SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २५८ विजयप्रशस्त्याम् । अथैकादशभिः काव्यैः शास्त्राध्ययनमाह निःशेषशास्त्रार्थसमर्थनात्मकं ___ विचक्षणो लक्षणनाम वाङ्मयम् । जग्राह शीघ्रं खगुरोः समीपतः ___ कूपादिवाऽपः पथिकस्तृषाऽऽतुरः ॥ ५ ॥ स विचक्षणः, लक्षणनाम वाङ्मयं व्याकरणाख्यं शास्त्रं, किं०, निःशेषशास्त्रार्थसमर्थनात्मकं समस्तग्रन्थार्थसमर्थनस्वरूपं, स्वगुरोः समीपतो जग्राह गृहीतवान् , यथा कूपात् तृषातुरः पथिकः पान्य इव, अपः पाथांसि, इति दृष्टान्तः ॥ ५॥ . व्यक्तिः प्रदीपैरिव यैर्दुतं भवे___दाकोटकोटिध्वजमुख्यवस्तुनः । स रूढमिश्रान्वयिनां च संग्रहान् नाम्नामभाणीद् भगवद्विनयराट् ॥ ६ ॥ कीटं मर्यादीकृत्य आकोट, आकीटं च कोटिध्वजमुख्य च यद् वस्तु तस्य आकीटकोटिध्वजादिवस्तुनः, नाम्नां यः प्रदीपैरिव व्यक्तिर्भवेदित्यन्वयः । स भगवद्विनेयराट् गुरोः शिप्यराजः, अत्र तच्छब्दोऽध्याहार्यस्तन तान् नाम्नां संग्रहान् , नाम्नां कि०, रूढमिश्रान्वयिनां रूढमिश्रयौगिकाणां, संग्रहान् नाममालाऽऽख्यग्रन्थान् , अभाणीद् भणति स्मेति ॥ ६ ॥ गुणाश्च दोषाश्च भजन्ति दृक्पथं गिरां पथामर्ककरैरिवाशु यैः।। काव्यानुशास्तिप्रभृतीन् बहून् सुधी ग्रन्थानलङ्कारपटून् पपाठ सः ॥ ७ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy