SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४७६ विजयप्रशस्त्याम् । हेतुना चिन्मयं ज्ञानमयं पञ्चविधशरीरपरित्यागात्, तथाऽद्वितीयमनुपममित्यर्थः || २११॥ इत्यभूद् वचसा सूरेः शाहिचित्तमसंशयम् । मार्तण्डमण्डल इवाऽजडिमा मधुनर्तुना ॥ २१२ ॥ इतीति प्रकाशितरीत्या, सुरेर्वचसा शाहिचित्तं असंशयं निःसंदेह, अभूज्जातमिति इव यथा, मार्तण्डमण्डलः सूर्यविम्बः, 'मधुना ऋतुना वसन्तेन, अजडिमा अजाड्यभाग्, भवतीति तथेदमपीति ।। २१२ ॥ वादिनामेव सर्वेषां वदनानि विसारिणा । सद्यः पिदधिरे सूरेः स्फूर्जन्महात्म्यवाससा ॥२१३॥ यथावस्थितपरमेश्वरस्वरूपप्रकटीकरणाच्छाहिचेतसो निःशङ्कीभवने किं जातम् ?, इह एवेति निश्वये, सर्वेषां वादिनां वदनानि मुखानि, सूरे: स्फूर्जद् जाग्रद् यन्माहात्म्यं तदेव वासो वस्त्रं तेन विसारिणा प्रसरणशीलेन, सद्यः शीघ्रं पिदधिरे च्छन्नानीति ॥ २१३ ॥ 9 असत्प्रलापिभिः किं फलं लब्धमित्याहअर्हन्मतैकप्रासादपिप्पलाः कुप्रलापिनः । धिक्चक्रिरे द्विजन्मानः सर्वेऽमी शाहिनाऽमुना ॥ २१४॥ अमी द्विजन्मानेो विप्राः, अमुना प्रत्यक्षेण शाहिना, धिक्चक्रिरे धिक्कृता इति किंलक्षणा इत्याह- अर्हन्मतं जनमतं तद्रूप एकोऽद्वितीयो यः प्रासादस्तत्र विनाशहेतुत्वात् पिप्पला इव पिप्पलाः, अत एव कुप्रलापिनः ये च कुप्रलापिनस्ते धिक्कारं लभन्तएव इति जगत्मतीतोऽयं न्याय इति ।। २१४ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy