप्तैर्लसत्स्वस्तिकै
जे भ्रान्तिभरश्रमादिव तदोत्तीर्ण गणैज्र्ज्योतिषाम् । संरुद्धाम्बरकेतुकेतुभिरलं तीव्रातपोन्माथिभिः सच्छायं पुरवर्त्म तत्र विदधे पाथोदवृन्दैरिव ॥ ६० ॥
गुरुप्रवेशे सति उदारै मौक्तिकभरैः क्लृप्तैः रचितैः, स्वस्तिकैः स्थाने स्थाने भेजे । उत्प्रेक्ष्यते तदा ज्योतिषां गणैः भ्रान्तिभरश्रमात् उत्तीर्णमित्र, तथा तत्र संरुद्धोऽम्बरकेतुः सूर्यो यैस्तैरेवंभूतैः केतुभिर्ध्वजैः, पुरवर्त्म सच्छायं विदधे, किं०, तीव्रातपोन्माथिभिरिति व्यक्तम्, पाथोदानां मेघानां वृन्दैरिवेत्युत्प्रेक्षा ॥ ६० ॥ जीमूतैरिव चातकेषु पयसां पूराः प्रकामोन्नतैदीयन्ते स्म धनानि दानिविबुधैः श्राद्धैर्जनेष्वर्थिषु । वीणावेणुमृदङ्गमुख्य विविधाऽऽतोद्यैर्मुदा वादितैः शब्दाद्वैतभृतं भृशं पुरमभूद् निःशेषमेतत् तदा ॥ ६१ ॥
तदा गुरोः प्रवेशे सति, दानिषु विबुधैर्विचक्षणैः देवैर्वा, श्राद्धैरर्थिषु जनेषु धनानि दीयन्ते स्म यथा प्रकाममुन्नतैर्जीमूतैर्मेधैः, चातकेषु पयसां पूरा दीयन्ते तथा तदा नि:शेषमेतत् पुरं मुदा वादितैर्वीणावेणुमृदङ्गमुख्यविविधातांद्यैभृशं शब्दैरद्वैतमिव भृतं शब्दाद्वैतभृतम् अभूत् ॥ ६१ ॥
Page #597
--------------------------------------------------------------------------
________________
५७२
विजयप्रशस्त्याम् । इति महसि मनोज्ञे जायमाने जयश्री
भुजयुगलविराजत्कन्धराबन्धुरोऽयम् । रय इव सुरसिन्धोः स्तम्भतीर्थान्धितीर्थ धनकमलविलासी सूरिसिंहो विवेश ॥ ६२ ॥
इति व्यावर्णितरीत्या, मनोज्ञे महसि उत्सवे, जायमाने सति, सरिसिंहः श्रीविजयसेनमूरिः, किं०,जयश्रियो यद् भुजयुगलं तेन विराजन्ती कन्धरा तया बन्धुरो रम्यः, सर्वत्र जयलक्ष्म्याऽऽलिङ्गित इति, इत्थंभूतः मूरिः, स्तम्भतीर्थमेवाऽब्धितीर्थ, क इव, सुरसिन्धोगङ्गाया रय इव, विवेश प्रविष्टः, सरिः रयश्च किं०, घना कमला येषां ते घनकमला महेभ्यास्तैर्विलसतीत्येवंशीलः, पक्षे घनं कमलं जलं तेन तत्र वा विलासीति, अशेषं शेषं सुगमम् ॥ ६२॥ अत्र सर्गे शार्दूलविक्रीडितं छन्दः, प्रान्ते तु मालिनी; तयोर्लक्षणं तु प्रागेवोक्तमिति ॥ . . . . . . . . . .....................
इतीति कण्ठ्यम् ।। इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां श्रीविजयप्रदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां षोडशः सर्गोऽर्थतः
समर्थितः ॥
Page #598
--------------------------------------------------------------------------
________________
अहम
अथ सप्तदशः सर्गः।
मणम्य प्रथम सार्व सर्वश्रेयःप्रपञ्चकम् ।
अथ वित्रियते किञ्चित् स्वोपझं सर्गपञ्चकम् ॥१॥ अथ मूलसंख्यातः सप्तदशः सर्गः समारभ्यतेखामी मुनीनामथ मौक्तिकौघ
स्वर्णादिसत्तोरणहारिणं सः । श्रेयाञ् श्रियोपाश्रयमस्तसाद
माद्यन्मुदा मन्दिरमाससाद ॥१॥ अथ स मुनीनां खामी, किं०, श्रिया चतुर्ति सङ्घशोभया, श्रेयान् अतिप्रशस्यः, पुनः, अस्तसादानां निर्विपादानां माद्यन्मुदो मन्दिरमुपाश्रयं, किं०, मौक्तिकैः वर्णादिभिश्च सन्ति प्रशस्तानि यानि तोरणानि तैहारिणं मनोज्ञम् , आससादेत्यागतवान् ॥१॥ वृत्तद्वयेन तमेव वर्णयति-- प्राचीपतेः संसदपि प्रसिद्धा
सौभाग्यमुग यस्य पुरो बभूव । सालोकलोकस्य तमोनिहन्तुः ___ खद्योतपोतस्तरणेरिबोचैः ॥ २ ॥ यस्योपाश्रयस्य पुरः प्राचीपतेः शक्रस्यापि, संसत् सभा सुधर्मा नानी,सौभाग्यमुग बभूव खं सौभाग्यगर्व मुमोचेत्यर्थः, इव यथा, तरणे रवेः पुरः, खद्योतपोतः, तरणेः उपाश्रयस्य च किं०, सालोका उपाश्रयपक्षे सज्ञाना लोका यस्माद् यत्र वा, तरणि.
Page #599
--------------------------------------------------------------------------
________________
५७४
विजयप्रशस्त्याम् । .. पो सालोकाः सोयोता लोका यत्र तस्य, पुनस्तमसोऽघस्य, पक्षे ध्वान्तस्य च निहन्तुर्यातकस्येति दृष्टान्तः॥२॥
गतोपमानप्रतिमानमेनं
दृष्ट्रेति नः स्पष्टतमोऽस्ति तर्कः । चक्रे भुवीमं ननु विश्वकर्मा
नान्यो यदीदृग् नयनाध्वनीतः ॥ ३ ॥ एनमुपाश्रयं, किं०, गते उपमानप्रतिमाने तुलाप्रतिबिम्बे यस्य तं निरुपमं निष्पतिविम्बं चेत्यर्थः, दृष्ट्रा नोऽस्माकं, स्पष्टतमः स्फुटतरः,तर्को विचारोऽस्ति तमेवोत्तरार्धेनाह ननु निश्चितम्,इममुपाश्रयं, विश्वकर्मा देववर्धकी, चक्रे, तत्रापि हेतुमाह-यद् ईक अन्य उपाश्रयो नयनाऽध्वनि नेत्रपथे, न इतः प्राप्तो न दृष्ट इति ॥३॥ स्थाने मुनीनामिह तत्र सत्रे
श्रीणां स्थितः श्रीश्रमणाधिराजः। जन्मोदधौ पोतमिवाततान
मुत्संनिवेशं सुकृतोपदेशम् ॥ ४ ॥ तत्र मुनीनां स्थाने, किं०, श्रीणां सत्रे गृहे, श्रीश्रमणाधिराजः मूरिः, स्थितः सन् ; इवोत्प्रेक्ष्यते--जन्मोदधौ भवार्णवे, पोतं मवहणमिव, तारकत्वात् , सुकृतोपदेशम् , किं०, मुदा संनिवेशम् , आततानेति कृतवान् , व्याख्यानमिति भावः ॥ ४ ॥ प्रासादबिम्बादिविधानपूर्व
काराप्यते यद् भगवत्प्रतिष्ठा। श्रीतीर्थयात्रा क्रियतेऽतिगुर्वी
गच्छाधिपाचार्यपदोत्सवश्व ॥ ५ ॥
Page #600
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः ।
५७५
एकोऽयमुपदेशो यत्- प्रासादविम्वादिनिर्माणपूर्वकं भगवत्प्रतिष्ठा काराप्यते विधाप्यते, द्वितीयश्चायं यत्-अतिगुर्वी महती, तीर्थयात्रा क्रियते, तृतीयश्चायम् च पुनः गच्छाधिपाचार्यपद - व्या उत्सवो विधीयते चेति ॥ ५ ॥ न्यायार्जितानां निजसंपदां सज्ञानैर्जिनैः स्फारतमा फलानाम् । गार्हस्थ्यभाजां गदिता त्रयीयं भूतोद्भवद्भाविभवत्रयश्रीः ॥ ६ ॥
* सज्ञानैर्ज्ञानवद्भिर्जिनैः, न्यायेन अर्जितानां निजसंपदां गाईस्थ्यभाजां गृहमेधिनाम्, इयं फलानां त्रयी, किं०, भूतोद्भवद्'भाविभवत्र अतीत वर्तमानानागतरूपे जन्मत्रये श्रीर्यस्याः सा, स्फारतमाऽतिस्फारा, फलत्रयी उक्तपूर्वा, गदिता प्रोक्तेति ॥६॥ तत्र द्रुमाणामिव पारिजात -
आस्तेऽभिजातः सुदृशां वरेण्यः । गाम्भीर्यधैर्याऽऽदिगुणाब्धिमल्लः श्रीमल्लनामाऽऽस्तिकहस्तिमल्लः ॥ ७ ॥
तत्र स्तम्भतीर्थे, द्रुमाणां पारिजात इव, सुदृशां सम्यग्रहष्टीनां वरेण्यो वर्यः, पुनः, अभिजातः कुलीनः, श्रीमल्लनामा, किं०, आस्तिकेषु श्रद्धालुषु हस्तिमल्ल ऐरावणस्तन्मुख्यत्वात् पुनः किं०, गाम्भीर्यधैर्यादयो ये गुणास्तद्रूपो योऽब्धिस्तत्र मल्लो मीनस्तृन्निमग्नत्वात्, यदनेकार्थः “मल्लो मीने” इति, आस्ते वर्तते ॥७॥ काव्यचतुष्टयेन तस्यैव वर्णनम् - यत्कीर्तिरर्तिक्षितिकृत् समस्तं
व्याप्नोति विश्वं विशदाऽवतारा ।
་
Page #601
--------------------------------------------------------------------------
________________
५७६. विजयप्रशस्त्याम् ।
जहोस्तनूजेव पिनाकपाणे. . . .
मूर्धानमाप्तेन्दुकलाविलासा ॥ ८ ॥ - यस्य श्रीमल्लनाम्नः श्राद्धस्य कीर्तिः, पिनाकपाणेः शम्भोः, मूर्धानं जद्दोस्तनूजेव गङ्गेव, किं०, अर्तेः क्षयकरी, पुनः, विशदावताराशुभ्रत्वात् , पुनः, अत एव आप्तः सत्यः इन्दुकलावद् विलासो यस्याः सा, गङ्गापक्षे आप्तः प्राप्तः इन्दुकलानामेकस्थानवनित्वाद् विलासो लीला ययेति सा, समस्तं विश्व व्यामोतीति ॥८॥
दानरमानैः प्रसभासमानैः . पुण्यानुरागैर्गरिमाऽमरागैः । यः श्रेष्ठिशिष्टः कलयन्निहास्ति
ख्याति ग्रहेष्वर्क इव प्रजासु ॥ ९॥ ___ यः श्रेष्ठिशिष्टः अमानैर्घनैः दानैः, किं०, प्रसभमसमानैनिरुपमैः, पुनः, पुण्याऽनुरागैर्धर्मरागैः, किं०, गरिमाऽमराऽगैर्माहात्म्यमेरुभिः, ग्रहेषु अर्क इव प्रजासु लोकेषु, ख्याति कलयन्नस्तीति ॥९॥ दानाऽऽदिभिर्यः सुकृतैर्विभाति
चतुर्भिरिभ्योत्तम उन्नताभैः। उन्मूलयन् क्लेशलतावितानं
दन्तैरिवाऽस्वप्नपतिद्विपेन्द्रः ॥ १० ॥ यः श्रीमल्लः, इभ्योत्तम आढ्यमुख्यः, दानादिभिश्चतुर्भिःसुकृतैर्दानशीलतपोभावैः, दन्तैः अस्वमपतिद्विपेन्द्रः इन्द्रहस्तीव, सुकृतैर्दन्तैश्च कि०, उन्नता आभा शोभा येषां तैरिति, किं कुर्वन् , क्लेशलतानां वितानं समूहम्, उन्मूलयन् विभातीत्युक्तिलेशः॥१०॥
Page #602
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः ।
सर्वज्ञवाचां श्रवणैः प्रधानपूजाभिरर्हत्पदपङ्कजानाम् । संसेवनैश्च व्रतिसत्तमानां
रत्नत्रयीति क्रियतेऽमुनाऽर्ध्या ॥ ११ ॥
सर्वज्ञवाचां अर्हद्गिर, श्रवणैः आकर्णनैः, पुनः, अर्हत्पदपङ्कजानां जिनचरणकमलानां प्रधानपूजाभिः विशिष्टार्चाभिः, च पुनः, प्रतिसत्तमानां साधूचमानां, संसेवनैर्भजनैः, इति व्याख्यातस्वरूपैस्त्रिभिर्लक्षणैः, अमुना श्रेष्ठिना श्रीमल्लनाम्ना, ज्ञानदर्शनचा - रित्राऽऽराघनरूपा रत्नत्रयी, अर्ध्या शोभमाना, क्रियत इति ॥ ११ ॥
रत्नत्रयाऽऽवासनिवासरत्न
मेनं गुरूणामुपदेशमाप्य । श्रेयोऽन्तरायक्षिविहस्ति मल्लः
श्रीमल्लसाधुः स हृदाऽतिहृष्टः ॥ १२ ॥
५७७
गुरूणां भीविजय सेनसूरीणाम्, एनं पूर्वोक्तम्, उपदेशं सुकृतफलव्याख्यानलक्षणं, किं०, रत्नत्रयरूपो य आवासस्तत्र निवासरनं दीपं तदुद्योतकत्वात्, आप्य प्राप्य श्रुत्वेति यावद्; स श्रीमल्लसाधुः किं०, श्रेयसि धर्मे योऽन्तरायो विघ्नस्तस्य - क्षितौ विघ्नध्वंसे हस्तिमल्लो गणेशः, “हस्तिमल्लो हेरम्वे" इत्यनेकार्थत्वात्, हृदा मनसा, अतिहृष्टोऽतिहर्षितवान् ॥ १२ ॥ अथ यच्चक्रे तद् वृत्तद्वयेनाह
9.
लक्ष्मीलतायाः फलमेतदेव
सम्यग् विदश्चेतसि स प्रचेताः । श्रेष्ठीश आचार्यपदोत्सवार्थ
or
Page #603
--------------------------------------------------------------------------
________________
५७८
विजयप्रशस्त्याम् । मर्थव्ययं कर्तुमना मनखी ॥ १३ ॥ श्रीगूर्जरत्रामरुमेदपाट__सौराष्ट्रसिन्ध्वादिषु मण्डलेषु । सर्वेष्वथो कुङ्कुमपत्रिकाणां
पात्रीचकाराऽखिलसङ्घलोकम् ॥ १४ ॥ लक्ष्मीलतायाः संपवल्ले, एतदेव फलं चेतसि मनसि, विदन् जानन् , स श्रेष्ठीशः, कि०, प्रचेताः प्रमना हष्टमानस इति, पुनः कि०, कर्तुमनाः कर्तुकाम इति, किं, अर्थव्ययं धनोत्सर्ग, किमर्थमित्याह-आचार्यपदोत्सवार्थ गुरुपट्टधरपदमहोत्सवायेति ॥१३॥ श्रिया युक्ता गूर्जरत्रा प्रसिद्धा, मरवो मरुस्थलीनामका देशा नवकोट्टप्रतीताः, मेदंपाटः प्रागवर्णित इति, सौराष्ट्रः शत्रुञ्जयोज्जयन्ताद्रितीर्थपवित्रः, सिन्धुदेशः सिन्धुनाम्न्या नद्योपलक्षितः,आदिशब्दाद् मालवमेवाताऽऽदिग्रहः,तत इत्यादिमण्डलेषु देशेषु, सर्वेष्वपि समस्तेषु, अखिलसङ्घलोकं कुङ्कुमपत्रिकाणां लोके कुंकोतरीतिप्रतीतानां, पात्रीचकार हर्षपत्रकमेषणद्वारा आहूतवानिति ॥ इति युग्मव्याख्या ॥ १४ ॥ ते स्वस्वदेशाद् वरवस्त्रवेशाः ।
योनिवेशाः समुपेयिवांसः । श्रीस्तम्भतीर्थे नगरेऽथ लोकाः
पान्था जलाऽऽत्ये सरसीव शीघ्रम् ॥ १५ ॥ अथ ते लोकाः, कि०, वरवस्त्राणां वेशः परिधानं येषां ते, पुनः किं०, श्रेयोनिवेशाः सुकृतस्थानानि, स्वस्वदेशात् श्रीस्तम्भतीर्थे नगरे समुपेयिवांसः प्राप्ताः यथा पान्थाः पथिकाः, जलाऽऽढ्ये सरसि तटाक इति ॥ १५ ॥
Page #604
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः1
५७९ तत्राथ भूयांस उपेयिवांसो _ निर्ग्रन्थसार्थाः सपरिच्छदाश्च । तुङ्गे विहङ्गाः फलपुष्पपत्र
पूर्णे घनच्छाय इवावनीजे ॥ १६ ॥ अथ तत्र नगरे, च पुनः, गीतार्थसार्थाः पण्डितसङ्घाः,कि०, सपरिच्छदाः परिकरपरिवृताः, पुनः, भूयांसो बहवः, उपेयिवांस आगता इति, दृष्टान्तमुत्तरार्धेनाह-इव यथा, अवनीजे भूरुहे, किं०, तुङ्गे उच्चे, पुनः, फलपुष्पपत्रैः पूर्णे, पुनः, घनच्छाये छायाशालिनि, विहङ्गाः पक्षिण इति ॥ १६ ॥ ... तैरागतैः सङ्घजनैः श्रियाऽऽढ्यैः
सर्वैः सुवेषैः शुशुभे पुरं तत् । पाथोरुहौधैः सरसीव काम
____ मामोदिभिः फुल्लतमाऽऽस्यकोशैः ॥ १७ ॥ - तैः सजनैः श्रियाऽऽढ्यैः, पुनः, सुवेषैः शोभनवस्त्रैः, तत्र बन्दिरे आगतैः, तत् पुरं शुशुभ इत्यन्वयः; इव यथा, पाथोरुहौघैः पापकरैः, सरसी सरः, विभाति, किं०, कामम् , आमोदिभिर्गन्धवद्भिः, सङ्घपक्षे हर्षवद्भिः, फुल्लतमाऽऽस्यकोशैः स्मेरतराननकुमलैरिति द्वयोस्तुल्यं विशेषणम् ॥ १७ ॥
श्रीसङ्घलोकैः सरलावलोकः __ कोकैरिवाम्भोरुहबन्धुबिम्बम् । वीक्ष्यैनमाचार्यमहार्यवीर्य
लेभे प्रमोदः प्रगुणस्तदानीम् ॥ १८ ॥ श्रिया युक्ताः सङ्घलोकाः, साधुसार्वाधादश्राद्धीपास्ता,
Page #605
--------------------------------------------------------------------------
________________
५८० विजयाशस्त्याम् । अथवा प्राक्तने वृत्ते सङ्घजनैरिति पदस्य सद्भावात् तत्र श्राद्धश्राद्धीजनैरिति व्याख्येयम् , अत्र तु श्रीसङ्घलोकैरिति साधुसाध्वीलक्षणैः श्रीसङ्घलोकः सप्तशतीमितैरिति शेषः । पुनः किं०, सरलावलोकैर्निष्कपटमार्गदर्शिभिः, एनमाचार्य, किं०, अहार्य हर्तुमशक्यं वीर्य यस्य तं, वीक्ष्य, तदानीं प्रगुणः पटिठः, प्रमोदो लेभे लब्ध इति, कोकेश्चक्रवाकैः, अम्भोरुहवन्धुविम्ब सूर्यमण्डलमिवेति दृष्टान्तोत्क्षे ॥ १८ ॥
अथ दशभिः पदोत्सवसमये नगरवर्णनम् - निर्दग्धकृष्णागुरुधूपधूम
स्तत्रोद्धमेति स्म तदा तथोच्चैः । जज्ञे यथा पथ्यपि निर्जराणां
जोः सुतावत् तरणेस्तनूजा ॥ १९ ॥ तदा तस्मिन् महसि, तत्र स्तम्भतीर्थे, निर्दग्धो यः कृष्णागुरुधृपस्तस्य धूमः, तथा तेन प्रकारेण, ऊर्च एति स्म उच्चैर्गतवान् , यथा निर्जराणां पथि आकाशे, जह्वोः सुतावत् गङ्गावत् , तरणेस्तनूजा यमुना, जज्ञे, श्यामधूमच्छलाद् गमने यमुनाऽपि जातेत्याचर्यम् ।। १९ ॥
दुग्धेन सिक्ता पुरभूर्वधूभि. बभौ तदास्यैः प्रतिबिम्बितैर्द्राक् । कार्तस्वरैस्तामरसैरनूना ___ स्रोतखिनी मन्युभुजामिवागात् ॥ २० ॥
पुनः, वधृभिः स्त्रीभिः, तत्पुरभूस्तीर्थपृथ्वी, दुग्धेन सिक्का सती, तदास्यैस्तासां मुखैः, कि०, प्रतिविम्बितैः संक्रान्तैः, बभौ शोभते म, तत्र देशे हि वीवाहादौ दुग्धेन भूमिः सियत
Page #606
--------------------------------------------------------------------------
________________
५८१
सप्तदशः सर्गः । इति समर्थोऽयमर्थः। इवोत्प्रेक्ष्यते-कार्तस्वरैः काञ्चनैः, तामरसैः कमलैः, अनूना पूर्णा, मन्युभुजां क्रतुभुजां सुराणामिति, स्रोतस्विनी तटिनी गङ्गा, आगतेति ॥ २० ॥ गानध्वनिस्तत्र पुरे तदाऽभात्
गान्धर्ववर्गस्य भृशं प्रशस्यः । भूभृद्वनोामिव वारिवाह___ प्रोत्साहितस्याऽहिभुजां व्रजस्य ॥ २१ ॥
तदा तत्र नगरे, गान्धर्ववर्गस्य गायनगणस्य, गानध्वनिगीतनादः, अभात् शोभते स्मेत्यन्वयः; उत्तरार्धेन दृष्टान्तोत्प्रेक्षे माह-भूभृद्वनोा गिरिवनभूमाविव, अहिभुजां मयूराणां, बजस्य, किं०, वारिवाहेन मेघेन प्रोत्साहितस्य प्रहृष्टचेतस इति।२१॥
उत्तम्भिताः शालिदुकूलक्लप्ता
रेजुर्ध्वजास्तत्र तदाऽतितुङ्गाः। एनां पुरीं भूषयितुं प्रकाम
मागुस्तनूजा इव वैजयन्ताः ॥ २२ ॥ तत्र पुरे, तदाऽतितुङ्गा ध्वजाः केतवः, किं०, उत्तम्भिता गृहाहालकशृङ्गादौ लम्बिताः,पुनः किं०,शालिभिर्दुकूलैः पट्टकूलैः, क्लुप्ताः कृताः, रेजुः शोभन्ते स्मेत्यन्वयः; इवोत्प्रेक्षते-एनां पुरी भूपयितुं एतनगरविभूषाकरणाय, वैजयन्तस्य इन्द्रध्वजस्य तनूजाः पुत्रा इव वैजयन्तास्तनूजाः, आगुः प्राप्ता इहेति भावः ॥२२॥ सर्वत्र पुष्पप्रकरः प्रक्लप्त
स्तत्राबभौ भृङ्गभराभिरामः । पुण्यप्रकषैः प्रचुरैः प्रजानां
Page #607
--------------------------------------------------------------------------
________________
५८२ विजयप्रशस्त्याम् ।
क्रीडावनं शाक्रमिवाजगाम ॥ २३ ॥ तत्र पुरे तदेति सर्वत्र संबन्धनीयं, तेन तत्र सर्वत्र पुष्पप्रकरः पञ्चवर्णप्रसूनव्रजः, किं०, भृङ्गभरैभ्रमरोत्करैरभिरामो रम्यः, पुनः, प्रक्लृप्तो रचितः सन् , आवभौ शुशुभे; इवोलेक्ष्यते-शक्रस्य इदं शाकं, क्रीडावनं नन्दनदनं, प्रजानां लोकानां, पुण्यप्रक(राजगाम मातमत्रेति भावः ॥ २३ ॥ सन्मौक्तिकस्वस्तिकपतिरुच्चै
स्तत्र प्रतिस्थानमभात् तदानीम् । रत्नाकरैरत्र महे निजद्धिः
शस्ता समस्तैरपि ढौकिता किम् ? ॥ २४ ॥ तत्र प्रतिस्थानं प्रतिपदं प्रतिगृहं वा, सन्मौक्तिकस्वस्तिफपतिः मुक्ताफलमयी स्वस्तिकावलिः, अभाव भाति स्मेति किमित्युत्प्रेक्षायां, अत्र महे आचार्यपदोत्सवे, किं०, रत्नाकरैः समस्तैः समुद्रैरपि, निजर्द्धिः वा श्रीः मणिमुक्ताविद्रुमादिरूपा, दौकिता प्राभृतीकृतेति ॥ २४ ॥ व्यभादसौ घौसृणघोललिप्तो
द्रङ्गः सरङ्गः सकलस्तदानीम् । ब्रह्मद्रुमोद्यानमिव प्रसून__पुजैः समाकीर्णमिहावतीर्णम् ॥ २५॥
असौ द्रङ्गः, किं०, घोसणेन घोलेन कौडमलेपेन लिप्तः, अत एव सरङ्गः, सकलः समस्तोऽपि, व्यभात् शुशुभे; "पलाशो ब्रह्मपादपः" इति वचनाद्ब्रह्मद्रुमोद्यानं पलाशवनमित्र, इह नगरे किं प्रसूनपुजैः पुष्पोत्करैः, आकीर्ण अवतीर्णमुत्तीर्णमिति ॥२५॥
सहल्लकीवेणुमृदङ्गचङ्ग
Page #608
--------------------------------------------------------------------------
________________
५८३
सप्तदशः सर्गः। भेरीमुखैस्तूरभरैर्नदह्निः। अभ्यर्णवर्त्यर्णवनादमिङ
रासीत् तदा शब्दमयीव सा पूः॥ २६ ॥ सती शोभना वल्लकी वीणा वेणुवंशवाद्यं लोके वांसलीति प्रतीतम् , मृदङ्गो मर्दलः, चङ्गोऽपि वाद्यविशेषो मरुदेशपूर्वदेशादिप्रसिद्धः, अथवा चङ्गा मनोज्ञा या भेरी दुन्दुभिः तत्पमुखैः, तूरभरैर्वाद्यवजैः, किं०, नदद्भिः वदद्भिः, पुनः कि०, अभ्यर्णवर्ती समीपस्थायी योऽर्णवः समुद्रः तन्नादेन मित्रैः, सा पूनगरी बम्बावती, शब्दमयीव आसीत् केवलशब्दाद्वैता जातेति ॥ २६ ॥ गानैः प्रधानमंदिरेक्षणानां
सा पूर्बभौ मञ्जुलमङ्गलाऽऽढ्यैः । ताम्राक्षकान्ताकलकूजितौघै. रुद्यानधात्रीव मधौ समृद्धे ॥ २७ ॥
मदिरेक्षणानां स्त्रीणां प्रधानैर्गानः, पुनः किं०, मञ्जुलानि मनोहराणि मङ्गलानि मङ्गलमूलानि श्रीऋषभदेवश्रीशान्तिनाथविवाहप्रवन्धपुण्यप्रकाशरासादिरूपगीतानि तैराढ्यैः, सा पूनगरी, वभौ; इव यथा, मधौ वसन्ते, समृद्ध संपन्ने सति, ताम्राक्षकान्तानां कोकिलानां कलैः रम्यैः कूजितौधैः काकलीनिकरैः, उद्यानभूमिर्वनस्थलीत्यर्थः ॥ २७ ॥
नृत्तं वितेनुर्वरवारनार्यः
सर्वत्र तत्राद्भुतकृजनानाम् । गेहे सुराणामिव हृष्टनेत्राः
खाहाभुजां त्रस्तकुरङ्गनेत्राः ॥ २८ ॥
Page #609
--------------------------------------------------------------------------
________________
५८४ विजयाशस्त्याम् । ___ तत्र सर्वत्र वराः मधानपात्रीभूता वारनार्यो वाराङ्गनाः, नृत्तं नृत्यं, वितेनुश्चक्रुः, किं०, जनानामद्भुतकृत् आश्चर्यकारि, इव यथा, सुराणां गेहे स्वर्गे, हष्टनेत्रा हर्षिताक्ष्यः, स्वाहाभुजा देवानां, वस्तकुरङ्गनेत्राः स्त्रियो देवाङ्गना इति ॥ २८ ॥
इत्युत्सवं विस्मयवल्लिकन्द___कादम्बिनीकल्पमुदीक्ष्य लोकाः । सर्वे व्यमुञ्चन्निह सार्वभौम
राज्याभिषेकोत्सवदर्शनेच्छाम् ॥ २९ ॥ इति काव्यदशकेन व्यावर्णितस्वरूपम् , उत्सवं मूरिपदप्रदानमहं, पुनः किं०, विस्मयवल्लेः कन्दस्तत्र कादम्बिनीकल्पं मेघमालातुल्यम् , उदीक्ष्य दृष्ट्या, सर्वे लोका इह नगरे, सार्वभौमस्य चक्रवर्तिनो राज्याभिषेकस्य दर्शनेच्छां वक्षिणवान्छो, व्यमुश्चन् -सुश्चन्ति स्मेति ॥ २९॥ . . अथैकादशभिः काव्यैः श्रीमल्लसाधुसत्कगृहमन्डपादि वर्णयक्ति श्रीमल्लनामाऽथ महेभ्यमुख्यः
सौख्याय पौरप्रकरस्य सद्यः।। सन्मण्डपं मण्डयति स्म सौव- . . ___ गेहाङ्गणे दिव्यदुकूलदृश्यम् ॥ ३० ॥ .
अथ पदमुहूर्तासन्ने दिवसे, श्रीमल्लनामा महेभ्यमुख्यः पौरप्रकरस्य नागरनिकरस्य, सौख्याय सौवगेहाङ्गणे निजमन्दिराजिरे, सन्मण्डपं, कि०, दिव्यदुकूलैः प्रशस्यपट्टकूलदृश्यं दर्शनीयं, मण्डयति स्मेत्यरचयत् ॥ ३० ॥ श्रीसङ्घरङ्गवृषकेलिधाम
श्रीमण्डपो मण्डनकृत् स रेजे।
Page #610
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः । ५८५ आखण्डलाखण्डलपर्षदात्म- जन्मेव भूयःसुमनोमनोज्ञः॥ ३१ ॥ स मण्डनकृत् शोभाकारी, श्रीमण्डपः आखण्डलाखण्डलपर्षदात्मजन्मेव आखण्डलस्य इन्द्रस्य अखण्डला अखण्डा, यदुतमभिधानचिन्तामणिनामकोशटीकायां श्रीहेमाचार्यचरणैः"खण्डे खण्डलमपि" तेन न खण्डला अखण्डला अखण्डा, त्रिलिइत्वादस्य शब्दस्य, अखण्डला या पर्षत् सभा तस्या आत्मजन्मेव सुधर्मासभानन्दन इव, रेजे राजति स्मेत्यन्वयः; किं०, श्रीसङ्घस्य रङ्गन् यो वृषो धर्मस्तस्य केलिधाम लीलावेश्म, पक्षे श्रीसङ्घ एव रङ्गन् यो वृषा इन्द्रस्तत्केलिधाम, पुनः किं०, भूयःसुमनोभिर्वहुपण्डितैः बहुविधसुवर्णादिपुष्पैर्वा मनोज्ञः, पक्षे वहुदेवैरिति ॥ ३१ ॥ मुक्ताकलापैः कलितः कलाव
कान्तः प्रकामं पुरुषोत्तमश्रीः। . दुग्धोदधर्मध्य इवोरुलक्ष्मी
स मण्डपोऽखण्डतमां बभार ॥ ३२ ॥ स मण्डपः दुग्धोदधेः क्षीरसमुद्रस्य, मध्य इव अखण्डतमा संपूर्णाम् , उरु लक्ष्मी विशालशोभां, वभारेत्यन्वयः; श्लिष्टविशेषणमण्डपं च दुग्धोदधिमध्यं च वर्णयति-किं०, मुक्ताकलापैर्मुक्ताफलजालैः, कलितो युक्तः, इदं द्वयोरपि साम्यम् । पुनः किं०, कलावतां पण्डितानाम् , अथवा कलावद्भिः कान्तः प्रियः,अथवा कलावांश्चन्द्रमान्तद्वन् कान्त इति, मण्डपस्य वृत्तत्वात् आहादकत्वाचायमपि विशेपणारोपः, पक्षे कलावता चन्द्रण कान्तस्तस्य तत्रोत्पन्नत्वात् । पुनः, पुरुपोत्तमानां सज्जनानां श्रीयंत्र,पक्षे पुरुपोत्तमो विष्णुस्तस्य तेन वा श्रीयंत्रेति, शेष प्राग्वत् ॥ ३२ ॥
Page #611
--------------------------------------------------------------------------
________________
५८६
विजयमश्शस्त्वाम्
तत्र प्रतिस्तम्भमभुस्तदानीं सत्सौमनस्या अनिमेषनेत्राः ।
पञ्चालिका अप्सरसः किमेता
एता महं द्रष्टुमिमं महान्तम् ? ॥ ३३ ॥
तदा तत्र मण्डपे, प्रतिस्तम्भं पञ्चालिकाः पुत्रिकाः, अभुः शोभन्ते स्मेत्यन्वयः - किं०, सत्सौमनस्याः साधुचित्तोत्साहाः, पुनः किं०, अनिमेषनेत्रा निर्निमेषनयनाः, इवोत्प्रेक्ष्यते-इमं महान्तं महं द्रष्टुं एताः किम् अप्सरसः खर्वेश्याः, एताः प्राप्ताः, किं०, सत् प्रशस्यं विद्यमानं वा सौमनस्यं सुमनोभावः, अथवा सुमनसां पुष्पाणां कर्म अम्लानदामत्वाद् यासु ताः सत्सौनमस्याः, पुनः किं०, अनिमेषनेत्रा इति तु देवानां प्रतीतम्, एतद्विशेषणत्रया विसंवादि स्याद्वादिवचोऽपि यथा-"अणिमिसनयमणकज्जसाणा पुप्फदामअमिलाणा" इत्याद्युक्तेरिति ॥ ३३ ॥ सङ्घानघावस्थितये प्रपञ्चिमञ्चेषु पञ्चाननपीठपङ्किः । चाव चिरश्रीः शुशुभे तदानीं
: रम्या विमानालिरिवाऽऽगतैषा ॥ ३४ ॥
पश्चिनो विस्तारवन्तो ये मञ्चास्तेषु पञ्चाननपीठपङ्किः सिंहासनश्रेणिः, सङ्घस्य चतुर्विधस्य अनघाऽवस्थितये मनोज्ञाsवस्थानाय, तदानीं शुशुभे शोभतेति योगः इवोत्प्रेक्ष्यते - एषा विमानालिर्देववाहनश्रेणी, आगतेति ॥ ३४ ॥
रेजुः स्रजः षट्चरणै रणद्भिरालम्बितास्तत्र च सौरभान्याः ।
गानं सृजन्त्योऽप्सरसः किमीयु
Page #612
--------------------------------------------------------------------------
________________
समदशः सर्गः।
५८७ द्रष्टुं महं विस्मयमूलमेनम् ॥ ३५ ॥ च पुनः, तत्र मण्डपे, आलम्बिताः, पुनः, सौरभाब्याः स. सौगध्याः, सजः पुष्पमालाः, पदचरणभ्रमरैः, किं कुर्वद्भिः, रणझिङ्कारिभिः, रेजुः शोभन्ते स्मेति, किं०, विस्मयमूलं आश्चर्यकारणम्, एने महं द्रष्टुं गाने सृजन्त्योऽप्सरसः सुराबनाः, ईयुः प्राप्ता इत्युत्लेक्षा ॥ ३५॥
भान्ति स्म तत्राद्भुतशातकुम्भ___ कुम्भाः प्रतिद्वारगतोरणेषु । किं भाविनं गच्छपतिं दिसू
रूपैः सुरूपै रुचिमानियाय ? ॥ ३६ ॥ तत्र प्रतिद्वारगतेषु तोरणेषु, अद्भुतस्य शातकुम्भस्य सुवर्णस्य कुम्भाः कलसाः, भान्ति स्मेति संवन्धः उत्पेक्षामाहकिं०, भाविनं भविष्यन्त, गच्छपति दिदृक्षुर्दष्टुमिच्छुः, रुचिमान् सूर्यः, सुरूपैर्मनोहरैः रूपैः, इयायेत्यागतः, रूपैरित्यत्र पहुत्वाद् बहुभी रूपैरिति शेयम् ।। ३६ ॥ मुक्तावचूलैर्नयनानुकूलै
रालम्बितैः सोऽहुतमण्डपोऽभात् । अखप्नवत्र्मोडुभिराप्तदीप्त- दीप्तिप्रसारैरिव शारदीनम् ॥ ३७ ॥
मुक्ताफलझुम्बनकगुच्छ:, किं०, नयनयोरनुकूलैराहाद. कत्वात् , पुनः किं०, आलंम्वितैलेम्दीकृतैः, स अद्भुतमण्डपः, अभात् शुशुभे, इवेति वितर्के, आप्तः प्राप्तो दीप्तो देदीप्यमानो दीप्तिमसारो पुतिविस्तारो यस्तैः, उडभिनेक्षत्रैः, शारदीनं भरत्कालिकम् , अखपवर्म गगनमित्युत्प्रेक्ष्यत इति भावः॥३७॥
Page #613
--------------------------------------------------------------------------
________________
५८८
विजयप्रशस्त्याम् । भान्ति स्म तत्राद्भुतमात्मदर्शा
न्यस्ताः प्रतिस्तम्भमुदारभासः । साक्षादिवोद्योतकृते समस्ता
अस्तान्धकारास्तपनाः समीयुः ॥ ३८ ॥ . · तत्र प्रतिस्तम्भं न्यस्ता आत्मदर्शा दर्पणाः, किं०, उदारभासः स्फारतेजसः, भान्ति; उद्योतकृते आलोककरणाय, समस्ताः किं तपनाः मूर्याः, किं०, अस्तान्धकाराः प्रहततमसः, समीयुरिवेत्युत्प्रेक्षा ॥ ३८ ॥
चन्द्रोदयैस्तत्र विचित्रचित्रै- रेजेतमामुज्ज्वलमण्डपोऽत्र । व्योम्नस्तलादुत्तरदस्ति पुष्पं
रूपैरनेकैरिव वर्णनीयैः ॥ ३९ ॥ अत्र नगरे सं उज्ज्वलमण्डपः, चन्द्रोदयैर्वितानैः, किं०, विचित्राणि विविधानि चित्राणि चित्रकृचित्रितानि नरनारीतुरगमकरमृगशरभऋषभकुञ्जराऽजगरगिरितरुरुरुप्रभृतिभक्तिशक्तिशूलतोमरमुद्गरकुठारपशुपरिघपाणिप्रभूतस्फरास्फाराडम्बरफरजीरूपाणि येषु तैर्विचित्रचित्रैः, अथवा विचित्रचित्रै नाश्चर्यकारिभिः, रेजेतमाम् , अत्र प्रकृष्टेऽर्थे तरतमाविति व्याकरणप्रयोगात् अतिशोभते स्मेति, अनेकैः, पुनः, वर्णनीयैः श्लाघनीयै रूपैः, "पुष्पं धनदस्य विमाने" इत्यनेकार्थत्वात् पुष्पं पुष्पकाभिधानं, विमानं व्योम्नस्तलाद् नभस्तलात् , उत्तरत् अस्तीत्युत्प्रेक्ष्यते ॥ ३९ ॥
दिव्यैर्दुकूलैः कलधौतकान्ता. .. लङ्कारभारैर्मणिमौक्तिकैश्च ।
Page #614
--------------------------------------------------------------------------
________________
.. सप्तदशः सर्गः। , ५८९ . कृत्वा विमानप्रतिमानमेवं
खं धाम धामैष मुदामुदारः ॥ ४० ॥ पूज्या अनूचानपदप्रतिष्ठा
कृत्यात् पवित्रीकुरुताऽङ्गणं मे । श्रीमल्लसाधुः शमिसार्थनाथा
नेत्येत्यथो विज्ञपयाञ्चकार ॥ ११ ॥ अनयोर्युगपद् व्याख्या-एष श्रीमल्लसाधुः स्वभ्रातृपुत्रेण साधुसोमाख्येन सहितः, किं०, मुदां धाम, अत एव उदारः स्फाराकारः, स्वं धाम गृहं कृत्वा, किं०, विमानप्रतिमानं स्व
निप्रतिविम्बं, करित्याह-दिव्यैर्दुकूलैः, अन्यैरपि पञ्चवर्णवस्त्रादिभिः, पुनः कैः, कलधौतेन कनकन रूप्येण च कान्तारम्या येऽलङ्कारभारा भूषणभरास्तः, पुनः, मणिमौक्तिकै रत्नमुक्तादिभिः,कथम्? एवमितिवर्णितप्रकारेण, सर्व निर्माय शमिसार्थनाथान् यतिव्रजनायकान् गुरून् , एत्य आगत्य, इति विज्ञपयानकार विज्ञप्तवान् , तदेव द्वितीयकृत्तपूर्वान प्राह- हे पूज्याः ! अनूचानपदप्रतिष्ठाकृत्यात् मूरिपदवीस्थापनाकार्यकरणात , मे सम, अङ्गणं गृहाङ्गणं, पवित्रीकुरुत पादावधारणेन पावनं विधीयतामिति वृत्तद्वयार्थः ॥ इति युग्मव्याख्या ।। ४० ॥४१॥ श्रीसूरयोऽथो समुपेयिवांसः
सश्रीकमस्याऽऽलयमिभ्यभर्तुः । आमोददं मङ्क्ष वलक्षपक्षा: स्ते राजहंसा इव पुण्डरीकम् ॥ ४२ ॥
अथो तेन श्रेष्ठिना विज्ञप्ताः सन्तः, श्रीसूरयो गुरवः, सपरिकरा वाचकपञ्चकसपादशतमितपण्डितयुताः, अस्य इभ्यभर्तुः
Page #615
--------------------------------------------------------------------------
________________
विजयाशस्त्याम् । श्रीमल्लनानः, आलयं, कि०, संश्रीकं व्यावर्णितशोभाशालिस्वाद , समुपेयिवांसो लग्नालयमदिवससन्ध्यायामिति शेषः, पथा राजहंसाः, किं०, वलक्षौ उज्ज्वलौ पक्षी येषां ते, गुरुपक्षे पिठमावरूपी पक्षी, हंसपक्षे पक्षौ पिच्छौ, पुण्डरीकं किं०, आमो. ददं गन्धदायि, आलयं कि०, हर्षदायिनमिति दृष्टान्तः॥४२॥
अथाष्टभिः काव्यैः पदस्थापनावसरोत्सववर्णनपूर्वकं त. दर्षमासपक्षतिथिवारनक्षत्रलग्नग्रहस्थितिकथनपट्टधराभिधानादि च निरूपयतिदानेष्वमानेष्वथ दीयमाने
वर्थिवजे काश्चनसञ्चयस्य । एणीदृशां भर्तृभृताङ्गणेषु · गानं सृजत्सूज्ज्वलमञ्जुलार्थम् ॥ ४३ ॥ तूर्येषु वर्येष्वथ वेणुवीणा
भेर्यादिषचैहुशो नदत्सु। गायत्स्वथो गायनपुङ्गवेषु
तारखरं मञ्जुलमङ्गलानि ॥ ४४ ॥ भट्टेषु भूयस्सु भणत्सु शस्ता
न्याशीर्वचांसि प्रसरन्महांसि । लोकेषु पश्यत्स्वथ सुप्रपञ्च
मञ्चस्थितेषु प्रणयप्रियेषु ॥ ४५ ॥ सङ्घाग्रहाब्दोर्जितगर्जितेन
संप्रीणितस्वान्तशिखण्डिशावैः । सूरीश्वरैः कोडिमदेतनूजः
Page #616
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः। पद्मातनूजैरिव रम्यरूपैः ॥ १६ ॥ वर्षे षडक्षक्षितिपालसंख्ये.
मासे पुनर्माधवनामधेये । पक्षे च पीयूषमयूखभाजि
तिथ्यां तथा ब्रह्ममुखैमितायाम् ॥ ४७ ॥ दिव्ये दिने प्रेयस औषधीनां
धिष्ण्ये मृगे लब्धमृगाङ्कयोगे । योगेऽतिगण्डे कुशलैरखण्डे
शकुन्तसार्थे सुखकृत्प्रचण्डे ॥ ॥ लग्ने वृषे सेन्दुनि कर्कराशौ ___ धात्रीसुते शक्रपुरोहिते च । आौ तुलायां मकरे च राहौ
शुक्रे घटेऽजे बुधसूर्ययोश्च ॥ ४९ ॥ . सन्नन्धुपाध्यायपदप्रतिष्ठा
पूर्व च पूर्वर्षिसभावतंसैः। आरोपि विद्याविजयाभिरूपे . पट्टः स्वकोऽङ्कर इवडिवल्लेः ॥ ५० ॥ __ अथ मुहूर्तवेलायां अर्थिवजे याचकनिकरे, काश्चनसंचयस्य हेमस्तोमस्य कटककुण्डलकटीसूत्रकमुद्रिकादेरिति, दानेगु, कि०, अमानेषु भूरिषु, दीयमानेषु सत्सु, पुनः, भर्तृभृताम् एणीदृशां सधववधूनां, गणेषु, उज्ज्वलेन शृङ्गाररसेन मञ्जुलो मनोझोऽर्थो यत्र, वीवाहादिवत् प्रतिष्ठादीक्षादिमङ्गल्यकार्येषु शृ.
Page #617
--------------------------------------------------------------------------
________________
५९२ विजयप्रशस्त्याम् । ङ्गारस्यैव मुख्यत्वात् , उज्ज्वलमञ्जुलार्थ गानं गीतगानम् , अथवा उज्ज्वला विलासिनः निर्मला वा मञ्जुलाश्च मनोरमा अर्था यत्र तत् , सृजत्सु कुर्वत्सु ॥ ४३ ॥ अथ पुनः, वर्येषु वादित्रेषु, किं०, वेणुवीणाभेर्यादयः प्रतीतास्तेषु, आदिशब्दात् पञ्चशब्दवाद्यादिग्रहः, तेन बहुशो नदत्सु वाद्येषु वाद्यमानेष्विति, अथ गायनपुङ्गवेषु गान्धर्वमुख्येपु, तारस्वरं धीरध्वनिमधुरालापमूर्च्छनाघोलनादिपूर्वकं, मञ्जुलमङ्गलानि रम्यमङ्गलमयगीतानि, गायत्सु सत्सु ॥ ४४ ॥ पुनः, भट्टेषु भूरिषु आशीर्वचांसि जीव, चिरं नन्द, चिरं जयेत्यादिवचनानि, किं०, प्रसरद् महस्तेजो येषु तानि, भणत्सु सत्सु, अथ लोकेषु, किं०, सुप्रपश्चाः सुविस्तारा ये मश्चाः पर्यङ्कास्तेषु स्थितेषु, पुनः, प्रणयेन स्नेहेन प्रियेषु कान्तेषु, पश्यत्सु विलोकयत्सु, तन्मण्डपादिशोभामिति ॥ ४५ ॥ सङ्घस्य आग्रह एव यत् अब्दोर्जितर्गाजतं मेघमहाध्वनिस्तेन, संप्रीणितो हृष्टः स्वान्तशिखण्डिशावो मनोमयूरार्भको येषां तैः, कैरित्याह-कोडिमदेतनूजैः सूरीश्वरैः श्रीविजयसेनमूरिभिः, किं०, पद्मातनूजैः कन्दपैरिव रम्यरूपैः ॥४६ ॥ वर्षे, किं०, पद् च, अक्षाणि पञ्च च, क्षितिपालाश्च षोडश, इत्यङ्कामगतिगणितैः संख्या यत्र तत्र १६५६ वर्षे इत्यागतं, पुनः, माधवनामधेये वैशाखाख्ये मासे, च पुनः, पक्षे किं०, पीयूपमयूखश्चन्द्रस्तद्भाजि शुक्ल पक्षे इति, तथा ब्रह्ममुखैश्वतुभिर्मितायां चतुझं तिथ्यामिति ॥ ४७॥ पुनः, औषधीनां प्रेयसचन्द्रस्य, दिव्ये दिने सोपवारे इति, पुनः, मृगे मृगशीर्षनाम्नि नक्षत्रे, किं०, लब्धमृगायोगे संप्राप्तशशिसंयोगे सति, अतोऽमृतसिद्धियोगे सतीति मूचितम् ; पुनः, रवियोगे चतुर्थे सति, पुनः, कुशलैः अखण्डे अतिगण्डे देवसिकयोगे, अखण्डे घटिकाव्यतीते सति, पुनः, शकुन्ताः शकुनास्तेषां सार्थे, किं०, सुखकृत्सु प्रचण्डे प्रकृष्टे सतीति ॥४८॥ पुनः, लग्ने कृपे वहमाने
Page #618
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः। ५९३ सुषलग्ने सति, किं०, सेन्दुनि सचन्द्रे मूतौं चन्द्रे सति, एक उचग्रहः, पुन:, कर्कराशौ कुलीरलग्ने, धात्रीसुते मङ्गले, शक्रपुरोहिते गुरौ च सति तृतीयभवनम्थे, इति द्वितीय उच्चग्रहः, पुनः, तुलायां षष्ठे भवने, आकौं शनौ सति, तृतीय उच्चः, पुनः, मकरे लग्नेनवमे भवने, राही स्वभाणी सति, पुनः, घटे कुम्भे दशमे भवने, शुक्रे सति, “ केन्द्रस्थो यो ग्रहः सौम्यः सोऽयुच्च इव सत्फलः" इति जातकवचनादयमयुच्चप्राय इति, पुनः, अजे मेषे द्वादशे भवने, बुधसूर्ययोर्द्वयोः सतोः, मेषस्थो रविरप्युच्च इति, एतेषां फलादिविचारस्तु फलग्रन्थेभ्यो बृहज्जातकलघुनातकरत्नमालाव्यवहारचर्यादिज्योतिःशास्त्रेभ्योऽवधेयः।
सुखावबोधाय मूरिपदकुण्डलिकास्थापना यथा- .
श्री.
१९शु.
श. ७
॥४९॥ च पुनः, सती नन्दिर्यत्र तत् सन्नन्दि यदुपाध्यायपदं वाचकपदं तस्य या प्रतिष्ठा तत्पूर्वकं, एतावता तदैव उपाध्यायपदनन्दी निर्माय, ततः पूर्वपिसभावतंसैः पूर्वमुनिपर्षच्छेखरैः पूज्यैः, विद्याविजयाभिधानेऽभिरूपे पण्डिते प्राज्ञपदधारिणि, स्वकः पट्टः मूरिपदरूपः, आरोपि न्यस्त इति, ऋद्भिवल्लेः संपल्लतायाः, अक्रूर इवेत्युत्प्रेक्षा ॥ इत्यष्टकव्याख्या ॥ ५० ॥ सिद्धार्थनन्दनजिनेन्द्रविशालतीर्थ
Page #619
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
राज्यर्द्धिसंवननमन्त्रमिवाऽनुकूलम् । नाम व्यधुर्विजयदेव इति प्रसिद्ध
५९४
पूज्या अथ प्रकटपट्टधरस्य तस्य ॥ ५१ ॥
अथ ते पूज्याः परमगुरवः, तस्य प्रकटपट्टधरस्य, विजयदेवमृरिरिति नाम व्यधुश्चक्रुरित्यन्वयः, उत्प्रेक्ष्यते-सिद्धार्थनन्दनजिनेन्द्रस्य श्रीमन्महावीरस्य यद्विशालं तीर्थं चतुर्विधसङ्घरूपं तस्य राज्यर्द्धेः साम्राज्यश्रियः संवननस्य वशीकारस्य अनुकूलं हितकारकं मन्त्रमिवेत्युत्प्रेक्षालङ्कारः । अत्र च्छन्द:परावृत्तिः पट्टधरस्याऽखण्डितनामाऽऽनयनायेति तात्पर्यम् ॥ ५१ ॥
सर्वज्ञमूर्धाभरणं यदासीद्
राजा नवीनो नहि विस्मयोऽयम् ।
सर्वाः कलाः केलिमधुर्यदत्र सद्यस्तदाश्चर्यमभूद् महीयः ॥ ५२ ॥
एष नवीनो राजाऽनूचानराद, यत् सर्वज्ञमूर्धाभरणं सर्वे च ते ज्ञाः पण्डितास्तेषां मृर्धाभरणं मौलिभूषणं, आसीज्जातः, एप नोऽस्माकं विस्मयो नास्ति, यतः कारणाद् नवीनो नूतनः, राजा चन्द्रः सर्वज्ञस्य महादेवस्य मूर्धाभरणं भवत्येवेत्यत्र किमाश्चर्यम् १, परं यदत्राऽस्मिन् नवे राशि, सर्वाः कलाः केलिमधुश्चकुः, तद् महीयो महद्, आश्चर्यमभूज्जातम्, नवे हि चन्द्रे सर्वाः कला नोत्पद्यन्त इति यतः “जीर्णचन्द्रो यत्कलाश्रेणिशाली" इत्यादिवचनादिति भावः ॥ ५२ ॥
"
"
न्यस्तः स्वकीयः स्म विभाति पूज्यपादैरनूचानवरेऽत्र पट्टः । भासां समूहस्तमसां सपत्नैः
>
Page #620
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः। प्रोल्लासिपद्मो विषमार्चिषीव ॥ ५३ ॥ - पूज्यपादैर्गुरुभिः, अत्राऽस्मिन् अनूचानवरे श्रीविजयदेवसूरौ, न्यस्तः पट्टः विभाति स्मेत्यन्वयः; भासां समूहः किरणगणः, किं०, प्रोल्लासिपमः विकाशिकमलः, पट्टपक्षे प्रोल्लासिनी पद्मा यत्र सः, तमसा सपत्नैः तमोऽरातिभिः सूर्यैरिति, विपमाचिपि कृशानाविवेति दृष्टान्तः ॥ ५३ ॥
पट्टस्तपागच्छपतेः पटीयान्
शिष्येऽथ पट्टेऽत्र विभाति चैषः । अन्योन्यमासीदनयोर्बलयोः
शोभा द्विपद्विवनयोरिवोच्चैः ॥ ५४ ॥ तपागच्छपतेः श्रीविजयसेनसूरेः, पट्टः कि०, पटीयान् पटुः, अत्र श्रीआचार्य शिष्ये विभाति, च पुनः, अत्र पट्टे गुरुपट्टे, एप शिष्यः श्रीअनूचानलक्षणः, विभातीत्यन्वयद्वयम् , अनयोईयोः पट्टानूचानयोः, किं०, बलोबलस्य ऋद्धिः ययोस्तयोः बलशालिनोरिति, द्विपद्विड्वनयोरिव केसरिकाननयोरिव, शोभा आसीत् । कथम्?, अन्योन्यं परस्परं, यथा वनेन सिंहः, सिंहेन च वनम् तथा पट्टेनाऽनूचानः, अनूचानेन च गुरुपट्ट इति, द्वयोः शोभा जातेति तस्वम् ॥ ५४ ॥ श्रीमल्लनाम्ना. गृहिणा तदोच्चै
विचितौ श्रीतपगच्छनाथौ। भातः स्म तौ काञ्चनरूप्यरूपै.
दस्राविवाऽस्वप्नतरुप्रसूनैः ॥ ५५ ॥ तदा तत्रोत्सवे, श्रीमल्लनाम्ना गृहिणा श्राद्धेन, तौ दौ श्रीतपगच्छनायौ भट्टारकाचार्यो, अर्चितौ पूजितौ सन्तौ, भातः
Page #621
--------------------------------------------------------------------------
________________
५९६
विजयप्रशस्त्याम् ।
स्मेति, कैरित्याह- काञ्चनरूप्ययोः स्वर्णरजतयोः रूपैर्नाणकैः, यदाह श्रीमाचार्योऽनेकार्थसंग्रहे "रूपं तु लोकशब्दयोः पशावाकारे सौन्दर्ये नाणके नाटकेऽपि च" इति कैः काविवेति दृष्टान्तमाह दस्रौ अश्विनीकुमाराविव अस्वमतरुममूनैः कल्पपादपपुष्पैरिति भावः ॥ ५५ ॥ आसीत् तपागच्छ इहामुनैष श्रीमाननूचानपुरन्दरेण | उद्योतवानम्बुजबन्धुनेव
लब्धावलोकः सकलोऽपि लोकः ॥ ५६ ॥
अमुनाऽनेन अनूचानपुरन्दरेण आचार्येन्द्रेण, इह जगति, एप तपागच्छ श्रीमान् आसीदित्यन्वयः, यथा सकलोsपि लोकः, किं०, लब्धोऽधिगतोऽवलोको येन सः, अम्बुजवन्धुना 'सूर्येणैव, उद्योतवान् भवति तथेति ।। ५६ ।।
नृणां स वात्सल्यमतुच्छमच्छचेताश्चकाराथ महेभ्यमुख्यः ।
श्री मल्लनामाऽत्यभिरामभोज्यैः पुष्पैरलीनामिव पुष्पकालः ॥ ५७ ॥
अथ स महेभ्यमुख्यः श्रीमहनामा, नृणां आगतानां नराणां, वात्सल्यं, किं०, अतुच्छं चित्तवित्तयोः पृथुत्वात्, अत्यभिरामै रम्यैः भोज्यैवकार कृतवान्, यथा पुष्पकालो वसन्तः, पुष्पैः प्रसून, अलीनां भ्रमराणां, वात्सल्यं कुरुते तथेति ॥५७॥ संतोषयामास समस्तमेष
वेधैर्वरैः सङ्घमघाभिघाती । 'लैर्जगत्कौतुकक्लुप्तयनै
Page #622
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः।
- ५९७ वृन्दारकाणामिव वृन्दमब्धिः ॥ ५८ ॥ एष श्रेष्ठी किं०, अघाभिघाती पापापहारी, समस्तं सङ्घ चतुर्विधमपि, वरै पैः यथार्हमहाध्य वस्त्रैः, संतोषयामास; इव यथा, रत्नैः कि०, जगतां यत्कौतुकं तत्र क्लृप्तो यत्नो यैस्तैचतुर्दशरत्नलक्ष्मीकौस्तुभपारिजातधन्वन्तरिचन्द्रोच्चैःश्रवस्तुरङ्गमै- . रावणवारणरम्भाप्रभृतिभिः, वृन्दारकाणां देवानां, वृन्द, अब्धिरिवेति दृष्टान्तः ॥ ५८ ॥
सङ्घाग्रहात् श्रीतपगच्छधुर्यैः
पूज्यैरुपाध्यायपदं प्रदत्तम् । मेघादिकानां विजयोत्तराणां
मेधाविनां तत्र महे महीयः ॥ ५९ ॥. . तत्र महे श्रीतपगच्छधुर्यैः पूज्यैः परमगुरुभिः, सङ्घाग्रहात् , मेघादिकानां पुनः, विजयोत्तराणां मेधाविनां पण्डितानां मेघविजयानां विबुधानां, उपाध्यायपदं प्रदत्तमिति ॥ ५९ ।।
चक्रेऽथ कीकाभिधठक्कुरस्य
प्रौढा प्रतिष्ठा महता महेन । श्रीसूरिसिंहैविजयादिराजे
धीमत्युपाध्यायपदं ददे च ॥ ६० ॥ अथ तत्पट्टोत्सवानन्तरं सप्तमीदिवसे महता वृहता, महेनो. त्सवेन, कीकाभिधठक कुरस्य गृहे प्रौढा प्रतिष्ठाऽर्हतामिति चक्रे कृता, च पुनः, तस्यां प्रतिष्ठायां विजयादिराजे धीमति विजयराजविबुधे, उपाध्यायपदं श्रीमूरिसिंहदेदे दत्तमिति ।। ६०॥
श्रीमल्लनाम्नेभ्यपुरन्दरेण
तथैव कीकाभिधठक्कुरण ।
Page #623
--------------------------------------------------------------------------
________________
५९८ विजयप्रशस्त्याम् । प्रामोदि सर्वोऽप्यथ पारिजात
संतानकाभ्यामिव सङ्घलोकः।। ६१ ॥ श्रीमल्लनाम्नाऽऽचार्यपदोत्सवकारिणा, तथा कीकाभिधठक्कु. रेण च, किं०, इभ्यपुरन्दरेण धनीन्द्रेण, सर्वोऽपि सङ्घलोकः पारिजातसंतानकाभ्यामिव कल्पद्रुमाभ्यामिव, पामोदि संतुप्टिभाक् कृत इति ॥ ६१ ॥
तत्रैव पुर्या चतुरोऽपि मासान्
थिला तदन्ते यतिराजहंसः । श्रीपत्तनं सत्कमलाभिरामं
विश्वम्भरालोकमिवाजगाम ॥ ६२ ॥ तत्रैव तस्यामेव पुर्या स्तम्भतीर्थनगर्या, चतुरोऽपि मासान् स्थित्वा चतुर्मासीं विधाय, तदन्ते वर्षान्ते, स यतिराजहंसः विश्वम्भरालोकं भूमिलोकमित्र, श्रीपत्तनं अणहिल्लपाटकनगरं, कि०, सत्कमलाभिरामं एकत्र कमलैः, अन्यत्र कमलयाभिरामं, आजगामाऽऽगत इति ।। ६२ ।। तत्राऽथ गच्छाधिपतिं खगच्छा
नुज्ञामनूचानवराय दित्सुम् । ज्ञात्वा महेभ्योऽथ सहस्रवीरः
परीक्षकः स्वीयहृदीति दध्यौ ॥ ६३ ॥ अथ तत्र पत्तने, चतुर्म.सकान्ते गच्छाधिपतिं परमगुरु, कि०, स्वगच्छाऽनुज्ञां वन्दनकद्वयप्रदानपूर्वकनन्दीरूपां, अनूचानवराय श्रीविजयदेवसूरये, दित्सुं दातुमनसं, ज्ञात्वा, अथ तत्रत्यः सहस्रवीरः परीक्षकः प०सहसवीरनामा श्राद्धः स्वकीयहदि निजे मनसि, इति वक्ष्यमाणं, दथ्यो चिन्तयामासेति ॥६३॥
Page #624
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः। यश्चिन्तयामास तदेवाह
संपल्लताया अयमेव सम्य___ गावाल उच्चैः सुमनःप्रियायाः। अस्मिन् महे यत् क्रियते महीयान्
वित्तव्ययश्चारुयशोऽब्धिचन्द्रः ॥ ६४ ॥ संपल्लतायाः श्रीवल्लेः, किं०, सुमनसा सजनानां, अथवा सुमन्मेभिः कुसुमैः प्रियाया रम्यायाः, अयमेवोत्तरार्धन वक्ष्यमाणोऽर्थव्ययः,सम्यक् शोभन:, आवालो वल्ल्यवस्थानस्थानरूपः, प्रोक्त इति, अयं क इत्याह-यदस्मिन् महे वन्दनप्रदानरूपे, वित्तव्ययः, क्रियते, किं०, चारुयशोऽब्धौ मनोज्ञकीर्तिसमुद्र चन्द्र इति तद्वृद्धिकृत्त्वात् ॥ ६४ ॥
मवेति तेनाथ परीक्षण
विद्युत्वता वर्ष इवासुखन्ने । विश्वैकहर्षे प्रविधीयमाने
ऽमाने महे हृष्टकलापिवृन्दे ॥ ६५ ॥ . श्रीपत्तनं प्रौढतमं सुपर्व
पूर्ण स्वरासीद् वृषदृक् च लोकः ।
सर्वोऽपि देवः स परीक्षकश्च __ कल्पद्रुमः कामितदानदाता ॥ ६६ ॥
अथ तेन परीक्षकेणेति मत्वा ज्ञात्वा, अमानेऽप्रमाणे, महति महे विधीयमाने क्रियमाणे सति, विद्युत्वता मेघेन, वर्षे वर्षण इव, किं०, असुखघ्न इति विशेषणं द्वयोरपि महमेघयोः प्रतीतम्, पुनः किं०, विश्वस्य जगत एकत्र, अन्यत्र च विश्वायाः पृथिव्या. एकः श्रेष्ठो - हर्षो यत्र यस्माद्वेति, पुनः
Page #625
--------------------------------------------------------------------------
________________
६००
विजयप्रशस्त्याम् । कि०, हृष्टं कलापिनां मयूराणां वा के सुखं भवतु इत्यादिमापिणा कलापिना भट्टादीनां वृन्दं यस्य यस्मिन् वेति ॥ ६५ ॥ तत्र मह सति किं जातमित्याह-प्रौढतमं श्रीपत्तनं नगरं, किं०, सुपर्वभिः पूर्ण शोभनोत्सवैः पूरितं, नित्योत्सवमयत्वात् , स्वः स्वर्ग आसीत् पत्तनं तदा स्वर्गतुल्यं जातमिति, पुनः, लोकः सर्वोऽपि कि०, वृषे धर्मे हम् धीर्यस्य, पक्षे वृष्णि शके दृग् दृष्टिर्यस्य सः, देव आसीत् देवोपमो लोक इति, स सहस्रवीरः परीक्षकः किं०, कामितदानदातेति कल्पद्रुम आसीत् ॥ इति युग्मव्याख्या ॥६६॥ .. वर्षेऽथ तााक्षकलाप्रमाणे
मासे सहस्ये बहले च पक्षे । षष्ठयां तिथौ चोडुनि हस्तनाम्नि ___घस्रे च पाथोरुहिणीप्रियस्य ॥ ६७ ॥ शस्ते मुहूर्तेऽत्र गुरुः स्वगच्छा. नुज्ञामनुज्ञातमनोज्ञविद्यः। गुर्वीमनूचानवितानपीन
पश्चाननाय प्रवराननाय ॥ ६८ ॥ - रोचिष्णुचेताः स भणन् पवित्रं . श्रीनन्दिसूत्रं गुणलक्ष्मिसत्रम् । - दत्ते स्म शश्वजिनशासनश्री... वश्यक्रियामन्त्रमिवातिमित्रम् ॥ ६९ ॥ - अथ ताास्तुरगाः सप्त, अक्षाणि इन्द्रियाणि पश्च, कलाः बोडश, एतैरकै मगतिमीलिते, प्रमाणं संख्या यत्र तत्र १६५७ वर्षे इति, पुनः, मासे सहस्ये पोषनानि, च पुनः, बहले कृष्णे
Page #626
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः ।
६०१
9
"
पक्षे, च पुनः, षष्ठ्यां तिथौ, च पुनः, हस्तनाम्नि उडुनि नक्षत्रे, च पुनः पाथोरुहिणी प्रियस्य सूर्यस्य, घत्रे दिवसे रविवार इति ॥६७॥ अत्राऽस्मिन् शस्तं श्लाध्ये, मुहूर्ते हस्तार्कयोगे, चकाराद् विंशे रवियोगे च, गुरुः श्रीविजय सेनमूरिः, किं०, अनुज्ञाता आज्ञाविषयीकृता मनोज्ञा विद्या पारम्पर्यागतस्मरणादिरूपा, अथवा षट्त्रिंशत्सहस्रीसहित पड्लक्षममितग्रन्थाऽऽगमवाचनारूपा येन सः, इदं गुरु विशेषणम्, यतो निखिलसिद्धान्तसंबन्धिनीं वाचनां दस्तैव आचार्य पदनन्दीं कुरुत इति पारम्पर्याऽऽन्नायः, अनूचान विताने पीनः पुष्टः पञ्चाननः सिंहस्तस्मै सुरिकेसरिण इति, पुनः किं०, प्रवराननाय वर्यवदनायेति, स्वगच्छानुज्ञां तपागणाधिपत्यात्मिक, दत्ते स्मेति अग्रेतनकाव्यगता क्रिया योज्येति ।। ६८ ।। पुनः किं कुर्वन् स गुरुर्भणन् गुणयन्, नन्दिनिर्मापणे शिष्यस्य गुणलक्ष्मेः सर्व स्थानम्, नन्दिसूत्रं बृहन्नन्यध्ययनं ससशतमितं देवर्द्धिवाचककृतं श्रावयन्निति शेषः, स गुरुः किं०, रोचिष्णुचेताः प्रसन्नमनाः सन् सूरयेऽनुज्ञां दत्तवान् इवोत्मेक्ष्यते - जिनशासनश्रियो वश्यक्रियाया वशीकरणस्य मन्त्रमित्र, किं०, अतिमित्रं व्यतीतसूर्य, प्रतापेनेत्यर्थः ॥ इति त्रयाणां व्याख्या ॥ ६९ ॥
'
आचार्यवर्यीय गुरुश्च गच्छाऽनुज्ञानगर्या वरणं रणघ्नम् ।
कीर्तेरमत्रं वरसूरिमन्त्रं
प्रादाच्छ्रियां मूलमिवाऽनुकूलम् ॥ ७० ॥
च पुनः, गुरुराचार्यवर्याय गच्छानुज्ञैव नगरी तस्यावरणं प्राकारं तदाधारभूतत्वात्, पुनः, रणघ्नं क्लेशापहम्, पुनः, कीर्तेः अमत्रं पात्रं वरं सूरिमन्त्रं पूर्व श्रीगौतमस्वामिवार के एकविंशतिशताऽक्षरममाणम्, यदुक्तं जिनप्रभीयगौतमस्तोत्रे
७७
Page #627
--------------------------------------------------------------------------
________________
६०२
विजयप्रशस्त्याम् । "इगवीससयक्खरसूरिमंतसरणाउ झत्ति सञ्जाया ।
आमोसहिविप्पोसहिपमुहा तुह लद्धिरिंछोली" त्ति ॥१॥ सांप्रतं त्वेकादशश्लोकप्रमाणं गणनायकस्यैव गणनाई महामन्त्रम् , प्रादाद् दत्ते स्म, अनुकूलं हितं श्रियां मूलं कारणमिवेत्युत्प्रेक्षा ॥ ७० ॥ द्रङ्गात् ततः पत्तनतः समेत्य
शर्केश्वरे तत्र जिनेन्द्रचैत्ये । प्रादादुपाध्यायपदं मुनीन्दुः
प्राज्ञे नयादौ विजयोत्तरे च ॥ ७१ ॥ ततः पत्तनतोऽणहिल्लपाटकद्रङ्गात्, क्रमेण चलन् शङ्केश्वरे ग्रामे, समेत्यागत्य, तत्र जिनेन्द्रचैत्ये श्रीशद्धेश्वरपार्श्वनाथप्रासादे मुनीन्दुर्गुरुः, नयादौ विजयोत्तरे च माझे नयविजयनाम्नि विबुधे लुम्पाककुमतमुन्मुच्य गुरुशिष्यत्वमाश्रिते, उपाध्यायपदं प्रादात् । अत्रान्तरे द्वादशशतगन्त्रीशोभितः सप्तशतीसुभटपश्चशतीकरभानेकाश्ववारनैकनिस्वानाद्याडम्बरपरिवृतो मरुस्थलीयो महान् सङ्घपतिहेमराजसत्कसङ्घः शत्रुञ्जगयात्रार्थ गच्छन् तत्र शह्वेश्वरे सानूचानान् पूज्यपादान् महोत्सवेन प्राणमदिति ॥७॥
निर्ग्रन्थनाथोऽथ पुरात् पुराणात् ... शङ्केश्वराख्याद् विजहार सुश्रीः । . मां पावयन् पादपयोजपांसु
पूरैः क्षमाभूरिव गौतमर्षिः ॥ ७२ ॥ _ अथ पुराणात् पुरातनात्, शर्केश्वराख्यात् पुराद् निर्ग्रन्थनाथो गुरुः,विजहार विहृतवान् , किं०,सुश्रीः शोभनश्रीकः, किं कुर्वन् ,पावयन् पवित्रयन् , का, क्ष्मां पृथ्वी, कैः, पादपयोजपांसु. पूरैश्चरणकमलरेणुविस्तारैः, इवोत्प्रेक्ष्यते-गौतमार्षः, किं०,समया
Page #628
--------------------------------------------------------------------------
________________
सप्तदशः सर्गः। क्षान्त्या भरिव भूः, अथवा क्षमाया भूः स्थान; गौतमपक्षे तु क्षमा पृथ्वी तस्या भवतीति क्षमाभूः पृथ्वीसुतत्वादिति अथवा क्षमाभूः क्षान्तिस्थानमिति द्वयोरपि तुल्यं विशेषणम् ॥ ७२ ॥ कुर्वन् महः पूर्वमिवाद्रिमंशु
रहम्मदावादमियाय भावान् । अस्येक्षणात् प्रीतिरवापि लोकैः
कोकैरिवास्तोकमशोकचित्तैः ॥ ७३ ॥ अथ गुरुहरन् अहम्मदावादम् , इयाय आगतवान्, का कमिवेत्याह-पूर्वमदिं पूर्वाचलम् , अंशुः सूर्य इव, कि०, भावान् कान्तिमान् , पुनः, महस्तेज उत्सवं च कुर्वन् , लोकानामिति गम्यम् । अस्येक्षणाद् गुरोः सूर्यस्य चेक्षणात्, लोकैः कोकैरिव अशोकचिनिःशोकहृदयैः, प्रीतिरवापि प्रमोदो लेभे ॥ ७३ ।। इतीन्द्रवज्रया सर्ग पूर्णाकृत्य मालिन्या तमुपसंहरति
अकमिपुरमथैष द्वेषिपद्मिनीन्दुः ___ सुगुरुरविशदायैश्वर्यवर्यावतारः । समहमघविनाशी राजहंसैविलासी
सकमलमिव सिन्धुं सिद्धसिन्धोः प्रवाहः॥७॥ अथ एष सुगुरुः, कि०, पिटपछिन्यां वैरिनयननलिन्यामिन्दुश्चन्द्रस्तन्मुकुलीकरणहेतुत्वात् , अकमिपुरमहम्मदावादनगरम्, अविशत् प्रविवेश; किं०, आर्याणां पूज्यानां यदैश्वर्य साम्राज्यं तेन वर्योऽवतारो यस्येति सः कथम्,समहं सोत्सवम् पुनः, किं०, अघविनाशी पातकपणाशकः, क इव कमिति दृष्टान्तेन प्रवेशं स्पष्टयति-इव यथा, सिन्धुं समुद्रं, किं०, सकमलं, नगर-. पक्षे सश्रीकं, समुद्रपक्षे तु सकमलं सजलम् , अथवा तत्रापि श्रियः
Page #629
--------------------------------------------------------------------------
________________
६०४ विजयप्रशस्त्याम् । पितृलात् सश्रीकमिति तुल्यं विशेषणम्, सिद्धसिन्धोर्गङ्गायाः, प्रवाह इच, अघविनाशीति द्वयोस्तुल्यं विशेषणम् , यतो गङ्गाप्रवाहो लोके तीर्थत्वेन पापहारीति प्रतीतम् , पुनः किं०, गुरुगङ्गाप्रवाहश्च, राजहंसमरालैः, पक्षे राजहंसः नृपोत्तमैर्महाराजभिः संमुखागतैर्विलासीति स्पष्टम् ।। ७४ ।।
इतीति सर्वमवदातम् । इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमालीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविज. यगणिविरचितायां श्रीविजयप्रदीपिकाभिधानधारिकायां सुखाववोधिकायां श्रीविजयप्रशस्तिमहाकाव्यंटीकायां सप्तदशः सर्गोऽर्थतः
समर्थितः ॥
अथाऽष्टादशः सर्गः।
अथाष्टादशः सर्गः समारभ्यते - अथ च तां नगरीमधि तस्थुषां ..
