________________
द्वादशः सर्गः।
४७७ धिक्कृताः कयं झायन्त इत्याहपृथौ शाहिसभापूर्वदिशि सूर्यायिते गुरौ । नश्यन्ति स्म समे भट्टा निशाटा इव दुर्दशः॥२१५॥
शाहेः सभैव पूर्वदिक् तस्यां सूर्य इवाचरितः सूर्यायितस्तस्मिन् सूर्यायिते, गुरौ सति, समे सर्वे, भट्टा निशाटय घूका इव, नश्यन्ति स्म प्रणेशुरिति भट्टाः किं०, दुष्टा दृग् मतिर्येषां ते, चूकाः किं०, दुष्टा अन्धत्वभवनाद् दोषदूषिता हा दृष्टिर्येषां ते इति ।। २१५॥
सूरिणा निजिता जाता अबला वादिनस्तदा । चित्रं न तेऽत्र पौराणां कामानन्दनिबन्धनम् ॥२१६॥
तदा तत्रावसरे, मूरिणा निर्जिताः सन्तः, वादिनोऽबलानिर्बलाः, त्रिरश्च जाता इत्यन्वयः, तथापि ते अबला सन्तोऽपि पौराणां न कामानन्दनिबन्धनं भवन्तीति चित्रं, पक्षे काममत्यर्थमानन्दस्तस्य निबन्धनं निदानमिति ॥ २१६ ॥
श्रीअकब्बरभूपस्य सभासीमन्तिनीहदि । तत्कीर्तिमौक्तिकीभूता वादिवृन्दजयाब्धिजा॥२१॥
अथ दुर्वादिनिर्मदीकरणेन तत्कीर्तिर्गुरोः कीर्तिः, अकब्बरभूपस्य सभैव सीमन्तिनी रमणी तस्या हृदि, मौक्तिकीभूता मुक्ताफलोपमा जातेति, अत एव कीर्तिः किं०, वादिवृन्दस्य जय एव अब्धिः समुद्रस्तज्जा तस्मादुद्भूता, अन्यदपि मौक्तिकं समुद्रादुद्भवतीति सुस्थम् ॥२१७॥ जित्वा द्विजान् पुरः शाहेः कैलास इव मूर्तिमान् । तैरुदीच्यां यशःस्तम्भः खो निचख्ने सुधोज्ज्वलः॥२१॥