________________
चतुर्थः सर्गः। प्रतिबिम्बमिवादशे चिन्तामण्यादि वाङ्मयम् । सर्व तद्ददि संक्रान्तं जाह्नवीजलनिर्मले ॥१०६॥ ___ आदर्श दर्पणे, प्रतिबिम्बमिव सर्व चिन्तामण्यादि वाङ्मयं शेवप्रमाणशास्त्र, जाह्नवीजलनिर्मले गङ्गासलिलविमले, तद्धृदि तस्य हृदये, संक्रान्तम् ॥ १०६ ॥
अधीत्य शैवशास्त्रं तत् तत्राऽयं निखिलं खलु । गूर्जरत्रामगाद् वाधौ लावा नीरमिवाऽम्बुदः॥१०७॥
तत्र देवगिरी, तनिखिलं समस्तमपि, शैवशास्त्रं अधीत्य भणित्वा, वाधौं समुद्रे, नीरं लात्वा अम्बुद इब गूर्जरत्रामगात् ॥ १०७॥ खकीयपरकीयाभ्यां शास्त्राभ्यां शास्त्रवित्तमः । अधीताभ्यामभाद् द्वाभ्यां स दोर्ष्यामिव शूरराट्॥१०८॥ ___स शास्त्रवित्तमः अतिविद्वान् , स्वकीयपरकीयाभ्यां निजानिजाभ्यां, शास्त्राभ्यामधीताभ्यां अभात् शुशुभे, यतः पण्डितानां स्वसमयपरसमयाभ्यां शोभा भूयसी भवेत् । अत्र दृष्टान्तमाह-इव यथा, शूरराट् महाशूरः पुमान् , दोा बाहुभ्यां शोभते, प्रकृष्टशूराणां हि भुजबलेनैव सुतरां शोभाः यतः शौर्यश्रीः शूराणां भुजदण्ड एव वर्ण्यते 'शौर्यश्री जदण्डमण्डपतले सिंहीव विश्राम्यति' इत्यादाविवेति ॥ १०८ ॥ गुरूनथ मरौ मत्वा हीरहर्षगणिर्गुणी । जगाम तत्र खर्वापीप्रवाह इव पावनः ॥ १०९ ॥
अथ गुरून् मरो मरुस्थलीनाम्नि देश, मत्वा हीरहर्षगणिस्तत्र जगाम, स्वर्वापीपवाह इव गाङ्गौघ इव, पावनः पवित्र इति ॥ १०९ ॥