SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३५८ विजयाशस्त्याम् । धत्ते स्म धात्री पुरि तत्र दन्तिनां सिन्दूरपूरैर्निपतहिरिन्दिराम् । खाहाऽशनानां पदवीव नूतन प्रद्योतनस्योस्रभरैरिवोषसि ॥ १७ ॥ तत्र पुरि दन्तिनां सिन्दूरपूरैनिपतद्भिः सद्भिः, धात्री भूमिः, इन्दिरां श्रियं, धत्ते स्माधात् ; यथा उपसि प्रभाते, नूतनप्रद्योतनस्य उद्यद्भानोः, उसभरैः किरणगणैः, स्वाहाशनानां पदवी गगनमिवेति दृष्टान्तः ॥ १७ ॥ शृङ्गारिभृङ्गारमनोज्ञमस्तका- अग्रे ब्रजन्त्यो व्यभुरब्जलोचनाः । किं संचरन्त्यो भुजगेश्वरस्त्रियः कुम्भं सुधायाः प्रविधाय मूर्धनि ? ॥ १८ ॥ तदा अग्रे गुरोः पुरः, व्रजन्त्योऽजलोचनाः खियः, व्यः शोभन्ते म । किं०, शृङ्गारी शृङ्गारवान् यो भृङ्गारः पूर्णकुम्भस्तेन मनोझं मस्तकं यासां ताः, किं०, भुजगेश्वरस्त्रियो नागेन्द्रनार्यः, सुधायाः कुम्भं मूर्धनि प्रविधाय संचरन्त्यः सन्ति, किमित्युत्भेक्षा ॥ १८ ॥ सौवर्णरानाभरणा विरेजिरे श्राद्धास्तदा तत्र करीन्द्रकुम्भगाः । आगाद् गजस्थस्त्रिदिवाद् विवन्दिषू रूपैरनेकैरिव नाकिनायकः ॥ १९ ॥ तदा तत्र पुरे, श्रादाः किं०, सौवर्णानि सुवर्णसंबन्धीनि
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy