________________
चतुर्थः सर्गः ।
१७९
हि आदरेणाकर्णने पानमिति प्रयोगः, यथा नैषधाख्य महाकाव्याऽऽदिमकाव्ये - 'निपीय यस्य क्षितिरक्षिणः कथाः' इत्यत्र कथा निपीयेति कथा निपीयाऽत्यादरेण आकर्ष्णेति व्याख्याने, तथा पपात्रत्रापि अत्यादरेण भणति स्मेति भावार्थः । दृष्टान्तो यथा - ग्रीष्मेण निदाघेन, तप्तो भुवां भागो महीप्रदेशः, अन्दाद् मेघात्, निपतत् पयः पानीयं पिवतीति ॥ ९८ ॥ हीरहर्षमसंहर्षमात्तात्मसमवाष्प्रयम् । गुरुर्गुरुमिवाऽऽलोक्य दध्यावित्यन्यदा हृदि ॥९९॥
असंहर्ष अमत्सरं, हीरहर्ष मुनिं पुनः किं०, आत्तानि गृहीतानि आत्मनः समानि तुल्यानि समानि समस्तानि वा वाङ्मयानि येन तं पुनः किं०, गुरु बृहस्पतिमिव, बुद्ध्येत्यध्याहियते, आलोक्य गुरुरिति वक्ष्यमाणं, हृदि दध्यौ ध्यातवान् ।। ९९ ।। तदेवाह
स्वकीयं परकीयं च योऽधीते वाङ्मयं सुधीः । आविष्कर्त्ताशुमालीव स स्यात् सद्सतोः पथोः ॥ १०० ॥
स्वकीयं परकीयं च वाकायं यः सुधीरधीते पठति, स. अंशुमाली सूर्य इव, सदसतोः प्रशस्ता प्रशस्तयोः, पथोर्मार्गयोः, आविष्कर्त्ता प्रादुर्भावकः स्यादिति ॥ १०० ॥
पुनर्गुरुचिन्तितमेवाह— हीरहर्षगणिर्नूनं शैवदर्शनशास्त्रवित् । यदि जायेत तत् साधु यदसौ बहुबुद्धिभृत् ॥ १०१ ॥
यदि हरहर्षगभिर्नूनं निश्चितं शैवदर्शनशास्त्राणि नैयायिकप्रमाणप्रकरणानि वेतीति स शैवदर्शनशास्त्रवित्, जायेत.