________________
१७८
विजयपस्त्याम् । सहर्ष हीरहर्षाह्वो मुनिर्गुणमहोदधिः । कलभः कुञ्जरेणेव व्यहार्षीद् गुरुणा समम् ॥९५॥
हरिहर्ष इति आहा संज्ञा यस्य सः, पुनर्गुणानां ज्ञानदर्शनचारित्रादीनां महोदधिर्महार्णवः, स मुनिः कुञ्जरेण युथनाथेन, कलभः कुञ्जरवाल इव, गुरुणा समं सहर्ष व्यहाद् विजहार ॥ ९५ ॥ महाव्रतानि पञ्चापि पञ्चापि समितीः पुनः । गुप्तीस्तिस्रश्च स मुनिः पालयामास यत्नतः ॥९६॥
पञ्च महाव्रतानि सर्वतःप्राणातिपातमषावादाऽदत्ताऽऽदानाsब्रह्मपरिग्रहविरमणरूपाणि, पुनः पञ्च समितीः ईर्याभाषेषणाऽऽदाननिक्षेपोत्सर्गलक्षणाः, पुनर्गुप्तास्तिस्रोशुभमनोवचनकाययोगनिग्रहरूपाः, स मुनिहींरहर्षः, पालयामास ॥ ९६ ॥ सेवमानो गुरुं देवोद्यानं विबुधसेवितम् । विनयामरसालस्य फलं विद्यां स लेभिवान् ॥९७||
एकत्र विबुधैर्देवैः, अन्यत्र पण्डितैः सेवितं गुरुं देवोद्यानं नन्दनवनं, सेवमानो भजमानः, स शिष्यः, विनय एवाऽमर• सालः कल्पवृक्षस्तस्य, फलं विद्यां सकलशास्त्रपाठरूपां, लेभिवान् प्राप्तवानिति ॥ ९७ ॥ सोप्रमत्तः पपौ सर्व शास्त्रं खं स्वगुरोः सुधीः । ग्रीष्मतप्तो भुवां भाग इवाऽब्दानिपतत् पयः ॥९८॥
स हीरहर्षः शिष्यः, किं०, अप्रमत्तः सन् प्रमादरहितो भूत्वा, सर्व शास्त्रं, किं०, स्खं निजदर्शनसंबन्धि, स्वगुरोः श्रीविजयदानसूरेः, पपौ असादरेणाऽऽकर्ण्य हृदयेऽस्थापयत्, भवति