पुटकिनीमिव पाण्डुरपत्रिणाम् । प्रशमिभूमिमुजाममृतोदयै
जनचयः सुमना वचनैरभूत् ॥ १॥ चपुनः, अथेति साम्प्रतम् , तां नगरीमधि अहम्मदावाद प्रति, तस्थुषां, कामिव केषामित्याह, पाण्डुरपत्रिणां मरालानाम् , पुटकिनी पद्मिनीमिव, प्रशमिभूमिभुजां मुनिमहीपतीना, वचनैः
Page #630
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः।
६०५ कि०, अमृतोदयैः सुधोन्नतिभिः, अथवा मोक्षोदयः, जनचयो लोकसमुदयः, सुमनाः प्रहृष्टचेताः निर्जरश्वाऽभूत् ॥ १॥
जिनवरेन्द्रमुनीन्द्रमुखासु यः .. सुकृतभूमिषु सद्विभवव्ययः । भवति शम्बरबिन्दुरिवाऽक्षयः
स निहितः सलिलेषु सरित्पतेः ॥ २ ॥ जिनवरेन्द्रमुनीन्द्रौ देवगुरू तत्प्रमुखासु, सुकृतभूमिषु पुण्यक्षेत्रेषु, यः सद्विभवव्ययो वरिष्ठधनत्यागो भवेत् , सोऽल्पोऽपि धनव्ययः, सरित्पतेः समुद्रस्य, सलिलेषु जलेषु, निहितः शम्बरबिन्दुरिलव इव, अक्षयो भवतीति । अत्र काव्यद्वये द्रुतविलम्बितं छन्दः, तल्लक्षणं तूक्तपूर्वम् , इह सर्गे प्रायश्छन्दसा नैकता, इति प्रतिवृत्तं छन्दोभिन्नताऽभिधास्यते ॥ २ ॥
आकयेत्याकर्णनीयाः प्रभूणां - वाचो वाचोयुक्तिहत्प्रीतिपात्रम् । अर्हद्भक्त्या भावितः पुण्यपालः
श्राद्धः सज्जः कर्तुमासीत् प्रतिष्ठाम् ॥ ३ ॥ प्रभूणां पूज्यानां, वाचः, किं०, आकर्णनीयाः श्रवणाहीः, पुनः, वाचोयुक्त्या वाक्चातुयां हृदि प्रीतिपात्रं प्रेमपात्रम्, आकर्ण्य श्रुत्वा, अर्हद्भक्त्या भावितो वासिनः, पुण्यपालो नाम श्राद्धोऽहम्मदावादवासी, प्रतिष्ठां कर्तुं सजोऽभूत् ।। ३ । तभ्राताऽथो ठक्करः साधुरिद्ध
श्रद्धः शुद्ध शम्भवस्वामिबिम्बम् । बाणस्रोतःप्राणनाथाङ्गुलीयं
श्रेयस्कामः खाख्ययाऽकारयत् सः॥ ४॥
Page #631
--------------------------------------------------------------------------
________________
६०६ विजयप्रशस्त्याम् । ____ अथ तद्माता तस्य पनीपालस्य भ्राता गकरनामा साधु: श्राद्धः, किं०, इद्धा दीप्ता श्रद्धा धर्मास्था यस्य सः, शुद्ध शम्भवस्वाप्रिनस्तृतीयतीर्थङ्करस्य विम्यम्, कि०, बाणाः पञ्च, स्रोतसां नदीनां प्राणनाथा अर्थात्समुद्राः सम, एतयोयोरङ्कयोमिगतिगणितयोः पञ्चसप्ततिसंख्ययोस्तुल्यैरजुलैर्भवं घाणस्रोतःमाणनाथाङ्गुलीयं पञ्चसप्तत्यङ्गुलमितमिति, श्राद्धः कि०, श्रेय. स्कामः पुण्याभिलाषी मोक्षाभिलाषी वा, स्वाख्यया स्वनाना, अकारयत् कारितवान् । इदं वृत्तद्वयं शालिनीच्छन्दसा, तल्लक्षणं चेदम् “शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः" इति ॥४॥
अथेभ्यसभ्यः स च पुण्यपालः - कृपालुहृच्छीतलनाथबिम्बम् । मनोरमं क्ष्माविशिखाङ्गुलीयं
विधापयामास निजेन नाम्ना ॥ ५॥ अथ स पुण्यपालः, किं०, इभ्येषु सभ्यः, अथवा इभ्यश्चासौ सभ्यश्चेति, निजेन नाम्ना कृपालुहृदयः शीतलनाथो दशमस्तीर्थकृत् तद्विम्बम् , अथवा कृपालुहृदिति दयालुमना इति श्रादस्य पृथग् विशेषणम् , शीतलनाथविम्बं कि०, मनोरम रम्यम् , पुनः, क्ष्मा एका, विशिखा वाणाः पञ्च, वामक्रमेण मीलितैरेकपञ्चाशताऽङ्गुलैर्भवं माविशिखाकुलीयम् , विधापयामासा:कारयदिति ॥ ५॥
भ्राताऽनयो करनामधेयः ___ सुधीः शुभं शम्भवनाथबिम्बम् । विभावरीवल्लभपत्रवाहा
अलैर्मितं कारयति स्म भक्त्या ॥ ६ ॥ अनयोः पुण्यपालठकरयोः पूर्वोक्तयोः श्राद्धयोः, भ्राता ना.
Page #632
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः ।
६०७
करनामा सुधीः, सोऽपि शम्भवावं किं०, विभावरीवलभश्चन्द्र एकः, पत्रवाहा बाणाः पञ्च वामगतैरेकपञ्चाशदङ्गुलैमितं कारयति स्मेति । इदं वृद्वयं उपेन्द्रवज्रोपजातिभ्यां ज्ञेयम्, तयोर्लक्षणं तु पूर्वमेवोक्तमिति नेहाभिहितम् ॥ ६ ॥ बिम्बत्रयीयमतनून्नतिमल्लिवल्लि
कादम्बिनी परिवृताऽपरबिम्बवृन्दैः । संस्थापिता महसि तैर्विहिते प्रतिष्ठासत्के तपागणधुराधरणे धुरीणैः ॥ ७ ॥
इयं बिम्बत्रयी प्रतिमात्रयी, किं०, अंतनुर्महती या उन्नतिः शासनोन्नतिः सैव मल्लिवल्लिर्जातिलता तत्र कादम्बिनी मेघाली तद्वृद्धिकृत्त्वात् पुनः किं०, अपरैरन्यैः बिम्बवृन्दैः प्रतिमागणैः परिवृता, तैः त्रिभिर्भ्रातृभिः विहिते निर्मापिते, प्रतिष्ठासत्फे महसि उत्सवे, तपागणधुराधरणे धुरीणैः धुर्यैः श्रीविजयसेनमूरिभिः, संस्थापिता प्रतिष्ठितेत्यर्थः ॥ इयं विम्बत्रयी सांप्रतं अहम्मदावादे कोठारीपाटके श्रीवीर चैत्यभूमिगृहेऽस्तीति शेषः । इदं वसन्ततिलकाख्यं छन्दः, तल्लक्षणं तु प्राग् निगदितम् ॥ ७ ॥
परीक्षको यां वजिआभिधानकः पार्श्वप्रभोर्मूर्तिमकारयत् कृती । अस्मिन् प्रतिष्ठामहसि प्रतिष्ठिता
साऽपि त्रिषष्ठ्यङ्गुलमानमालिनी ॥ ८ ॥
वजिभिधानः परीक्षकः प०वजिआख्यः, स्तम्भतीर्थवास्तव्यः पूर्वमेकादशे सर्गे निरूपित स्वरूपश्चिन्तामणिपार्श्वनाथचैत्यकारयिता, स पुनरपि श्रेयोऽर्थी यां पार्श्वप्रभोर्मूर्तिमकारयत्, अस्मिन् प्रतिष्ठामहसि सा०पनी पालसत्के, सापि मूर्तिः
Page #633
--------------------------------------------------------------------------
________________
६०८ विजयप्रशस्त्याम् । किं०, त्रिपष्ठयङ्गुलमानमालिनी षष्ठयधिकव्यङ्गुलप्रमाणा, तैः, गुरुभिः प्रतिष्ठिता ॥ ८॥ तस्या मूर्तेर्नामाग्रेतनवृत्तेनाहगदाम्भोग्निभोगीभघोरारिचोरा- ऽऽहवाद्युग्रभीभूमिसीरः प्रवीरः ।, स पार्श्वप्रभुः पुण्यपूर्णप्रभावः
कृतः स्तम्भनः संज्ञया सूरिसिंहैः ॥ ९ ॥ स पार्थप्रभुः किं०, गदा रोगाः, अम्भः पानीयम्, अग्निर्वह्निः, भोगी सर्पः, इभो हस्ती, घोरारयो विकरालवैरिणः, चोरास्तस्कराः, आहवः संग्रामः, आदिशब्दाद् मृगेन्द्रव्याघ्रभूतप्रेतादिग्रहः, तेनेत्यादिर्या उग्रभीमहाभीतिः सैव भूमिस्तत्र सीरी हलं तद्भेदकत्वात् , अत एव प्रवीरः, पुनः किं०, पुण्येन पूर्णः प्रभावो महिमा प्रतापो वा यस्येति स इति, श्रीपार्श्वनाथस्य भयहरत्वेनाऽन्वर्थमिदं विशेषणम् । भयहरत्वं चैवं पाहुः पूर्वाचार्या अपि- "आधिव्याधिविरोधिवारिधियुधि व्यालस्फटालोरगे
· भूतप्रेतमलिम्लुचादिषु भयं तस्येह नो जायते । नित्यं चेतसि पार्श्वनाथ इति हि स्वर्गापवर्गप्रदं
सन्मन्त्रं चतुरक्षरं प्रतिकलं यः पाठसिद्धं पठेत् " ॥१॥ श्रीमानतुगाचार्यचरणा अप्याहुः- .
"रोगजलजलणविसहरचोरारिमइन्दगयरणभयाई । ... पासजिणनामसंकित्तणेण पसमन्ति सव्वाई" ति ॥२॥
इत्याद्युक्तः, भीतीनां स्तम्भकत्वेन सोऽपि श्रीपार्श्वनाथः संज्ञया स्तम्भनः कृतस्तैः सूरिसिंहैरिति, स तु स्तम्भनपार्श्वनाथः सांपतं स्तम्भतीर्थे सागवटाख्यपाटके श्रीचिन्तामणि
Page #634
--------------------------------------------------------------------------
________________
मष्टादशः सर्गः। पार्थनाथपासादभूमिगृहेऽस्तीति शेषः । इदं शुमाययातं छन्दः, तलक्षणं यथा-"भवेद् यश्चतुर्भिर्भुजायातम्" ॥९॥
चतुर्मासकं तत्र पुर्यामकार्ष
स्तदाऽऽचार्यवर्या अहार्योजसाऽऽर्याः । ततः पारणे सङ्घपद्ममोद
प्रपञ्चप्रभाप्राणनाथा अथोचुः ॥ १० ॥ अहायौंजसा अजेयबलेन आर्याः श्रेष्ठाः, आचार्यवर्याः श्रीसूरयः, तदा तत्र पुर्यामहम्मदाबादे, चतुर्मासकमकार्षुश्चक्रुः, ततश्चतुर्मासकपारणे गुरवः, किं०, सङ्गुटक्पग्रस्य यो मोदप्रपश्चो हर्षप्रकर्षस्तत्र प्रभाषाणनाथाः सूर्याः, अथ ऊचुः धर्मोपदेशं तत्रत्य सङ्घस्य दत्तवन्त इति । इदमपि भुजङ्गप्रयातं वृत्तम्॥१०॥
यदूचुस्तदग्रेतनवृत्ते पाहदिङ्मुखोल्लासकृत्सौरभस्फूर्तिम- .
कीर्तिपुष्पप्रदायाः श्रियो वीरुधः । एतदुच्चैः फलं यद् व्ययः श्रेयसे
मुक्तिमार्गप्रयाणैकपुण्यार्वणे ॥ ११ ॥ दिशा मुखेषु उल्लासं करोतीति दिमुखोल्लासकृत् , पुना, सौरभस्य सौगम्ध्यस्य स्फूर्तिर्विद्यते यत्र तत् सौरभस्फूर्तिमत् , एवंविधं यत् कीर्तिपुष्पं यशाकुसुमं तत्सदायाः, श्रियोचीरुषः लक्ष्म्या लतायाः, एतदुचैः फलं मोक्तम्, तदेवाह-यत् श्रेयसे धर्माय, व्ययो विधीयते इति, श्रेयसे किं०, गुक्तिमार्गे यत् प्रयाणं गमनं तत्र पुण्यः पवित्रः अर्वाऽश्वस्तही मोक्षमार्गगमनतुरङ्गमायेत्यर्थः । इयं स्रग्विणी "रंथतुभिर्युता स्वग्विणी संमता" .. इति वचनात् ॥ ११॥
Page #635
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
निशम्य रम्यं वचनं यतिप्रभो - रिदं पुमर्थावसथैकदीपकम् । जहर्ष सोत्कर्षमनाः स सिङ्घजी -
नामा महेभ्यो नरनाथमानभाक् ॥ १२ ॥ यतिप्रभोः गुरोः, इदं वचनं, किं०, पुमर्थाः पुरुषार्थायो धर्मार्थकामाख्या व आवसथो गृहं तत्र दीपकम्, त्रिsaपि तेषु धर्मस्यैव मुख्यत्वात् द्वयोरपरयोरपि हेतुत्वाच्च, यदुक्तं पूर्वसूरिभिः
“धर्मसिद्धौ ध्रुवं सिद्धिर्द्युम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा संपत्तिर्दधिसर्पिषोः” ॥ १ ॥ इत्याद्युक्तेः; रम्यं वचनं निशम्य सोत्कर्षमनाः प्रकृष्टचेताः, तत्रत्यः सिङ्घजीनामा महेभ्यः, किं०, नरनाथस्य राज्ञो मानभाक् राज्ञोऽपि मान्य इति, स जहर्ष हृष्टोऽभूदिति ॥ १२ ॥ तत्र प्रतिष्ठाऽतिमज्ञैर्विधापिताSमुना महेभ्येन कृताऽथ सूरिभिः । शुभ मुहूर्ते बहुबिम्बबन्धुरा द्वितीयतीर्थङ्करमूलबिम्बभाक् ॥ १३ ॥
तत्र नगरे, चतुर्मासकपारणके अमुना सिङ्घजीनाम्ना महेभ्येन, अतिमहैर्विधापिता कारिता, प्रतिष्ठा, किं०, द्वितीयोऽजितस्तीर्थङ्करस्तन्मूलबिम्बभाक्, पुनः बहुविम्वैरपरैः बन्धुरा रम्येति शेषं स्पष्टम् ॥ इयं वृद्वयी इन्द्रवंशावंशस्थयोरुपजातिजाता, तलक्षणं तु प्रागुक्तम् ॥ १३ ॥ श्रीपालाहः श्रीमतां मौलिरत्नं जज्ञे सज्जोऽर्हत्प्रतिष्ठां प्रकर्तुम् ।
६१०
Page #636
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः ।
पार्श्वस्याथाऽकारयद् बिम्बमुच्चैः स्फाराकारं सप्तषष्ट्यङ्गुलीयम् ॥ १४ ॥
अथाऽन्यदा श्रीमतां धनवतां मौलिरत्नं श्रीपालाहः श्रीपालनामा जबहरी तत्रत्य एव श्राद्धः, अर्हत्प्रतिष्ठां कर्तुं सज्जो जज्ञे जातः; ततः पार्श्वस्य बिम्बम् किं०, स्फाराकारं दि व्याकृतियुतम्, पुनः, सप्तषष्ट्यङ्गुलीयं सप्ताधिकषष्ट्यङ्गुलममाणम्, एकादशफणविराजितं चेति, अकारयत् कारितवान् । इयमपि शालिनी ॥ १४ ॥
श्रीपार्श्वनाथप्रतिमामिमां समहोत्सवैरच्छमना मुनीशः । प्रातिष्ठिपत् तं च जिनेन्द्रपार्श्व चक्रे जगद्वल्लभनामधेयम् ॥ १५ ॥
,
इमां श्रीपार्श्वनाथप्रतिमां सन्महोत्सवैः मुनीशो गुरुः, किं०, अच्छमनाश्रोक्षचेताः प्रातिष्ठिपत्, च पुनः तं जिनेन्द्रपार्श्वे जगद्वल्लभनामधेयं चक्रे तस्य जगद्वल्लभ इति नाम दत्तमितिः स च साम्प्रतं श्रीश्यामलपार्श्वनाथ चैत्यभूमिगृहेऽस्तीति शेषः । इयमुपजातिः ॥ १५ ॥
चारूंश्चक्रे चित्तवित्तानुसारादात्मश्रीणां स व्ययानव्ययाऽऽशः । तत्र द्रङ्गे चङ्गचेतास्तथाऽयं
लोकैः कल्पद्रुर्यथेहाऽभ्यधायि ॥ १६ ॥
६११
सः श्रीपाल, किं०, अव्ययाऽऽशः अक्षयस्पृहावान् सन्, तत्र द्र आत्मश्रीणां स्वलक्ष्मीणां चित्तवित्तयोर्धनमनसोः, अनुसारान् चिनवित्ततुल्यान् व्ययान् पुनः चारून् मनोज्ञान्
Page #637
--------------------------------------------------------------------------
________________
६१२
विजयाशस्त्याम् । चक्रे तथा कृतवान् यथा इह नगरे, स लोकैः, कल्पद्रुः अभ्यधायि फयित इति । इयमपि शालिनीति ॥ १६ ॥ श्रीस्तम्भतीर्थाहपुराधिवासि- .
सौवर्णिकाग्रेसरतेजपालः । नाभेयदेवप्रतिमामचीकरद्
नन्दतुसंख्याङ्गुलमानम लाम् ॥ १७ ॥ इहाऽवसरे श्रीस्तम्भतीर्थपुराधिवासी सौवर्णिकेषु अग्रे. सरो मुख्यः तेजपालश्चेति सोनीतेजपालनामा श्रीशत्रुञ्जयशिखरस्थमूलचैत्योद्धारकारी, तत्रैव वत्सरे नन्दा नव, ऋतवः पद्, वामगत्या ऋतुनन्दा इति तत्संख्यैः अङ्गुलमानेन प्रमाणेन मञ्जुलां मनोहराम् , एकोनसप्तत्यङ्गुलप्रमाणधारिणीम् , नाभेयदेवस्याऽऽदिनाथस्य,प्रतिमाम् ,अचीकरत् कारयति स्मेति । इयमिन्द्रवजेन्द्रवंशयोरुपजातिः ॥ १७॥
श्रीपत्तनद्रङ्गनिवासितेजः
पालश्च सौवर्णिकवर्णनीयः । अकारयत सत्प्रतिमां हयाब्ध्य
मुलैर्मितां सप्तमतीर्थभर्तुः ॥ १८ ॥ च पुनः, श्रीपत्तनद्रगनिवासी यस्तेजःपालः, किं०, सौ. पर्णिकेषु वर्णनीयो धनादिना श्लाघ्यः, सोऽपि तत्र वर्षे, सप्तमतीर्थभर्तुः श्रीसुपार्श्वस्य, सत्पतिमाम् , किं०, हयाः सप्त, अब्धयश्चत्वारः, अथ तैर्वामैः संयुतैः सप्तचत्वारिंशदङ्गुलैर्मिताम् , अकारयदिति । इयमिन्द्रवज्रा पूर्वार्धन, पश्चिमान तु उपेन्द्रवजा चेति ॥ १८ ॥
बिम्बाविमौ द्वावतिराज़दन्तौ
Page #638
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः। ६१३ श्रीपुष्पदन्ताविव कान्तिकान्तौ । प्रतिष्ठितौ चाऽप्रतिबिम्बसार्व
बिम्बैः सहाऽन्यैर्मुनिराजधुर्यैः ॥ १९ ॥ विम्बशब्दस्य पुंनपुंसकत्वाादमौ द्वौ विम्बौ द्वाभ्यां तेजःपालाभ्यां कारितो, किं०, अतिराजन्त अतिभ्राजमाना अन्ता. अवयवा ययोस्तो, पुनः किं०, श्रीपुष्पदन्तौ चन्द्रम्यौं, यथा, तथा कान्तिकान्तो कान्तभीमगुणेनेति भावः, अन्यैरपरैः श्रावकश्राविकाकारितैः, अप्रतिविम्बसार्वविश्वैः निरुपमाहतविन्यैः, सह मुनिराजधुर्यैर्गुरुभिः, प्रतिष्ठिताविति । इयमप्युपजातिः॥१९॥ सुक्षेत्रभूमाविव बीजमुप्तं
वित्तं बहु स्याद् व्ययितं सुतीर्थे । वाचेति वाचंयमपुङ्गवानां
सूराभिधः श्रेष्ठयजनिष्ट हृष्टः ॥ २० ॥ यथा सुक्षेत्रभूमौ उन बीजं तथा सुतीर्थे महातीर्थेऽयुंदादौ, व्ययितं त्यागविषयीकृतं, वित्तं वहु स्याद् भूरि भवेत् , इति वाचंयमपुङ्गवानां मुनिवराणां, वाचा वाण्या, तद्वास्तव्यव्यवहारिहन्दश्रेष्ठः सूरः श्रेष्ठी, हृष्टोऽजनिष्ट मुदित इति ॥ २० ॥ ततः स किं कृतवानित्याह
सङ्घाधिपीभूय महर्दिपूरः __सूरश्चिकीर्षुश्चलति स्म चारु । गुर्वी गुणैर्बुदशैलयात्रां
धात्री जिगीषुः कमितेव भूमेः ॥ २१ ॥ सङ्घाधिपीभूय सङ्घपतिर्भूत्वा, स सूरः श्रेष्ठी, किं०, महती
Page #639
--------------------------------------------------------------------------
________________
६१४ विजयभशस्त्याम् । राजमान्यत्वेन इस्त्यश्वरथपदातिमयी ऋद्धिः सम्पत् तस्याः पूरः प्राचुर्य यस्य स इति,गुणैर्गुवीं महागुणकरीम् , इहलोकपरलोकादिसुखकृत्त्वात् , अर्बुदो नाम यः शैलो मरुमण्डलमुखा. प्रवर्ती, सप्तगव्यूतोच्चत्वहयद्वादशपद्याभिरामः, शालिग्रामदेवकुलपाटफाद्युपरिवर्तिद्वादशग्रामः, तलहटिकास्थितजैनश्रीकुमरविहारशैवाचलेश्वरविहारहारिसरोवरपुष्करिणीमन्दाकिनीनामतटाकिकावम्पककेतकखर्जूरीदाडिमीविशालतालीलवलाचश्चच्चूतलतादिनानावनराजीरमणीयतानिराकृतसुराचलाञ्चलदुर्गदुर्गशीपस्थश्रीचतुर्मुखचैत्यभूषणश्रीकृषभदेवस्वर्णवर्णाप्रतिमप्रतिमाचतुष्टयोपूरितयथेष्टजनकामितकामस्तस्य यात्रां चिकीर्षुस्तदर्शनं फर्तुमिच्छुः, चलति स्म, श्रीगुरुन्नत्वा यात्रार्थमचलदिति शेषः । इवोत्प्रेक्ष्यते-धात्रीं जिगीषुः क्षोणी जेतुकामः, भूमेः कमिता राजेव, अनेन महर्दित्वमेवाऽसूचीति ॥ २१ ।। पथि प्रतिश्राद्धगृहं प्रयच्छ
नेकां विवेकी महिमुन्दिकां च । सिद्धाद्रियात्रामिव चक्रिशक
श्चक्रे सतामर्बुदतीर्थयात्राम् ॥ २२ ॥ अथ स चलन् पुनरहम्मदावादादारभ्य प्रतिश्राद्धगृह सकलश्राद्धानां तपागच्छवर्तिनां गेहेषु, एकां महिमुन्दिका गूर्जरत्रामतीता, प्रयच्छन् ददत् , चक्रिशको मुख्यचक्रभृत् श्रीभरतइव, सिद्धाद्रियात्रां श्रीशत्रुञ्जययात्रां, यथा पूर्वम् , तथाऽयमपि ताम् , अर्बुदतीर्थस्य मुक्ताफलश्रीफलकनकरूप्यकुसुमादिवर्धापनपूर्वकं, यात्रां चक्रे कृतवानिति ॥ २२ ॥ सीरोहिकाऽऽख्ये नगरे च राण
पुरे पुराणे दिविषच्छिखीव ।
Page #640
--------------------------------------------------------------------------
________________
भष्टादशः सर्गः। धनानि मार्गे वितरन् घनानि
चक्रे स यात्रां सुमनोऽभिरामः ॥ २३ ॥ च पुनः, स सूरश्रेष्ठी सीरोहिकाख्ये शिवपुरीनाम्नि, नगरे नित्यं नवनवाङ्गपूजाऽग्रपूजाभावपूजाऽऽदिमाहात्म्यमयसप्रत्ययश्रीयुगादिदेवदिव्याऽऽलयाऽऽदिनवजिनाऽऽलयसुन्दरे, च पुनः, पु. राणे जीणे, श्रीधरणविहारबन्धुरे राणपुरे, उपलक्षणत्वाद् नारदपुरीवरकाणकादिषु घनानि धनानि दिविषच्छिखीव सुरवृक्ष इव, किं०, सुमनसा शोभनचेतसा, पक्षे सुमनोभिर्देवैः, अभिरामो रम्यः, वितरन् दिशन्, यात्रां मरुदेशवर्तितीर्थानां चक्रे । इदं वृत्तचतुष्टयं चन्द्रवज्रोपेन्द्रवज्रोपजातिभिरवसेयम् ॥ २३ ॥
यात्रां विधायाऽथ समागतः पुरे
निजे स वर्या विदधे प्रभावनाम् । सुधीः प्रतिश्राद्धमतीद्धरूपकै___ोतोऽर्थिनां चैष सुपर्वपादपः ॥ २४ ॥
अथ स सूरश्रेष्ठी, यात्रां विधाय निजे पुरे समागतः सन् प्रतिश्राद्धं श्रावकमात्र प्रति, अतीद्धरूपकैः अतिदीप्तरूप्यनाणकैः स्थालीमोदकयुतैः, वर्या प्रभावनां विदधे कृतवान् , च पुनः, एषोऽर्थिनां सुपर्वपादपः कल्पतरुः, जात इति । इन्द्रवंशावंशस्थयोरुपजातिः ॥ २४ ॥ .. किं बहूक्तिरचनाभिरिहार्थे ।
तत्र चैषु गुरुषु स्थितवत्सु । वातवर्मनि रविष्विव जज्ञे
सन्महो भुवनभूतिनिदानम् ॥ २५ ॥ च पुनः, तत्र पुरेऽहम्मदावादनगरे, एषु गुरुषु स्थितवत्सु
Page #641
--------------------------------------------------------------------------
________________
5
६१६ विजयप्रशस्त्याम् । सत्सु, पथा वातवर्त्मनि गगने, रविषु सूर्येषु, सन्महः श्रेष्ठोत्सरः सजो वा, “महाकुत्सवतेजसी" इति वचनात् किं., भुवनभूतिनिदानं जगत्संपत्तिहेतुः, जज्ञ, इहार्वेसिनर्वे, किं बहक्तिरचनाभिः किं बहुकयनैरित्यर्थः । इदं स्वागताऽऽयं छन्दः, तल्लक्षणं तु पञ्चमे सर्ने अपश्चितमिति ॥ २५ ॥
प्राज्यप्रजाबजनतांहिसरोरुहेऽस्मिन् - श्रीसूरिराजि नगरीमषितष्ठुषीमाम् ।। सोऽतिमेदुरमना महिमुन्दिकानां
लक्षं व्यये व्यतनुताऽस्तिविवेकमेकम् ॥२६॥ अस्मिन् श्रीमरिराजि श्रीविजयसेनगुरौ, फि०, प्राग्यमनाबजनतांहिसरोरुहे बहुमहाजननिवहप्रणतपादकमले, इमां नगरी राजनगरनाम्नीम् , अधितष्ठुषि स्थितवति सति, तत्रत्यः सङ्कः, कि०, अतिमेदुरमना हर्षेण पुष्टचेताः, अस्तिविवेकं सद्विवेकं यथा स्यात्तथा, एकं महिमुन्दिकानां नाणकविशेषाणां, लक्ष व्यये त्यागे, व्यतनुताऽकरोत् , एकलक्षमिता महिमुन्दमुद्राः संबत् १६५९वर्षे तवत्यैः श्रादैर्व्ययीकृता इति शेषः ॥ २६ ॥ . द्रङ्गात् ततः शुभतमेऽह्नि मुनीन्द्रचन्द्राः
श्रीराजधन्यपुरनामपुरं प्रतीडम् । प्राचीचलनचलराजविराजिधैर्याः
पथ्युत्सवेषु सततोत्सुकसङ्घपूज्याः॥ २७ ॥ ततो द्रनाद् नगरात् , शुभतमे वरीयस्तरे, आह्नि दिने, श्रीरायधन्यपुरनामपुरं प्रति, किं०, इदं दीप्तं, प्राचीचलन् चेलुरिति, कि०, अचलराजो गिरिराड् मेरुहिमाचलो वा, तद् विराजि भ्राजमानं धैर्य येषां ते, पुनः कि०, पथि मार्गे, उत्सवेषु सततम्,
Page #642
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः। उत्सुको यः सस्तेन पूज्या, प्रतिग्राम प्रतिपदं सङ्ग्रेनाऽचिंताइति । इदं वृत्चद्वयं वसन्ततिलकयेति ॥ २७ ॥ .
