SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४४२ विजयप्रशस्त्याम् । राज्ञः सभायामभ्येयुः श्रीनन्दिविजयादयः ॥८॥ पाण्डित्यपेशलाः पण्डितपदेन दक्षत्वेन च पेशला मनोज्ञाः, श्रीनन्दिविजयादयो गुरुशिष्याः, राज्ञोऽकब्बरस्य, सभाया. मभ्येयुः ॥ ८८ ॥ रम्यायां मण्डलाऽखण्डाऽऽखण्डलाऽखिलमुद्गलैः । संकुलायां महाभट्टोटविप्रादिकोविदैः ॥ ८९ ॥ . मण्डलस्य देशस्य अखण्डाः संपूर्णा आखण्डला इन्द्रामण्डलेन्द्रा महाराजान एकदेशाधीशा मरुस्थलीमण्डनमण्डोवरकोट्टपतिराजेन्द्रश्रीमन्मल्लदेवपुत्रश्रीउदयसिंहप्रभृतयः कच्छवाहकपष्टिसहस्रसैन्येश्वरराजश्रीमानसिंहप्रमुखाश्च, पुनरखिलास्तुरुष्काः खानश्रीखानखानाख्यश्रीशेखअवजलफयजलश्रीआजमखानप्रमुखाः शाहिमहामान्याः श्रीजालोरनगरीयस्वर्णगिरिमहादुर्गाधीशश्रीगजनीखानमुख्याश्च तैमण्डलाखण्डाखण्डलाखिलमुद्गलैः, रम्यायां, पुनः, संकुलायां, कैरित्याह-महाभट्टा- ' चिन्तामणिपर्यन्तप्रमाणपाठिनः शाहिमान्याः पण्डिताः, पुनरुद्भटा उद्धता विप्रादयो वेदवेदाङ्गज्ञा ब्राह्मणाः, आदिशब्दात् काजीकायस्थप्रभृतयः, पुनः कोविदा नैषधान्तकाव्यपञ्चकप्रभृतिप्रभूतसाहित्यशास्त्रपण्डितास्तैः ॥ ८९ ॥ सभायां भूपतेरष्टाऽवधानान्यद्भुतान्यथ । साधयाञ्चक्रिरे नन्दिविजयैर्विबुधोत्तमैः ॥ ९० ॥ ईदृश्यां भूपतेरकव्वरस्य सभायां, श्रीगुरुशिष्यैर्नन्दिविजयैः, कि०, विबुधोत्तमैः सुधीश्रेष्ठैः, अष्टाऽवधानानि महामाज्ञसाध्यानि, अत एव अद्भुतानि आश्चर्यकारीणि, साधयाश्चक्रिरे साधितानीति ।। इति युग्मव्याख्या ॥९० ॥ वीक्ष्यैतच्चातुरी चित्तचमत्कारकरी भृशम् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy