________________
५६२ विजयप्रशस्त्यांम् । ध्यानी सूरिवरः समाहितमना मुद्रामनिद्रां वहश्चूलेव गिरेः स्थिरत्वभृदरं भेजे सुवर्णढिभूः । मेने चात्र जनैर्विरञ्चिरिव यः पद्मासनस्थो गुरुः साक्षात् कैश्विदमानि मन्युभिदयं स्वामी पिनाकीव च।३९। ___ ध्यानी ध्यानवान् , पुनः, समाहितं समाधिसंपन्नं मनो य. स्य सः, तथा अनिद्रां जागरूको मुद्रां वहन् , मूरिवरः ऋभुगिरेमरोः, चूलेव स्थिरत्वभृत् , भेजेऽशुभत् , अत एव सुवर्णाः शोभना ऋद्धयस्तासां भूः, पक्षे सुवर्द्धिभूः स्पष्टं , चः पुनरर्थे, यः पुनर्गुरुः पद्मासनस्थः सन् , जनैर्विरश्चिरिव मेने ब्रह्मेव ज्ञातः, तथा कैश्चित् अयं स्वामी साक्षात् पिनाकी महेश इव, किं०, मन्युभिद् यज्ञभित् , पक्षे कोपभित् , अमानि मेने ॥ ३९ ॥ साक्षादीप इव प्रकाशनिपुणः श्रीसूरिमन्त्रो मनःसद्मन्यस्य विभोर्बभौ तततमःपूरं हरन् भानुवत् । भाति स्मेन्दुरिव प्रसिद्धिपटुना च्छायाधरत्वेन च स्वर्वापीवहवत् क्षिपन् घनमघं सर्वज्ञचेतोहरः ॥४०॥ __ अस्य गुरोर्मनःसद्मनि सूरिमन्त्रः साक्षादीप इव प्रकाशनिपुणो वभौ, किं कुर्वन् , भानुवत् तततमसां विस्तीर्णपापानां ध्वान्तानां च, पूरं हरन् , पुनः, छायाधरत्वेन इन्दुरिव, पुनः, स्व. प्यिा वहवत् गङ्गाप्रवाह इव, भाति स्मेति, शेषं सुगमम् ॥४०॥ ध्यानं धन्यतमं तदत्र सृजतस्तस्य प्रभावात्प्रभोः संपूर्ण भवति स्म विस्मयमयैः शस्तैः समस्तं जगत् । तेजोभिर्दलितान्धकारनिकरैः सामोदपद्माकरैभीसां भर्तुरिवोदयं विदधतः सस्फूर्तिमूर्तिश्रियः ॥४१॥