पुरवरनरनारीनेत्रनीलोत्पलानां . विदधदतिशयश्रीस्फूर्तिमर्तिममूर्तिः । जगदुदरगतानां तामसानां विनाशी
पुरपरिसरपृथ्व्यां प्राप सूरीन्द्रचन्द्रः ॥२८॥ अथ क्रमेण विहरन् शह्येश्वरपार्श्वपादान् प्रणम्य सूरीन्द्रचन्द्रः,किं कुर्वन् , विदधत् , काम् , अतिशयेन श्रियः स्फूर्तिम् , केषाम् , पुरवरस्य राजधन्यपुरस्य नरनार्यः पुरुषस्त्रियस्तासां नेत्रनीलोत्पलानां नयनकुवलयानाम् , पुनः किं०, अर्तिघ्नी मूर्तिर्यस्येति,पुनः किं०,जगदुदरगतानां विश्वमध्यगतानाम् , तामसानां तमासमूहानां ध्वान्तवातानां पापपटलानां च, विनाशीति, पुरपरिसरपृथ्व्यां नगरसमीपभूमौ, प्राप्त इति । मालिनीयमिति ॥२८॥
सान्द्रोल्लसद्विविधवर्णदुकूलक्लप्त
केतुप्रपञ्चपिहिताऽऽतपमाप्तरङ्गम् । द्रङ्गं प्रभौ प्रविशति द्विपवाजिराजि__ राजी जवादभिमुखं नृप आजगाम ॥२९॥
सान्दै!रन्धः, पुनः, उल्लसद्भिर्वेल्लद्भिर्विविधवर्णः पञ्चवर्णैर्दुकूलैर्वस्त्रविशेषैः क्लुप्ता रचिता ये केतवो ध्वजा नेजादयस्तेषां यः प्रपञ्चो विस्तारस्तेन पिहितो निवारित आतपः मूर्योपतापो यत्र तम् ,पुनः किं०,आप्तरङ्गं गुर्वागमात्माप्तरङ्गम् , द्रङ्गं नगरम् , प्रभौ पूज्ये, प्रविशति सति, जवात् शीघ्रम् , नृपः किं०, द्विपवाजिराजिराजी गजतुरङ्गमश्रेणिशाली, अभिमुखं संमुखम् , आजगामाऽऽगत इति ॥ २९॥
Page #643
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । माद्यन्मृदङ्गबहुचङ्गतरङ्गरङ्ग
ड्रेाद्यहृद्यतमवाद्यरवैस्तदानीम् । कोलाहलैरविरलैरपि पौरक्लुप्तैः
· माव्योमभूमिरुरुशब्दमयी बभूव ॥ ३० ॥ माद्यन्मृदङ्गा हर्पकृन्मदलाः पुनर्वहुचङ्र्घनमनोजैस्तरङ्गै रअन्त्यो नृत्यन्त्यो या भेर्यस्तदायैस्तत्प्रमुखैहृद्यतमैर्मनोहरतरैर्वाघरवैस्तूरनिर्घोपैः, पुनः, पौरक्लप्तै गरनरविरचितैः, कोलाहलैस्तुमुलैः, किं०, अविरलैरविच्छिन्नैः, तदानीं गुरोर्नगरप्रवेशक्षणे, माव्योम्नोभूमिः, किं०, उरुशब्दमयी विस्तीर्णध्वनिमयी, बभूव जातेत्यर्थः । द्वयोर्वसन्ततिलका ॥ ३०॥
सान्द्रैः सरसीजपलाशदृशां ___ गानैः पुरमेतदभात् प्रसभम् । . कम्राम्ररसाशनलब्धगिरां
वीथीव वनस्य पिकाब्जदृशाम् ॥ ३१ ॥ पुनः, एतत् पुरं सरसीजपलाशदृशां पद्मपत्रनेत्राणां स्त्रीणामिति यावत् , गीतध्वनिभिः, किं०, सान्द्रहलैः, अभात शोभते स्म-इवोत्प्रेक्ष्यते-इव यथा वा, पिकाब्जदृशां कोकिलकामिनीनाम ,किं०, कम्राम्ररसाशनलब्धगिरां चारुचूतमञ्जरीरसावादप्राप्तवाचाम् , गानैः पञ्चमस्वररूपैः, वनस्य वीथी काननराजीवेति दृष्टान्तोत्प्रेक्षे, इदं मोटनकं छन्दः, "तो जौ लगौ मोटनकम्" इति लक्षणत्वादिति ॥ ३१ ॥ अर्थार्थिनामर्थमनर्थसार्थो
न्माथं ददानेषु जनेषु तत्र । नभोऽम्बुपानामिव नीरदेषु
Page #644
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः . . ६१९ नीरं बहुप्रीतिमवाप विश्वम् ॥ ३२ ॥ . पुनः, तत्र प्रवेशोत्सवे, जनेषु श्राद्धलोकेषु, किं कुर्वाणेषु, ददानेषु, कम् , अर्थ वित्तं, किं०, अनर्थस्य आलस्य यः सार्थः समूहस्तस्योन्माथो मथनं यस्मात्तह, केषामित्याह-अर्थार्थिनां धनार्थिनां याचकानामिति गम्यम् , दृष्टान्तमाह-इव यथा, नीरदेषु मेघेषु, नभोऽम्बुपानां वप्पीहानां, नीरं वारि, ददानेषु सत्सु, विश्वं जगत् बहुप्रीतिं परमप्रमोदम् अवाप प्रापेति,अयं छन्दोभेद उपजातीनां चतुर्दशसु भेदेषु छन्दोऽनुशासनविवरणोदितेषु सप्तमो भेदइति ॥ ३२॥
इत्याद्यतुच्छोत्सवधोरणीमयं
श्रीराजधन्याह्वपुरं सदोदयम् । स्वामी सुराणाममरावतीमिवा
विशद् गुरुर्वैबुधवृन्दबन्धुरः ॥ ३३ ॥ इत्यादयो ये वर्णिता अतुच्छोत्सवाः पूर्णमहोत्सवास्तेषा या धोरणी श्रेणी तन्मयं श्रीराजधन्याहपुरम् , पुनः, सदोदयं सुगमम् , अमरावतीम् इन्द्रपुरी, यथा सुराणां स्वामी शक्रः, तथा गुरुः,कि०, वैबुधन्देन एकत्र निर्जरगणेन, अन्यत्र पण्डितसम्बन्धिसमूहेन वन्धुरो रम्य इति, गुरुः पण्डितव्रातपरिवृतः प्राविशदिति । अयं इन्द्रवंशावंशस्थयोरष्टमोपजातिप्रकारः ॥३३॥ • अथ स्थितानां महिमागुरूणां
श्रियां पुरे तत्र पुरे गुरूणाम् । उल्लासभाग् वाग्भिरभूद् मनुष्य
लोकोऽब्दनादैरिव बहिबालः ॥ ३४ ॥ अथानन्तरं तत्र पुरे, कि०, श्रियां श्रीणां पुरे गृहे, गुरूणां
Page #645
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
श्रीविजयसेनसूरीणाम्, किं०, महिमग्गुरूणाम् आकारान्तोऽपि महिमाशब्दोऽस्तीति महिमया माहात्म्येन गुरूणां महताम्, स्थितानां ज्येष्ठस्थितिं कृतवताम्, वाग्भिर्वाणीभिः, व्याख्यानदेशनाभिः मनुष्यलोक उल्लासभाग् अभूत्, अब्दनादैर्मेघगर्जितैः, यथा बर्दिवालो मयूरवालक इति । अयं इन्द्रवज्रोपेन्द्रवज्रयोश्वतुदशोपजातिभेदः || ३४ ॥
तं भूमिजानिं जिनशासनस्य पद्माकरामोदकरं निरीक्ष्य ।
पाथोजिनीनाथमिवास्तशोकः
कोको मुदं स्मैति विवेकिलोकः ॥ ३५ ॥ तं जिनशासनस्य भूमिजानिं राजानम्, पाथोजिनीनाथ सूर्यमिव किं०, पद्माकरं लक्ष्मीसमूहम्, आमोदं च हर्षम्, अथवा पद्माकरस्य लक्ष्मीनिकरस्य आमोदं करोति यस्तं पक्षे पद्माकरामोदकरः कमलाकरोल्लासकरस्तम्, निरीक्ष्य दृष्ट्रा विवेकिलोकः कोक इव अस्तशोको गतशोकः सन् मुदं दर्षे स्मैति प्राप्तवान् ।। ३५ ।।
सङ्घोऽनघस्तत्र सुशर्मनर्महर्म्याणि कर्माणि च धार्मिकाणि । निर्मापयामास मुनीमहेन्द्र
६२०
पुण्योपदेशेन मुदा मनस्वी ॥ ३६ ॥
पुनः, तत्र नगरे, सङ्घः किं०, अनवो निष्पापः पुनः किं०, मुदा हर्षेण मनस्वी हृष्टः सुमना वा, मुनीमहेन्द्राणां मुनीन्द्राणां मुनिवद् सुनीशब्दो लिङ्गानुशासने पुंस्त्रीलिङ्गे प्रोक्तोऽस्तीति मुनीमहेन्द्रपुण्योपदेशेन मुनीन्द्रधर्मोपदेशेन, सुशोभनं यच्छर्म सौयं तस्य नर्महर्म्याणि लीलागृहाणि, धार्मिकाणि कर्माणि सुकु
Page #646
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः ।
६२१ तकृत्यानि, निर्मापयामास निरमापयत् ।। इयं वृत्तद्वयी इन्द्रवजामयी ॥ ३६॥ तद्भपतिः पाहडखान्ननामा
प्रतापधामाऽस्तसहस्रधामा । सेवाऽर्थमभ्यर्णमगाद् गुरूणां __ श्रीमान् सुपर्वेव मरुद्गुरूणाम् ॥ ३७ ॥
तस्य नगरस्य तदानीं भूपतिः स्वामी, पाहडखाननामनृपः किं०, प्रतापस्य धान्ना उग्रत्वेन अस्तः सहस्रधामा सूर्यो येन सः, एकदा गुरूणां तेषां सेवार्थ आलयेऽभ्यर्ण समीपम् , अगात् प्राप्त इति, सुपर्वा देवः, इव यथा, मरुद्गुरूणां सुरगुरूणां बृहस्पतीनामिति यावत् , अत्र पूज्यत्वाद् वहुत्वमिति । अयं षष्ठोपजातिभेदः ॥ ३७॥ निर्ग्रन्थनाथा अथ तत्र सत्र
स्थानोपमाने सुकृतोद्यमानाम् । पुरे प्रसिद्ध विधिना वितेनु___ ज्येष्ठां स्थिति सङ्घमहाग्रहेण ॥ ३८ ॥
अथ तत्र पुरे, किं०, प्रसिद्धे पृथ्व्यां प्रतीते, पुनः किं०, सुकृतोद्यमानां सत्रस्थानोपमाने, सत्रागारे हि धान्यादि सुलभम् , तथा तत्रापि धर्मोद्यमानां सुलभतेति, निग्रंन्धनाथा गुरवः, सङ्घस्य महाग्रहेण ज्येष्ठां स्थितिं चतुर्मासी, वितेनुश्चक्रुरिति । अयमुपजातेस्तृतीयो भेदः ॥ ३८ ॥ . लाभोऽभवत् तत्र गुरोर्गरीया
नगण्यपुण्यप्रकटक्रियाणाम् । प्रौढप्रभावाभ्युदयाद् वलक्ष
Page #647
--------------------------------------------------------------------------
________________
६२२
विजयाशस्त्याम् ।
पक्षादिवेन्दोर्युतिमण्डलीनाम् ॥ ३९॥ . ___ पुनः, तत्र पुरे, गुरोः प्रौढपभावस्य महामाहात्म्यस्याऽभ्युदयात् , अगण्यस्य अनल्पस्य पुण्यस्य याः प्रकटाः क्रियाः कार्याणि तेषां गरीयान् धनो लाभोऽभवजातः दृष्टान्तो यथा-वलक्षपक्षाद् धवलपक्षतः, इन्दोश्चन्द्रस्य, युतिमण्डलीनां कान्तिततीनामिवेति । अयं षष्ठोपजातिभेदः ॥ ३९ ॥
अनल्पसङ्कल्पितदानशौण्डः । __कामाभिरामः सुमनःसमूहैः। किं मूर्तिमानेष सुपर्वशाखी
विदाञ्चकारेति गुरुं स सङ्घः ॥ ४० ॥ स सङ्कः गुरुमिति विदाञ्चकार ज्ञातवानित्यन्वयः। यज्ज्ञातवांस्तदेवाह-एप गुरुः किं मूर्तिमान् सुपर्वशाखी कल्पदुमोऽस्तीति ?, अथ तद्विशेषणद्वयमाह-गुरुः किं०, अनल्पं यत् सङ्कल्पितं चिन्तितं तत्र दानशौण्डो बहुमदो दानशूर इति, पुनः किं०, कामम् अत्यर्थ अभिरामो रम्यः, कैरित्याह-सुमन:समुहैः पण्डितवातैः, पक्षे देववृन्दैः, इति गुरोः कल्पवृक्षतुल्यतेति । अयमुपजातेस्त्रयोदशो भेद इति ॥ ४०॥ समग्रसिद्धान्तधुनीधवैक
व्यापारपारीणधियां धुरीणम् । अमंस्त सङ्घः सकलोऽपि सूरिं
साक्षात्सुधर्माणमिवाऽऽगतं तम् ॥४१॥ से सूरि साक्षात् सुधर्माणं सुधर्मस्वामिनमिव, आगतं सकलोऽपि सङ्कः अमंस्त मेने इति, त कि०, समग्रः सर्वः सिद्धान्तधुनीघवः श्रुतसमुद्रस्तस्य एकोद्वितीयो व्यापारोऽध्ययनाध्या
Page #648
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः ।
६२३
पनश्रवणश्रावणादिरूपस्तत्र ये पारीणधियः पारप्राप्तमतयः सकलशास्त्राऽर्णवाऽवगाहिन इति तेषाम् धुरीणं धौरेयं तन्मुख्यत्वादिति । अयमुपजातेर्द्वादशो भेदः ॥ ४१ ॥
वर्धापनैर्नूतनकाञ्चनानां मौक्ताफलैर्न्यञ्छनकैरतुच्छैः । सनन्दिनन्दीविधिभिर्विचित्रै
स्तत्रोत्सवाद्वैतमिवाऽजनिष्ट ॥ ४२ ॥
तत्र पुरे, नूतनकाञ्चनानां नव्यकारितस्वर्णकुसुममुद्रिकाकङ्कणकुण्डलादीनां, वर्धापनैः, गुरोरिति गम्यम्, पुनः, अतुच्छैर्मौक्ताफलैर्मुक्तामयैर्युच्छनकैः गुरोरुपर्युत्तारणरूपैः, पुनः, सनन्दयो याः ससंपदः नन्दीविधय उपधानमालारोपणतुर्यव्रतद्वादशवतादिविविधनियमनन्दविकारास्तैः, उत्सवाद्वैतं केवलो - त्सवमयमिव, अजनिष्ट जातम् । अयमुपजातेः सप्तमः प्रकारः॥४२॥ चञ्चच्चतुर्मासकमेतदुच्चै - र्वचोविलासेन गणाधिराजाम् ।
तैस्तैः प्रकारैः फलवद् बभूव घनाघनेनेव लतावितानम् ॥ ४३ ॥
एतत् चञ्चत् चारु चतुर्मासकम्, गणाधिराजां सुरीणां, वचोविलासेन वाग्विलासेन, तैस्तैः प्रकारैः उक्तपूर्वः पुरो वक्ष्यमाणैश्च फलवत् सफलं बभूव । दृष्टान्तमाह-लतावितानं वल्लीव्यूहः, घनाघनेनेवेति यथा तथेति । अयमुपजातेर्दशमः प्रकार इति ॥ ४३ ॥
,
इतः पुरा सूदित दैन्य सैन्ये श्रीरामसैन्याहपुरे पुराणे ।
Page #649
--------------------------------------------------------------------------
________________
६२४
विजयप्रशस्त्याम् ।
मध्याद् भुवः प्रादुरभूददभ्रादभ्रादिवाऽर्कः प्रभुमारुदेवः ॥ ४४ ॥
"
इतोऽव्ययं संबन्धान्तरसुचकम् तेन इतोऽन्यदा, पुरा पूर्व ग्रन्थकरणकालापेक्षया पुराकाले तपागच्छनायकभट्टारकश्रीहरिविजयसरिवरसाम्राज्ये सति सं० १६२९ वर्षे, श्रीरामसैन्याहपुरे रामसेणस्थाने डीसाख्यनगराभ्यर्णवर्तिनि किं०, पुराणे जीर्णे, पुनः किं०, सूदितं खण्डितं दैन्यमेव सैन्यं येन यत्र वा, लोकानामिति लक्षणया गम्यम् ; तत्र भुवो मध्यात् मभ्रुमारुदेवः श्रीवृषभः, प्रादुरभूत् प्रकटीबभूव, अदभ्राद् महतोभ्राद् यथा अर्कः सूर्य इति दृष्टान्तः । अयमुपजातेः पञ्चमो भेदः ॥ ४४ ॥
तदीयमूर्तेश्च निभाव्य तेजो
Sतिशायि कल्याणमयं महीयः ।
आश्चर्यपूर्णा मनुजाः सुवर्णनरोऽयमस्तीति विदाम्बभूवुः ॥ ४५ ॥
च पुनः, तदीयमूर्तेः श्री ऋषभ स्वामिप्रतिमायाः, तेजो महः, किं०, अतिशायि अत्युत्कृष्टं यत्कल्याणं कनकं तन्मयं साक्षाद् हिरण्यमयमिति, पश्यतां विभ्रमोत्पादकत्वाद, निभाल्य दृष्ट्रा, आश्वर्येण विस्मयेन, पूर्णा मनुजा जनास्तद्देशवासिनः, इति विदाम्बभूवुर्ज्ञातवन्तः इतीति किम्, तदेवाह - सुवर्णनरः किमयमस्ति, एतावता वर्णसाधर्म्यात् सुवर्णपुरुष एष इति लोकैरज्ञायीति भावः । अयमुपजाते तृतीयो भेदः || ५४||
"
अनेकलोकाम्बक कैरवाणामाराममामोदपदं प्रकुर्वन् ।
Page #650
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः। . ६२५ सङ्कोचकृत् गापपयोरुहाणां
. भानुर्नवीनोऽजनि तत्प्रभावः ॥ ४६ ॥ अनेके ये लोकास्तेषामम्बककरवाणां नयनेन्दीवराणाम् , आरामं वनमामोदपदं हस्पिदम्, प्रकुर्वन् , पुनः, पापपयोरुहाणां पातककमलानाम्, सङ्कोचकृद् म्लानिकारीति, तत्मभावस्तस्य वृषभदेवस्य प्रभावः प्रतापः, उक्तविशेषणसद्भावात् सूर्यधर्मवैपरीत्याच नवीनो भानुः, अजनि जातवान् । अयमपि पञ्चमोपजातिभेदः ॥ ४६॥
तस्मिन् दृशोरध्वनि नीयमाने
बिम्बे जगहओरिवांशुबिम्चे । सवेशवासाऽतुलकौलिकादि
भीर्ध्वान्तवत् तत्र नृणां प्रनष्टा ॥ ४७ ॥ तस्मिन् जगद्भर्तुर्विम्बे दृशोरध्वनि चक्षुषोः पथि, नीयमाने सति, इव यथा, अंशुविम्बे मूर्यमण्डले, दृष्टे सति, ध्वान्तवत् , तत्र देशे नृणां नराणां, सवेशवासाः समीपवासिनो ये अतुलाअप्रमाणा ये कोलिकादयस्तस्कराः, आदिशब्दात् तुरुष्कराजपुत्रपगीप्रमुखा ये ग्रामोपद्रवकारिणस्तेपां भी तिः, प्रनष्टा । अयमपि सप्तमोपजातिप्रकारः ॥ ४७ ॥ तां मूर्तिमुद्यन्महिमाभिरामां
श्रद्धालवः पूरितकामकामाम् । निवेशयामासुरंथो तदावि___ भीवास्पदे भूमिगृहे महेन ॥ ४८ ॥
अथो श्रद्धालवः श्रावकाः, तां मूर्ति, किं०, उधन्महिम्ना महामाहात्म्येन अभिरामां, पुनः किं०, पूरिताः पूर्णीकृताः
Page #651
--------------------------------------------------------------------------
________________
६२६
विजयप्रशस्त्याम् ।
कामम् अत्यर्थ कामा अभिलाषा यया ताम् , तदाविर्भावाऽऽस्पदे तत्प्रकटीभवनभूमिस्थाने भूमिगृहे, निवेशयामासुः अस्थापयन् । अयमपि सप्तमो भेदः ॥४८॥ . पृथ्व्यां पृथिव्यां प्रथितप्रभावं
तत्तीर्थमत्यर्थमपास्तदौःस्थ्यम् । साक्षात् समायात इवादिनाथ
प्रभुः प्रभूताइतहेतुरासीत् ॥ ४९ ॥ तत्तीर्थ श्रीरामसैन्यस्थप्रतिमालक्षणं, पृथिव्यां भूमो, कि०, पृथ्व्यां विस्तीणीयामिति, प्रथितः प्रसिद्धः प्रभावः प्रतापो यस्य तत् ,पुनः किं०, अत्यर्थमपास्तदौःस्थ्यं ध्वस्तदौर्गत्यम् , इवेत्युत्प्रेक्ष्यते-साक्षात् आदिनाथप्रभुः समायात इति, प्रभूताशवहेतुमहाश्चर्यस्य हेतुः कारणमासीत् । अष्टमोपजातिरियम् ॥ ४९ ॥ .. तस्याथ तीर्थस्य नमस्कृते द्राक्
श्रीराजधन्याह्वपुरीयसङ्घः। विहर्तुकामैर्गतकामकामैः
श्रीसूरिसिंहैः सहितश्चचाल ॥ ५० ॥ अथ तस्य तीर्थस्य नमस्कृते नतिकरणार्थ, श्रीरायधन्यपुरीयः सङ्घः श्रीसूरिसिंहैः किं०, विहर्तुकामैः पूर्वमपि चतुमासकपारणके चिचलिषुगिः, पुनः, गतकामकामैर्निष्कामाभिलापैः, सहितः चचालेत्यचलत् । सप्तमभेदोपजातिरियम् ॥५०॥ उन्मूलयन् वर्त्मनि दुर्मतीनां
वृन्दं दुमाणामिव वारणेन्द्रः। पदे पदे भूरिधनैर्जनौधैः
Page #652
--------------------------------------------------------------------------
________________
अष्टादशः सर्गः ।
प्रपूज्यमानो विजहार पूज्यः ॥ ५१ ॥
"
वारणेन्द्रो गजेन्द्र इव द्रुमाणां तरूणां वृन्दम्, तथा वर्त्मनि मार्गे, दुर्मतीनां कुमतीनां वृन्दम्, उन्मूलयन, पुनः, पदे पदे स्थाने स्थाने, जनौघैः किं०, भूरिधनैर्महाधनैः प्रपूज्यमानः स पूज्यः, विजहार विहृतवानिति । अयमुपजातेर्नवमः प्रकारइति ॥ ५१ ॥
,
अथ क्रमात् स क्रमविद् नितान्ता - ऽनघेन सङ्केन समं शमीशः ।
श्रीराम सैन्यं समवाप पापा
पहं ननाम प्रथमं च नाथम् ॥ ५२ ॥ अथ विहरन् महम्मदाबाद नगरपाटकादिषु श्रीपार्श्वनाथश्रीदधिपद्रीयशान्तिनाथप्रमुखदेवान् प्रणम्य क्रमात् स गुरुः, किं०, क्रमः कल्प आचारस्तद्वेता, सङ्केन किं०, नितान्तं नित्यमनघेन निर्मलेन, समं सार्धं, शमीशः साधुराद, श्रीरामसैन्यं समवाप प्राप्त इति च पुनः, तत्र प्रथमं नाथं श्री ऋषभदेवं, किं०, पापापहं दुरितध्वंसिनम्, ननामेति नमश्चकारेत्यर्थः । उपजातेस्तृतीयोऽयं प्रकारः ॥ ५२ ॥
प्रमोदपूर्णानन पुण्डरीका
उपासकास्ते विभवव्ययोत्काः ।
६२७
प्रपञ्चाञ्चकुरथो विचित्र
भङ्गीसिरच प्रथमाप्तभर्तुः ॥ ५३ ॥
अथो ते उपासकः श्रावका राजधन्यपुरीयाः, किं०, प्रमोदेन संमदेन पूर्णमाननपुण्डरीकं मुखकमलं येषां ते पुनः किं०, विभवव्यये धनत्यागे उत्का उत्सुकाः, विचित्रभङ्गीभि
Page #653
--------------------------------------------------------------------------
________________
६२८
विजयप्रशस्त्याम् । नारचनाभिः बहुप्रकारैरिति यावत् , प्रथमाप्तभर्तुः श्रीआदिनाथस्य, अर्ची पूजा, प्रपञ्चयाञ्चक्रुर्विस्तारयामासुरिति । अयं चतुर्थोपजातिभेद इति ॥ ५३॥
स्तोत्रैर्विचित्रार्थभरैगंभीरैः __ शब्दैरुदारैरपि भावपूजाम् । निर्माय निर्मायमहोभुजस्ते
व्यधुनिजं जन्म फलैरफल्गु ॥ ५४ ॥ विचित्रार्थभरैर्नानाप्रकारार्थातिशयैः, स्तोत्रैः स्तवनैः, पुनः किं०, गभीरैर्गम्भीरभावार्थत्वाद् मूखैरलब्धत्वाचेति, पुनः, उदारैः स्फारैः शब्दः, यदुक्तं चैत्यवन्दनाभाष्ये नमदेवेन्द्रः श्रीदेवेन्द्रसूरीन्द्रः-“गम्भीरमहुरसद्दमहत्थजुत्तं हवइ थुत्तं"इत्याद्युक्तेः, महार्थस्तोत्रैः महागम्भीरशब्दैश्च भावपूजां निर्माय विधाय, ते निआयमहीभुजः मुनिराजाः, निजं जन्म स्वमवतारं, फलैरफल्गु सारं सफलं, व्यधुश्चक्रुरिति । उपजातेरष्टमोऽयं भेदः ॥ ५४ ॥ एकः प्रभु भिनृपाङ्गजन्मा
ऽपरो मुनीन्द्रश्च कमाङ्गजन्मा । तीर्थद्वयं स्थावरजङ्गमाऽऽख्यं ___ख्यातं तदाऽभूद् भविनामघघ्नम् ॥ ५५ ॥
तदा तत्तीर्थनमनाक्सरे एको नाभिनृपाङ्गजन्मा प्रभुः वृषभदेवः, च पुनः, अपरो मुनीन्द्रो गुरुः, कमाङ्गजन्मा श्रीविजयसेनमूरिः, इदं ख्यातं तीर्थद्वयं, किं०, स्थावरं जङ्गमं चेत्याख्या यस्य तत्, पुनः, अघघ्नं पापापहं, केषां भविनां भव्यजीवानाम , अभूज्जातम् । उपजातेः षष्ठोऽयं भेदः ॥ ५५ ॥
Page #654
--------------------------------------------------------------------------
________________
सर्गः ।
अष्टादशः
विधाय यात्रां प्रथमस्य तस्य तीर्थाधिनाथस्य समस्तसङ्घः । स सूरिपादैः सममप्रमादैः
६२९
श्री राजधन्यं पुरमाजगाम ॥ ५६ ॥
"
तस्य प्रथमस्य तीर्थाधिनाथस्य यात्रां विधाय सूरिपादैः किं०, अप्रमादैर्ध्वस्तममादैः समं सार्धं स समस्तसङ्घः, श्रीराजधन्यं पुरमाजगामाऽऽगत इति । द्वादशः प्रकारोऽयमुपजातेः ।। ५६ ।।
"
इति नानाछन्दोभिः सर्गे निर्माय शार्दूलविक्रीडितेन तमुपसंहरति
श्रीमद्धर्मपयःपयोधितनयाभालैकभूषामणौ
तस्मिन् सूरिशिरोमणौ स्थितवति द्रङ्गेऽतितुङ्गे तदा । जाता श्रीजिनशासनोन्नतिरतिश्रेयः फलोल्लासिनी
संप्राप्तेऽम्बुमुचीव भूमिवलये भूमीरुहाणां बनी ॥ ५७॥ तस्मिन् सूरिशिरोमणी किं०, श्रीमान् यो धर्मः अर्हद्धमस्तस्य या पयः पयोधितनया क्षीरनीरेश्वरनन्दना लक्ष्मीरिति यावत् तस्या भालैकभूषामणौ ललाटभूषणरत्रे, तदा तत्र द्रङ्गे, किं०, अतितुङ्गेऽतिमहति श्रीराजधन्यपुरद्रङ्गे, स्थितवति सति, श्रीजिनशासनोन्नतिः श्रेयः फलेन श्लाघ्यफलेनोक्तरूपेण धर्मकर्मलक्षणेन वाऽग्रेतनसर्गवक्ष्यमाणेन प्रतिष्ठादिसुकृतकृत्यरूपेण श्रेयः फलेन उल्लासिनी दीप्तिमती, जाता; यथा अम्बुमुचि मेघे, भूमिवलये संप्राप्ते सति, भूमीरुहाणां तरूणां, वनी तवाटिकेति दृष्टान्तः ॥ ५७ ॥
Page #655
--------------------------------------------------------------------------
________________
६३० विजयप्रशस्त्याम् ।
इतीति निखिलं निगदसिद्धम् । इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमालीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां श्रीविजयपदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायामष्टादशः सर्गोऽर्थतः
समर्थितः ॥
अहम् अथ एकोनविंशः सर्गः। अथ एकोनविंशः सर्गः प्रारभ्यते
अथान्यदा श्रीगुरुवाप्रबुद्धैः __ श्रद्धालुभिर्बन्धुरबुद्धिबोधैः । अभ्यर्थिताः श्रीगुरवः प्रकामं
ते कर्तुकामा अभवन् प्रतिष्ठाम् ॥१॥ अन्यदा तत्रैव राजधन्यपुरे, श्रद्धालुभिः श्रावकैः, किं०, श्रीगुरूणां वाग् वाणी तया प्रबुद्धैः प्रतिबुद्धैः, पुनः किं०, बन्धुरो बुद्धिबोधो मतिज्ञानं येषां तैः, श्रीगुरवः श्रीविजयसेनसूरिपादा अभ्यर्थिताः सन्तः प्रतिष्ठां नवीनजिनचैत्यस्थापनां कर्तुकामाः, अभवन् बभूवुरिति ॥ १॥
अथ षड्भिस्तां वर्णयतिक्षीरार्णवोत्तुङ्गतरङ्गरङ्ग
Page #656
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः। हुकूलमालाकलितैरनेकैः। श्रीमण्डितैर्मण्डपकैरखण्डै
रुदश्चितोच्चैः शरदभ्रशुभैः ॥ २ ॥ पुण्याङ्गिनां मङ्गलकारणानां __ स्थूणागणस्थापिततोरणानाम् । श्रीधोरणीभि शहारिणीभि
विभूषिता विस्मयकारिणीभिः ॥ ३ ॥ कुनाभिकुम्भायितपूर्णकुम्भ
माङ्गल्यचश्चच्चतुरस्रिकाङ्का । कर्पूरकाश्मीरजगन्धसारा
दिभिर्भृशं निर्मितशस्तहस्ता ॥ ४ ॥ वित्तव्ययप्रीणितमार्गणौघ
प्रवर्तितात्यद्भुतगीतगाना । शृङ्गारभृङ्गारकुलाङ्गनाभि
जेगीयमानातुलमङ्गलालिः ॥ ५ ॥ व्योमाङ्गणव्यापिनिनादवर्य___ तूर्यारवाऽऽमन्त्रितनैकलोका । पूगीफलश्रीफलपेशलश्री
प्रभावनाध्वस्तसमस्तशोका ॥ ६ ॥ तद्वासिना वासणझोटकेन
श्रद्धालुना शोभनवासनेन ।
Page #657
--------------------------------------------------------------------------
________________
६३२
विजयप्रशस्त्याम् ।
विधीयमानोरुमहःप्रकृष्टा
श्रीसूरिसिंहैर्विदधे प्रतिष्ठा ॥ ७ ॥ - सा प्रतिष्ठा कि०, क्षीरार्णवस्य क्षीरसमुद्रस्य ये उत्तुङ्गास्तरङ्गास्तद्वद् रङ्गन्ती लसन्ती या दुकूलानां पट्टकूलानां सूक्ष्मवाससां वा माला श्रेणिस्तया कलितैः, पुनरनेकैः, पुनः, श्रीमण्डितैः लक्ष्मीभूपितैः, पुनरखण्डितैः, पुनः, शरदभ्रवत् शुभ्रर्धवलैः, मण्डपैः उदञ्चिता उन्नति प्राप्ता ॥२॥ पुनः, प्रतिष्ठा किं०, पुण्याङ्गिनां पुण्यवतां प्राणिनां मङ्गलकारणानां कल्याणहेतूनां, स्थूणागणेषु स्तम्भसमूहेषु स्थापितानां तोरणानां श्रीधोरणीभिः स्तम्भस्थतोरणशोभाश्रेणिभिः, किं०, भृशम् अतिशयेन हारिणीभिः मनोहराभिः, पुनः, विस्मयकारिणीभिश्चमत्कारकारिणीभिः, विभूषिता विभ्राजितेति ॥ ३॥ पुनः किं०, कुनाभिकुम्भा निधिकुम्भा इवाचरिता आचारेऽर्थे उपमानाद् यप्रत्ययस्तेन कुनाभिकुम्भायिता ये पूर्णकुम्भा अखण्डकलसास्तल्लक्षणं यन्माङ्गल्यं मङ्गलवस्तु तेन चञ्चच्चतुरस्रिकाया लोके "चउरी" इति प्रतीताया अङ्को विभूषा यस्यां सा,पुनः किं०,कर्पूरो घनसारः काश्मीरजं कुङ्कुमं लोके "केसर" इति प्रतीतम् , गन्धसारश्चन्दनं लोके "सूखड" इति प्रतीतं तदादिभिरपरैरपि सुगन्धिद्रव्यैस्तुरुष्ककस्तूरिकाप्रमुखैर्निर्मिताः शस्ता हस्ताः स्थासका लोके "हाथा" इति प्रतीता यस्यां सा ॥४॥ पुनः कि०, वित्तव्ययेन प्रीणितैर्मार्गणौधैर्याचकनिकरैः प्रवर्तितानि अद्भुतान्याश्चर्यकारीणि, गीतगानानि यस्यां सा, पुनः किं०, शृङ्गारस्य प्रथमरसस्य भृङ्गारो भाजनं शृङ्गारपात्रमिति याः कुलाङ्गनास्ताभिजेगीयमाना अतिशयेन गीयमाना अतुला मङ्गलालिर्यस्यां सा ॥ ५॥ पुनः प्रतिष्ठा किं०, व्योमाङ्गणव्यापिना गगनस्पृशा निनादेन ध्वनिना वर्याणि यानि तूर्याणि तेषामारावैः शब्दैः
Page #658
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः ।
६३३
आमन्त्रिता नैकलोका अनेकजना यस्यां यया वा सा, पुनः किं०, पूगीफलानां श्रीफलानां च पेशलश्रियो मनोज्ञशोभायाः प्रभावनास्ताभिर्ध्वस्तः समस्तः शोको यस्यां यया वा सा ॥६॥ श्रीमूरिसिंहैः प्रतिष्ठा विदधे चक्रे इत्यन्वयः किं०, तद्वासिना तत्रवास्तव्येन, पुनः, शोभनवासनेन भव्यभावनेन, केनेत्याह- वासणझोटकेन श्रद्धालुना बासणझोटाख्यश्रावण, विधीयमानं उरु महद् व्याख्यातस्वरूपं यन्मह उत्सवस्तेन प्रकृष्टा उत्कृष्टेत्यर्थः । इति षण्णां व्याख्या ॥ ७ ॥
तत्र प्रतिष्ठामहसि प्रभावानिवाऽऽबभासे शमिभुमिभर्ता ।
कुदृग्दृशां कौशिककामिनीनां घनार्तिकर्ता तमसां प्रहर्ता ॥ ८ ॥
शमिनां साधूनां भूमिभर्ता राड् मुनिराजः, तत्र प्रतिष्ठामहसि तस्मिन् प्रतिष्ठोत्सवे, प्रभावानिव सूर्य इव, आवभासेऽशोभतेत्यन्वयः ; विशेषणद्वयेन गुरुं च सूर्य च विशिनष्टि - किं०, कुदृग्दृशां कौशिककामिनीनां मिथ्यादृग्दृष्टिघूकाङ्गनानां घनार्तिकर्ता बढर्तिकारीति, पुनः किं० तमसां पापानाम्, अन्यत्र ध्वान्तानां च महर्ताऽपहारी चेति ॥ ८ ॥
तत्रोत्सवे श्रावकलोकवृन्दै - रभ्यर्चिता भासुररूप्यरूपैः ।
विभुर्विभूषां बिभरांबभूव
सूरिः सुराणामिव कल्पपुष्पैः ॥ ९ ॥ सत्र प्रतिष्ठाणे श्रावकलोकवृन्दैः भासुररूप्यस्य कलधौतस्य रूपैर्नाणकैः, अभ्यर्चितः पूजितः, विभ्रुर्गुरुः, विभूषां
८१
Page #659
--------------------------------------------------------------------------
________________
६३४
विजयाशस्त्याम् । शोभा, बिभराम्बभूव धभार, यया सुराणां भूरिवृहस्पतिः, कल्पपुष्पैः सुरतरुपसूनैरिति ॥ ९ ॥
कियन्त्यहानि स्थितांश्च तत्र __सङ्घाऽऽग्रहात् सूरिशिरोऽवतंसः। नेत्रोत्सवं चारु सृजन् जनानां
ज्योत्स्नाप्रियाणामिव राजराजः ॥ १० ॥ च पुनः, तत्र नगरे राधनपुरे, सङ्गाऽग्रहाद सूरिशिरोवतंसः आचार्यमौलिशेखरः, कियन्ति कतिचित्, अहानि दिनानि, स्थितवान् , किं कुर्वन् , जनानां लोकानां, नेत्रोत्सवं चारु यथा स्यात् तथा सृजन् , क इव केषामिति दृष्टान्तेनाह-राजराजश्चन्द्र इव, ज्योत्स्नाप्रियाणां चकोराणामित्यर्थः ॥ १०॥ भट्टारकास्तेऽप्यथ पावयन्तः
पृथ्वीतलं पत्कंजपांसुपुत्रैः। कमादवापुः प्रकटप्रभावाः
पुरं प्रकृष्टं वटपल्लिसंज्ञम् ॥ ११ ॥ अथ एकदा रायधनपुरात् पृथ्वीतलं भूतल, पत्कजपासुपुञ्जैश्चरणकमलरेणुगणैः, पावयन्तः पवित्रयन्तः सन्तः, ते भट्टारकाः, किं०, प्रकटमभावा इति स्पष्टम् , वटपल्लिसंझं वडलीनामकं नगरम् , अवापुः प्राप्ता इति ॥ ११ ॥ स्तूपद्वयं तत्र विचित्रचित्रं
विभाति भूयोमहिमैकघाम । यशोयुगं श्रीविजयादिदान
श्रीहीरसूर्योरिव सूर्तमेतत् ॥ १२ ॥
Page #660
--------------------------------------------------------------------------
________________
६३५
एकोनविंशः सर्गः। तत्र वटपल्ल्यां , स्तूपद्वयं, कि०, विचित्रचित्रं नानाश्चर्यम् , पुनः, भूयोमहिमैकधाम बहुमाहात्म्यमन्दिरम् , विभाति, इवेत्यु स्प्रेक्ष्यते- श्रीविजयादिदानश्रीहीरसूर्योः श्रीविजयदानसूरिश्रीहीरविजयाचार्ययोः, मूर्तमेतद् यशोयु कीर्तिद्वयमिति ॥१२॥
स्तूपये तत्र तपाधिभत्रों... निर्वाणकल्याणकपावितेऽह्नि।। संभूय भूयांसि महांसि सङ्घ
स्तनोति नित्यं प्रमना मनखी ॥ १३ ॥ तपाधिभोंस्तपागच्छस्वामिनोस्तयोः पूर्वोक्तयोः, स्तूपद्वये तत्र निर्वाणकल्याणकपाविते अनि वासरे भाद्रपदाऽवदातैकादशीतिथौ, सो वटपल्लिसङ्घः, पत्तननगरवासी सङ्घश्च, संभूय मिलित्वा, भूयांसि महांसि तनोति, सङ्घः किं०, प्रमना हृष्टमनाः, पुनः, मनस्वीति प्रतीतम् ॥ १३ ॥ पृथक् पृथक् तत्र गुरुक्रमाणां
नतिं विधायाऽथ तपाधिनाथः । श्रीहीरभट्टारकपादपादौ
स्तौति स्म भक्त्येति महाप्रसादौ ॥ १४ ॥ अथ तत्र स्तूपस्थगुरुक्रमाणां पृथक् पृथग् नतिं विधाय नमस्कृत्य, तपाधिनाथस्तपागच्छेशः श्रीविजयसेनमूरिः, श्रीहीरभट्टारकपादानां पादौ, किं०, महान् प्रसादो गच्छाधिप. त्यमाप्तिलक्षणो ययोस्तौ महाप्रसादौ, इति वक्ष्यमाणरूपेण प्रकारेण, स्तौति स्माऽस्तवीत् ॥ १४ ॥ . . श्रीमान् कामगीव कामितसुखं सूते स्म यः रोवितभके यः सवितेव विश्वमखिलं सालोकमालोंकिता
Page #661
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् । विद्युलानिव पापतापमहरद् यः संस्तुतः सूरिराट् . . सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्याऽऽनन्दिके पादुक।१५। ___यः श्रीमान् गुरुः सेवितः सन् , कामगवीव कामधेनुरिव, कामितसुखं सूते स्माऽकरोत् , पुनः, य आलोकितः सन् , सवितेव सूर्य इव, अखिलं विश्वं सालोकं सप्रकाशं, चक्रे चकार, पुनः, यः मूरिराट् संस्तुतः सन् विद्युत्वानिव मेघ इव, पापतापमहरत् , तस्य मुनीन्द्रहीरविजयस्य पादुके, किं०, आनन्दिके प्रमोददायिके, सिद्ध्यै ऐहिकामुष्मिककार्यसिद्धये, आस्तामिति क्रियाऽध्याहार्येति तात्पर्यम् ।। १५ ।। सच्चक्रप्रणयी पयोरुहवनं भास्वानिवाऽभीशुभिः प्रीताऽस्वल्पकलापिकः कृषिभरं तोयैस्तडिलानिव । विश्वं विश्वमतोषयत् स्ववचनैर्यः पुण्यनैपुण्यधीः सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्याऽऽनन्दिके पादुके।॥१६॥
यो गुरुः स्ववचनैः विश्वं विश्वं समस्तं जगत् , अतोषयत् तुष्टिभाक् कुरुते स्म, यः किं०, पुण्यनैपुण्या पवित्रचातुर्या धीर्यस्य सः, अथ पूर्वार्धेन दृष्टान्तद्वयमाह-इव यथा, भास्वान् सूर्यः, कि०, सच्चक्रप्रणयी शोभनचक्रवाकस्नेही, गुरुपक्षे सच्चक्रस्य सज्जनसमूहस्य प्रणयी, अभीशुभिः किरणैः, पयोरुहवनं कमलवनं तोषयति, पुनः, तडित्वानिव मेघ इव, किं०, प्रीता हर्षिता अस्वल्पा बहवः कलापिनो मयूरा येन यस्माद्वा सपीताखल्पकलापी, के कलापिक इति, गुरुपक्षे प्रीता अस्वल्पाः कलापिन आशीर्वाददायिनो भट्टाद्याः कलावन्तो येनेति सः, तोयैर्जलैः, कृषिभरं क्षेत्रनिवहं, तथेति सिद्ध्यैः तस्येति चतुर्थचरणव्याख्या प्राग्वत् ॥ १६ ॥ आलोकं विलसत् समस्तकमलामोदं गभस्तेरिव
Page #662
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः। स्तोमं तोयमुचामिवास्तिभुवनानन्दं पदं श्रेयसाम् । यं लोको बहु मन्यते स्म सकलः सर्वत्र सम्यक्त्वदृक् सिद्धयै तस्य मुनीन्द्रहीरविजयस्याऽऽनन्दिके पादुके॥१७॥ __ सकलः सर्वोऽपि लोकः, किं०, सर्वत्र पृथ्व्यां, सम्यक्त्वे दृग् दृष्टिर्मतिर्वा यस्य सः, यं गुरुं बहु मन्यते स्मेति क्रियाकारकयोगः; पूर्वार्धेन दृष्टान्तद्वयीप्रकटनपूर्व विशेषणपुरस्कारेण च वर्णयति-इव यथा, गभस्तेस्तरणः, आलोकम् उद्योतं, किं०, विलसन् समस्तकमलानां सर्वाम्भोजानामामोदो गन्धो यस्मातं, गुरुपक्षे विलसन् समस्तायाः सकलायाः कमलाया आमोदो हर्षो यस्मादिति तं, पुनः तोयमुचां वारिमुचां स्तोमं समूह, किं०, अस्ति भुवनात् सलिलादानन्दो यस्मात्तं, गुरुपक्षे अस्ति भुवनानन्दो जगदानन्दो यस्मात्तं अस्तिभुवनानन्दं, पुनर्य किं०, श्रेयसां मङ्गलानां धर्माणां वा पदं स्थानम् , एतावता सूर्यालोकमिव मेघसंघातमिव यं गुरुं लोको बहुमानभाजनमकरोदिति निर्गलितार्थः, अग्रेतनं प्राग्वत् ॥ १७॥ खाज्ञावर्तिषु मण्डलेषु निखिलेष्वानन्दतोऽचीकरत् प्रीतो यद्वचनैः कृपावनघनैः शाहिर्हमाऊसुतः । जीवानामभयप्रदानपटहोद्घोषानघध्वंसिनः सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुक॥१८॥ . हमाऊसुतः शाहिः श्रीअकब्बरः, कि०, यद्वचनैर्यस्य गुरोर्वचनैः, किं०, कृपावने दयाऽऽरामे घनैर्मेधैस्तद्वर्धनहेतुत्वात् , भीतो हृष्टः सन् , जीवानां जन्तूनाम् , अभयपदानस्य पटहोद्घोपान् कि०, अघध्वंसिनः पापापहारिणः, निखिलेषु मण्डलेषु देशेषु सौराष्ट्रमहाराष्ट्रलाटकर्णाटपूर्वदेशदक्षिणदेशकुरुदेशकास्मीरदेशगूर्जरमरुस्थलीमालवमेदपाटवैराटबासषससिन्धुजाल
Page #663
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
न्धरादिषु, स्वाज्ञावर्तिपु निजशासनस्थायिषु, अचीकरत् स्वाज्ञाघधि जीवाऽमारिर्यस्योपदेशादकार्षीदिति भावार्थः, शेषं सुगमम्१८ श्रीमान् शाहिरकब्बरक्षितिपतिर्यद्वाग्भिरानन्दितः । कृत्वा तत्करमुक्तिमुक्तिमनघां बिभ्रद् ददौ दक्षधीः । तीर्थ जैनजनाय तीर्थतिलकं शत्रुञ्जयोर्वीधरं सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके॥१९॥
यद्वाग्भिः आनन्दितः अकब्बरक्षितिपतिः तत्करमुक्ति कृत्वा अनघां उक्तिं बिभ्रत् , पुनः, दक्षधीनिपुणमतिः, जैनजनाय शत्रुञ्जयोर्वीधर तीर्थ करमोचनपूर्वकशत्रुञ्जयोजयन्ततीर्थद्वयं यद्वचनाज्जैनतपाऽऽयत्तं कृतवानिति, शेषं स्पष्टम् ॥ १९ ॥ खं गाढाग्रहिणं कदाग्रहमघाङ्करं विहाय स्वयं “लुम्पाका ऋषिमेघजीप्रभृतयः श्रेयोऽर्थिनोऽल्पेतराः । भृङ्गत्वं बिभराम्बभूवुरनिशं यत्पादपाथोरुहे सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुक॥२०॥
पुनः, यत्पादपाथोरुहे लुम्पाका ऋपिमेघजीप्रभृतयः सप्तविंशतिमुनयः श्रेयोऽर्थिनो धर्मार्थिनः सन्तः, स्वं कदाग्रहं अघाङ्कर पापाङ्करं, पुनः कि०, गाढाग्रहिणं महाहठमयमपि,विहाय त्यक्त्वा भृङ्गत्वं भ्रमरतां, विभराम्बभूवुर्यचरणकमलसेवापराः संजाताइति, परं सुबोधम् ॥ २०॥ . चैत्याधुहरणैतानुसरणैः सन्मानदानोत्सवैरेकच्छन्नमिवाऽभवद् भगवतां सद्वासनं शासनम् । यस्मिश्रीतपगच्छवल्लिजलदेऽलङ्कुर्वति.क्ष्मातलं .. सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुक॥२१॥
Page #664
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः। - यस्मिन् कि०, श्रीतपगच्छवल्लिजलदें तपागणलतामेधे तद्विस्तारहेतुत्वादिति, क्ष्मातलं अलङ्कुर्वति सति भूतलालङ्कारे भवति सति, चैत्यादीनां उद्धरणैर्जीर्णोद्धारैः, पुनः, व्रतानुसरणैः पञ्चमहाव्रततुर्यव्रतद्वादशवताद्याचरणैः, पुनः, सन्मानदानोत्सवैः गुरुदेवादिबहुमानवस्त्रपात्रमदानाद्युत्सवैः, भगवतां तीर्थकृताम् , शासनं किं०, सद्वासनं शोभनभावनम् , एकच्छत्रमिवाऽभवत् , किं बहुना १, श्रीजिनशासनं यस्मिन् गुरौ सति साक्षादर्शीकातपत्रमिव जातमिति तत्त्वम् ॥ २१॥ श्रीवत्सध्वजमत्स्यचक्रकुलिशच्छत्राङ्कुशाम्भोरुहा
म्भोधिस्वस्तिकचामरद्विपनिपट्टीपादिचिह्नाञ्चिते । ये नित्यं नमतां भवन्ति वशगा राज्यद्धयः सिद्धयस्ते सूरेस्त्रिदशस्तुते सुजयतामानन्दिके पादुके ॥२२॥
ये श्रीहीरविजयसूरीश्वरपादुके कि०, श्रीवत्सोऽष्टमङ्गलमध्यवर्ती, ध्वजः केतुः, मत्स्यो मीनः, चक्रं रथाङ्गं, कुलिशं बजं, छत्रं प्रतीतम् , अङ्कुशः सृणिः, अम्भोरुहं कमलम् , अम्भोपिः समुद्रः, स्वस्तिकः प्रसिद्धः, चामरं प्रतीतं, द्विपो हस्ती,निपः कलशः, द्वीपो जम्बूद्वीपादिः, आदिशब्दात् यूपस्तूपोडुपविटपिमन्दिरतुरगगिरिवरादिग्रहः, तेन श्रीवत्सध्वजमत्स्यचक्रकुलिशच्छवाडशाम्भोरुहाम्भोधिस्वस्तिकचामरद्विपनिपद्वीपादीनि चिह्नानि लाञ्छनानि तैरञ्चिते कलिते, नमतां नराणां राज्यईयः साम्राज्यश्रियः, सिद्धयोऽष्टौ चारुणिमादयः, वशगा भबन्ति, ते सूरेस्तस्य पादुके किं०, त्रिदशैर्देवैः स्तुते सुजयतां खिति सर्वप्रकारेण जयतां जयिन्यौ भवतामिति काव्यार्थः । अत्राष्टकस्यैवोपयोगाद् नवमं वृत्तं ग्रन्यकृन्नामाङ्कितं न विवृतम् , अष्टकमेव विद्वतमिति ॥ २२ ॥
Page #665
--------------------------------------------------------------------------
________________
६४०
विजयमशस्त्याम् । भक्त्येत्यभिष्टुत्य सदर्थसार्थ
श्रव्येण काव्यप्रकटाष्टकेन । श्रीहीरसूरीन्द्रपदौ मुनीन्दुः
कृती कृतार्थीकुरुते स्म जन्म ॥ २३ ॥ . इति अमुना काव्यप्रकटाऽष्टकेन, कि०, सदर्थसमूहैः श्रव्येण श्रवणीयेन, श्रीहीरविजयसूरिपदी अभिष्टुत्य स्तुत्वा, मुनीन्द्रः सं गुरुः, किं०, कृती दक्षः, जन्म कृतार्थीकुरुते स्म स्वावतारं सार्थकं कृतवानित्यर्थः ॥२३॥ पद्माभिरामामभितोऽभिसर्प
दुल्लोलकल्लोलितभूमिभागाम् । ततः प्रभुः पत्तनराजधानी .. मरालबालः सरसीमिवाऽऽगात् ॥ २४ ॥
ततो वटपल्लीतः, प्रभुर्गुरुः, सरसीं मरालबाल इव पत्तनराजधानीमागादित्यन्वयः, पत्तनराजधानी सरसीं च श्लेषण विशिनष्टि-कीदृशी, पद्माभिःश्रीभिः अभिरामां, पक्षे पद्मः कमलैरभिरामा रम्यां, पुनः किं०, अभितो विष्वक, अभिसर्पन्तो धावन्तो ये उल्लोला लहर्यस्तैः कल्लोलितो वीचीमयो भूमिभागो यत्र, पक्षे उत्पावल्येन लोल उत्सुकत्वाचापल्यभाक् कल्लोलितो हर्पितो भूमिभागो यस्यां ताम्, एतावता कलहंसः सर इव, गुरुः पत्तननगरं प्राप्त इति ॥ २४ ॥ पयोदवद् वारिजवच्च विन्ध्या
ऽभिधानभूमीधरवच्च जज्ञे । मुदे गुरुस्तन्नगरप्रजानां
सारङ्गसारङ्गशामिवोच्चैः ॥ २५ ॥
Page #666
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः ।
६४१
गुरुत्तनगरमजानां पत्तनजनानां मुदे जज्ञे जात इत्यन्वयः, किंवत्, पयोदो मेघस्तद्वत्, यथा सारङ्गयातकस्तस्य सारङ्गदृशः स्त्रियस्तासां पुनः वारि कमलं तद्वत्, यथा सारङ्गो भ्रमरस्तस्य सारङ्गदृशां भ्रमरीणां, पुनः, विन्ध्याभिधानो भूमीधरो विन्ध्याचलस्तद्वत् यथा सारङ्गा हस्तिनस्तेषां सारङ्गदृशो हस्तिन्यस्तासाम्, अत्र सारङ्गशब्दानेकार्थो यथा “सारङ्गो विहगान्तरे चातके चश्चरीके च द्विपैणशबलेषु च " इति वचनादत्र सारङ्ग शब्दस्य त्रयोऽर्थाः समर्थिता इति ।। २५ ।। इतश्च - इतवेति संबन्धान्तरसूचकमव्ययम्,
1
यथा
भट्टारक श्रीविजयादिसेनपट्टैकपाथोधिकलानिधीनाम् ।
पूर्वे पवित्रीकृतपत्तनानां
तपागणाचार्य महीधनानाम् ॥ २६ ॥
विशुद्धसिद्धान्तसुधा पिबानां
सुधापिबाऽऽचार्यधियां गुरूणाम् ।
उत्साहितश्चारुवचोविचारै
वतैरिवाऽम्भोधर औत्तराहैः ॥ २७ ॥
निजं परित्यज्य मताधिपत्यं
लुम्पाकमुख्यो मुनिमेघराजः । भट्टारकक्ष्मापमथो ववन्दे
तत्पादयोर्मूलमुपायियासुः ॥ २८ ॥
त्रयाणां व्याख्या यथा - इतश्चावसरे तपागणस्य आचा
૧
Page #667
--------------------------------------------------------------------------
________________
६४२ विजयप्रशस्त्याम् । र्यराजः श्रीविजयदेवमूरयस्तेषां, किंलक्षणानाम् , पूर्व पवित्रीकृतं पत्तनं यस्तेषां तत्राणहिल्लपाटके स्थितानामिति , पुनः किं०, भट्टारकश्रीविजयादिसेनपट्टैकपाथोधौ कलानिधयश्चन्द्रास्तेपाम् ॥२६॥ पुनः किं०, विशुद्धसिद्धान्तसुधां निर्मलाऽऽगमामृतं पिबन्तीति तेपां विशुद्धसिद्धान्तसुधापिवानां, पुनः किं०, सुधापियाचार्यः सुराचार्यो बृहस्पतिरिति यावत् , तद्वद् धीर्येषां तेषां गुरूणां,चारु वचोविचारैः मनोज्ञवाग्विचारैः,औत्तराहैः कौवेरेयैः, वातैः पवनैः, अम्भोधर इव उत्साहितः. एतावता श्रीविजयदेवमूरिवचनैर्विशेषेणोत्साहविषयीकृत इति ॥ २७ ॥ स क इत्याहलुम्पाकमुख्यो लुङ्काख्यकुमतस्वामी पूर्व श्रीहीरविजयसूरीश्वरदीक्षितऋषिमेघजीकस्य प्रशिष्यः मुनिमेघराजः, निजं मताधिपत्यं लुम्पाकमुख्यतां, परित्यज्य, अथ भट्टारकक्ष्मापं श्रीभट्टारकराज श्रीविजयसेनमूरिं, ववन्देऽवन्दत, ‘स किं कर्तुमिच्छुः, उपाऽऽयियासुः आगमनमिच्छुः , किं, तत्पादयोश्चरणयोमूलं पार्थ सेवितुकाम इति ॥ इति त्रयाणां व्याख्या ॥ २८ ॥ सुधारसासारसवर्णवर्ण
माकर्ण्य सम्यक् सुगुरूपदेशम् । घनाघनध्वानमिव प्रवेकं
केकी विवेकी स मुदं प्रपेदे ॥ २९ ॥ स मेघराजर्षिः, सम्यग् भावेन, समाकर्ण्य श्रुत्वा, के, सु. गुरूपदेशं, किं०, सुधारसासारस्य पीयूषरसदृष्टेः सवर्णास्तुल्या वर्णा अक्षराणि यत्र तम्, इव यथा, केकी मयूरः, घनाघनध्वानं मेघध्वनि, श्रुत्वा, तथा मुदं प्रपेदे हर्ष प्राप्तवानिति, शेषं सुगमम् ॥ २९ ॥
निजं नभोम्भोजनिभं विभाव्य
Page #668
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः ।
मतं कुमत्यर्णवपूर्णिमेन्दुम् ।
स श्रीतपागच्छमनच्छगच्छं
छायालयं शीलितुमुत्सुकोऽभूत् ॥ ३० ॥
निजं मतं, किं०, कुमत्यर्णवे कुबुद्धिजलधौ पार्वणेन्दु नट्टद्धिकर्तृत्वात्, ईदृग् लुङ्काख्यकुमतं, पुनः, नभोम्भोजनिभं गगनारविन्दतुल्यं परमार्थतोऽसत्मायं विभाव्य विचार्य, स मेघराजऋषिः, श्रीतपागच्छं अनच्छगच्छं बहलवृक्षम्, अत एव छायायाः शोभायाः, पक्षे अनातपश्छाया तदालयं, शीलितुं सेवितुम् उत्सुकोऽभूदिति ॥ ३० ॥
"
तं मेघराजर्षिमशेषसङ्घः
सिसेविषु वीक्ष्य गुरुक्रमाब्जम् ।
हर्षप्रकर्षोद्गतरोमराजि
६४३
रुत्कोरको भूरुहवद् बभूव ॥ ३१ ॥
अशेपसङ्घस्तं मेघराजर्षि, किं०, सिसेविषु, किं, गुरुक्रमाब्जं गुरुचरणकमलसेवास्पृहयालु, वीक्ष्य हर्षप्रकर्षेणोद्गतो रामराजिर्यस्य सः, भूरुहवद् वृक्षवत्, उत्कोरको जातकलिकइव, बभूवाऽभूत् ॥ ३१ ॥
मनोरमाडम्बरडिण्डिमाभान् महान् गताघे सकलेऽपि सङ्के । प्रकुर्वति श्रीसुततुल्यरूपो
भूपो मुनीनां तमधाद् यतित्वे ॥ ३२ ॥
गता निष्पापे, सकलेऽपि सङ्घ पत्तनवासिनि, महान् उत्सवान् किं०, मनोरमो रम्यो य आडम्बरो जिनशासनप्र
Page #669
--------------------------------------------------------------------------
________________
६४४
विजयप्रशस्त्याम् । भावनारूपो विचित्रवादित्रपवित्रगीतगानादिगयमहाडम्बरस्तस्य सूचने डिण्डिमाभान् पटहतुल्यान् , प्रकुर्वति सति, मुनीना भूपो गुरुः, कि०, श्रीसुततुल्यं कामसमानं रूपं यस्य सः, तं मेघराज लुम्पाकवेपधारिणं स्थानकत्रिकोपेतं, यतित्वेऽधात् तपागच्छसंवन्धिवेषप्रदानपूर्वकं दीक्षितवानिति ॥ ३२ ॥ सङ्घोऽन्यदा श्रीकुमरादिमस्य
गिरेः पुरस्य प्रतिपत्तिपूर्वम् । विज्ञेश्वरान् विज्ञपयाम्बभूव
विस्तारवद्वैनयिकैर्वचोभिः ॥ ३३ ॥ अन्यदा श्रीकुमरादिमस्य गिरेः कुमरगिरेः पुरस्य पत्तननगराभ्यर्णवर्तिनः सङ्घः प्रतिपत्तिपूर्व भक्तिपूर्वकं, विज्ञेश्वरान् गुरून् , वचोभिर्वचनैः, किं०, विस्तारवद्वैनयिकैर्विस्तारिविनयैः, विज्ञपयाम्बभूव विज्ञप्तिकामग्रे वक्ष्यमाणलक्षणां चकारेत्यर्थः॥३३॥
कृपालवः श्रीमहनीयपादाः
प्रसादमाधाय गतावसादाः। अस्मास्वनुग्राहिधियोऽस्मदीये __ पुरेऽथ वर्षास्थितिमातनुध्वम् ॥ ३४ ॥
अथ श्रीमहनीयपादाः पूज्यपादाः, किं०, कृपालवो दयालवः, पुनः, किं०, गतावसादा विगतविषादाः, प्रसादमाधाय विधाय, पुनः किं०, अस्मासु अस्मादृशेष्वपि जनेषु अनुग्राहिणी धीर्येषां ते अनुग्राहिधियः, अस्मदीये पुरे पूर्वोक्तनामके, वर्षास्थितिं चतुर्मासीम् , आतनुध्वं कुरुध्वम् ॥ ३४ ॥ लतामिवाऽऽमोदभृतां नितान्त
कान्तैः फलौघै.नघां घनौघाः ।
Page #670
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः। ६४५ चक्रुस्तरां स्फारफलां तदीय
विज्ञप्तिमाप्तावनिवासवास्ते ॥ ३५ ॥ घनौघा मेघप्रवाहा इव लता, ते आप्तावनिवासवा मुनिवरेन्द्राः, तदीयविज्ञप्तिं स्फारफलवती चक्रुस्तरामनुमेनिरे इति, लतां विज्ञप्तिं च विशेषणद्वारेण विशिनष्टि-किं०, आमोदेन गन्धेन हर्षेण च भृतां, पुनः किं०, नितान्तं नित्यं कान्तैः प्रियैः, फलौघैरनघां निर्मला मनोज्ञां वेति ॥ ३५॥
अथो तिथौ सर्वसुखातिथौ ते __ वारे जयश्रीप्रणयप्रचारे। .......... योगे जगद्रङ्गतरङ्गयोगे
क्षणे क्षणाढ्ये ललिते च लग्ने ॥ ३६ ॥ अथ पत्तननगरात् तिथौ, किंलक्षणे, सर्वसुखानामतिथौ, तिथिशब्दस्य पुंस्त्रीलिङ्गत्वात् पुंस्त्वविशेषणमदुष्टमाषाढशुद्धप्रतिपदि, पुनर्वारे किं०, जयश्रीणां जयलक्ष्मीणां प्रणयस्य प्रचारो यस्मिंस्तस्मिन् जयदायिनि गुरुवासर इति, पुनर्योगे किं०, जगद्रङ्गतरङ्गस्य योगः संबन्धो यस्मिंस्तस्मिन् गुरुपुष्यसंयोगजातेऽमृतसिद्धिनाम्नि योगे, पुनः, क्षणे पश्चदशलवप्रमाणे, किं०, क्षणाढ्ये उत्सवमये, च पुनः, लग्ने ललिते मनोज्ञग्रहस्थि. तिशालिनीति भावः ॥ ३६॥
अमन्दमोदोच्छलदच्छलाङ्गि
बर्हिप्रबर्हालयतुङ्गशृङ्गम् । तीर्थशतीर्थोत्कटपुण्डरीक
विक्रीडितभ्राजितमध्यभागम् ॥ ३७ ॥ श्रद्धालुसाधुस्फुटधर्मकर्म
Page #671
--------------------------------------------------------------------------
________________
६४६ विजयपशस्त्याम् ।
सन्मेखलाभूषितभूमिदेशम्। सन्नागरीयव्यवहारिहारि
व्यापारविस्तारिवसुप्रवेशम् ॥ ३८ ॥ सान्द्रद्रुमखर्दुमकाननाली
क्रीडत्सुदृक्वर्गसुदृङ्मनोज्ञम् । . आतोद्यपाथोदनिनादहृद्यं
सन्नन्दनं सुन्दरभद्रशालम् ॥ ३९ ॥ सुवर्णपूर्ण विबुधाधिगम्यं
वृषप्रकर्षोत्सवराजिरम्यम् । खःसगिरिं वा कुमराग्रगामि
गिरि पुरं श्रीगुरवोऽधिजग्मुः ॥ ४० ॥ वा इवार्थे, तेन इव यथा, स्वासगिरिं सुरगिरिमिव, श्रीगुरवः पूज्यास्ते, कुमराग्रगामिगिरि पुरं कुमरगिरिनगरं अधिनग्मुः, अथ कुमरगिरिं सुरगिरिं च समानधर्मत्वेन वर्णयति-अमन्देन मोदेन उद्यत्ममोदेन उच्छलन्तो ये अच्छलाङ्गिनो निर्मायपुरुषास्तल्लक्षणैर्वहिभिर्मयूरैः प्रवर्हाणि प्रकृष्टानि आलया एव तुङ्गशृङ्गाणि उच्चशिखराणि यत्र तं, पुनः कि०, तीर्थेशस्य अर्थादासनोपकारिश्रीमहावीरस्य यत्तीर्थ शासनं चतुर्विधसङ्घो वा तल्लक्षणो य उत्कटः प्रोद्धतः पुण्डरीकः शार्दूलस्तस्य विक्रीडितेन क्रीडया भ्राजितः शोभितो मध्यभागो यत्र तम् ॥ ३७ ॥ पुनः किं०, श्रद्धालुसाध्वोरगार्यनगारयोर्यः स्फुटो धर्मो द्विविधस्तस्य कर्माणि कृत्यानि क्रियारूपाणि तल्लक्षणे ये मेखले ताभ्यां भूषितो भूमिदेशो यत्र तं, पुनः किं०, सन् विद्यमानो यो नागरीयो भूरितरदेशपरदेशिनगरसत्को व्यवहारेण हारी न्यायोपपन्न
Page #672
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः ।
६४७
इति यो व्यापारस्तलक्षणो वसुप्रवेशो रत्नस्वर्णादिप्रवेशो यत्र तम् ॥ ३८ ॥ पुनः किं०, सान्द्रा वहलाश्छायादिभिर्ये द्रुमाआम्रराजादनमधूककर्कन्धूखर्जूरी केतकी निम्बजम्बूकदम्बतालफलिनीप्रभृतयस्त एव स्वर्द्धमाः फलफुल्लादिप्रदानेन आशापूरकत्वात् कल्पद्रुमास्तेषां या काननाली वनराजी तस्यां क्रीडन्त्यो याः सुदृशः स्त्रियस्ता एवं स्वर्गसुदृशोऽप्सरसस्ताभिर्मनोज्ञं रम्यम्, पुनः किं०, आतोद्यानि वाद्यानि तद्रूपा ये पयोदनिनादा वारिधरध्वनयस्तैर्हृद्यं पुनः किं०, सन्नन्दनं शोभननन्दनवनं, नगरपक्षे सतां साधूनां नन्दनं हर्षकारकं, पुनः, सुन्दरं भद्रशालाभिधानं मेरोर्द्वयोः पूर्वपश्चिमयोः पार्श्वयोः पृथक् पृथग् द्वाविंशतिसहस्रयोजनप्रमाणं भूतललीनं वनं यत्र तं, नगरपक्षे सुन्दरा भद्रा भद्रकारिणी शाला गृहादिशाला पौषधशाला वा यत्र तम् ॥ ३९ ॥ पुनः किं०, सुवर्णैः शोभनवणैर्ब्राह्मणादिभिः, पक्षे सुवर्णेन काञ्चनेन पूर्ण, पुनः किं०, विबुधैः पण्डितैः, पक्षे सुरैवाऽधिगम्यं सेवनीयं पुनः किं०, वृषप्रकर्षस्य सुकृतोत्कर्षस्य, पक्षे तृष्णः शक्रस्य प्रकर्षेण उत्सवराज्या रम्यम् एवमुक्तवर्णकसाम्यात् सुरगिरिमिव कुमरगिरिं श्रीगुरवोऽधिजग्मुः प्राप्ताः । इति पञ्चभिः कुलकव्याख्या 1180 11
पुरं सदामादपदं तदुच्चै
'वां विलासैस्तपगच्छभर्तुः ।
प्रबोधलक्ष्मीं बिभराम्बभूव
पयोजपाणेरिव पद्मखण्डम् ॥ ४१ ॥ पयोजपाणेः सूर्यस्येव, तपगच्छभर्तुः गुरोः, गवां विलासैः किरणविलासैर्वाणीविलासैश्च तत् पुरं पद्मखण्डमिव किं०, आमोदस्य हर्षस्य गन्धस्य च पदं स्थानम्, प्रबोधलक्ष्मीं स्मेर
Page #673
--------------------------------------------------------------------------
________________
६४८
विजयप्रशस्त्याम् ।
तासंपतिं प्रतिबोधसंपत्ति च, बिभराम्बभूव, अत्र खण्डशब्दस्य पुंनपुंसकत्वात् खण्डमिति प्रयोगः ॥ ४१ ॥ गुरुर्गरीयान् नगरस्य तस्य समुन्नतिं सत्कमलश्चकार ।
प्रवर्धमानैर्महसां समूहैः
पानीयराशेरिव शर्वरीशः ॥ ४२ ॥
गरीयान् गुरुः, शर्वरीश इव चन्द्र इव, किं०, सत्कमल: सती सत्या विद्यमाना वा कमला ज्ञानादिश्रीर्यस्य स इति, पक्षे सन् विद्यमानः कमलो लाञ्छनमृगो यत्र सः, अथवा " गजे शङ्खे हरौ छत्रे चन्द्रे पद्मे जिनालये । मौक्तिके विद्रुमे स्वर्णे या नित्या परमेश्वरी" ॥ १ ॥ इति श्रीजिनशासनप्रभावकश्री आमनामनृपप्रतिबोधक श्रीबप्पभट्टिमहाकविवचनात्, तथा
" चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ २ ॥
इति कालिदासोक्तकुमारसंभवप्रयोगात्, तथा “छत्रेन्दुपचादिषु रूढिमात्रं" इति श्रीजिनप्रभाचार्यवचनाच्च चन्द्रेऽपि श्रीसद्भावात् सती विद्यमाना कमला यत्र स इति गुरोश्चन्द्रस्य च तुल्यधर्मविशेषणता, तेन सत्कमलो गुरुस्तस्य नगरस्य पानीयराशेः समुद्रस्येव, प्रवर्धमानैः प्रसर्पद्भिः, महसामुत्सवानां तेजसां च समूहैः समुन्नतिं चकारेति काव्यार्थः ॥ ४२ ॥ धर्म्याणि कर्माणि च धार्मिकौघैः प्रपञ्चितानि प्रसभं बभूवुः ।
तत्र स्थितेऽस्मिन् सुगुरौ कुलीरे
Page #674
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः ।
तेजांसि सूराविव निर्जराणाम् ॥ ४३ ॥
अस्मिन् सुगुरौ तत्र कुमरगिरौ सति चतुर्मासीमासीने सति धर्षाणि कर्माणि सौकृतकृत्यानि, किं०, धार्मिकौधैः श्राद्धसार्थैः, प्रपञ्चितानि विस्तारितानि निर्मापितानीति यावद, प्रसभं बलात्कारेण हठेनेति अहमहमिकयेति, बभूवुर्जातानि दृष्टान्तोत्र - निर्जराणां सूरौ सुराचार्ये, कुलीरे कर्कटे, स्थिते सति, तेजांसि यथा जायन्ते, कर्कस्थो हि गुरुरुच्चत्वेन महावेजस्वीति ज्योतिर्विदां मतमिति ॥ ४३ ॥ सङ्घोऽनघः पत्तनपचनस्थस्तत्र स्थितं श्रीगुरुराजराजम् । ननाम नित्यं कृतनेत्रयुग्म
६४९
शैत्यं समागत्य सतत्त्वसत्यम् ॥ ४४ ॥
पुनः, तत्र स्थितं श्रीगुरुराजराजं सूरीन्द्रचन्द्रं, किं०, कृतनेत्रयुग्मशैत्यं विहितनयनयुगलाहार्द, पुनः किं०, सह तत्त्वसत्याभ्यां वर्तते यस्तं सतत्त्वसत्यं, पत्तनपत्तनस्थोऽण हिलपाटकवासी सङ्घतुर्विधोऽपि नित्यं समागत्य ननामानमत् ॥४४॥ ज्येष्ठस्थितिं तत्र समास्थितः श्रीतपाधिपोऽतिप्रकटप्रतापः । आसीदसह्यः परतीर्थिकानां
धाराधराणामिव मातरिश्वा ॥ ४५ ॥
"
नगरे ज्येष्ठस्थितिं वर्षास्थिति, समास्थितः सन् अतिप्रकटप्रतापः श्रीतपाधिपस्तपगच्छरा परतीर्थिकानामम्यपाक्षिकाणाम्, असह्यो वलवस्येनाऽसहन रति, आसीत : मातरिश्वा पवन इव, धाराधराणां मेघानामिवेति दृष्टान्तः ॥ ४५ ॥
૩
Page #675
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
एकाहलीलातुलितढिमास___ चतुष्टयं चारु निरन्तरायम् । निर्माय निर्मायतया ततोऽसौ
चचाल चारित्रिकुलावचूलः ॥ ४६ ॥. मासचतुष्टयं चतुर्मासकं, कि०, एकाहलीलातुलितद्धि एकस्य अहो वासरस्य लीलया तुलिता ऋद्धिर्यत्र तत् एकदिनकलितुल्यमिवेति, पुनः किं०, निरन्तरमायो लाभो यत्र तत् , अथवा निरन्तरायं निर्विघ्नमिति "विनंऽन्तरायः प्रत्यूहः" इति वचनात्, निर्मायं कृत्वा, असौ चारित्रिकुलावचूल: साधुसमूहध्वजझुम्बनकतुल्यः, निर्मायतया निष्कपटत्वेन, चचा'लाऽचलत् , शङ्खश्वरं प्रतीति शेषः ॥ ४६ ॥
तत्रत्यसङ्घः सह पत्तनाह्व
पुरीयसङ्घन गताघसङ्घः। तमन्वगात् सूरिशिरोऽवतंसं
दिनो दिनाधीशमिवाऽनुरागात् ॥ ४७ ॥ तत्रत्यः कुमरगिरीयः सङ्घः, पत्तनसङ्ग्रेन सह किं०, गताघसङ्घः निर्गतपातकोच्चयः, गतदुःखोच्चयो वा तं सूरिशिरोऽवतंसं भट्टारकमौलिशेखरम्, अन्वगात् पृष्ठेऽवजत् , दिनो वासरः, दिनाधीशं सूर्यमिवेति दृष्टान्तः ॥ ४७ ॥ क्रमादथ श्रीतपगच्छनाथः
शङ्खश्वर प्राप्य पुरं पुराणम् । ननाम निश्छद्म-सपद्मपार्श्व
पार्श्व जिनेन्द्रं वृजिनदुपार्श्वम् ॥ ४८ ॥ अथ श्रीतपगच्छनाथस्वाभ्यां द्वाभ्यां सङ्काभ्यां सह शङ्केश्वरं
Page #676
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः। पुरं प्राप्य गत्वा, पार्थ जिनेन्द्र, कि०, निश्छद्म निष्कपटम् , अथवा निश्छद्मति क्रियाविशेषणम् , पुनः पार्थ किं०, सह पद्मया लक्ष्म्या वर्तते यत्, अथवा पद्मया ण्यावत्या देव्या भगवतोऽधिष्ठायिकया सह वर्तते यत् तत् सपनं पार्थ समीपं यस्य तम् , अथवा सपद्मः सपद्मावतीकः पार्थः पार्थनामा यक्षो यत्र तं, पुनः किं०, जिनद्रौ पापयादपे पार्श्व पशुसमूहं तदुच्छेदकत्वात , शेष गतार्थम् ॥ १८ ॥ विघ्नौवविध्वंसनजागरूकं
प्रणम्य पार्थ सुगुरुः सशूकम् । सङ्घन साकं ववले कलावा
निवोज्ज्वलाभिः कलितः कलाभिः ॥ ४९ ॥ पार्श्वेशं शङ्केश्वराख्यं, किं०, विघ्नौघविध्वंसने जागरूकम् , अत एव पुनः सशूकं सदयं, सुगुरुः प्रणम्य सङ्घन साकं सह, चवले वलित इति; किं०, कलाभिः,किं०, उज्ज्वलाभिः,कलितोऽलङ्कृतः, क इवेत्याह-कलावानिव चन्द्र इवेति दृष्टान्तः॥४९॥ स्थानात् ततस्तस्य महाजनस्य
निर्बन्धतः साधुमहीमहेन्द्रैः । पद्माऽऽस्पदं पत्तनपत्तनं तै
रलङ्कृतं पद्ममिव हिरेफैः ॥ ५० ॥ ततः स्थानात् , शर्केश्वरात् तस्य महाजनस्य पत्तनसंवन्धिनः, निर्वन्धत आग्रहतः, तैः साधुमहीमहेन्द्र निराजैः, द्विरेफैभ्रमरैः, पद्ममिव, पद्माया लक्ष्म्या आस्पदं पत्तनातनम् , अलङ्कृतं विभूपितमिति, पत्तननगरे समागतमित्यर्थः ॥ ५० ॥
वाल्लभ्यभूमि वनत्रयस्य
Page #677
--------------------------------------------------------------------------
________________
६५२
विजयप्रशस्त्याम् । प्रशंसनीयो यशसां समूहैः ।। कियदिनी तत्र गुरुर्विचित्र___ महोत्सवोत्साहिजने स्थितः सः ॥ ५१ ॥
गुरुः कि०, भुवनत्रयस्य वाल्लभ्यभूमिवल्लभवास्पदं सौभाग्यस्य स्थानमिति यावत् , पुनः, यशसां समूहैः प्रशंसनीयो वर्णनीय इति, तत्रेति पत्तननगर, कि०, विचित्रा नानाविधा ये महोत्सवास्तेषु उत्साही औत्सुक्यभृत् जनो यत्र तस्मिन् विचित्रमहोत्सवोत्साहिजने, कियदिनीं कियत्कालं, स्थितः फाल्गुनचतुर्मासकं यावत् तत्र स्थितवानिति शेषः ॥ ५१ ।।
श्रीवीरविश्वेश्वरशासनश्री___ भुजापरीरम्भितकण्ठपीठः। अन्येचुरुद्यद्गुणवान् मुनीन्दुः . श्रीस्तम्भतीर्थ प्रति स प्रतस्थे ॥ ५२ ॥
श्रीवीरविश्वेश्वरस्य या शासनश्रीः तद्भुजया परीरम्भित: माश्लेषितं कण्ठपीठं यस्य सः, स मुनीन्दुर्मुनिचन्द्रः, किं०, उद्यद्गुणवान् उदितोदितगुरुगुणशालीति, स्तम्भतीर्थ नगर प्रति, अन्येयुरेकदा, प्रतस्थे वलितवानिति ॥ ५२ ॥
प्रबोधमुच्चैर्जनयन् जनाना
पद्माकराणामिव पद्मिनीशः । अवार्यशौण्डीर्यविलासगेहं
श्रीसूरिसिंहो व्यहरद् धरित्र्याम् ॥ ५३ ॥ पद्माकराणां कमलनिकराणां, पद्मिनीशः सूर्य इव, जनाना प्रबोधं जनयन् कुर्वन् , पुनः कि०, अवार्यशौण्डीर्यस्य विलास
N
Page #678
--------------------------------------------------------------------------
________________
६५३
एकोनविंशः सर्गः। गेहं श्रीमूरिसिंहः, स धरित्र्यां गूर्जरत्रायां, व्यहरद् विहार कृतवानिति ॥ ५३ ॥
अथाऽऽकरग्रामपुरादिपौर
परम्पराभिः प्रचुरप्रकारैः । अभ्यय॑मानः किल काञ्चनादि
पुष्पै शं लाभमुपार्जयंश्च ॥ ५४ ॥ अगण्यलावण्यवरेण्यपुण्य
नैपुण्यपुण्यप्रणयप्रतीतः । मयूखमालीव मयूखजालै
युगप्रधानातिशयैः परीतः ॥ ५५ ॥ मुक्ताफलौधैरिव पङ्कजाक्षी
वक्षःस्थली मां पदपांसुपूरैः । विभूषयन् भूललनाललाम - श्रीस्तम्भतीर्थ गुरुराविवेश ॥ ५६ ॥
अथ शुभे दिने पत्तननगरात् चाणसमाख्यग्रामे सातिशयमहामहिमामयश्रीभटेवाभिधानपार्श्वनाथयात्रां विधाय क्र. मेण आकरग्रामपुरादीनां पौरपरम्पराभिर्जनश्रेणीभिः, प्रचुरप्रकारैर्बहुभेदैः, काश्चनादिपुष्पैः, आदिशब्दाद् रजतादिग्रहस्तेन काश्चनरजतपुष्पाभरणनाणकादिभिर्भूरिभिः प्रकारैः, अभ्यय॑मानः पूज्यमानः, च पुनः, लाभं भृशमुपार्जयन् स्वीकुर्वन्निति ॥५४॥ पुनः किं, अगण्यं गणनातीतं यल्लावण्यं सद्गतिसद्भा. षासद्वीक्षणलक्षणं यदुक्तम्-"सद्मनसनिरीक्षणसज्जल्पमिति वदन्ति लावण्यम्" इति, तेनाऽगण्पलावण्यं बहुलवणिमा, पुनः, वरेण्यं वरिष्ठं यत् पुण्यनैपुण्यं धर्मदक्षत्वं, पुनः, पुण्यः पवित्रः
Page #679
--------------------------------------------------------------------------
________________
६५४ विजयप्रशस्त्याम् । प्रणयः सर्वजन्तुषु सौजन्यरूपस्तेन तैर्वा प्रतीतः प्रसिद्धः, पुनः, मयूखमाली सूर्य इव, मयूखजालैः किरणगणैः, तथा युगप्रधाः नानां श्रीवीरशासनवर्तिनां चतुरधिकद्विसहस्रीमितानां श्रीसुधर्मस्वाम्यादिश्रीदुष्पसहान्तानां सूरीणां येऽतिशया वर्तमानाऽऽगमादिज्ञानविज्ञानलाभोदयमुख्यास्तैः युगप्रधानातिशयैस्ततुल्यैः मूरिगुणैः, परीतो व्याप्त इति ॥ ५५ ॥ पुनर्गुरुः किं कुर्वनित्याह- मुक्ताफलानामोधैः सङ्घातैः, पङ्कजाक्षी पद्मनेत्रा तस्या वक्षःस्थली हृदयस्थलीमिव, पदपांसुपूरैश्चरणरेणुनिचयः, क्ष्मां भुवं, विभूपयन् क्रमेण राजनगरादिस्थानानि पावयन् , श्रीस्तम्भतीर्थ किं०, भूललनायाः पृथ्वीपुरन्ध्या ललाम तिलकं तदलङ्कारभूतत्वात् , आविवेश प्रविष्ट इति ।। इति त्रयाणां व्याख्या ॥ ५६ ॥ पुरं पृथिव्यां प्रथितं तदा तद्
गुरुश्च विश्वत्रयविस्तृतश्रीः । तीर्थद्वयस्येत्यजनिष्ट शिष्टः
सङ्गः सरङ्गः कृतभीतिभङ्गः ॥ ५७ ॥ तदा तत् पुरं स्तम्भतीर्थनगरं श्रीस्तम्भनपार्श्वनाथश्री: चिन्तामणिपार्श्वनाथादिचारु चैत्यमण्डितत्वेन स्थावरतीर्थभूनं नानाऽपि तीर्थमिति एकं पुरं तीर्थत्वेन प्रथितम् , द्वितीयश्च पुनगुरुः, किं०, विश्वत्रये विस्तुता श्रीर्यस्येति जङ्गमं तीर्थमिति, तीर्थद्वयस्य स्थावरजङ्गमरूप त्य, सङ्गः सङ्गमः, किं०, शिष्ट उत्तमः, पुनः, सरङ्गः सहर्पः, पुनः, कृतो भीतेर्भयस्य भङ्गो येन सः, अजनिष्ट जात इति ॥ ५७ ॥ प्रकाशगुर्वी गुरवस्तमोना
दिनस्य लक्ष्मीमिव ते वितेनुः ।
Page #680
--------------------------------------------------------------------------
________________
एकोनविंशः सर्गः। महामहोभिर्भुवनाभिरामां - तत्र प्रतिष्ठां प्रकटप्रतिष्ठाम् ॥ ५८ ॥
गुरवः, किं०, तमोघ्नाः पापापहाः, पक्षे "तमोघ्नो वह्निसूर्येन्दुबुद्धकेशवशम्भुपु" इत्यनेकार्थत्वादत्र सूर्याधिकारत्वाद् गुरवस्तमोनास्ते गुरुभानवः, तत्र स्तम्भतीर्थे, दिनस्य लक्ष्मीमिव वासरश्रियमिव, कीदृशी, प्रकाशेन उद्योतेन एकत्र आलोकेन, अन्यत्र श्रीजिनशासनोद्योतेन, गुवीं गरीयसी, पुनः, महोभिर्महोत्सवैः महातेजोभिश्व, भुवनाभिरामां प्रतिष्ठां, किं०, प्रकटा प्रतिष्ठा गौरवं यस्यां तां, वितेनुश्चक्रुरिति ॥ ५८ ॥ वित्तैश्च वित्तेशसमः समान
स्तत्रत्यसङ्घोऽपि समं ववर्ष । क्षेत्रेषु सप्तस्वपि सूरिसूर
वचःप्रणुन्नोऽम्बुमुचामिवौघः ॥ ५९ ॥ च पुनः, तत्रत्यसङ्घः किं०, वित्तर्धनैः, वित्तेशसमः धनदतुल्यः, अत एव समानः साभिमानः सन्, अथवा समानः सपूजो लोकैर्धनवान् पूज्यत इति, पुनः किं०, सूरिसूरस्य भट्टारकभास्करस्य वचःपणुन्नोऽम्बुमुचां मेघानामोघः समूह इव सप्तस्वपि क्षेत्रेषु जिनभवनजिनबिम्बाऽऽगेमादिषु, अपिशब्दादन्येष्वपि दीनानाथसाधर्मिकादिष्वपि, समं युगपत् , ववर्षेति धनोत्सर्जनमकरोदिति ।। ५९ ॥ . तस्याग्रहात् तत्र पवित्रतीर्थे
श्रीस्तम्भतीर्थे नगरे गणेन्द्रः। स्थितिं वितेने बृहती वपुष्मा
निवैष धर्मः कृतसर्वशर्मा ॥ ६ ॥
Page #681
--------------------------------------------------------------------------
________________
६५६
विजयप्रशस्त्याम् । तत्र श्रीस्तम्भतीर्थे नगरे, किं०, पवित्र तीर्थ जैनचैत्यादिरूपम् , अथवा तीर्यते संसारसागरोऽनेनति तीर्थ चतुर्विधसङ्घरूपं यत्र तत्र, तस्य सङ्घस्य, आग्रहाद् गणेन्द्रो गच्छराट्, कि०, कृतसर्वशर्मा विहितसकलसौख्यः, अत एव इवोत्प्रेक्ष्यतेवपुष्मान् मूर्तिमान् , धर्म एष इति बृहती स्थितिं चतुर्मासी, वितेनेऽकरोदिति ॥ ६॥ तत्पारणे पुनरपि प्रथिता प्रतिष्ठा
चक्रे तपाधिपतिना बहुना महेन । श्रीधाम्न्यकब्बरपुरेऽथ पुरे गरिष्ठे ..
ज्येष्ठा स्थितिश्च रुचिरोत्सवकारिसङ्घ ॥६१॥ तत्पारणे तस्य चतुर्मासकस्य पारणके, पुनरपि तत्रैव तीर्थे तपाधिपतिना तपागच्छनायकेन, बहुना भूयसा, महेनोत्सवेन, प्रथिता प्रसिद्धा, धनव्ययादिनेति शेषः, प्रतिष्ठा चक्रे कृतेति, अथ प्रतिष्ठाकरणानन्तरं, ज्येष्ठा स्थितिश्च पुनरकबरपुरे स्तम्भतीर्थसमीपस्थायिनि शाखापुरे, किं०, श्रीधान्नि लक्ष्मीस्थाने, पुनः, गरिष्ठे द्रव्यभावाभ्यां गरीयसि, पुनः किं०, रुचिरोत्सवकारी सङ्घःश्राद्धसको यत्र तत्र, चक्र इति योज्यम् ६१ स्थित्वा तत्र कियन्त्यहानि विलसच्छौण्डीर्यसंपत्तिभि
जिष्णुर्भुवनातिशायिसततश्रीदानसन्तानकः। मार्गदूनिव वादिनो घनमदान निर्मूलमुन्मूलयन् गन्धारं नगरं जगाम भगवान् भट्टारकानेकपः ॥६२॥ __तत्र अकबरपुरे चतुर्मासी विधाय कियन्ति अहानि दिनानि, स्थित्वा पारणेऽपीति शेषः, स भगवान् पूज्यः, किं०, भट्टारकेषु अनेकपः कुञ्जर इति, किंभूत इति विशेषणत्रयेण कुञ्जरसाधम्र्य सूरे सूचयति-विलसद् दीप्यमानं यत् शौ
Page #682
--------------------------------------------------------------------------
________________
चित्रः सर्गः ।
६५७
,
डी पराक्रमस्तत्संपत्तिभिर्भ्राजिष्णुर्भासनशीलः पुनः किं०, सुचनातिशायि जगदतिशायि सततं नित्यं श्रियोपेतं यद् दानं मजमदलक्षणं तस्य सन्तानं सन्ततिर्यस्मात् स दानसन्तानः के सन्तानक इति गुरुः किं०, भुवनातिशायिसततश्रीणां दाने प्रदाने सन्तानकः कल्पद्रुम इति, पुनः, धनमदान् बह्वहङ्कारान् बादिनो मार्ग निव वर्त्मस्थतरूनिव, निर्मूलमुन्मूलयनिति गजोपर्मा विभ्रत् स भट्टारकानेकपः, गन्धारं नाम नगरं बन्दिरमिति प्रतीतं, चतुर्मासककरणाय जगाम प्राप्तवान् । इदं शार्दूलविक्रीडितं दृतम्, समग्रः सर्मस्तूपजात्येति ज्ञेयम् ।। ६२ ।।
इतीति विश्वं विशदम् ।
इति सकलसुविहितसभासार्वभौम समानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणि सुशिष्य मुख्य पण्डितपुरन्दरमख्यपण्डितश्रीविद्या विजयगणिविनेयवाचक श्रीगुणविजमणिविरचितायां श्रीविजयमदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायामेकोनविंशः सर्गोऽर्थतः समर्थितः ॥
-108
अर्हम्
अथ विंशः सर्गः ।
अथ विंशः सर्गः समारभ्यतेअथ तत्र सृजंश्चार्वी चतुर्मासीमसीममुत् । पद्मोल्लासं गुरुगभिर्दिवाकर इवाऽकरत् ॥ १ ॥
૪
Page #683
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
अथाऽधुना, तत्र बन्दिरे गन्धारनानि, गुरुः किं०, असीममुद् निरर्गलप्रमोद इति, चावीं रुचिरां, चतुर्मासीं सृजन् कुर्वन्, दिवाकर इव गोभिः किरणैर्वाणीभिश्च पद्मोल्लासं पद्मायाउल्लासं, पक्षे कमलानामुल्लासम् अकरत् कुरुते स्मेत्यन्वयगमनिका ॥ १ ॥
-६५८
"
कामं कुवलयोल्लासरचनाद् वचनाद् गुरोः । महैः साऽभूत् पुरी पूर्णा पूर्णेन्दोरिव पूर्णिमा ॥ २ ॥
गुरोर्वचनात् पूर्णेन्दोः पूर्णचन्द्रादिव, किं०, कामं प्रकामं, कुवलयोल्लासस्य चन्द्रविकाशिनीलोत्पलोल्लासस्य, पक्षे भूवलयोल्लासस्य रचनं निर्मापणं यस्मात् तस्मात् कुवलयोल्लासरचनात् सा पुरी गन्धारनानी नगरी, पूर्णिमा राकेव, महस्तेजोभिरुत्सवैश्व, पूर्णाऽभूदिति ॥ २ ॥
नानामहोत्सवोत्साहमयं मासचतुष्टयम् । सूरीशः पूरयामास वासरं भानुमानिव ॥ ३ ॥
तत्र मासचतुष्टयं चतुर्मासीं, किं०, नानामहोत्सवैर्विचित्रोत्सर्वैरुत्साहैश्व, लोकानामिति गम्यम्, तन्मयं तत्प्रधानम्, अत्र प्राधान्ये यद्, सूरीशः श्रीविजय सेनगुरुः, भानुमान् सूर्यः, वासरमिव पूरयामासेति ॥ ३ ॥
प्रान्ते तत्र तपागच्छश्रेष्ठो ज्येष्ठस्थितेरथ । चक्रे प्रतिष्ठामुत्कृष्टमहिमां बहुभिर्महैः ॥ ४ ॥
अथ तत्र तपागच्छश्रेष्ठो गुरुः, ज्येष्ठस्थितेः प्रान्ते चतुर्मासकपारणके, बहुभिर्घनैः, महैः, प्रतिष्ठां किं०, उत्कृष्टमहिमाम्, आकारान्तो महिमाशब्दोऽस्तीति, चक्रे कृतवानिति ॥ ४ ॥
इतश्च वसुधावध्वा भालभालविभूषणम् ।
Page #684
--------------------------------------------------------------------------
________________
विंशः सर्गः।
६५९
अस्ति सूर्यपुरं नाम बन्दिरं सुन्दरेन्दिरम् ॥ ५ ॥
इतः संबन्धान्तरे, चपुनः, सूर्यपुरं नाम सूरतिवन्दिरं, किं०, सुन्दरेन्दिरं रम्यश्रि, अस्ति; किं०, वसुधावध्वा भूभामिन्याः, भाले भालविभूषणं तिलकतुल्यमिति भावः ॥ ५॥ यदभ्यर्णमभिव्याप्य सवन्ती तपनात्मजा। संव्यानमिव नगरश्रियः शोभा शुभां दधौ ॥ ६ ॥ .
यस्य सूरतिबन्दिरस्य अभ्यर्ण समीपम् , अभिव्याप्य विध्वम् व्याप्तिविषयीकृत्य, तपनात्मजा तापीनाम्नी, सवन्ती नदी, शुभां शोभा दधौ धरति स्मेति, इवोत्प्रेक्ष्यते-नगरस्य श्रियो लक्ष्म्याः , संव्यानं परिधानाम्बरमिवेत्यर्थः ॥ ६ ॥
अथानघस्य सङ्घस्याऽऽग्रहेणानुग्रहप्रभुः। गन्धारबन्दिरात् तत्र नगरे गुरुरीयिवान् ॥ ७ ॥
अथ गुरुः किं०, अनुग्रहः कृपारूपस्तत्र प्रभुः समर्थः खामी वा, तत्र नगरे मूर्यपुरनगरे, अनघस्य निर्दोषस्य, सङ्घस्य आग्रहेण गन्धारवन्दिराद् भृगुकच्छवन्दिरलोकान् रानेरवन्दिरलोकांश्च सन्तोष्य तापीतटिनी नावोत्तीर्य ईयिवान् प्राप्त इति।।७।।
गुरोरागमनोदन्तः प्रासरत् सकले पुरे । तादृशामागता वार्ता यतः खैरविहारिणी ॥८॥
गुरोः सूरेः, आगमनस्य उदन्तः समाचारः, सकले पुरे पासरद् विस्तीर्णवान् , यतः कारणात् , तादृशां पुरुषोत्तमानां वार्ता आगता सती, खैरविहारिणी सर्वत्र गामिनी भवतीत्यर्थः ॥८॥ सङ्घोऽनघोऽथ तत्रत्यो भूरिभूषणभूषितः। प्रत्युजगाम परमगुरुं गुरुमिवाऽमरः ॥ ९ ॥ अथ तत्रत्योऽनयो मनोज्ञः, स्फारालङ्कारनेपथ्यादिमत्त्वा
Page #685
--------------------------------------------------------------------------
________________
६६०
विजयप्रशस्त्याम् ।
व , अथवा अनघो निर्मलो द्विधापि मलरहितत्वात , सङ्घः श्राद्धश्राद्धीरूपः, पुनः किं०, भूरिभूपणैः स्वर्णाभरणैर्वाभरणे भूपितः सन् , परमगुरुं श्रीगच्छेश्वरम् , अमरो देवः, गुरुं बृहस्पतिमिव, अमर इत्यत्र जातित्वादेकवचनम् , प्रत्युज्जगाम सम्मुखमागत इति ॥ ९॥ प्रध्वस्तकुमतिध्वान्तप्रसरे सूरिभास्करे। . उदिते मुदितः सङ्घलोकः कोक इवाऽभवत् ॥ १० ॥
सरिभास्करे किं०, प्रध्वस्तकुमतिध्वान्तप्रसरे परास्तकुपाक्षिकतमोभरे, तत्र उदिते सति, सङ्घलोकस्तद्वासीति, कोक इव चक्रवाक इव, मुदितो हर्षितोऽभूदिति ॥ १०॥ धूःकोटिमिव धौरेयः सदाचरणचञ्चुरः । दधानो हीरपदवीं तत्र तस्थावथो गुरुः ॥ ११ ॥ ___ अथो गुरुधौरेय इव वृषभवत् , कि०, सदाचरणेन शोभनानुष्ठानक्रियारूपेण, पक्षे सदा सर्वदा चरणैः क्रमणैः चञ्चुरो मनोहरः, उणादिशब्दोऽयमिति, धुरायाः कोटिमग्रभागमिव धूःकोटिं धुर्वीमुखं, तथा हीरपदवीं श्रीहीरविजयसूरेः पदवीं, पट्टलक्षणां पद्धति वा, दधानः सन् , तत्र बन्दिरे, तस्थौ स्थित इति, चतुमासीमिति शेषः ॥११॥ दानेन विक्रमार्कार्कनन्दनाद्यनुकारिणः । लसल्लीलेन शीलेन सुदर्शनसुदर्शनाः ॥ १२ ॥ स्फुरत्तमतपोभावभावभावादिभिर्गुणैः। भृशं रोचिष्णवश्वारुरनै रत्नाकरा इव ॥ १३ ॥ कलहंसा इव क्षीरनीरयोः पुण्यपापयोः।। पृथग् विवेकं कुर्वाणा विवेकिश्रावका अथ ॥१४॥
Page #686
--------------------------------------------------------------------------
________________
विंशः सर्गः। प्रणुन्नाः पूज्यवचनैः संपत्साफल्यमिच्छवः ।
कारयाञ्चक्रुरहित्प्रतिष्ठाया महामहम् ॥ १५ ॥ ___ अथ तत्रत्याः सूर्यपुरीया विवकिश्रावकाः,किं०,दानेन विक्रमार्को विक्रमादित्यनृपः,अर्कनन्दनः कर्णराट् कौन्तेयो महादातेति प्रतीत इत्यादीनामनुकारिणस्तुल्या इति, पुनः, लसल्लीलेन स्फुरत्कोलिना, शीलेन ब्रह्मणा अब्रह्मत्यागरूपेण, सुदर्शनश्रेष्ठिन इव, सुदर्शनं शोभनं दर्शनं येषां त इति ॥१२॥ पुनः किं०, स्फुरत्तमं चारुतरं यत् तपो द्वादशधा तस्य यो भावोऽभिप्रायस्तपोरुचिरिति, पुनर्भावस्य भावनाख्यस्य गुणस्य भावो लीला, अथवा भावः सत्ता इत्यादिभिर्गुणैर्दानशीलतपोभावैः, आदिशब्दाद् विवेकविनयचातुर्यगाम्भीर्यधैर्यमाधुर्याऽऽर्जवमार्दवादिभिः,भृशमतिशयेन, रोचिष्णवः राजमानाः,कैरिव क इत्याह-रत्नाकराः समुद्रा रत्नखानयो वा, रत्नैर्यथा मणिमुक्ताफलशुक्तिशङ्खप्रमुखैरिति दृष्टान्तः॥१३॥ पुनः किं०, कलहंसा राजहंसा इव,क्षीरनीरयोर्दुग्धपानीययोर्यथा, तथा पुण्यपापयोः सुकृतदुष्कृतयोः, पृथक् पृथग् विवेकं विभाग, कुर्वाणाः, अत एव विवेकिश्रावका इति पदं सार्थ न पुनरनर्थकमिति ॥१४॥ अथ ते श्रावकाः पूज्यवचनैः प्रणुन्नाः प्रेरिताः सन्तः, संपत्साफल्यं लक्ष्मीसफलीकारम् ; इच्छवोऽभिलाषिण इति, अर्हाः पूजनीया येऽर्हन्तस्तत्प्रतिष्ठाया जिनप्रतिमास्थापनायाः, महामहं महोत्सवं, कारयामासुरिति ॥ इति चतुर्णा व्याख्या ॥१५॥
अथ श्रीस्फूर्तिसंपूर्ती मुहूर्ते बहुभिर्महैः । मुनिनाथो जगन्नाथप्रतिमाः प्रत्यतिष्ठिपत् ॥१६॥ . अथ मुहूर्ते किं०, श्रीस्फूर्तिसंपूर्ती शोभासमुन्नतिसंपूरके, मुनिनाथो गुरुः, जगन्नाथानां जिनानां प्रतिमाः, प्रत्यतिष्ठिपत् स्थापयामास ॥१६॥
Page #687
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
अत्याग्रहग्रहात् तत्र सङ्घस्याऽनघचेतसः । आसामास सहर्षासु वर्षासु स महर्षिराट् ॥ १७ ॥
६६२
तत्र नगरे, प्रतिष्ठानन्तरमनघचेतसो निष्पापमनसः, सङ्घस्प ं अत्याग्रहग्रहात् बहुहठग्रहणात्, वर्षासु किं०, सहर्षासु क्षेमेण वाहनाद्यागमात् सानन्दासु, स महर्षिराड् गुरुः, आसामास चंतुर्मास स्थितवानित्यर्थः ॥ १७ ॥
भाग्येनेवायमस्माकं धर्मोऽध्यक्षत्वमागतः । मूर्तिमाली समभ्यागात् किंवा वृक्षः सुपर्वणाम् ॥ १८ ॥ दक्षिणो दक्षिणावर्त वारिजः किमु चोर्जितः । किंवा दारिद्र्यवह्नयम्भः कुम्भः पीयूषपायिनाम् ॥ १९॥ नयनानन्दनं सूरिं सुधाञ्जनसमं समम् । एवं व्यचिन्तयच्चित्ते वीक्षमाणो महाजनः ॥२०॥ (त्रिभिर्विशेषकम् )
,
अथ त्रयाणां व्याख्या - मूर्ति श्रीविजयसेनमूरिं, किं०, नयनानन्दनं नेत्राहादकं पुनः किं०, सुधाञ्जनसमममृताञ्जनतुल्यं, पुनः, समं सरलं, वीक्षमाणः पश्यन्, महाजनो नागरलोकः, चित्त एवं व्यचिन्तयत् एवमिति किं १ तदेव लो कद्वयेनाह - भाग्येन इवोत्प्रेक्ष्यते - अस्माकं पुण्येन, अयं गुरुरूपधारी साक्षाद् धर्म एव, अध्यक्षत्वं प्रत्यक्षताम् आगतः; वाऽथवा, किं सुपर्वणां वृक्षः कल्पद्रुमः, मूर्तिमाली मूर्त इव, समभ्यागात् ॥ १८ ॥ च पुनः किमु इति वितर्के, उत्प्रेक्षार्थे वा, अथवा अयं दक्षिणावर्ती वारिजः शङ्खः किं०, दक्षिण उदारः, पुनः, उर्जितो दीप्त इति, वाऽथवा, किं०, पीयूषपायिनां देवानां कुम्भः कामकुम्भ इति किं०, दारिद्र्यवही दौर्गत्यानौ अम्भः पानीयं तदुपशामकत्वादिति ।। १९ ।। विंशः श्लोकस्तु प्रागे
Page #688
--------------------------------------------------------------------------
________________
विंशः सर्गः।
६६३ वाऽन्वयविषयीकृत इति पुनर्नोक्त इति दिक् ॥ इति त्रयाणां व्याख्या ॥२०॥
श्रीतपागच्छनाथोऽथो पाथोवाहप्रवाहवत् । सल्लोकस्तोककानेषोऽतोषयद् वचनामृतैः ॥ २१ ॥
पाथोवाहो मेघस्तत्प्रवाहवत् , एष श्रीतपागच्छनाथः, अथ वचनामृतैर्वापानीयैः, सल्लोका एव ये स्तोककाश्चातकास्तान् , अतोषयत् तृतोषेति गमनिका ॥ २१ ॥
अथ प्रान्ते चतुर्मास्या अस्याः सौभाग्यभाग्यभूः । विजहार महीहारः पुरग्रामाकुलामिलाम् ॥ २२ ॥ ___ अथाऽस्याश्चतुर्मास्याः प्रान्ते कार्तिकचतुर्मासकपारणके, सौभाग्यभाग्ययोर्जगद्वल्लभत्वभागधेययोर्भूः स्थानं, पुनः, मह्याः पृथिव्या हारोऽलङ्कृतिभूतः, यतो “वसुधाभरणं पुरुषः" इत्याघुक्तत्वात् , इलां पृथिवीं, किं०, पुरग्रामैराकुलां तब्याप्तत्वादिति, विजहारेति गुरुस्ततो बन्दिराद् व्यहार्षीदिति ॥ २२ ॥
क्रमेण क्रमविच्चक्रचक्रभृद् विहरन् गुरुः।। स्तम्भतीर्थ पुरं प्रापद् मानसं मानसौकवत् ॥२३॥
गुरुः किं०, क्रमविदां मार्गविदां चक्रे समूहे चक्रभृत् सार्वभौमः, क्रमेण विहरन् स्तम्भतीर्थ पुरं प्रापत् , मानसौक इव हंस इव, मानसं सरोवरमिति, ओकशब्दोऽकारान्तोऽप्यस्तीति ध्येयम् ॥ २३ ॥
दूरीकृताघसङ्घन सङ्घनाऽनघचेतसा । महीयांसो महास्तत्र सूत्रयाञ्चकिरे तदा ॥ २४ ॥
सङ्ग्रेन तीर्थीयश्राद्धसङ्ग्रेन, किं०, दूरीकृता अघस्य दुःखस्य सङ्गाः समूहा येन तेन, पुनः किं०, अनघचेतसा निष्पापमनसा,
Page #689
--------------------------------------------------------------------------
________________
६६४
विजयपत्रस्त्याम् । .. तेनात्र नार्थस्य पुनरुक्ततादोषः, यच्छ्रीहेमाचार्यधुर्यः “अर्ष दुःखे व्यसनैनसोः" इति, तत्र नगरे, तदा गुर्वागमे, महीयांसो महा महोत्सवाः, सूत्रयाश्चक्रिरे कृता इति ॥ २४ ॥. स्थिला कियच्च तत्रोच्चैरर्चितो नागरैनरैः । द्वीपसङ्घाग्रहात् तत्र गुरुर्गन्तुमना अभूत् ॥ २५ ॥
च पुनः, तत्र स्तम्भतीर्थे, कियत्कालं स्थित्वा नागरैर्नगरलोकैः, अर्चितः सन् , अन्यदा द्वीपबन्दिरस्थसहस्याऽऽग्रहाद तत्र सुराष्ट्रदेशे, गुरुः गन्तुमना अभूद् द्वीपबन्दिरे गन्तुकामोऽजनीत्यर्थः ॥ २५ ॥
श्रीमद्विजयदेवेनाऽनूचानेन समन्वितः। व्यहाषींदृषिमुख्योऽथ कलभेनेव कुञ्जरः ॥ २६ ॥ .
अथ स ऋषिमुख्यो गुरुः, श्रीमद्विजयदेवेन मूरिणा स्वपट्टधारिणा, समन्वितः सहित इति । दृष्टान्तमाह-कुञ्जरो गजेन्द्रः पष्टिहायनिकः, कलभेन गजबालकेनेवेति, व्यहार्षीत् ॥२६॥ क्रमाच्छीविमलं शैलं पूर्वशैलमिवागते ।
सूरिसूरे सङ्घलोकाः कोका इव मुदं दधुः ॥२७॥ . क्रमादिति ततश्चलनानन्तरं कियद्भिर्दिनैः श्रीविमलं बैलं. श्रीशत्रुञ्जयं महातीर्थ, पूर्वशैलं पूर्वाचलमिव, मरिसूरे गच्छेनस्र्ये तस्मिन् , आगते सति, सङ्घलोकाः स्तम्भतीर्थराजनगरपत्तननचीननगरद्वीपबन्दिरादिसजनाः कोकाश्चक्रवाका इव, मुदं हर्ष, दधुर्धरन्ति स्मेति ॥ २७ ॥ अथ शत्रुञ्जये यात्रां कृत्वा स्थित्वा कियहिनीम् । अनेकसङ्घलोकानां पूरयित्वा मनोरथान् ॥ २८ ॥ श्रीपूज्योपासनप्रहमप्यनूचानचक्रिणम् ।
Page #690
--------------------------------------------------------------------------
________________
विंशः सर्गः ।
६६५
गुर्जरत्राविहारांयाऽऽदिश्य सङ्घघनाऽऽग्रहात् ॥ २९ ॥ द्वीपबन्दिरसङ्गेन सार्धमद्वैतसंपदा ।
प्रभुः प्रत्युन्नतद्रङ्गं प्रतस्थे सुस्थिताऽऽशयः ॥ ३० ॥
अथ चैत्र्यां पूर्णिमायां श्रीशत्रुञ्जये श्रीऋषभदेवमुख्यशृङ्गे द्वितीये शृङ्गे च श्रीमरुदेवाङ्गिते श्री अजितशान्तिस्तोत्रनिष्पत्तिभूमौ श्रीशान्तिनाथश्री अद्भुतादिनाथप्रासादाभिरामे, यात्रां कृत्वा, पुनः कियद्दिनीं स्थित्वा, अनेकसङ्घलोकानां मनोरथान् पूरयित्वेति ॥ २८ ॥ अनूचानचक्रवर्तिनं, किं०, श्री पूज्योपासने महं परायणमपि श्रीविजयदेवसूरिं सङ्घस्य गुर्जर देशसत्कस्य घनाऽऽग्रहात्, गूर्जरत्राविहाराय आदिश्य आदेशविषयीकृत्येति ॥ २९ ॥ स्वयं किं कृतवानित्याह- अद्वैत संपद । ऽद्वितीय श्रीकेण, द्वीपवन्दिरसङ्खेन सार्धे प्रभुः उन्नतमूनाख्यं द्रङ्गं शत्रुञ्जयात् पञ्चाशत्कोशान्तरालस्थितं प्रति, प्रतस्थे चलित इति, किं०, सुस्थितः सम्यग् मर्यादया मनोवचः कायानावाघया स्थित आशयोऽभिप्रायो यस्य स इति ।। इति त्रयाणां व्याख्या ॥ ३० ॥
गौर्वागमनिकी वार्ता पृथ्व्यां प्रासीसरत् तदा । गन्धधूलीभवो गन्धो रोद्धुं किं शक्यते कचित् ? ॥३१॥
तदा तत्र देशे सौराष्ट्रे पृथ्व्यां गौर्वागमनिकी गुरोः आगमनाद्भवा गौर्वागमनिकी, वार्ता प्रासीसरत प्रसारं प्रापति । तत्कारणमेवाह- किं गन्धधूलीभवः कस्तूरीसंभवः, गन्धः कचिद् रोद्धुं केनापि शक्यते ? अपि तु नेति ।
यदाख्यान्ति स्म गुरवः"वार्ता च कौतुकवती विशदा च विद्या लोकोत्तरः परिमलश्च कुरङ्गनाभेः । तैलस्य विन्दुरिव वारिणि दुर्निवार
८५
Page #691
--------------------------------------------------------------------------
________________
६६६ विजयाशस्त्याम् ।
मेतत त्रयं प्रसरतीति किमत्र चित्रम् १" ॥१॥ पुनरपरेऽप्यूचिरे"कर्पूर ! रे ! परिमलस्तव मदितस्य
श्रीखण्ड ! रे ! परिमलस्तव घर्पितस्य । र! काकतुण्ड ! तव वह्निगतस्य गन्धः
कस्तूरिका स्वयमबोधि वुधैरदृष्टा" ॥२॥ इत्याद्युक्तत्वात् कस्तूरिकागन्धवद् गुर्वागमनोदन्तोऽपि विस्तृत इति भावः ॥ ३१ ॥ . अथाऽऽयातान् गुरूज्ञाला श्राद्धाः श्रीद्वीपवासिनः।
अभ्युत्तस्थुर्घनोत्कण्ठा नीलकण्ठा घनानिव ॥ ३२ ॥ __ अथ क्रमेण गुरून् आयातान् समीपप्राप्तान , ज्ञात्वा द्वीपवासिनः श्राद्धाः द्वीपवन्दिरसङ्घजनाः, किं०, घना बही उ- . त्कण्ठा दुर्लभगुरुदर्शनविपयिणी स्पृहा येषां ते घनोत्कण्ठाः, धनान् मेघान् , नीलकण्ठाः केकिन इव, अभ्युत्तस्थुः संमुखागमनसामग्रीरचनविषयेऽत्यौत्सुक्यभाजोऽभूवनिति तत्त्वम् ॥३२॥ गुरुर्जगद्गुरुस्तूपं त्रिः परीय वरीयसीम् । पादुकायुगली नवा द्रङ्गमुन्नतमाविशत् ॥ ३३ ॥ . अथ जगद्गुरोः श्रीहीरसूरेः, स्तूपं त्रिरिति त्रीन वारान्, परीय प्रदक्षिणीकृत्य, तत्रया वरीयसीं वरिष्ठां, पादुकायुगली गुरुपादद्वयीं, नत्या, उन्नतं द्रङ्ग द्वीपात् पञ्चक्रोश्या अर्वाग्वर्तिनम् , आविशत् प्रविष्ट इति ॥ ३३ ॥
अथास्ति द्वीपवास्तव्यो मेघनामा परीक्षकः । समस्तवणिजां मुख्यस्ताराणामिव चन्द्रमाः॥ ३४ ॥ दीपबन्दिरवासी परीक्षकशेणिमुख्यो मेघनामा व्यवहारी
Page #692
--------------------------------------------------------------------------
________________
विंशः सर्गः ।
६६७
सत्र समस्तवणिजां मुख्यचन्द्रमा इव यथा ताराणामस्तीति गमनिका ॥ ३४ ॥
पद्मनाभस्य पद्मेव भाग्य सौभाग्य आजिनी | तस्यास्ति लाडकीनाम्नी चाव चञ्चललोचना ॥ ३५॥
पद्मनाभस्य विष्णोः, यथा पद्मा श्रीः, किं०, भाग्यं सौ-भाग्यं च भजतीत्येवंशीला, तथा तस्य मेघपरीक्षकस्य, चार्वी मनोज्ञा, चञ्चललोचना स्त्री, लाडकीनाम्नी साऽपि भाग्यसौभाग्यभाजिनी यतो दर्शनादेव यवनभूपानामपि मान्येति शेषः ॥ ३५ ॥
ताभ्यां कारयितुं दृब्धामथ प्रथितविस्तराम् । प्रतिष्ठामुन्नतद्र विदधे साधुसिन्धुरः || ३६ ॥
-
अथ ताभ्यां दम्पतिभ्याम्, उन्नतद्रने समागत्य समस्तद्वीपसङ्गेन सह कारयितुं हन्यां मारयां प्रतिष्ठां, किं०, प्रथितविस्तरां सुगमं; साधुसिन्धुरो गुरुः, विदधेऽकरोत् ॥ ३६ ॥ श्राद्धाऽमूलाभिधानया ।
द्वितीयामद्वितीय
तत्र निर्मापितां चक्रे प्रतिष्ठां हृष्टहृद् गुरुः ॥ ३७ ॥
पुनः, तत्रैवोन्नतदुर्गे, अमूलांनाम्म्या श्राड्या, किं०, अद्वितीया ऋद्धिर्यस्यास्तया महत्यर्थः; निर्मापितां प्रतिष्ठां हृष्टहृद् हर्षितचेता गुरुः, चक्रे कृतवानिति ॥ ३७ ॥ तृतीयामथ तत्रैव प्रतिष्ठां शिष्टसंपदा ।
श्राद्धः कालाभिधः सूरिचक्रिणाऽचीकरत् ततः ॥ ३८ ॥
अथ पुनः, तत्रैवोन्नतदुर्गे, द्वीपवन्दिरतः समेत्य कालाभिधः श्राद्धः शिष्टसंपदा विशिष्टश्रिया, प्रतिष्ठां किं०, तृती यां, सूरिचक्रिणा गुरुणा, अचीकरत् कारयामासेति ।। ३८ ।।
Page #693
--------------------------------------------------------------------------
________________
६६८
विजयाशस्त्याम् । सङ्घाऽऽग्रहात् ततो हीरसूरिस्वःप्राप्तिपाविते । तत्र चक्रे चतुर्मासी निस्सीमगरिमा गुरुः ॥३९॥ ___ ततः प्रतिष्ठात्रयीकरणानन्तरं, तत्रोन्नतद्रङ्गे,किं०, हीरसूरेः श्रीहीरविजयगुरूत्तमस्य स्वःप्राप्त्या स्वर्गगमनेन पावित, गुरुः किं०, निस्सीमगरिमा निरर्गलगौरवाऽऽन्यः,चतुर्मासी चक्रे ॥३९॥
अथ पारणके तस्मात् पुरात् सूरिपुरंन्दरः। चलितः कलितो लोकैः प्रतिष्ठाहेतवे द्रुतम् ॥४०॥ ''तस्मात् उन्नतपुरात् , अथ चतुर्मासकपारणके स मूरिपुरन्दरो गुरुः, लोकैः श्रावकश्राविकारूपैः अन्यैरपि गान्धर्वादिभिश्च, कलितः सन् , प्रतिष्ठाहेतवे चलित इति ॥ ४० ॥
क्रमाद् मुनिपतिः प्रापद् मकराकरमूलगम् । विवेकिलोकसंकीर्ण पत्तनं देवपत्तनम् ॥ ४१ ॥
स मुनिपतिः क्रमाञ्चलन् मकराकरमूलगं समुद्रान्तिकवर्ति, देवपत्तनं नाम पत्तनं पूर्व श्रीचन्द्रप्रभप्रभुवारके श्रीचन्द्रशेखरराजाङ्गजश्रीचन्द्रयशसा राज्ञा स्वामिनः समवसरणस्थाने जीवितस्वामिनश्चन्द्रप्रभस्य सार्धशतधनुर्मितचन्द्रकान्तरत्नमयपतिमाप्रासादालङ्कृतं चन्द्रप्रभासपुरमिति प्रथितं स्थापितं लोके प्रभासतीर्थमिति विस्तृतं सांप्रतं तु देवकपत्तनं नाम नगरं, पुनः कि०, विवेकिमिर्लोकः संकीर्ण प्रापत् ॥४१॥
तत्राऽस्त्यमरदत्ताख्यो धनी विष्णा यस्तथा। तृतीयो लालजीनामा धाम धर्मैकसंपदाम् ॥४२॥
तत्र देवकपत्तने, अमरदत्ताख्यो धनी धनवान् , पुनः, द्वितीयो विष्णाहयः, पुनः, तृतीयो लालजीनामा अस्ति, एते घयोऽपि किं०. धर्मः प्रतीवः, एका अद्वितीयाः संपदश्च धमैं
Page #694
--------------------------------------------------------------------------
________________
विंशः सर्गः। ६६९ संपदस्तासां धाम गृहमिति ॥ ४२ ॥ . व्यवहारिवरा भूरिमहोभरपुरस्सरम् । प्रतिष्ठा गुरुभिस्तिस्रः कारयामासुराशु ते ॥४३॥
ते व्यवहारिवराः त्रयोऽपि पूर्वोक्तनामकाः, भूरिमहोभर• पुरस्सरं बहुतरोत्सवातिशयपूर्वकं, गुरुभिः पूज्यैः,तिस्रः प्रतिष्ठाः कारयामासुरिति ॥ ४३ ॥ ततोऽपि च चलन् सूरिः पूरिताखिलदिग्यशाः । अभ्यागाद् द्वीपपावस्थं श्रीदेवकुलपाटकम् ॥४४॥
ततो देवपत्तनतः प्रतिष्ठात्रयं विधाय मूरिश्वलन् , पुनः किं०, पूरिता अखिला दिशो येनेदृग् यशो यस्य स पूरिताखिलदिग्यशाः, श्रीदेवकुलपाटकं देलवाडाख्यं पुरं द्वीपबन्दिरपार्श्ववर्ति, अभ्यागात् ॥ ४४ ॥
तत्र प्रतिष्ठामेकां तु हीरजीश्रावकौकसि। द्वितीयां च गृहे शोभांश्राद्धयाः सूरिवरोऽकरोत् ॥४५॥ . तत्र देवकुलपाटके, हीरजीनामा परीक्षको द्वीपबन्दिरवासी श्राद्धस्तस्य ओकसि गृहे, एका प्रतिष्ठा, च पुनः, द्वितीयां प्रतिष्ठां शोभानाम्न्या द्वीपवासिन्याः श्राद्धयाः, गृहे सूरिवरः करोत् कुरुते स्म ॥४५॥ फरङ्गीसमुदायेनाऽन्यदा काजीविराजिना। कपीतानकलासादिपादरीसहितेन च ॥ ४६ ॥ द्वीपबन्दिरतोऽभ्येत्य श्रीदेवकुलपाटके । इति विज्ञपयाञ्चके जल्पं दत्त्वा तपाधिपः ॥ ४७ ॥ अन्यदा फरङ्गीसमुदायेन, किं०,काजीविराजिना काजीनामा
Page #695
--------------------------------------------------------------------------
________________
६७.
विजयमशस्त्याम् ।
फरङ्गीणां गुरुस्थानीय इति तेनान्वितेन,पुनः,कपीतानोऽधिकारिविशेषः,कलासः अमात्यविशेषः,तदादयोऽन्येऽपि फरङ्गीविशेषाः, पुनः, पादरीनामा फरङ्गी द्रङ्गे पद्रवास्तव्यस्तत्र नित्यस्थायी, तेन सहितेन॥ ४६॥ फरङ्गीसार्थेन किं कृतमित्याह- श्रीद्वीपवन्दिराद् देवकुलपाटके, अभ्येत्याऽऽगत्य, जल्पं दत्त्वा अस्माभिर्भवतां किमपि विरुद्धं न विधापनीयमित्यादि जल्पप्रदानपूर्व, तपाधिपः श्रीविजयसेनगुरुः, इति वक्ष्यमाणं, विज्ञपयाञ्चके विज्ञप्तिविषयीकृत इति ॥ युग्मव्याख्येति ॥ ४७ ॥
गुरूत्तंस ! त्वयाऽस्माभिधर्मगोष्ठी विधास्यते । .. विरूपं न च केनापि कस्यचित् संनिधास्यते ॥४८॥ - हे गुरुत्तंस! त्वया सह अस्माभिर्धर्मगोष्ठी विधास्यते, च पुनः, केनापि अस्मद्गृह्येण, कस्यचिद् भवद्गृह्यस्याऽनुगस्यापि, किश्चिद् विरूपं प्रतिकूलं, न संनिधास्यते केनापि प्रातिकूल्येन न स्थास्यत इति भावार्थः ॥ ४८॥
आगच्छ स्वच्छचेतस्त्वं तद् वरं द्वीपबन्दिरम् । नो चेत् तदा यस्त्वच्छिष्यमुख्यस्तं प्रेषय द्रुतम् ॥४९॥
हे स्वस्थचेतः ! निर्मलहृदय !, ततः कारणात् , त्वं द्वीपबन्दिरमागच्छ म्बयं पादैः पवित्रयेति, चेद् यदि, त्वं नागच्छसि तदा यः शिष्यः, किं०, त्वच्छिष्येषु मुख्यः स्यात् , तं तत्र प्रेषयेति ॥४९॥ एवं फिरङ्गीवर्गस्याऽऽग्रहेण प्राहिणोद् गुरुः । श्रीनन्दिविजयाऽऽह्वानवाचकं द्वीपबन्दिरे ॥ ५० ॥
एवमित्युक्तलक्षणेन, फरङ्गीवर्गस्य आग्रहेण, गुरुः मूरिः, श्रीनन्दिविजयाहानं वाचकं स्वशिष्यं, द्वीपवन्दिरे प्राहिणोद अपेपयत् ॥ ५० ॥
Page #696
--------------------------------------------------------------------------
________________
६७१
विंशः सर्गः ।
फरङ्गिमुख्यप्रमुखैस्तत्कलारञ्जितैः स च । सदकारि निजच्छत्रार्पणप्रासाददर्शनात् ॥ ५१ ॥
फरङ्गमुख्याः पाद्रीयकाजीप्रमुखास्तन्मुख्यैरपरैरपि फरङ्गीलोकैः किं०, तत्कलाभिः सद्रूपलावण्यवाक्पाटवादिभिः, रञ्जितैस्तुष्टैः, स वाचकः, निजच्छत्रार्पणं स्वकीयच्छत्रकपदानं, पुनः, स्वकीयमासादानां देवगृहाणां गृहाणां वा दर्शनं तस्मात् निर्जच्छत्रार्पणप्रासाददर्शनात्, सदकारि सत्कृत इति ॥ ५१ ॥
व्याख्यान वृषगोष्ठ्यादि कृत्वा स्थित्वा दिनत्रयीम् । सोऽन्वितः सङ्घलोकेनाऽभ्यागाद् गुरुपदद्वयीम् ॥५२॥
स वाचकः, व्याख्यानमुपदेशदानं वृपगोष्ठयादि जीवाऽजीवादिनवतस्यात्मकविचारस्वरूपनिरूपणादि, तत्र द्वीपे कृत्वा, फरङ्गीगेहेष्विति शेषः, पुनस्तत्र दिनत्रयीं स्थित्वा सङ्घलोकेनाऽन्वितः परिवृतः, गुरुपदद्वयीमभ्यागात् प्रत्यागत इति ॥ ५२ ॥
सूरिप्रष्ठस्ततस्तुष्टः स्वशिष्योन्नतिदर्शनात् ।
अथ प्रतस्थे यात्राऽर्थ जीर्णदुर्ग प्रति प्रभुः ॥ ५३ ॥
ततः स सूरिषु प्रष्ठो मुख्यः, स्वशिष्यस्य वाचकस्य उन्नतिदर्शनात् तुष्ट इति मुदितोऽभूत्, अथ प्रभुः कदाचिदवस रे जीर्णदुर्ग प्रति श्रीनेमिनाथयात्राऽर्थ, प्रतस्थेऽचलत् ॥ ५३ ॥ द्वीपबन्दिरवास्तव्यः सङ्घः श्रीमान् महामनाः । रैवताचलयात्रार्थमचालीद् गुरुणा सह ॥ ५४ ॥
अथ गुरुणा सह द्वीपबन्दियः सङ्घः किं०, श्रीमान् लक्ष्मीवान्, पुनः, महामना उदात्तचेता इति, रैवताचलस्य गिरिनारगिरेर्यात्रायै अचालीत् ॥ ५४ ॥
Page #697
--------------------------------------------------------------------------
________________
- विजयप्रशस्त्यीम् ।
आमोददायिनीं पूज्यपूज्यपादद्वयीं पथि । सङ्घोऽनघमना भेजे षट्पदः पद्मिनीमिव ॥ ५५ ॥ अनघमनाः स सङ्घः षट्पदो भ्रमरः, पद्मिनीं यथा, तथा पूज्यस्य पूजनाईस्य पूज्यस्य गुरोः पादद्वयीं, किं०, आमोददायिनीं हर्षदायिनीं, पक्षे गन्धदायिनीं, पथि मार्गे, भेजेऽभजत् ॥५५॥
६७२
अग्रेसरेण गुरुणा गुरुणा ब्रह्मचारिणा । देवसेनेव सा रेजे सङ्घलोकपरम्परा ॥ ५६ ॥
गुरुणा महता धर्मदेशिना वा, गुरुणा श्रीसूरिणा किं०, ब्रह्मचारिणा शीलशालिना, पक्षे ब्रह्मचारिणा कार्तिकेयेन, अग्रेसरेण अग्रगामिना सता 'देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि" इति श्रीमाचार्यवचनात् यथा देवसेनानाम्नी इन्द्रकन्या का र्तिकेयेन शुशुभे, एतदर्थानुवादिकालिदास महाकविवचो यथा “ अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम्' इत्यादि, अथवा देवसेना सुरसेनाऽपि, यथा तेनाग्रेसरेण सेनान्या शुशुभे तथा सा सङ्घलोकपरम्परा पुरोविहारिणा गुरुणा रेजे इति ॥ ५६ ॥
99
सङ्खेन सार्धमद्वैत हर्षेणर्षिसुरर्षभः ।
जीर्णदुर्गमगात् तत्र राजा खुरमनामकः ॥ ५७ ॥
अद्वैतहर्षेण हर्षाद्वितीयेन, सङ्केन द्वीपवासिना, सार्धं स ऋषिसुरर्षभः मुनिपुरन्दरः, जीर्णदुर्गे गिरिनारगिरितलहट्टिकालङ्कारं, पुरा श्री ऋषभदेवसूनुना भरतानुजन्मना सुराष्ट्रकुमारेण स्थापितम्, अगात् प्राप्त इति, तत्र दुर्गे खुरमनामा राजा श्रीअकव्वर पातिशाहिपर ममान्योम्बरामुख्य श्री आजमखाननन्दनस्तदानीं सौराष्ट्रराष्ट्राधिपत्येनाऽस्तीति शेषः ॥ ५७ ॥
Page #698
--------------------------------------------------------------------------
________________
विंशः सर्गः।
६७३ 'स क्रूरोऽपिं गुरोर्भाग्याद् भूकान्तः शान्ततामगात् ।
चन्द्रसंपर्कतश्चन्द्रोपलः किं नाऽम्बु मुञ्चति ॥ ५८ ॥ ___ स भूकान्तो राजा खुरमनामा, स्वभावादेव यतिषु क्रूरोऽपि तदानीं गुरोर्भाग्यात् शान्ततामगात् शान्तो जात इति, दृष्टान्तेनामुमेवार्थ समर्थयति-चन्द्रोपलश्चन्द्रकान्तः, चन्द्रसंप
तः शशधरकरसंयोगात् , अम्बु पानीयं, किं न मुञ्चति ? न द्रवति किं १, द्रवत्येवेत्यर्थः ॥ ५८ ॥ राज्ञाऽथ सत्कृतस्तेन सङ्घन बहुना सह । गिरि रैवतनामानमारुरोह महामुनिः ॥ ५९ ॥ _ अथ तेन राज्ञा सत्कृतो यात्राऽनुनादानादिना बहुमानविषयीकृत इति, बहुना सङ्ग्रेन सह रैवतनामानं गिरिमुज्जयन्तं पर्वतं, स महामुनिः आरुरोहाधिरूढ इति ॥ ५९ ॥ मुदितः स गतश्चैत्ये नेमिनः स्वामिनस्ततः । बिम्बमम्बुधरच्छायं वीक्ष्य प्रीतिं परां दधौ ॥ ६० ॥ ___स गुरुर्मुदितः सन् , चैत्ये गुर्जरत्राधीशश्रीसिद्धराजजयसिंहदेवमहामन्त्रीश्वरसज्जनश्रेष्ठिकारिते पृथिवीजयनाम्नि प्रा. सादे, गतः प्राप्तः, तत्र नेमिनः स्वामिनो विम्ब, कि०, अम्बुधरच्छायं श्यामच्छवित्वात् , वीक्ष्य, परां प्रीतिं दधौ महाहर्षवानभूदिति भावः ॥ ६॥ कृत्वा तीर्थस्य तस्याथ सेवां विविधभङ्गिभिः । सूरिः सङ्घसखो भूरिपीतामृत इवाभवत् ॥ ६१ ॥
तस्य तीर्थस्य गिरिनारस्य, विविधभङ्गिभिः सहस्रानव
Page #699
--------------------------------------------------------------------------
________________
६७४ विजयप्रशस्त्याम् । णनिरीक्षणतत्रस्थजिनप्रतिमापादुकाप्रणमनपर्वतेन्द्रमूर्धमुकुटश्रीमपञ्चकशिखरपञ्चकमुख्यशृङ्गशृङ्गारभूतभुवनाऽम्बासमानाऽम्बादेवीनिध्यानश्रीनेमीश्वरसम्यग्ध्यानविधानादिविचित्रकारः, सेवां वन्दनदर्शनादिरूपा, भक्तितः शक्तितश्च भावपूनारूपां च, कृत्वा सङ्घसराश्चतुर्विधसङ्घसहितः मूरिः, भूरिपीताऽमृत इव बहुतरपीतपीयूप इव, अभवत् परमानन्दमयो जात इति ॥ ६१ ॥
अतिमात्रां तीर्थयात्रा कृत्वा सत्त्वभृदग्रणीः । उत्ततार गिरेस्तस्मात् केसरीव शनैः शनैः ॥ ६२ ॥ .. अतिमात्रां वहीं, तीर्थयात्रां देववन्दनगिरिशिखररामणीयकविलोकनादिरूपां, कृत्वा सत्त्वभृदग्रणीः साहसिकमुख्यः, सगुरु, शनैः शनैः केसरीव, तस्माद् गिरेः, उत्ततार उत्तीर्णवान् ।। ६२॥ स्थित्वा कियन्ति दिवसान्यथ जीर्णदुर्गे
कृत्वा धराऽधिपतिना सह धर्मगोष्ठीम् । श्रीदेवपत्तनपुरं गुरुराजगाम
सङ्घोऽपि धाम मुदितः स निजं जगाम ॥६३॥ अथ यात्राकरणानन्तरं, कियन्ति दिवसानि जीणदुर्गे स्थित्वा पुनर्धराऽधिपतिना खुरमनाम्ना मुद्गलमुख्येन सह, धर्मगोष्ठी कृत्वा श्रीदेवपत्तनवन्दिरं गुरुः श्रीविजयसेनसरिः, आ. जगाम चतुर्मासकस्थित्यै भाप्त इति, स द्वीपवन्दिरवासी समस्तसङ्घोऽपि च किं०, मुदित इति निर्विघ्नतासूचकमिदं विशेषणम् , ततः क्षेमेण निजं धाम गृहं, जगाम गतवानिति । वसन्ततिलकेयम् ॥ ६३॥
Page #700
--------------------------------------------------------------------------
________________
एकविंशः सर्गः।
६७५ इतीति निखिलं निगदसिद्धम् । इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिगौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुण्डरीकमख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां श्रीविजयप्रदीपिकाभिधानधारिकायां .. . सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां विंशः सर्गोऽर्थतः
समर्थितः ॥
अहम्
अथैकविंशः सर्गः।
.*०
अथ एकविंशः सर्गो निसर्गेण सुगमोऽपि किश्चिद् वित्रियतेअथ सङ्घाग्रहाद् देवपत्तने बृहती स्थितिम् । कृत्वा प्रतिष्ठयोईन्द्वमद्वन्द्वमहिमं तथा ॥१॥ ततः पत्तनतो वाचंयमयामवतीपतिः । पुलिने पयसांपत्युः प्रयाणैः प्रगुणश्वलन् ॥ २ ॥ क्रमेण तटिनीनाथतटभूतलभूषणम् । अलञ्चकार नगरं देवतः कुलपाटकम् ॥ ३ ॥
(त्रिभिर्विशेषकम् ) अथ देवपत्तने बृहती स्थितिं कृत्वा ज्येष्ठस्थितिं विधाय, तथा अद्वन्द्वमहिममद्वितीयमाहात्म्यं, प्रतिष्ठयोः द्वन्दं प्रतिष्ठाद्वयं, विधाय च ॥ १॥ किं कृतवानिति श्लोकद्वयंनाह-ततः परनतो देवपत्तनाव, वाचंयमयामवतीपनिः यतियामिनीशः, पयसां
Page #701
--------------------------------------------------------------------------
________________
६७६ विजयप्रशस्त्याम् । पत्युः समुद्रस्य, पुलिने तटे, प्रगुणैः पटुभिः, प्रयाणैः अखण्डितैश्चलन्निति ॥ २ ॥ क्रमेण देवतः कुलपाटकं देउलवाडाख्यं नगरं, कि०, तटिनीनाथस्य अर्णवस्य यत्तटभूतलं तस्य भूपणमिव भूपणं शृङ्गारभूतत्वात् , अलञ्चकाराऽऽगतवान् ॥ इति । त्रयाणां व्याख्या ॥३॥
तत्रागमनादनन्तरं यजातं तदाहइत्यचिन्ति फरङ्गीन्द्ररन्यदा द्वीपवासिभिः। गुरुः समागतो नूनमनूनमहिमाऽर्णवः ॥ ४ ॥
अन्यदा द्वीपवासिभिः फिरङ्गीन्द्रैः कपीतानकाजीकलासपाद्रीयप्रमुखफरशीमुख्यैः प्राग्मिलितैः, इति अग्रे वक्ष्यमाणम् , अचिन्ति चिन्तितमिति, किं ?, तदेवाह-नूनं निश्चितं गुरुर्देवकुलपाटके समागतः श्रूयते, स किं०, अनूनस्य पूर्णस्य महिम्नः अर्णवः समुद्र इति ॥ ४ ॥ यत्प्रभावात् पुराऽत्रत्यो लोकः सक्षेममागतः । तत्तेन साकं साङ्गत्यं साम्प्रतं साम्प्रतं हि नः ॥५॥
पुनः, यत्प्रभावाद् यस्य गुरोः प्रसादात् , योऽत्रत्यो लोको यात्रार्थमनेन गुरुणा सह गते वर्षे गतोऽभूत् , स द्वीपवासी लोकोऽर्थात् सङ्घः, सक्षेमं सकुशलं, गृहे आगतः मीर्या खुरमसककृच्छ्राद् मुक्त इति, ततः कारणात् , तेन गुरुणा साकं साङ्गत्यं मिलनं, नोऽस्माकमपि, साम्पतमधुना, साम्प्रतमुचितमिति ॥५॥
फरङ्गिमुख्यैर्ध्यात्वेति प्रीतितोऽभ्येत्य भूरिभिः । एवं विज्ञैकविज्ञप्तेः पात्रीच गुरुर्गुरुः ॥ ६ ॥ ___ इत्युक्तरूपं फरङ्गिगुख्यैर्ध्यात्वा विचिन्त्य, देवकुलपाटके अभ्धेत्य, एवमग्रे वक्ष्यमाणं, गुरुर्गुरुः परमगुरुरिति, विज्ञकविज्ञप्तेः, पात्रीचक्रे निपुणविज्ञप्तिकाविषयीकृत इत्यर्थः ॥ ६॥
Page #702
--------------------------------------------------------------------------
________________
एकविंशः सर्गः।
६७७ अथ यद्विज्ञप्तं तदाहगुरों ! लमसि सर्वत्र हितकृत्यकृतौ कृती। । जगत्या वत्सलवाऽसि त्वमेवाऽऽषाढमेघवत् ॥ ७ ॥
हे गुरो ! त्वमेव सर्वत्र भूवलये, हितकृत्यस्य कृतौ करणे, कृती दक्षः, असीति वर्तसे, च पुनः, त्वमेव आपाढमेघवत् , जगत्या विश्वस्य विश्वाया वा, वत्सलोऽसीति ॥७॥ तत्त्वं कृपां समाधाय समेहि द्वीपबन्दिरम् । अस्मन्मनोरथं सार्थ व्यर्थ नो कर्तुमर्हसि ॥ ८॥
ततः कारणात् , कृपां समाधाय कृत्वा, द्वीपबन्दिरमस्मसाम्राज्यशालि, समेहि आगच्छ, सर्वथा असान्मनोरथं, कि०, सार्थ युष्मदागमनवचःश्रवणसमुद्भूतागण्यपुण्यप्रयोजनसद्भावात् सार्थक, कर्तुमर्हसि, न तु व्यर्थ, निरर्थकं कर्तुं नाहसीति ॥८॥
भूयः प्रणुन्नः प्रीत्येति तैः फरङ्गीभिराप्तराट् । द्वीपसङ्घाग्रहं चोच्चैस्तरं चेतसि चिन्तयन् ॥ ९॥ लाभो भारतरो भावी यदत्र सुकृतश्रियः । इति प्रीतमनाः सूरिरभ्यागाद् द्वीपबन्दिरम् ॥१०॥
आप्तराट् गुरुः, तैः फरङ्गीभिः, इति प्रणुनः प्रेरितो भूरितरविज्ञप्तिकादिना अनुकूलित इति, च पुनः, द्वीपसत्कसङ्घाग्रह, किं०, उच्चैस्तरं महत्तरं, चेतसि चिन्तयन् फरङ्गीद्वारा सङ्घस्याऽपि प्रसादाभिमुख्यं भवतु इति ध्यायन् ॥ ९॥ पुनः, यदिति यतो हेतोः, अत्र बन्दिरे, सुकृताश्रियो धर्मधनरय,लाभोऽस्माकम् , अन्येषां लोकानां च बोधिप्राप्तिरूपो लाभो भावीति, आ सु. धर्मस्वामिनोऽद्य यावत् कस्याप्याचार्यस्यावागमनाधभावादिति, इति प्रीतमना इति व्यावर्णितहेतुत्रयेण फरङ्गीविज्ञप्तिसाग्रह
Page #703
--------------------------------------------------------------------------
________________
६७८
विजयप्रशस्त्याम् ।
लोकानुग्रहलक्षणकारणत्रयेण प्रीतचेताः, सूरिः श्रीविजयसेनसरिपवन्दिरमभ्यागादातः ॥ इति युग्मव्याख्या ॥१०॥ ततः फरङ्गीप्रभुणा प्रहितं मचुआह्वयम् । . वाहनं गुरुरारोहद् विमानं मघवानिव ॥११॥
ततो गुर्वागमात् दुष्टेन फरङ्गीप्रभुणा द्वीपाधिपतिना, प्रहितं, पुनः, मचुआनामकं धनिकस्यैवोपवेशनाई, वाहनं प्रवहणं, गुरुः आरोहत् आरूढ इति, मघवान् इन्द्र इव, विमानमर्थात् पाल. कमिति यावत् ॥ ११॥ तेनोत्तीर्याऽवारपारं सूरिहीपं समाविशत् । फरङ्गीप्रमुखा लोकाः सर्वेऽप्यभ्यागमन् मुदा ॥ १२ ॥
तेन फरङ्गीखामिप्रेषितेन, विशिष्टसुखासनस्थानीयेन स्फारशृङ्गारचित्रादिरचनारमणीयेन मछुआख्यवाहनेन, अवारपारं पारावारम् , उत्तीर्य मूरिीपं वन्दिरं, समाविशत् प्रविवेश,फर. ङ्गीप्रमुखास्तत्रत्याः सर्वेऽपि लोका अभ्यागमन् संमुखमागताइति ॥ १२ ॥
सङ्घश्चमत्कृतोऽत्युच्चैश्चक्रे तत्र तमुत्सवम् । यवर्णनं विधातुं स्याच्चतुरश्चतुराननः ॥ १३ ॥
तत्रत्यः सङ्घः अत्युच्चैः चमत्कृतः यथाऽहो ! अस्मदीयो भाग्योदयः, अहो ! गुरूणामनायैरपि माननीयो महोदय इति चमत्कारमाप्तः सन् , तत्र वन्दिरे तमुत्सवं चक्रे, यद्वर्णनं विधातुं कर्तु, चतुराननश्चतुर्मुखो ब्रह्मेति यावत् , चतुरो दक्षः स्यानापरः कोऽपीति तात्पर्यम् ॥ १३ ॥ धन्यम्मन्यैः राजमान्यैर्वदान्यैरास्तिकोत्तमैः । पूजितः श्रीतपानाथस्तीर्थनाथ इवाऽमरैः ॥ १४ ॥
Page #704
--------------------------------------------------------------------------
________________
एकविंशः सर्गः। ६७९ धन्यम्मन्यैः आत्मानं कृतार्थ मन्यमानैः, पुनः, राजमान्यैः अमात्यादिभिः, पुनः, वदान्यैर्दानशीलैः, आस्तिकोत्तमैः श्राद्धमुख्यैः, अमरैस्तीर्थनाथस्तीर्थङ्कर इव, श्रीतपानाथः मूरिः, पूजितः स्वर्णरूप्यनाणककुसुमाभरणादिभिरिति शेषः ॥१४॥ पपौ पीयूषगण्डूषदेशीयां गुरुदेशनाम् । द्वीपवास्यखिलो लोकश्चकोर इव चन्द्रिकाम् ॥१५॥
गुरुदेशनां गुरोर्व्याख्यां, कि०, पीयूपगण्डूपदेशीयां सुधाचुलुकतुल्यां, चन्द्रिकां ज्योत्स्नां, चकोर इव, द्वीपवासी लोकः पपौ पिवति स्माऽत्यादरेण श्रवणगोचरीकुरुते स्मेति भावः॥१५॥ ऐश्वर्यगर्जितव्याप्तरोदसीकन्दरोदरम् । गुरुमेधं समुद्दीक्ष्य सङ्घकेकी जहर्ष सः ॥ १६ ॥
ऐश्वर्य प्रभुत्वं तदेव गर्जितं गर्जारवस्तेन व्याप्तं रोदसीकन्दरोदरं द्यावाभूमीगुहाविवरं येन तं, गुरुमेधं सूरीश्वरजलधरं, समुद्रीक्ष्य दृष्ट्वा, स सकेकी जहर्ष हर्पितोऽभूत् ॥ १६॥ रत्नैरेव गुरोस्तत्र वध्वो वर्धापनं व्यधुः । रत्नाकरोऽभ्यर्णवर्ती यत्र किं तत्र चित्रकृत् ?॥ १७॥
तत्र वन्दिरे गुरोः, वध्वः स्त्रियः, रत्नरेव वर्धापनं व्यधुरित्यन्वयः, यत्र रत्नाकरः समुद्रः, अभ्यर्णवर्ती समीपस्थ: स्यात् , तत्र किं चित्रकृत् किमाश्चर्यकारि ?, इति ॥ १७॥
धर्मगोष्ठीक्षणे चाथ फरङ्गीप्रभुपर्षदि । ___ सार्वज्ञ शासनं सूरिः सत्यं स्थापयति स्म सः॥१८॥ . अथैकदा फरङ्गीप्रभुपर्षदि तद्गहेषु तदीयसभायां, धर्मगोष्ठीक्षणे क्रियमाणे सति, सूरिः सार्वज्ञ शासनं जैनं मतं, सत्यं स्थापयति स्म, नान्यत् किमपि सत्यमिति ॥ १८ ॥
Page #705
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
गुरोर्माहात्म्यतस्तुष्टाः फरङ्गीप्रमुखा जनाः । अनार्या अपि यत्, काऽपि चातुरी महतामहो !॥ १९ ॥ - अहो ! इत्याश्वर्ये, फरङ्गीप्रमुखा अनार्या अपि जनाः, गुरोमहात्म्यतस्तदा तुष्टाः, यतः कारणात् काऽपि महतां पुरुषाणां चातुरी लोकातिशायिनी ॥ १९ ॥
एवं फरङ्गीङ्गेऽपि कृत्वा धर्मप्रभावनाम् । गुरुर्वृतो नागरौघफरङ्गीन्द्रैस्ततोऽचलत् ॥ २० ॥
फरङ्गीद्रङ्गे द्वीपवन्दिरे, बहुदिनानि स्थित्वा एवं धर्मप्रभावनां कृत्वा च गुरुः किं०, नागरीधैर्नगरलोकनिकरैः फरजीन्द्रैश्व वृतो वेष्टितोऽनुगम्यमान इति, ततो बन्दिरादचलत् ॥२०॥ प्रार्थितः पुण्यपूर्णेन सङ्केन द्वीपवासिना । चतुर्मासं चकाराऽसौ तद् देवकुलपाटके ॥ २१ ॥
पुण्यपूर्णेन महापुण्यवता, द्वीपवासिना सङ्केन प्रार्थितो विज्ञशः, असौ गुरुः, तच्चतुर्मासकं वर्षास्थितिरूपं, देवकुलपाटके चकाराऽकरोत् ॥ २१ ॥ पारणेऽपि चतुर्मास्या आकारण कृते गुरोः । नवीननगराधीशाधिकारिश्राद्धसिन्धुरैः ॥ २२ ॥ प्रेषिता भावितवान्ताः श्रावकाः सुविवेकिनः । तैरागत्य स विज्ञप्तो भृशं सूरिरथाचलत् ॥ २३ ॥
६८०
अनयोर्व्याख्या - तत्र चतुर्मास्याः पारणके जाते, गुरोः आकारणस्य आह्वानस्य कृते विज्ञप्तिकरणाय, नवीननगराधी शस्य येऽधिकारिणोऽमात्याः श्राद्धसिन्धुराः श्रावकमुख्यास्तैः ॥ २२ ॥ नवानगरनुपतिराउलजामजीप्रधानैः श्रावकैः प्रेषिताः श्रावकाः, किं०, भावितस्वान्ता धर्मवासनावासितात्मानः, पुनः,
Page #706
--------------------------------------------------------------------------
________________
एकविंशः सर्गः।
६८१ सुविवेकिन इति प्रतीतम् , तैः श्राद्धरागत्य देवकुलपाटके समेत्य, भृशं विज्ञप्तः मूरिः अथाऽचलत् ॥ इति युग्मव्याख्या ॥ २३ ॥
ततः सुराष्ट्राविषयं पावयन् पदपांसुभिः । हलारदेशसीमस्थं प्रभुर्भानुवटं ययौ ॥ २४ ॥
ततः पदपांसुभिश्चरणरेणुभिः, सुराष्ट्राविषयं सौराष्ट्रदेश, पावयन् प्रभुर्गुरुः, भानुवटं भाणवडनामग्राम, हलारदेशस्य नवानगरसत्कदेशस्य, सीमस्थं सन्धिवर्तिनं, ययौ गत इति ॥२४॥ तत्र साडम्बरं प्राप्तैः श्रेष्ठिमुख्यैः सविस्तरम् । सुवर्णटङ्ककाद्यैश्चाऽर्चना चक्रे गणेशितुः ॥ २५ ॥
तत्र भाणवडग्रामे, साडम्बरं प्राप्तैः संमुखागतैः, नवानगराधीशाधिकारिश्रेष्ठिमुख्यैः सर्वश्राद्धः, गणेशितुर्गच्छनायकस्य, सुवर्णटङ्ककप्रमुखैर्माणकैः, अर्चना पूजा, चक्रे कृता ॥ २५ ॥ वृतस्तैश्च तपाधीशो नवं नगरमध्यगात् ।
अहंचूर्विकयाऽऽगच्छन्मार्गलोकाऽभिवन्दितः ॥ २६ ॥ - च पुनः, तैः श्रादैः कश्चिदन्यैरपि राजवर्गीयः, वृतो वेष्टितः, तपाधीशो गुरुः, नवं नगरं नाम द्रङ्गम् , अध्यगात् ; गुरुः किं०, अहंपूर्विकया अहमहमिकया, आगच्छन्तो ये मार्गे लोकाः पौरास्तैरभिवन्दितो नतः स्तुतश्च, पदुवातोः स्तुत्यभिवादनार्थत्वात् ॥ २६॥ प्रवेशस्योत्सवस्तत्राऽभूतपूर्वोऽद्भुतैकभूः। जज्ञे विज्ञकविश्रेणीवचनानामगोचरः ॥ २७ ॥
तत्र नवीननगरे, गुरोः प्रवेशोत्सवः, किं०, अभूतपूर्व इति कस्यापि तपागच्छपतेस्तत्राऽनागमनात् , अत एव अद्भुतैकभूराश्चर्यस्यैकहेतुरिति, पुनः, विज्ञानां पण्डितानां कवीनां च वर्णन
Page #707
--------------------------------------------------------------------------
________________
६८२
विजयप्रशस्त्याम् ।
कलावतां या श्रेणी तस्या वचनानामगोचरोऽविषय इति ||२७|| नैकाश्वाद्यंशुकादीनां दानानि ददिरेतराम् । सङ्घलोकेन तुष्टेन यथेष्टं याचके जने ॥ २८ ॥
तत्रत्यङ्गलोफेन याचके जने मार्गणादौ यथेष्टं यथारुचि, नैकाश्वाशुकादीनामनेकतुरङ्गमसिचयादीनाम्, आदिशब्दात् करभकनकमुद्रिका कर्णाभरणजाममुद्रादीनां चापि दानानि ददिरेतरां भूरितराणि दत्तानीत्यर्थः ॥ २८ ॥
श्रीपूज्यपादपीयूषपादमुद्वीक्ष्य तत्क्षणात् । उल्लासं सरसः सङ्घपारावारः प्रपेदिवान् ॥ २९ ॥ श्री पूज्यपादपीयूषपादं गुरुचन्द्रमसम्, उद्वीक्ष्य दृष्ट्वा, स सङ्घ एव पारावारः समुद्रः, किं०, सरसः सहर्षः, पक्षे सजलः, उल्लासं प्रपेदिवान् प्राप्त इति ॥ २९ ॥ अपूजि सूरिराजोऽथ श्राद्धैः स्वर्णादिनाणकैः । तच्चतुर्मासकं तत्र निर्विघ्नं निरमापयत् ॥ ३० ॥
अथ स सूरिराजस्तत्रत्यैः श्राद्धैः स्वर्णादिनाणकैः अपूजि पूजितः, च पुनः तत्र नवीननगरे, तच्चतुर्मासकं निरमापयद् निपादयामासेति ॥ ३० ॥
जाभनामा पुरे तत्र भाग्यवान् भूमिवल्लभः । दर्शनाय मुनीशस्य सोऽन्यदाऽऽगाद् मुदाऽऽस्पदम्॥३१॥
तत्र पुरे नवानगरे, जाम इति कुलरूढिजं नाम यस्य सः, यत तद्वंशजाः सर्वेऽपि जामनामान उच्यन्ते तेन जामो नाम भूमिबल्लभो राजा सः, अन्यदा सुनीशस्य सुरेः, दर्शनाय मुदा हर्षेण, आस्पदं प्रतिश्रयम्, अथवा स राजा, किं०, मुदाऽऽस्पर्द हर्षस्थानं सन्, आगाद् ॥ ३१ ॥
Page #708
--------------------------------------------------------------------------
________________
एकविंशः सर्गः। ६८३ इतश्च गूर्जरस्थानां श्रीअनूचानचक्रिणाम् । सर्वेषामपि सङ्घानामाग्रहेण महीयसा ॥ ३२ ॥ प्रतस्थे सुमुहूर्तेऽथ ततः श्रीमांस्तपाधिपः। . क्रमेण विहरन्नुा प्राप शर्केश्वरं पुरम् ॥ ३३ ॥
इतश्चेत्यस्मिन्नवसरे, गूर्जरत्रादेशवर्तिनां श्रीअनूचानचक्रिणां खपट्टधारकश्रीविजयदेवसूरीणाम्, अपेश्चकारार्थत्वात् पुनः, सर्वेषां सङ्घानां राजनगरपत्तनस्तम्भतीर्थराजधन्यपुरप्रमुखसमस्तनगरवास्तव्य श्रावकसमायानां, महीयसा अतिमहताऽऽग्रहेणेति ॥३२॥ अथ चतुर्मासकपारणके, सुफुहूर्ते दिनशुद्धयादौ . सति, ततो नवानगरात् , श्रीमान् तपाधिपस्तपागच्छराट् , क्रमेण
उा पृथिव्यां, विहरन् शङ्केश्वरं पुरं महातीर्थभूतम् , पाप ॥ इति युग्मव्याख्या ॥ ३३ ॥ विघ्नवल्लीवनीपार्श्व पार्श्व शकेश्वराभिधम् ।। ननाम निखिलैः सङ्घलोकैः स परिवारितः ॥३४॥
स गुरुनिखिलैः समस्तैः राधनपुरपत्तनराजनगरसत्कः सङ्घलोकः, परिवारितः सन् , शङ्केश्वरं पार्थ, कि०, विघ्नवल्लीवनीषु अन्तरायलतावनेषु पार्थ पशुसमूहं तदुच्छेदकत्वात् , ननामेत्यनमत् ॥ ३४॥
अहम्मदावादपुरं प्रतस्थे प्रति गच्छराट् । तत्रत्यभूरिसङ्घस्याऽऽग्रहतो महतस्ततः ॥ ३५ ॥
ततः शङ्केश्वरपुराद् गच्छराट् अहम्मदावादपुरं प्रति प्रतस्थे चलितः; तच्चलनहेतुमाह-तत्रत्यभूरिसङ्घस्य अहम्मदावादवासिमहासमुदायस्य, महत आग्रहतो महानिर्वन्धात् ॥ ३५॥ श्रीमद्विजयदेवाबसूरीन्द्रादिपरिच्छदः।
Page #709
--------------------------------------------------------------------------
________________
६८४
विजयप्रशस्त्याम् । आगाद् गुरुरथो राजनगरे श्रीगरीयांस ॥ ३६ ॥
अथो गुरुः, किं०, श्रीमान् यो विजयदेवाहः मरीन्द्रः स्वपट्टभृत् तदादिः परिच्छदो यस्य सः, आदिशब्दाद्वाचकपण्डितादिग्रहः, राजनगरेऽहम्मदावादे, किं०, श्रीगरीयसि लक्ष्मीमहीयसि, आगात् प्राप्तवानिति ।। ३६ ॥ समुज्ज्वलकलाशालिसरिराजविलोकनात् ।
आसन्नुल्लासिनः सर्वे सागरा इव नागराः ॥ ३७ ॥ ' समुज्ज्वलाभिः कलाभिः शाली यः मूरिराजः मूरिचन्द्रस्तस्य विलोकनात् , नागरा नगरवासिलोकाः, सागरा इव उल्लासिनः आसन् जाता इति ॥ ३७॥ तत्रासीने चतुर्मासी श्रीभट्टारकभास्करे । पद्मोल्लासा अजायन्त सदालिप्रीतिहेतवः ॥ ३८ ॥
श्रीभट्टारकभास्करे सूरीश्वरसूर्ये, तत्र राजनगरे, चतुर्मासीमासीने सति, पद्माया लक्ष्म्याः , पक्षे पद्मानां पङ्कजानामुल्लासाः पद्मोल्लासाः, द्वयेऽपि किं०, सदालीनां सज्जनश्रेणीनां, पक्षे सदा नित्यम् , अलीनां भ्रमराणां प्रीतिहेतवः, अजायन्त जाताइति ॥ ३८ ॥
इतश्च सङ्घमध्ये यो विरोधो द्वादशाऽऽब्दिकः । भत शक्योऽभवत् केनाप्यधिपेनापि न क्वचित् ॥३९॥ स गुरोर्गुणसंभारभ्राजिनो वचसा क्षणात् । अभज्यततमा सामजन्मना भूमिजन्मवत् ॥ ४०॥
इतः पुरा ज्ञातिवेधरूपो द्वादशाऽऽब्दिको द्वादशवर्षीयो विरोधः सङ्घमध्येऽभूत् , यः केनापि अधिपेनापि मी-श्रीसमस्तिसंज्ञकोम्बरादिनापि, भक्तुं. निवर्तयितुं, शक्यो नाभूद् न
Page #710
--------------------------------------------------------------------------
________________
एकविंशः सर्गः ।
६८५
भग्न इति ॥ ३९ ॥ गुरोः किं०, गुणसंभारभ्राजिनः गुणसमूहशालिनः, वचसा वाक्येन स विरोधः, सामजन्मना हस्तिना, भूमिजन्मा तरुरिव, अभज्यततमां वम्भज्यते स्मेति ॥ इति युग्मव्याख्या ॥ ४० ॥
तत्र कृत्वा चतुर्मासीं निवासं धर्मकर्मणाम् । चकार सूरिराट्प्रष्ठः प्रतिष्ठानां चतुष्टयम् ॥ ४१ ॥
धर्मकर्मणां सुकृतकृत्यानां निवासं चतुर्मासीं तत्र कृत्वा पारण के सूरिरामष्ठो भट्टारकमुख्यः, प्रतिष्ठानां चतुष्टयं जिनविम्बस्थापनाचतुष्कं द्वयं तु माघे, द्वयं तु वैशाखे चकार कृतवानिति ॥ ४१ ॥
माहेन्द्रा उत्सवा एते किंवा नन्दीश्वरोत्सवाः ? | वीक्ष्येति दक्षा व्याचख्युस्तत्प्रतिष्ठामहामहान् ॥४२॥
तत्प्रतिष्ठानां महामहान् महोत्सवान, वीक्ष्य, दक्षाः पण्डिताः, इति व्याचख्युः इति कथयन्ति स्मः तदेव पूर्वार्धेनाह - एते प्रतिष्ठोत्सवाः किं माहेन्द्राः उत्सवाः इन्द्रोत्सवाः १, किंवा नन्दीश्वरोत्सवाः नन्दीश्वरद्वीपे देवैर्निर्मीयमाणा अष्टाह्निकोत्सवा: १; इदं विशेषणद्वयं तासां प्रतिष्ठानां सर्वातिशायित्वख्यापनपरमिति भावः ॥ ४२ ॥
अथ गुरुकृतसुकृतकृत्याद्युपसंहर्तुकामस्तद्गच्छवर्ति परिकरादि च व्याख्यातुकामः प्राहइत्याद्यनेकसद्धर्मकर्मनिर्माणकार्मणम् । श्रीगुरोर्वचनं चारु रेजे चतुरचित्तहृत् ॥ ४३ ॥
इत्यादीनि उक्तपूर्वाणि अनेकानि यानि सद्धर्मकर्माणि दीक्षाप्रतिष्ठाप्रभृतीनि तेषां निर्माण निष्पादने कार्मणं वशी
Page #711
--------------------------------------------------------------------------
________________
६८६
विजयमश्शस्त्याम् ।
करणं, श्रीगुरोर्वचनं, चारु मनोज्ञं, पुनः, चतुरचित्तहृद् निपुणचेतोहारि, रेजे शोभते स्मेति ॥ ४३ ॥ परिवारः प्रभोर्भूरिविभूतिभरभासुरः ।
"
अनल्पः कल्पशाखीव महामाहात्म्यभूरभूत् ॥ ४४ ॥ प्रभोः परिवारः स्वकीयगच्छ्वर्त्याचार्योपाध्यायपण्डितमभृतिसमवायरूपः किं०, भूरिविभूतिभरेण ज्ञानविज्ञानादिसम्पसमूहेन भासुरः, पुनः, अनल्पोऽतुच्छः, कल्पशाखीव सुरतरुरिव, महामाहात्म्यभूः बहुप्रभावभवनम् अभूत् ॥ ४४ ॥ तत्रादौ गुरुपट्टधरं श्रीमदाचार्य सिन्धुरं श्लोकत्रयेण वर्णयतितथाह्यहार्य गाम्भीर्य शौर्यशौण्डीर्यवीर्यवान् । अभङ्गभाग्यसौभाग्यवैराग्यादिगुणार्णवः ॥ ४५ ॥ श्रीयौवराज्य साम्राज्यप्राज्यर्द्धिधरणीधरः । विवेका लोकसुश्लोकलोककोक दिवाकरः ॥ ४६ ॥ राजते विजयश्रीभिर्भ्राजिष्णुर्भुवनाहुतः । श्रीमद्विजयदेवाह्नः सूरीन्द्रचन्द्र निर्मलः ॥ ४७ ॥
तथाहीति पूर्वोक्तार्थ समर्थनपरं वचः, अहार्याणि यानि गाम्भीर्यशौर्यशौण्डीर्यवीर्याणि मनोवचःकायोद्भवा गुणास्तद्वान्, पुनः, अभङ्गा अखण्डा ये भाग्य सौभाग्यवैराग्यादिगुणास्तेपामर्णवः समुद्रः ॥ ४५ ॥ पुनः, श्रीयौवराज्यस्य युवराजभावस्य यत् साम्राज्यं तस्य माज्या पुष्कला ऋद्धिः सम्पत् सैव धरणी भूमिस्तत्र धरः पर्वतस्तस्या धारकत्वात् पुनः, विवेकाऽलोका विवेकप्रकाशवन्तः, पुनः, सुश्लोकाः शोभनयशसः ये लोकास्त एव कोकास्तेषु दिवाकरः, तदानन्दहे - सुत्वात् ॥ ४६ ॥ पुनः, विजयश्रीभिर्जयलक्ष्मीभिर्भ्राजिष्णुः
,
Page #712
--------------------------------------------------------------------------
________________
एकविंशः सर्गः। ६८७ शोभनशीलः, अत एव भुवनाद्भुतो लोकचित्रकृत, श्रीमान् विजयदेवमूरिरित्याचार्यो राजत इति, शेषं स्पष्टम् ॥ इति त्रयाणां व्याख्या ॥४७॥
गुरो राज्येऽप्युपाध्याया अष्टावुत्कृष्टसम्पदः । क्षमाभारधरा धीरा राजन्ते दिग्गजा इव ॥ ४८ ॥
गुरोः श्रीविजयसेनमूरेः, राज्य उपाध्याया अपि अष्टौ राजन्ते,कि०, उत्कृष्टा ज्ञानादिविपयिणी सम्पद् येषां ते । इवोत्मेक्ष्यते-ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकाख्या अष्टौ दिग्गजाः, येऽपि किं०, क्षमायाः क्षान्तेः पृथि. व्याश्च भारं धरन्तीति क्षमाभारधराः, अत एव पुनरा धैर्यशालिन इत्यर्थः ॥ ४८॥ विशिष्टज्ञानविज्ञानतपोमाहात्म्यमण्डिताः। पण्डिताः सन्ति शतशः स्थापिताः सूरिशेखरैः ॥४९॥
विशिष्टज्ञानविज्ञानतपसां यद् महत्त्वं तेन मण्डिताः, सूरिशेखरैर्गुरुभिः, स्थापिताः शतशः पण्डिताः सन्तीति सामान्यतो निर्देशः ॥ ४९ ॥ अथ श्लोकचतुष्केण तानेव विशिनष्टिलक्षणार्णवपारीणमतिवैभवधारिणः । केचित्केचित्तर्कशास्त्रवाग्वाक्पत्यनुकारिणः ॥५०॥ केचित् पुनर्नव्यकाव्यकलाकौशलहारिणः। केचिच्च कौतुकाकीर्णाख्यानव्याख्यानकारिणः ॥५१॥ केचित् सकलसूत्रार्थप्रश्नप्रतिवचःप्रदाः। अगण्यगणितज्योतिःशास्त्रविज्ञाश्चं केचन ॥५२॥ केचित् साहित्यशास्त्राब्धिमथने मन्दराद्रयः।
Page #713
--------------------------------------------------------------------------
________________
६८८ विजयाशस्त्याम् । केचिच्च रुचिराचारविचारचतुराशयाः ॥ ५३ ॥ .
