________________
सप्तमः समः ।
२५९
यैर्यन्यैर्गिरां वाचां गुणा औदार्यसमताकान्त्यादयः, च पुनः, दोषा अनर्थकश्रुतिकटुमभृतयः, दृक्पथं भजन्ति ज्ञानगोचरमायान्तीत्यन्वयः । दृष्टान्तमाह- इव यथा पथां मार्गाणां गुणाश्च दोषाश्च अर्ककरैः सूर्यकिरणैः, दृक्पथं नेत्रपर्थ, भजन्ति; सः सुधीः शिष्यस्तान् ग्रन्थान् बहून्, पुनः, अलङ्कारपटून् चित्राद्यलङ्कृतिपाटवयुक्तान् पुनः किं०, काव्यानुशास्ति: काव्यानुशासनं, तत्प्रभृतीन् काव्यानुशासनकाव्यप्रकाशवाग्भटालङ्कारकाव्यकल्पलतादीन्, पपाठाऽपठत् ॥७॥
यैश्छन्दसां व्यक्तिरुदेति दोषभूः स्वादैरपि स्वाच्छ्यजुषामिवाम्भसाम् । छन्दोऽनुशास्ति सृजतः सुधीर्बहून्
ग्रन्थाननैषीद् विषयं धियामयम् ॥ ८ ॥
छन्दसामार्यावृत्तादीनां, यैः करणभूतैः, दोषभूर्व्यक्तिः उदेति प्रकटीभवतिः छन्दोदोषजा निर्णीतिर्यैर्ज्ञायत इति शेषः । किं च तनिर्णीतौ गुणनिर्णीतिस्तु जातैव, विधिप्रतिषेधयोरेकतरनिषेधेऽन्यतरसद्भावस्याऽवश्यंभावादिति छन्दोगुणव्यक्तेरुपादानं न कृतमिति प्रेक्ष्यम् । कैः केषामिवेति दृष्टान्तमाहस्वाच्छयजुषामपि अम्भसां स्वच्छानामपि पानीयानां स्वादैमधुर्य क्षारत्वादिरसास्वादरूपैः, यथा जलदोषोद्भवा व्यक्तिर्ज्ञायत इति पूर्वार्धम्, तान् मात्रागणादिभेदानां छन्दसां अनुशास्ति शिक्षां, सृजतः कुर्वतः बहून्, छन्दोनुशासनच्छन्दोरत्नावलीवृत्तरत्नाकरादीन् ग्रन्थान्, अयं विनेयो धियां विषयं अनैषीत् ज्ञानगोचरीकृतवानिति ॥ ८ ॥
. कान्ताननेकान्तमतावलम्बिनः स्याद्वादरत्नाकरवाङ्मयादिकान् ।