________________
१८०
विजयप्रशस्त्याम् ।
भवत्, तत् साधु भव्यं भवति, यतः कारणात्, असौ बहुबुद्धिभृद् वर्तत इति ॥ १०१॥ ध्यात्वेति प्रेरितः सम्यक् शिष्योऽसौ सूरिपुङ्गवैः । अगस्त्याध्यासितदिशो देशे गन्तुमना अभूत् ॥१०२॥
इति ध्यात्वा मूरिपुङ्गवैः प्रेरितः सन्नसौ शिष्यः अगस्त्याध्यासिता दिग् दक्षिणा तस्याः, देशे दक्षिणदेशे, गन्तुमनाअभूत् ॥ १०२ ॥ श्रीधर्मसागरगणिप्रमुखैश्च महर्षिभिः । युतश्चतुर्भिर्दानायै दैर्धर्म इवाऽङ्गवान् ॥ १०३ ॥
चतुर्भिर्महर्षिभिः, कि०, श्रीधर्मसागरगणिप्रमुखेः, युतः सहितः, इवोत्प्रेक्ष्यते-दानाद्यैर्दानशीलतपोभावः, चतुर्भिर्भेदैः धर्म इव अङ्गवान् मूर्तिमानिति ॥ १०३ ॥
इंग्विधः स कृतवान् किमित्याहविजहार हीरहर्षः सहर्षस्तत्र नीवृति । नभःकूलङ्कषाकूले कलहंस इवाऽमलः ॥ १०४ ॥
सहर्षी हीरहर्षगणिस्तत्र तस्मिन् , नीति देशे, विजहार विहतवान् । दृष्टान्तमाह-नभःकूलङ्कषाकूले गङ्गातटे, कलहंसइवेति युग्मव्याख्या ॥ १०४ ॥ तत्र देवगिरौ देवगिराविव महोन्नते । पञ्चर्षयस्तेऽस्थुयेष्ठस्थिति देवद्रुमा इव ॥ १०५ ॥
देवगिरी मेराविव, महोचते तत्र तस्मिन् , देवगिरौ दुर्गे, ते पश्चर्षयो ज्यष्ठस्थिति अस्थुः स्थिताः, देवद्रुमाः पश्चापि, इवोत्प्रेक्ष्यते, युज्यते हि देवगिरी पञ्चदेवद्रुमाणां स्थितिरिति ।।