केचित् पण्डिताः, किं०, लक्षणार्णवस्य व्याकरणसमुद्रस्य सिद्धहमादेः पारीणं पारगामि यन्मतिवैभवं तद्धरन्तीत्येवंशीलाइति, अनेन वैयाकरणम्चनं, पुनः, केचित् पण्डिताः,तर्कशास्त्राणि जैनशैवभेदभिन्नानि यानि प्रमाणप्रकरणानि स्याद्वादरत्नाकरतत्त्वचिन्तामणिप्रमुखाणि तेषां या वाग् वाणी तत्र वाक्पत्यनुकारिणो बृहस्पतितुल्या इति तार्किकमूचनम् ॥ ५० ॥ पुनः केचित् पण्डिताः, नव्यं स्तवनाहम् , अथवा नव्यं तात्कालिकं यत्काव्यकलाकौशलं कवित्वशक्तिनैपुणं तेन हारिणो मनोहरा इति कवितृसूचनं, च पुनः, कंचित् पण्डिताः, कौतुकार्णािनि आख्यानानि यानि कौतुककथानकानि पाण्डवविक्रमार्कत्रिषष्टीयचरितप्रभृतीनि तेषां यद् व्याख्यानं सभासु क्षणकरणं तत्कुर्वन्तीत्येवंशीला इति व्याख्यानिवक्तृसूचनम् ॥५१॥ पुनः, केचित् पण्डिताः, सकलानि यानि सूत्राणि गणधरश्रुनकेवलिप्रत्येकबुद्धादिमुनिवरविरचितानि तेषामर्थविषयकप्रश्नपतिवचःप्रदाः पृष्टोत्तरपदायिन इति विशेषणमिदमङ्गोपाङ्गादिमूत्रवृत्तिभाष्यादिनिपुणपिशुनम् , पुनः, केचित् पण्डिताः, अगण्यं गणनाऽतीतं यद्गणितं गणितशास्त्रं त्रिशतीलीलावत्यादि, पुनः, ज्योतिःशास्त्रं चारम्भसिद्धिसुधीशृङ्गारवार्तिकरत्नमालाभुवनदीपकादि तत्र विज्ञा इति गणकमौहूर्तिकसूचनम् ॥ ५२ ॥ पुनः, केचित् पण्डिताः, साहित्यशास्त्राणि काव्यकलामूलानि यानि काव्यकल्पलताकाव्यप्रकाशकाव्यानुशासनकाव्यत्रयीकाव्यपश्चकचम्पूच्छन्दोऽनुशासनलिङ्गानुशासनादीनियानि कवित्वशास्त्राणि तद्रूपाब्धिमथने मन्दराद्रयो मेरुतुल्या इति; काव्यशास्त्रसमुद्रपारगामिन इति सूचितम्, च पुनः, केचित् पण्डिताः, रुचिरश्वारुर्य आचारः साधुसामाचारीश्रीओघनियुक्तिपिण्डनियुक्तिदशकालिकोत्तराध्ययनादिग्रन्थरूपः, तथा वि
Page #714
--------------------------------------------------------------------------
________________
एकविंशः सर्गः ।
चारच जीवविचारनवतत्त्वःस्वार्थप्रवचनसारसंग्रहणिकर्मग्रन्थादिग्रन्थरूपः, तत्र चतुराशया इति; अनेन विविधजैनविचारवेतृसूचनम् ।। ५३ ।।
इत्याद्युत्कर्षकलितैः सार्धकद्विशतीमितैः । विद्भिर्भाति गच्छोऽयं रत्नौवैरिव रोहणः ॥ ५४ ॥
६८९
इत्यादयो ये व्यावर्णिता उत्कर्षा ज्ञानादयस्तत्कलितैः, पुनः सार्धद्विशतीप्रमाणैः कैश्चिच्छ्रीहीरविजयसूरिस्थापितैः, कैविच्च श्रीगुरुहस्तस्थापितैः, विद्वद्भिः पण्डितैः, गीतार्थैरिति यावत्; अयं गच्छस्तपागणः, रत्नौघैः रोहणाचल इव भातीति ॥५४॥ श्रीमद्विजयसेनाह्वसूरिदृक्प्रथितोदयः । द्विसहस्रीमितः साधुसमुदायोऽस्ति संप्रति ॥ ५५ ॥
"
श्री विजय सेन मूरिप्रसन्नदृशा प्रथित उदयो यस्येति सः, साधूनाम्, अर्थात् साध्वीसमेतानां द्विसहस्रीमितः समुदायः सांप्रतमस्तीति ॥ ५५ ॥
अनेन साधुसाध्वीनां समुदायेन सूरिराट् । अन्वितो विहरत्युर्व्या स्वयूथेनेव यूथराट् ॥ ५६ ॥
सूरिराट् श्रीविजयसेनमूरिमुख्यः अनेन उक्तप्रकारेण साधुगणेनान्वितो यूथेन गजसत्केन, यूथराडिव गजेन्द्र इव, उर्व्या पृथ्व्यां, विहरतीति ॥ ५६ ॥
66
"
श्रीगुरोरुपदेशेन स्थाने स्थाने पुरे पुरे । ग्रामे ग्रामे विदधिरे श्रावकैः सुविवेकिभिः ॥ ५७ ॥ प्रासादा विशदा द्वेधा कलधौताचलश्रियः । नन्दीश्वरादिप्रतिमाप्रतिमाः प्रतिमाः पुनः ॥ ५८ ॥
Page #715
--------------------------------------------------------------------------
________________
विजयप्रशस्त्याम् ।
गतार्थोऽयम् ।। ५७ ।। किं विदधिर इत्याह- प्रासादा विदधिरे कृता इत्यन्वयः, किं०, द्वेधा वर्णत उच्चत्वतश्थ, कलधौताचलो रूप्याद्रिः सुमेरुव तद्वत् श्रीर्येषां ते पुनः, विशदा निर्मलाः, पुनः, नन्दीश्वर द्वीपस्थजिनप्रतिमानां प्रतिमास्तुल्याः, प्रतिमा विदधिरे || युग्मव्याख्येयम् ॥ ५८ ॥
-६९०
अथ गुरूपदेशाद् यत्र जीर्णोद्धारा जातास्तदाहक्रीडाऽऽश्रये जयश्रीणां श्रीमच्छत्रुञ्जये गिरौ । उत्तुङ्गशृङ्गे तारङ्गे श्रीविद्यानगरे पुनः ॥ ५९ ॥ पुरे राणपुरे प्रौढेऽप्यारासणपुरे पुनः । पत्तनादिषु नगरेष्वपि शङ्केश्वरे पुरे ॥ ६० ॥ श्रीसूरीन्द्रोपदेशेन संनिवेशेन संपदाम् । जाता जगज्जनोद्धारा जीर्णोद्धारा अनेकशः ॥ ६१॥
जयश्रीणां क्रीडाsssये के लीगृहे, श्रीशत्रञ्जये, पुनः, तार, किं०, उत्तुङ्गशृङ्गे उच्चशिखरे, पुनः, श्रीविद्यानगरे इलादुर्गाधीश्वरस्य वैषम्ये सति वसतिस्थानीये ॥ ५९ ॥ पुनः, राणपुरे पुरे धरणचतुर्मुखविहारभूषिते, अपि पुनः, आरासणपुरे श्रीविमलमन्त्रिकारितप्रासादेषु, पुनः, पत्तनादिषु नगरेषु श्रीपञ्चासरपार्श्वनाथश्रीनारङ्गपुरयिपार्श्वनाथादिप्रासादानां पुनः शङ्खश्वरग्रामे च श्रीपार्श्वनाथस्य मूलतोऽपि नवीनशिखरबद्धमासादनिर्मापणम् ॥६०॥ संपदां संनिवेशेन स्थानेन श्रीसूरीन्द्रस्य उपदेशेन इत्यादयोऽनेकशो जीर्णोद्धाराः, किं०, जगज्जनानामुद्धारो येभ्यस्ते, जाता अभूवन् । इति त्रिभिर्विशेषकम् ॥ ६१ ॥ 'अथ गुरोश्चरितमुपसंहरन् गुरुमूर्तिमेव वृत्तद्वयेन वर्णयति - किं लक्ष्मीः पुरुषोत्तमप्रणयिनी किं पार्वती वामक् किं ब्राह्मी कवितुष्टिकृत् किम्र शची शश्वद् वृषोल्लासिनी ?
Page #716
--------------------------------------------------------------------------
________________
एकविंशः सर्गः। ६९१ कि वेयं रुचिरस्ति मित्रहृदयाह्लादप्रदानोद्यता
सौभाग्यैकमयीं विलोक्य विबुधैर्यन्मूर्तिमित्युच्यते॥६२॥ - यन्मूर्ति, कि०, सौभाग्यकमयीं केवलसौभाग्यशालिनी, विलोक्य,विवुधैः पण्डितैः,इति पूर्वपदत्रयीवर्णितं यथा,इति उच्यते, इति क्रियाकारकसंपर्कः । तदेवाह-इयं किं लक्ष्मीः?,तन हेतुमाहकि०, पुरुषोत्तमप्रणयिनी, मूर्तिपक्षे पुरुषोत्तमा नरोत्तमाः शाहिश्रीमदकब्बरप्रभृतयस्तेषां प्रणयिनी वल्लभा, पक्षे पुरुषोत्तमो नारायणस्तस्येति, पुनः, किं पार्वती ?, किं०, वामदृग् मनो. जनयना मनोज्ञदर्शना वा, पक्षे वामे महेश्वरे दृग् दृष्टिर्यस्याः सेति पुनरियं किं ब्राह्मी ?, किं०, कवीनां पण्डितानां, तुष्टिकृत् , पक्षे कवेर्विधातुस्त-पुत्रीत्वादिति, पुनरियं किं शची ?, किं०, शश्वत् सततं वृपस्य धर्मस्य उल्लासिनी, पक्षे वृषा शक्र. स्तस्येति, वाऽथवा, इयं किं रुचिरस्ति ?, अस्तीति क्रिया सर्वत्र योज्यते, किं०, मित्राणां सुहृदां, हृदयाहादप्रदाने उद्यता उत्सुका, पक्षे मित्रस्य सूर्यस्य तत्कलत्रत्वादिति; शेषं सुगमम् ।। ६२॥ मूर्तिर्यस्य गुरोर्निकामसुभगाऽस्त्यानन्दकन्दाङ्करः किश्चात्रैव मनोज्ञसङ्गतिरयं रम्यो गुणानां गणः । योगं रत्नसुवर्णयोरिव सृजन् धाताऽनयोर्दूषणं खीयं रत्नविडम्बकोऽयमिति यद् विद्मः पिधत्ते स्म तत्।६३॥ ___यस्य गुरोर्मूर्तिनिकाममत्यर्थं सुभगा अस्तीत्यन्वयः । अत एव किं०, आनन्दकन्दाङ्कुरः सर्वेषामप्यालादहेतुत्वात् , किञ्च, अत्रैव मूर्ती शरीरे, अयं गुणानां ज्ञानादीनां व्यावणितस्वरूपाणां, गणो रम्यो रुचिरोऽस्तीति, कि०,मनोज्ञसङ्गतिस्तुल्यसनम इति, अतः कारणात् , अनयोर्गरुमूर्तिगुणगणयोः,
Page #717
--------------------------------------------------------------------------
________________
६९२ विजयप्रशस्त्याम् । रवसुवर्णयोरिव योग संबन्धमैकाधिकरण्यलक्षणं, सृजन् कुर्वन् , धाता वेधाः, रत्नविडम्बकः "रत्नदोषी विधाता" इति स्वीयं दूषणं यद् वर्तते,वयमिति विद्मः किं तत् पिधत्ते स्माऽऽच्छादयति म?, इति स्वं कलङ्कं किं निराकरोत् १, इति तत्त्वम् ॥ ६३ ॥ अथ गुरोः सर्ववर्णनपूर्वकमाशीर्वादस्तथाहिपुरे पुरे भूरिमहेभ्यसभ्य- . · वदान्यराजन्यकराजमान्यैः । जनैः कृताऽतुच्छमहोत्सवौधै
धन्यैरजन्यैरभिगम्यमानः ॥ ६४ ॥ पुरे पुरे तुम्बुरुकिंनरस्वरै
गन्धर्ववगैः कृतगीतगानः । पुरे पुरे पौरमहीमहेन्द्रैः . प्रदीयमानाऽनभिमानमानः ॥ ६५ ॥ संस्तूयमानोऽनघसङ्घलोकै
रिवाऽब्जिनीशोऽखिलवालिखिल्यैः। अभ्यर्चितः काञ्चनरूप्यपुष्प
रूपैः सुरूपैः सुरवृक्षवच्च ॥ ६६ ॥ श्रीभारतं खण्डमखण्डमेतत्
प्रोल्लासयन् पङ्कजिनीशितेव । तमो हरन् विश्वगतं समन्ता- चिरं जयत्येष गुरुगरीयान् ॥ ६७ ॥
गुरुः किं०, पुरे पुरे नगरे नगरे, स्थाने स्थाने वा; जनैः, किं०, भूरिंमहेभ्या वहुधनाढ्याः,पुनः, सभ्याः सभास्तारः, पुनः,
Page #718
--------------------------------------------------------------------------
________________
एकविंशः सर्गः।
६९३ वदान्या दानशीलाः, पुनः, राजन्यका राजसमूहा राजवर्गीणा वा, पुनः, राजमान्या अगत्यश्रेष्ठ्यादयस्तैः, किं०, कृता अतुच्छा महोत्सवौघा यैस्तैः, अत एव धन्यैः पुण्ययुतैः, पुनः, अजन्यैः अकलहैः, अभिगम्यमानः सेव्यमान इति ॥ ६४ ॥ पुनः, पुरे पुरे गान्धर्ववर्गायनगणैः, किं०, तुम्बुरुकिन्नरौ देवगायनोत्कृष्टौ तयोरिव खरो येषां तैः, कृतं गीतगानं यस्य सः, पुनः, पुरे पुरे पौरैर्नागरैर्महीमहेन्द्रैश्च राजभिः, प्रदीयमानमनभिमानं निरहङ्कृति मानं पूजा यस्य सः ॥ ६५ ॥ पुनः, वालिखिल्यैः सूर्यबन्दिविशेषः, अब्जिनीशः सूर्य इव, अनघसङ्घलोकैः संस्तूयमानः, च पुनः, गुरुः किं०, सुरवृक्षवत् का. श्चनरूप्याणां यानि पुष्पाणि रूपाणि च नाणकानि तैः, काञ्चनरूप्यपुष्परूपैः, किं०, सुरूपैः रम्यैः, अभ्यर्चितः पूजित इति॥६६॥ पुनः, श्रीभारतं खण्डं भरतार्धम् , अखण्डं यथा स्यात् तथा, पइजिनीशितेव सूर्य इव, प्रोल्लासयन्, पुनः, विश्वगतं जगद्वति तमो ध्वान्तं पापं च, समन्तात् सर्वतः, हरन् , एष गुरुः श्रीविजयसेनमूरिः, चिरं जयतीति । अत्र वर्तमानार्थविभक्तेः प्रयोगाद् गुरौ समीपवर्तिनि सत्येष ग्रन्थः पूर्णीकृत इति सूचितम् ॥ चतुर्णा व्याख्या ।। ६७॥ अथाऽस्य काव्यस्याऽऽशीर्वादावसरःश्रीहीरहीरविजयाभिधसूरिसिंह
श्रीपट्टभृद्विजयसेनमहामुनीन्दोः ।
सौभाग्यपद्धतिरियं मुदितं करोतु ... चेतः सतां शशिकलेव चकोरकाणाम् ॥६८॥
श्रियां गच्चैश्वर्य रूपलक्ष्म्यां हीरो मणिरिव श्रीहीरो यो हीरविजयाभिधः मूरिसिंहस्तस्य यः श्रिया युक्तः पट्टभृत् श्रीपट्टधारी विजयसेनो नाम्ना महामुनिषु इन्दुरिव यस्तस्य श्री
Page #719
--------------------------------------------------------------------------
________________
६९४
विजयप्रशस्त्याम् । हीरहीरविजयाभिधसूरिसिंहश्रीपट्टभृद्विजयसेनमहामुनी दोः, इयं विजयप्रशस्तिनाम्नी सौभाग्यमयी शास्त्रपद्धतिः, चकोरकाणां शशिकलेव, सतां पण्डितानां सज्जनानां वा, चेतो मुदितं हर्षितं करोत्वित्याशीः ॥ ६८॥ . पुनरप्याशिषं दिशति
श्रीसूरिराड्विजयसेनमुनीन्द्रचन्द्र
माहात्म्यवर्णनविधाननिधानभूमिः । नानामनोज्ञतरतुङ्गरसाभिरामा ..
भूयादियं विजयिनी विजयप्रशस्तिः ॥६९॥ श्रिया युक्तो यः मूरिराट् विजयसेन नीन्द्रचन्द्रस्तस्य यन्पाहात्म्यवर्णनविधानं तदेव निधानं तस्य भूमिरिव भूमिः, इयं विजयप्रशस्तिः, कीदृशी, नानाप्रकाराः पुनर्मनोज्ञतरारम्यतमाः, पुनः, तुझा महान्तो ये रसाः, ग्रन्थपक्षे शृङ्गारादयः, भूमिपक्षे रसा मधुरादयः, तैः अभिरामा चार्वी नानामनोज्ञतरतुङ्गरसाऽभिरामा, विजदिनी विजयवती, भूयात् सर्वोत्कर्षेण वर्ततामिति।।६९॥
अथ विशेषादाशीर्वादमाह-- . यावद् व्योमपथाध्वगौ विचरतः श्रीपुष्पदन्ताविमौ यावद् वारिधिरन्तरीपकमलां धत्ते धरित्र्याः पुनः । यावत् स्वर्गसदां गिरिश्च भुवनाम्भोजे भवेत् कर्णिका तावत् काव्यमिदं सदा विजयतां कुर्वत सतां मङ्गलम् ।७०।
यावत्कालम् , इमौ पुष्पदन्तौ सूर्याचन्द्रमसौ, किं०,व्योमपथाध्वगौ नभःपथपथिको, विचरतो भ्राम्यत इति, पुनः, यावद् वारिधिः समुद्रः, धरित्र्याः पृथ्व्याः , अन्तरीपकमलां निवसन-श्रियं, धत्ते धरति, च पुनः, यावत् स्वर्गसदां देवानां, गिरिराद्
Page #720
--------------------------------------------------------------------------
________________
एकविंशः सर्गः।
६९५ मेरुः, भुवनाम्भोजे जगत्कमले, कर्णिका भवेत् , पमनालतामालम्बते, तावत्कालम्, इदं विजयप्रशस्तिनामकं, काव्यं सतां पुसां, मङ्गलं कल्याणं, कुर्वत् , सदा नित्यं, विजयतां शाश्वतं विजयवद् भूयादिति भावार्थः ॥ ७० ॥ .
............................. . इतीति समस्तं पाठसिद्धम् । इति सुविहितसभासार्वभौमसमानसकलपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिशिष्यमुख्यपण्डितपुण्डरीकप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां सुखावबोधिकायां श्रीविजयमदीपिकाभिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायामेकविंशः सर्गोऽर्थतः
समर्थितः॥ तत्समाप्तौ च समाप्ता श्रीविजयप्रशस्तिमहाकाव्यवृत्तिः।
MATANI
ASEANR
KALA
Page #721
--------------------------------------------------------------------------
________________
प्रशस्तिः ।
प्रशस्तिरूपो ग्रन्थोऽयं तत्मशस्तिरिहाऽस्तु का। तथापि निजगुर्वादिस्वरूपं तु निरूप्यते ॥१॥ विबुधानन्दने श्रीमद्वीरशासननन्दने । शोभते श्रीतपागच्छः सुरगच्छ इवोदयीं ॥२॥ राकेन्दुरिव यो गच्छः स्वच्छस्तन्नास्ति कौतुकम् । जानक्रियामये पक्षद्वये पूर्णस्तदद्भुतम् ॥ ३॥ तत्तपगणगगनाङ्गणतरुणतरणिकरणितेजसः ऽकीर्णाः । श्रीहीरविजयसूरिप्रभवोऽभूवन् भुवनविदिताः ॥ ४॥ तत्पपद्मिनीपद्मबन्धवः श्रुतसिन्धवः। श्रीमद्विजयसेनाख्याः सूरयो गुणभूरयः ॥५॥ तत्पदृदुग्धजलनिधिचन्द्रः श्रीविजयदेवसूरीन्द्रः। . गौतमतः प्रति संपति जयति भरतभूपणं भगवान् ।।६।। ध्यानस्य चाऽपि धान्यस्याप्यन्तरे न महत्यपि । सादरः सोऽग्रहीत् पूर्वमपरं तु निरादरः ॥ ७ ॥ अहो ! चित्रमहो ! चित्रमहो ! माहात्म्यमुत्तमम् । अनार्येष्वपि धुर्येण फरङ्गीपातशाहिना ॥ ८॥ यस्मिन् सूरौ चतुर्मासीमासीने द्वीपवन्दिरे । सदा व्याख्याविधानाऽऽज्ञा ददे साऽद्यापि वर्तते ।। ९॥
(युग्मम् ) यैः प्रतिष्ठाश्चतस्रश्च कृताः पत्तनपत्तने । तत्र राजतमुद्राणाम लक्षं व्ययीकृतम् ।। १०॥ . स्तम्भतीर्थे महातीर्थे प्रतिष्ठानां त्रयं तथा। रूप्यका व्ययितास्तत्र सहस्राणि चतुर्दश ॥ ११ ॥
Page #722
--------------------------------------------------------------------------
________________
प्रशस्तिः । पुनर्यै राजनगरे प्रतिष्ठाद्वयमद्वयम् ।, •विदधे व्ययितं. तत्र श्राद्ध रूप्यायुतं तथा ॥१२॥ नटीपद्रे चटद्रङ्गे प्रतिष्ठैका प्रतिष्ठिता । श्रीबृहन्नगरे वीरमतिष्ठा विश्वविश्रुता ॥ १३ ॥ इयराख्यनगरे स्वावतारेण सुन्दरे । प्रतिष्ठात्रितयं चक्रे येन मूरिषु चक्रिणा ॥ १४ ॥ जीर्णे श्रीमयुगादीशे यवनैर्व्यङ्गिते सति । तत्पदे स्थापितो गेन नूतनः प्रथमप्रभुः ॥१५॥ तथा यैः सावलीस्थाने प्रतिष्ठाद्वितयं कृतम् । पुनरारासणस्थाने स्थापिता मूलनायकाः ।। १६ ॥ येन जार पुर्या च काञ्चनाऽचलमौलिगे। - . विहारे स्थापितो वीरो वीरहीरानुकारिणा ॥ १७ ॥ प्रतिष्ठाद्वैतमद्वैतं श्रीमन्मालवमण्डले। .. उज्जयिन्यां महापुर्या पुरे रामपुरेऽपि च ॥ १८ ॥ दक्षिणस्यां च कनडीबीजापुरपुरे तथा । प्रतीच्यां च कच्छदेशे प्रतिष्ठा येन निर्ममे ॥ १९ ॥ प्रतिष्ठे द्वे चोत्तरादिङमण्डने मेडतापुरे।। इत्याद्यनेकस्थानेषु प्रतिष्ठा यैर्विनिर्मिताः ॥२०॥ श्रीमण्डपे मण्डपाद्रौ दृष्टा यद्रूपमद्भुतम् । श्रीअकब्बरभूशक्रसूनुः शाहिः सलेमराट् ॥ २१॥ तपागच्छश्रावकेन्द्रचन्द्रपालादिसाक्षिकम् । • महातपाजिहागीरीविरुदं दत्तवान् मुदा ॥ २२ ॥
(युग्मम्.)
विक्रमार्कमहीभर्तुर्विधुसिद्धिकलामिते । वर्षे हर्षेण सर्वर्षिसुरर्षभसमश्रिया ॥ २३ ॥ येन श्रीमदिलादुर्गे षष्ठ्या मासि च माधवे । पवित्रे पुण्यनक्षत्रे दिने कुमुदिनीपतेः ॥ २४ ॥
Page #723
--------------------------------------------------------------------------
________________
प्रशस्तिः ।
कनकविजयाभिधानः श्रीवाचकमुख्यमण्डलीसिंहः । संस्थापितो निजपदे रिर्नान्ना विजयसिंहः ॥ २५ ॥
(त्रिभिर्विशेषकम् ) पालमरालेन यथा राजमरालो बिभर्ति भुवि शोभाम् । श्रीविजयसिंहगुरुणा तथा विजयदेवसूरीशः ॥२६॥ श्रीगौतमगणधरवद् विजयात् सिंहाभिधानमूरिवरः। श्रीवीरस्येव पुरो विराजते विजयदेवगुरोः ॥ २७ ।। उत्तराध्ययनानीव तुर्योपाङ्गपदानि वा। पत्रिंशद् यत्र राजन्ते गुणास्तपगणाधिपे ॥२८॥ श्रीविजयदेवरेस्तस्य श्रीविजयसिंहसूरेश्च । राज्ये प्राज्ये विजयिनि वारिनिधाविव सदाऽस्ताघे ॥२९॥ इतश्चपूर्व तपागणेऽभूवन् मुनिसुन्दरसूरयः। तेषां राज्ये विरेजुः श्रीलक्ष्मीभद्राभिधा बुधाः ॥३०॥ रनशेखरसूरीशरचिता याऽर्थदीपिका। साऽपि संशोधिता यैः श्रीलक्ष्मीभद्रविशारदैः ॥ ३१॥ यैर्दीक्षिताश्च पत्रिंशद् विनेयास्तेषु तात्त्विकाः । तत्त्वप्रकाशिकाटीकापाठिनोअष्टादशाऽभवन् ॥ ३२ ॥ लक्ष्मीभद्रीयशाखायां शाखायामिव शाखिनः । नानाशिष्यफलश्रेणीपेशलायामिलातले ॥ ३३ ॥ श्रीहेमविमलसूरेवारेऽभूवन् मनीषिशुभविमलाः । गङ्गातरङ्गविमला मनसा वचसा च वपुषा च ॥ ३४ ॥ तत्पादामरभूधरबन्धुरशोभाविधावमरतरवः । श्रीअमरविजयविबुधा विबुधाचार्या इव खधिया ॥ ३५ ॥ तत्क्रमणयमलकमलाऽऽकरकमलाकरणकमलकरकल्पाः । श्रीकमलविजयकोविदकमलाधीशा भुवि बभूवुः ॥ ३६ ।। शाददर्शनचारित्रगुणा यद्गुणा इह ।
Page #724
--------------------------------------------------------------------------
________________
मशस्तिः ।
अनुचक्रुः प्रमाणेन तार काम्बरसागरान् ॥ गुणानां स्पर्धया येषां दोषा अपि दधुस्तुलाम् । मरीचिकादकाssकाशकजवन्ध्यातनूरुहाम् ||३८|| हृद्यविद्यागुणगणैर्विनेयपटलीपटीः
६९९
पाणिवेनावयति स्म येषां वाक्चातुरी तुरी ॥ ३९ ॥ अहो ! लाभोदयो यैस्तु दीक्षिता शिष्य सप्ततिः । तत्र पञ्चदशाऽभूवन् पण्डिता 'द्वौ च वाचकौ ॥ ४० ॥ येषां गीतार्थसार्थेषु मुख्यताऽभूत् तपागणे । प्रहेष्विव मरुन्मार्गे पद्मिनीयसामिव ॥ ४१ ॥ तेषां तनूर्द्वितीयेव तृतीयमिव लोचनम् । श्रीविद्याविजयो विद्वान् विद्यानां निधिभूरभूत् ॥ ४२ ॥ ज्ञानविज्ञानमुख्यास्तु यस्मिँल्लोकम्पृणा गुणाः । नासिकेव मुखे किन्तु विनयो दिद्युतेतराम् ॥ ४३ ॥ शिष्यभावेन तस्याहं दत्तस्तैः श्रीगुरूत्तमैः । निरक्षरोऽप्यथो तेन शिक्षया साक्षरीकृतः ॥ ४४ ॥ याभ्यां कुञ्जरतां नीतः पूतरप्रतिमोऽप्यहम् । ताभ्यां गुरुभ्यामनृणी भवेयं कथमाभवम् ॥ ४५ ॥ मातापित्रोरिव तयोः प्रसादादेव केवलम् । आलपन् बालवत् किञ्चिद् न निन्द्योऽहं महत्तरैः || ४६ ॥ अथो बृहद्गुरोः शिष्यो गुरोश्च गुरुसोदरः । श्रीमविजयोऽभिज्ञो जज्ञे कविषु कुञ्जरः ॥ ४७ ॥ श्रीहेमसुकवेस्तस्य हेमसूरेरिवाऽभवत् । बाग्लालित्यं तथा देवे गुरौ भक्तिव भूयसी ॥ ४८ ॥ यदीया कविताकान्ता न केषां कौतुकावहा ? | विनापि हि रजो यस्माद् यशः सुतमसूत या ॥ ४९ ॥ तेन श्रीविजयसेनसुरेः सर्वज्ञचित्तहृत् ।
१ उपाध्याबश्रीगुणविजयगाणि - उपाध्यायकुशश्रीलसागरगणिनामानौ पाठकावभूताम् ।
Page #725
--------------------------------------------------------------------------
________________
७
मशस्तिः ।
कोलनीतल्या कीर्तिकलोलिनी कृता ॥ ५० ॥ 'अन्येऽपि स्तुतित्रिदशतरङ्गिण्यादयो घनाः । रचयाञ्चक्रिरे ग्रन्थाः स्तोत्राणि शतशः पुनः ॥ ५१ ॥ चतुर्विंशत्यर्हतां च विजयस्तुतयः पुनः । बाल्ये ऽप्यवालधीगम्यं श्रीपार्श्वचरितं महत् ॥ ५२ ॥ सद्भावशतकं चापि कस्तूरीप्रकरः पुनः । सूक्तरत्नावलिचाप्यन्योक्तिमुक्तामहोदधिः ।। ५३ ।। चक्रे वक्रेतरो येन कथारत्नाकरः स्फुरन् । व्याख्यापीयूषलुब्धानां विबुधानां गनोहरन् ॥ ५४ ॥ इत्यादिग्रन्थविधौ सौधे कलसाधिरोपणसवर्णम् । विजयप्रशस्तिकाव्यं तेन कृतं विजय सेनगुरोः ॥ ५५ ॥ इतस्तस्य कवीन्द्रस्य दैवाद् दिवमुपेयुषः । पश्वाद् मयाऽथ विवृतं तत्काव्यं गुरुशासनात् ॥ ५६ ॥ एवं सत्यपि सन्ति च वक्तारश्चतुरचक्रिणः । केचित् सुगमा हैमी कृतिरिति तस्याष्टीका निरर्थैव ॥५७॥ तत् साधु साध्वभिदधे शृण्वन्तु प्रतिवचोऽहमपि विदधे । आलोके सति मङ्गलदीपो दिवसे न किं क्रियते १ ॥ ५८ ॥ अथवा दृक्तर्पणको दर्पणको रविपुरो न किं धियते १ । काव्यस्यास्याऽपि तथा सुगमस्यापि हि भवतु विवृतिः ॥ ५९ ॥ इत्याकूतकृतधिया वाचकगुणविजयनामधेयेन । विद्याप्रदानसुरतरुपितृव्यगुरुरक्तहृदयेन ॥ ६० ॥ श्री विजयदेवसूरेः सांनिध्यादल्पबुद्धिबोधाय । बोधाय च केषाञ्चिद् विदुषां च मनोविनोदाय ॥ ६१॥ विजयप्रशस्तिकाव्यप्रकाशिका विजयदीपिका टीका । विदधे विक्रमनृपतेर्वर्षे वसुवसुनृप १६८८ प्रभिते ।। ६२ ॥
(विशेषकम् )
१ सुधिया गुणविजयनामधेयेन ।
Page #726
--------------------------------------------------------------------------
________________
मस्ति। मलमार्तण्डसंयोगे योगे सौभाग्यनानि च । असौ सौभाग्यपञ्चम्यां पूर्णा सौभाग्यमश्नुताम् ॥ ६ मारब्धेलादुर्गे बही विदधे च योधपुरदुर्गे ।. भीमालेऽपि च कियती श्रीरोहिण्यां च पूर्णेयम् ॥ ६४ ॥ पूर्णा गीर्वाणगुरोस्तपागणगुरोः प्रसादतश्चैषा । जाताऽऽदेवमस्याऽनवमस्य परस्य तच्चित्रम् ॥६५॥ सारासारविवेकमवेकमतिभिः समेतशमसौख्यैः। पैरशिकसैद्धान्तिकतार्किकवैयाकरणमुख्यैः ॥ ६६ ॥ श्रीचारित्रविजयवरवाचकराजैरशोधि वृत्तिरियम् । यत्किञ्चिदिह विरुद्धं स्याच्छोध्यं सज्जनैस्तदपि ॥ ६७ ॥ यतः
(युग्मम्) गच्छतः स्खलनं कापि भवत्येव प्रमादतः। इसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ ६८॥ गीतरतेर्या भार्या चातुर्याहार्यवर्यमाधुर्या ।
कविरत्नगन्धमाता सा जयतु सरस्वतीमाता॥ ६९॥ श्रेयःस्फूर्तर्यस्य मूर्तेः पुरस्तादेषा टीका पूरिता दूरिताऽऽपत् । भूयात् सोऽयं सद्गणश्रेणिसिद्ध्यै जीरापल्लीपार्श्वनाथः प्रसिद्ध्यै ७०
अस्य काव्यस्य टीकायां ससूत्रायामनुष्टुभाम् । सहस्रा दश संजाताः साधिकाः सर्वसंख्यया ॥ ७१ ॥ इति महोपाध्यायश्रीगुणविजयगणिविरचिता
श्रीविजयप्रशस्तिकाव्यकृत्तिप्रशस्तिः ।
Page #727
--------------------------------------------------------------------------
Page #728
--------------------------------------------------------------------------
_