________________
२२
ला
विजयप्रशस्त्याम् । उमस्वामिसरित्सु, रम्भासुधाशनविमानसुरेशगङ्गाः देवागना-देवदेवयान-देवराज-देवनद्यः, संचक्रमुः परस्परमिलिता इति भावः । कथमवगतमिति चेत् । उच्यते। यस्मात् कारणात् । तद्वदतिरागकृन्ति रम्भादिदिव्यवस्तूनि इव भृशं रागकारीणि यानि अङ्गस
रूपर्द्धिवैभवपयांसि शरीरपरीरम्भसौन्दर्यसम्पत्तिसाम्राज्यसलिलानि, तेषां यत्, सुखं शर्म। तत्, एति समभ्येति । तदुपजीविनां, ताभ्यश्चेति गम्यमिति ॥२०॥ सन्त्युल्लसत्सुमनसः सकलाः समाजाः,
लोके च यत्र निखिलेऽपि वृषानुरागाः । यत्रर्षयश्च सततं लसदक्षमालाः - यः स्वर्गलोक इव भाति तदत्र देशः ॥२१॥
यत्र देशे सकलाः समाजाः समाः सन्ति । कीदृशाः, उल्लसन्तः सुमनसः पण्डिता येषु । खर्गपक्षे तु, सुमनसो देवा येषु इति । च पुनः, यत्र देशे, निखिलेऽपि समस्तेऽपि, लोके वृषानुरागाः धर्मरागाः। पक्षे, वृषा शक्रः तदनुरागाः। तथा च पुनः, यत्र ऋषयो मुनयः, नित्यं, लसदक्षमालाः लसन्त्यः शोभमाना अक्षमाला अक्षसूत्राणि येषां ते । पक्षे, लसन्ती अक्षमाला अरुन्धती वशिष्टर्षियोषिद् येष्विति । तस्माद, अत्र भुवि यो देशो मेदपाटः स्वर्गलोक इव भातीति भावार्थः ॥२१॥ . सीसोदियाऽन्वयिनृपे सति यत्र दस्यु
दण्डोहवं नहि भयं भवति प्रजासु ।