SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अवमः सर्गः। तस्यातिसत्यजनि कोडिमदेव्यहार्य माधुर्यधाम गृहिणी गृहमेव मूर्तम् ॥५८॥ विष्णोर्नारायणस्य, पयोधिदुहिता लक्ष्मीर्यथा, पुनः वास्तोष्पतेः शक्रस्य, पुलोमजा यथा शची; पुनः असमसायकस्य पश्चबाणस्य, यथा रतिः, तथा तस्य कमाख्यश्रेष्ठिनः, कोडिमदेवीति नान्नी गृहिणी, जाता । कीदृशी, अतिसती अधिक श्रेष्ठा, अथवा अतिक्रान्ता स्त्रीगुणैः सती पार्वती यया सा अतिसती । पुनः किं० अहार्य हमशक्यं यन्माधुर्य मनोज्ञत्वं, तस्य घाम स्थानम् । पुनः किं० मूर्त मूर्तिमद् गृहमेवेति निश्चये।।५८।। मन्त्रं मृगध्वजमृगौ विजितौ ययाऽऽस्य___ दृग्भ्यां दिवि प्रकुरुतः किमु तत्तुलाऽऽप्त्यै । नो चेन्नभश्वरवनेचरयोरियं कै कत्र स्थितिर्गगनवल्लिरिवात्यनीं ॥१९॥ यया कोडिमदेव्या, आस्यग्भ्यां वदननयनाभ्यां, विजितौ मृगध्वजमृगौ शशाङ्कसारङ्गी, तयोरास्यदृशोस्तुलाऽऽप्त्यै तुल्यतापापणाय, दिवि आकाशे, किमु मन्त्रं रहस्यालोचनं, प्रकुरुत इति । अमुमेवार्थ समर्थयति-नोचेदिति, नैवं चेद् यदि तदा, नभयरवनेचरयोः खेचरभूचरयोयोरियमेकत्र स्थितिः, का कीदृशी, गगनवल्लिरिव व्योमलतावत् , अत्यनहीं भृशमनुपपधमाना ॥ ५९ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy